🕉️ 24 November 2026, Tuesday · 08:08:49 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← धर्मसिन्धु — परिच्छेद-सूची

📖 धर्मसिन्धु · तृतीय परिच्छेद (उत्तरार्ध) — श्राद्ध, आशौच, अन्त्येष्टि, संन्यास · पृष्ठ 58/81

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

1. तृतीयपरिच्छेदोत्तरार्धःप्रारभ्यते

अथ तृतीयपरिच्छेदोत्तरार्धःप्रारभ्यते

श्रीगणेशायनमः श्रीपाण्डुरङ्गायनमः। श्रीरुक्मिणीम्पाण्डुरङ्गम्प्रणम्यपितरौगुरून्। तृतीयच्छेदोत्तरार्धन्तनोमिश्रीशतुष्टये १ श्रीनाथःकरुणासिन्धुरिन्दिराशङ्करःसती। विघ्नेशोभास्करेन्द्राद्याविघ्नाघ्नन्तुसदैवमे २ तत्रतावच्छ्राद्धादिनिर्णयंवक्तुमधि

जीवत्पितृकाधिकारनिर्णयः

कारनिर्णयायजीवत्पितृकाधिकारोविविच्यते पादुकेचोत्तरीयञ्चतर्जन्यांरूप्यधारणम्। नजीवत्पितृकःकुर्याज्ज्येष्ठेभ्रातरजीवति १ अत्रपादुकेकाष्ठमय्यौ उत्तरीयंसग्रन्थिपरिमण्डलंवस्त्रमेकद्व्यङ्गुलादिविस्तृतंसूत्रकृतम्परिमण्डलरूपंवाउत्तरीयस्थानापन्नंस्मृत्युक्तन्तृतीययज्ञोपवीतंवाजीवत्पितृकेणजीवज्ज्येष्ठभ्रातृकेणचनधार्यमितितात्पर्यम् प्रावरणरूपन्द्वितीयवस्त्रन्तुजीवत्पितृकादिभिः सर्वैर्धार्यम् एकवस्त्रोनभुञ्जीतनकुर्याद्देवतार्चनम्। इत्यादिनासर्वकर्मस्वेकवस्त्रत्वनिषेधात् पितरिपितामहेज्येष्ठभ्रातरिचाकृताधानेजीवतिपुत्रपौत्रकनिष्ठभ्रातृभिराधानन्नकार्यं ज्येष्ठभ्रातर्यकृतविवाहेकनिष्ठेनविवाहोनकार्यः अत्रविशेषःपूर्वार्धेउक्तः एवम्पित्रादिष्वकृतसोमयागेपुजीवत्सुपुत्रादेःसोमेनाधिकारः एवम्पूर्णमासेष्टौदर्शेष्टावग्निहोत्रहोमेचपित्राद्यैरनारब्धेपुत्रादेर्नाधिकारः एवंसन्न्यासेपि कनिष्ठस्यसोदरस्यैव दोषोनभिन्नोदरस्यभ्रातुः पित्रादेराज्ञायाम्पुत्रादेर्नदोषइतिकेचित् अधिकारिणिपितरिसत्याज्ञायामपिदोषः पातित्यजात्यन्धत्वादिदोषैरनधिकारिण्याज्ञयानदोपः पातित्यादावाज्ञांविनापिनदोपइत्यपरे तथाजीवत्पितृकस्यपितृकृत्येषुदर्शादिश्राद्धतर्पणपैतृकदानेषुनाधिकारः अत्रविशेषः स्वापत्यसंस्कारस्वद्वतीयविवाहादिनिमित्तकनान्दीश्राद्धेचातुर्मास्यान्तर्गतपितृयज्ञेसोमाङ्गतृतीयसवनस्थपितृयज्ञेजीवत्पितुरधिकारः पिण्डपितृयज्ञेहोमान्तःपिण्डपितृयज्ञोनारम्भोवापिण्डपितृयज्ञस्येतिपक्षद्वयम् पितुःपित्राद्युद्देदेशेनपिण्डदानमितितृतीयःपक्षःक्वचित् एवमष्टकादिविकृतिष्वपिपक्षत्रयं गयां प्रसङ्गतोगत्वामातुःश्राद्धंसुतश्चरेत्। जीवत्पितामातुःश्राद्धमुद्दिश्यगयान्नगच्छेत् महानदीषुसर्वासुतीर्थेचप्राप्तेजीवत्पितृकःपितुःपितृमात्राद्युद्देशेनश्राद्धङ्कुर्यात् नवम्यामन्वष्टकाश्राद्धङ्क्षयाहेमातुःप्रत्यब्दश्राद्धञ्चसपिण्डकमेवजीवत्पितृकःकुर्यात् तथासन्न्यस्तेताते पतितेचतातेजीवत्यपिसतिदर्शश्राद्धमहालयसङ्क्रान्तिग्रहणादिश्राद्धानिसर्वाणिपितुः पित्राद्देशेनजीवत्पितृकेणकार्याणि एतानिचसाङ्कल्पिकविधिनापिण्डरहितानिकार्याणि अन्वष्टक्यादाविवपिण्डदानेविशेषवचनाभावात् आश्विनशुक्लप्रतिपदिदौहित्रोजीवत्पित्कःसपिण्डकम्मातामहश्राद्धङ्कुर्यात् तथाभ्रातृपुत्रोऽपुत्रस्थपितृव्यस्यप्रत्यब्दश्राद्धंसपिण्डकुर्यात् एवङ्कनिष्ठभ्राताप्यपुत्रज्येष्ठभ्रातुःप्रत्यब्दं तथासपत्नीपुत्रःसापत्नमातुःश्राद्धम् एवन्दौहित्रोऽपुत्रस्यमातामहस्यप्रत्यब्दम् इत्थञ्चपितृव्या-

दिश्राद्धचतुष्टयेजीवत्पितृकस्याप्यधिकारः पितृव्यभ्रात्रादीनामपुत्राणाम्पत्नीसत्वेसैवाधिकारिणीनतुभ्रातृपुत्रादेःश्राद्धाधिकारः एवम्पतिरेवपुत्राभावेभार्याश्राद्धङ्कुर्यात् सपत्नीपुत्रसत्वेतुसएवकुर्यान्नभर्ता दौहित्रभ्रातृपुत्रयोःसत्त्वेमृतस्यविभक्तत्वेदौहित्रएव अविभक्तत्वेभ्रातृपुत्रः केचित्भ्रातृतत्पुत्रयोःसत्त्वेभ्रात्रैवश्राद्धङ्कार्यमित्याहुः तथा जीवत्पितृकर्यापतृपितामहादिमनुष्यपितृतर्पणनिषेधेष्यग्निष्वात्तादिदेवपितृतर्पणनिषेधाभावात्स्नानाङ्गपितृतर्पणेब्रह्मयज्ञाङ्गभूतदेवरूपिपितृतर्पणेचाधिकारोस्त्येव मनोर्हैरण्यगर्भस्य येमरीच्यादयःसुताः॥ तेषामृषीणां सर्वेषाम्पुत्राः पितृगणाः स्मृताः॥१॥ विराट्सुताः सोमसदः साध्यानाम्पितरः स्मृताः॥ अग्निष्वात्ताश्चदेवानाम्मारीचालोकविश्रुताः॥२॥ दैत्यदानवयक्षाणाङ्गन्धर्वोरगरक्षसाम्॥ सुपर्णकिन्नराणाञ्चस्मृताबर्हिषदोत्रिजाः॥ ३॥ सोमपानाम विप्राणाङ्क्षत्रियाणांहविर्भुजः॥ वैश्यानामाज्यपानामशूद्राणान्तुसुकालिनः॥४॥ सोमपास्तुजलवकन्तोऽङ्गिरःसुताः॥ पुलस्त्यस्याज्यपाःपुत्रावसिष्ठस्यसुकालिनः॥५॥ इति") एवंयदीयश्राद्धेधिकारस्तदीयश्राद्धाङ्गतर्पणेप्यधिकारः जीवत्पितापिकुर्वीततर्पणंयमभीष्मयोः। श्राद्धाङ्गतर्पणभिन्नतर्पणञ्जीवत्पितृकेणतिलैर्नकार्यं श्राद्धप्रयोगमध्येवामजानुन्यग्भावोनीवीवन्धश्चनकार्यः नद्यादौस्नात्वातर्पणान्तेसमन्त्रकंवस्त्रनिष्पीडनंविहितन्तन्नकार्यं तथाखड्गमौक्तिकहस्तेनकर्तव्यम्पितृतर्पणमितिविहितङ्खड्गधारणन्नकार्यम् अपसव्यन्द्विजाग्र्याणाम्पित्र्येकर्मणिकीर्तितम्। आप्रकोष्ठात्तुकर्तव्यमेतत्पितरिजीवति १ जीवतिसन्न्यस्तादिरूपेपितरिमृतमातृमातामहकोपिपुत्रःपितुःपितृपितामहमपितामहानाम्पितुर्मातृपितामहीप्रपितामहीनाम्पितुर्मातामहमातृपितामहमातृप्रपितामहानामितिपार्वणत्रयमेकोद्दिष्टगणञ्चस्वमातरम्पितुःपत्न्याइतिस्वपितृव्यम्पितुर्भ्रातुरितिस्वमातामहं चपितुःश्वशुरस्येत्येवमादिनापितृसंवन्धपुरस्कारेणैवोद्दिश्यमहालयश्राद्धङ्कुर्यात् एवं दर्शादिषूह्यम् पितुःसन्न्यासाभावेपितीर्थश्राद्धञ्जीवत्पितुरेवमेव एवंवृद्धिश्राद्धेप्यूह्यं ब्रह्मयज्ञान्तेनित्यम्पितृतर्पणमपिसन्न्यस्तादिरूपजीवत्पितृकेणैवमेवकार्यमित्याहुः यदातुमातुर्वार्षिकमपुत्रमातामहवार्षिकमपुत्रपितृव्यवार्षिकंवाक्रियतेतदाक्रमेणमातृपितामहीप्रपितामहीनाम्मातामहमातृपितामहमातृप्रपितामहानाम्पितृव्यपितामहमपितामहानामित्येवोद्देशः यदाचपित्रादिभिःस्वाशक्त्यादिनानियोजितःपित्रादिकरणीयंश्राद्धं स्वयम्पित्रादेःप्रतिनिधिभूयकरोतितदापितुरमुकशर्मणोयजमानस्यपितृपितामहप्रपितामहानामित्येवंयथाश्राद्धमुद्देशः सर्वत्रपितृकृत्येभ्रातृष्वविभक्तेषुज्येष्ठस्यैवाधिकारः विभक्तेषुपृथक्पृथक् सापत्नभ्रातरिज्येष्ठेसत्यपिकनिष्ठएवस्वर्मातृवार्षिकान्वष्टक्यादिकुर्यात् जीवत्पितृपितामहकस्यसन्न्यस्तपितृपितामहकस्यचपितामहस्यपित्राद्युद्देशेनवृद्धिश्राद्धन्तीर्थश्राद्धन्दर्शादिश्राद्धंवाभवति पित्रादिषुत्रषुजीवत्सुप्तत्सुसन्न्यस्तेषुचनकिमपिश्राद्धङ्कार्यं केचित्तुपित्रादित्रयात्परेभ्यःश्राद्धन्देयमाहुः मृतेपितरिपितामहजीवनेपित्रेपितामहात्पराभ्याञ्चश्राद्धन्देयम् एवम्पितृपितामहमरणेप्रपितामहजीवनेप्यूह्यम्

यस्तुगृह्याग्निमाञ्जीवन्मातृपितृकःपितुःपित्रादिभ्यःपिण्डदानमितितृतीयपक्षाश्रयेणारब्धपिण्डपितृयज्ञाष्टकान्वष्टकाश्राद्धोन्वष्टकायाञ्चपितुःपित्रादिमात्रादिमातामहादिभ्यःपिण्डादिकन्ददानआसीदनन्तरञ्चमातामृतासोन्वष्टकायांस्वमात्रादिभ्यःपितुःपित्रादिभ्यश्चदद्यात् यदाचपिण्डपितृयज्ञान्वष्टकाद्यनारम्भपक्षोजीवत्पितृकस्यतदापिसन्न्यस्तादिपितृकस्यदर्शादिश्राद्धम्पितुःपित्राद्युद्देशेनव्यतिषङ्गभिन्नप्रयोगेणसाङ्कल्पिकेनभवत्येव पितुरविभक्तैःपुत्रैःपृथग्वैश्वदेवोनकार्यः पितृपाकोपजीवीस्याद्भ्रातृपाकोपजीवकः। इत्युक्तेः अतएवगृह्याग्नौपाकवैश्वदेवकरणपक्षेपिसाग्निकेपितरिसाग्निकैरप्यविभक्तैःपुत्रैःपृथग्वैश्वदेवोनकार्यः येषाम्पाकाभावेऽग्नेर्लौकिकत्वम्मतन्तैःपाकमात्रमग्निसंस्कारार्थङ्कार्यमितिभाति विभक्तैस्तुपृथग्वैश्वदेवःकार्यः तत्रवैश्वदेवस्यदेवयज्ञभूतयज्ञपितृयज्ञात्मकलाज्जीवत्पितृकैरपिपञ्चमहायज्ञान्तर्गतःपितृयज्ञःकार्यः वैश्वदेवाद्भिन्नाःपञ्चमहायज्ञास्तैत्तिरीयाणान्तैरपिविभक्तैर्जीवत्तुिकैःपितृयज्ञःकार्यः तस्यदेवरूपिपितृदेवताकत्वेनपितृपितामहादिमनुष्यरूपिपितृदेवताकत्वाभावात् मुण्डनम्पिण्डदनं चप्रेतकर्मचसर्वशः। नजीवत्पितृकःकुर्याद्गुर्विणीपतिरेवच १ अत्रमुण्डन॑क्षुरेणशिर सोवपनं तेनसियत सर्वप्रेतकर्मप्रेतदहनवहनर्मापण्डीकरणान्तौर्ध्वदेहिकादि-कमित्यर्थः मुण्डनंरागप्राप्तैमेर्वानपिध्यते तेनचौलोपनयनादिषुआधानदर्शपौर्णमास-ज्योतिष्टोमादिपुनित्यप्राप्तन्तीर्थप्रायश्चित्तमातृमरणादौनैमित्तिकप्राप्तञ्चभवत्येव केचिस्काम्यनागबल्यादिषुकाम्यमपिभवतीत्याहुः गङ्गायाम्भास्करक्षेत्रेमातापित्रोर्गुरोर्मृतौ। आधानेसोमपानेचवपनंसप्तसुस्मृतम् १ गुरोरितिदत्तकस्यपूर्णापरपित्रोरित्यर्थः वा-क्यान्तरेतीर्थमात्रेक्षौरोक्तेर्गङ्गाभास्करक्षेत्रग्रहणञ्जीवत्पितृकस्यतत्रविशेषतःक्षौरविधा-नार्थं जीवत्पितृक स्पपिण्डदाननिषेधःनान्दीश्राद्धतीर्थश्राद्धयोः सन्न्यस्तादिपितृक-स्पदर्शमहालयादिश्राद्धेषुचपिण्डरहितसाङ्कल्पिकश्राद्धबोधनार्थः महापितृयज्ञेसोम-यागेमातृमातामहादेवर्षिकश्राद्धेषुगयायामन्वष्टक्यादौचपिण्डदानम्भवत्येवेत्युक्तम् पिण्डदानम्प्रकुर्वीतमातापित्रोःक्षयाहनि। इतिश्राद्धविधिनापिण्डदानेसिद्धेपुनः पिण्ड-विधिः पित्रोर्वार्षिकेगर्भिणीपतिर्खानषिद्धकालादिप्रयुक्तनिषेधवाधनार्थं तेन विवाहवतचूडा सुवर्षमर्धतदर्धकम्। पिण्डदानम्मृदास्नानन्नकुर्यात्तिलतर्पणम् १ इति निषेधस्यापिवाधः क्षयाहग्रहणंसपिण्डीकरणमासिकेष्वपिपिण्डदानोपलक्षणपरम् अथप्रेतकर्मप्रतिप्रसवः जीवत्पितृकः स्वमातुरपुत्रसापत्नमातुःस्वपुत्रसपत्नीपुत्ररहित-

प्रेतकर्मप्रतिप्रसवः

भार्यायाअपुत्रपितृव्यस्यापुत्रमातामहमातामह्योश्चदाहादिप्रेतकर्माणिकुर्यात् अत्रापुत्रपदेनमुख्यगौणपुत्रपौत्रप्रपौत्राभावोविवक्षितः मातुरौर्ध्वदेहिकमनुपनीतोपिजीवत्पितृकःकुर्यात् तत्रविशेषः ऊनत्रिवर्षश्चूडारहितश्चेद्दाहमात्रंसमन्त्र-

कङ्कृत्वान्यदन्येनकारयेत् यदातुकृतचूडःपूर्णत्रिवर्षोवातदासर्वंसमन्त्रकम्प्रेतकर्मकुर्यात् ब्रह्मचारीतुपित्रोर्मातामहस्यचान्त्यकर्मकुर्यान्नान्यस्य भर्तृदौहित्रयोःसत्वेभर्तैवपत्न्यादाहादिकुर्यात् मुण्डनन्तुभर्तुर्न एवमपुत्रस्यपत्नीदौहित्रयोःसत्त्वेपत्न्येवपत्युःकुर्यात् तत्रदाहमात्रंसमन्त्रकङ्कृत्वान्यत्सङ्कल्पमात्रंस्वयंविधायब्राह्मणद्वाराकारयेत् भर्तृसपत्नीपुत्रयोःसत्त्वेसापत्नपुत्रएवकुर्यान्नभर्त्ता सपत्नीपुत्रदौहित्रयोःसत्त्वेसपत्नीपुत्रएव अपुत्रयोर्विधवाविधुरयोर्भ्रातृपुत्रदौहित्रयोःसत्त्वेदौहित्रएवाधिकारीतिबहवः विधवायाभर्तुर्भ्रातृपुत्रएवविधुरस्यस्वभ्रातृ पुत्रएवेतिजीवत्पितृकनिर्णयेभट्टाः अपुत्रस्यपत्नीभ्रातृपुत्रयोःसत्त्वेपत्न्येव एवम्पुत्रासन्निधौपौत्रादेःपितामहपितामह्याद्यौर्ध्वदेहिकाद्यधिकारः इत्थम्पित्र्यकर्ममुण्डनप्रेतकर्माद्यधिकारानधिकारौजीवत्पितृकस्यत्रपञ्चितौ अत्रविषयभेदाद्बालबोधार्थत्वाच्चपुनरुक्तिर्नातिदोषाय सपिण्डानांसगोत्रसपिण्डमरणेसकृत्सकृत्तिलाञ्जलिदानंविहितन्तज्जीवत्पितृकेणापिकार्यम् एवम्मातामहाचार्यादिभ्योपि इतिजीवत्पितृकनिर्णयः श्रीमत्पाण्डुरङ्गायनमः॥

2. श्राद्धाद्यधिकारिनिर्णयः

अथश्राद्धाद्यधिकारिनिर्णयः तत्रसांवत्सरिकादिश्राद्धेषुदाहाद्यौर्ध्वदेहिकक्रियायाञ्चौरसःपुत्रोमुख्योऽधिकारी औरसपुत्राणाम्बहुत्वेज्येष्ठएवाधिकारी ज्येष्ठस्याभावेऽसन्निधानेवापातित्यादिनाधिकाराभावेवाज्येष्ठानुजः यत्तुज्येष्ठासन्निधौसर्वतः कनिष्ठोऽधिकारीनतुमध्यमाइतितन्निर्मूलं तत्रपुत्राणांविभक्तत्वेकनिष्ठेभ्योधनङ्गृहीत्वाज्येष्ठेनैवसपिण्डीकरणान्ताक्रियाकार्या सांवत्सरिकादिकन्तुपृथक्पृथक् अविभक्तत्वेतुसांवत्सरिकादिकमप्येकेनैवकार्यम् एकेनकृतेपिसर्वेषाम्फलभागित्वात्सर्वैःपुत्रैर्ब्रह्मचर्यपरान्नवर्जनादयोनियमाःकार्याः पुत्राणामेकदेशस्थित्यभावेदेशान्तरेगृहान्तरेवा स्थितैस्तैरविभक्तैरपिपृथगेववार्षिकादिकङ्कार्यं तत्रयदाज्येष्ठासन्निधौकनिष्ठोदाहादिकङ्करोतितदाषोडशश्राद्धान्तमेवकुर्यान्नसपिण्डीकरणं वर्षपर्यन्तञ्ज्येष्ठप्रतीक्षाङ्कुर्यात् तन्मध्येज्ञातेज्येष्ठेनैवकार्यं नोचेद्वर्षान्तेकनिष्ठेनापिकार्यं वर्षात्प्राकपुत्रभिन्नेनकृतमपिमासिकानुमासिकसपिण्डीकरणम्पुत्रेणपुनःकार्यम् एवङ्कनिष्ठेनकृतमपिज्येष्ठपुत्रेणपुनःकार्यं विशेषस्त्वग्रवक्ष्यते कनिष्ठस्यसाग्निकत्वेसपिण्डीकरणमपिद्वादशेहिकनिष्ठेनकार्यम् औरसपुत्राभावेपुत्रिकासुतक्षेत्रजादयोद्वादशविधाःपुत्राउक्तास्तथापिकलौतेषाम्पुत्राणान्निषेधादौरसपुत्राभावेदत्तकएवाधिकारी मातापितृभ्यामन्यतरेणवा विधिपूर्वन्दत्तःप्रतिग्रहीतृसवर्णोदत्तकः भार्यानुमत्यापत्युःपुत्रदातृत्वन्तदप्यापदि अत्यन्तापदितुभार्यानुमत्यभावेपि पत्न्याःपत्यनुमत्यैव अत्रविशेषविचारःप्रागुक्तः दत्तकाभावेपौत्रः पौत्राभावेप्रपौत्रः अन्येत्वौरसाभावेपौत्रः तदभावेप्रपौत्रः प्रपौत्राभावेदत्तकइत्याहुः उपनीतपौत्रसत्त्वेप्यनुपनीतस्याप्यौरसपुत्रस्यैवाधिकारः सचकृतचूडस्यैववर्षाधिकवयसः पूर्णत्रिवर्षस्यत्वकृतचूडस्यापि अनुपनीतेनापिमन्त्रपाठपूर्वकमेव

पित्रोरौर्ध्वदेहिकंसांवत्सरिकादिकंश्राद्धञ्चकार्यम् अशक्तौत्वग्निदानमात्रंसमन्त्रकमन्नुपनीतेनकार्यम् अन्यत्त्वन्यद्वारा एवंश्राद्धेपिदर्शमहालयादौसङ्कल्पमात्रङ्कार्यम् अन्यदितरेण केचित्तूनत्रिवर्षेणचूडारहितेनापिदाहमात्रंसमन्त्रकङ्कार्यंशेषमन्येनेत्याहुः दत्तकस्तूपनीतएवाधिकारी दत्तकाभावेप्रपौत्राभावेचभर्तुःपत्नीपत्न्याभर्त्ताचदाहाद्यौर्ध्वदेहिकंसांवत्सरिकश्राद्धादिकञ्चकुर्यात् भर्त्तुरपिसपत्नीपुत्रसत्त्वेऽधिकारोन विदध्यादौरसःपुत्रोजनन्याऔर्ध्वदेहिकम्। तदभावेसपत्नीजइत्युक्तेः भार्ययापिसमन्त्रकमेवौर्ध्वदेहिकादिकङ्कार्यम् अशक्तौत्वग्निदानमात्रंसमन्त्रकङ्कृत्वाशेषमन्येनकार्यं श्राद्धेसङ्कल्पमात्रङ्कृत्वाशेषमन्येन यद्यप्यविभक्तस्यसंसृष्टस्यवाभ्रातुरेवधनग्रहाधिकारस्तथापिक्रियाधिकारःपत्न्याएव विभक्तासंसृष्टेतुभ्रातरधनाधिकारोपिपत्न्याएव पत्न्यभावेविभक्तासंसृष्टस्यकन्यापिण्डदाधनहारिणीच तत्रापिविवाहितैवपिण्डदा धनहरात्वनूढाऽपि दुहितुरभावेदौहित्रोधनहारीपिण्डदश्च दौहित्राभावेभ्राताभ्रातुरभावभ्रातुःपुत्रः अविभक्तस्यसंसृष्टस्यचपत्न्यभावेभ्राता संसृष्टोनामपूर्वंविभक्तोभूत्वापुनःस्वधनम्भ्रातृधनैरेकीकृत्यैकपाकाद्युपजीवनः तत्रसोदरासोदरसमवायेमोइरएव तत्रापि ज्येष्ठकनिष्ठयोःसत्वेकनिष्ठएव कनिष्ठभ्रातुरभावेज्येष्ठभ्रातैव कनिष्ठबहुत्वेमृतानन्तरस्तदभावेतदनन्तरादयः एवञ्ज्येष्ठबहुत्वेमृतानन्तरक्रमेणैव सोदरभ्रातुरभावेसापत्नभ्राता अत्रापिज्येष्ठत्वादिविचारःपूर्ववदेव केचित्तुदुहितृदौहित्रयोर्धनहारित्वेपिविभक्तासंसृष्टस्यदाहादिकम्भ्रात्रैवकार्यं सगोत्रसद्भावेभिन्नगोत्रस्यतदनधिकारादित्याहुः भ्रातुरभावेभ्रातृपुत्रः तत्रापिसोदरभ्रातृपुत्राम्मुख्यः तदभावेसापत्नभ्रातृपुत्रः तदभावेपिता पितुरभावेमाता मात्रभावेस्नुषा तदभावेभगिनी तत्रानुजाग्रजसोदरासोदराणांसमवायेभ्रातृवत् भगिन्यभावेभगिनीपुत्रः समवायेतद्वदेव तदभावेपितृव्यतत्पुत्रादयःसपिण्डाः तदभावेसोदकाः तदभावेगोत्रजाः तदभावेमातामहमातुलतत्पुत्रादयोमातृसपिण्डाअनुक्रमेण मातृसपिण्डाभावेस्वपितृष्वसृमातृष्वसृपुत्राः तदभावेपितुःपितृष्वसमातृष्वसमातुलपुत्ररूपाःपितृवन्धवः एवम्मातुःपितृष्वस्रादिपुत्ररूपमातृवन्धवः पितृबन्धूनामभावेधिकारिणः तदभावेशिष्यः शिष्याभावेजामाताश्वशुरस्य श्वशुरोजामातुः तदभावेसखा तदभावेविप्रस्यकश्चिद्धनहारी विप्रभिन्नस्यराज्ञाधनङ्गृहीत्वातेन धनेनान्यद्वाराकारणीयम् अथवाविप्राद्यैर्मरणोन्मुखैधर्मपुत्रःकार्यः अथस्त्रीणान्दाहीद्य-

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬