🕉️ 24 November 2026, Tuesday · 08:08:54 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← धर्मसिन्धु — परिच्छेद-सूची

📖 धर्मसिन्धु · तृतीय परिच्छेद (उत्तरार्ध) — श्राद्ध, आशौच, अन्त्येष्टि, संन्यास · पृष्ठ 59/81

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

स्त्रीणान्दाहाद्यधिकारिणः

धिकरणः अनूढायाःस्त्रियाःपिता तदभावेभ्रात्रादिः ऊढायास्तत्पुत्राभावेसपत्नीपुत्रः तदभावेपौत्रप्रपौत्राः तदभावेपतिः तदभावेदुहिता तदभावेदौहित्रः तदभावेपत्युर्भाता तदभावेपत्युर्भ्रातृपुत्रः तदभावेस्नुषा तदभावेपिता पितुरभावेभ्राता तदभावेभ्रातृपुत्रादयःपूर्वोक्ताः अत्रसर्वत्रपुत्रभिन्नानाम्पुत्रासन्निधानात्पुत्राभावाद्वाकर्तृत्वमितिस्थितं तत्रयदिपुत्रासन्निधानात्कर्तृत्वन्तदा-

और्ध्वदेहिकक्रियाकर्तव्याकर्तव्यनिर्णयः

पुत्रभिन्नैर्दाहमारभ्यसपिण्डीकरणात्प्राचीनकर्मैवकार्यं नतुपुत्रभिन्नैःसपिण्डीकरणङ्कार्यम् पुत्राभावेत्वन्यैःसपिण्डीकरणमपिकार्यम्।तत्रापिसपिण्डादिभिर्नृपान्तैर्दाहमारभ्यदशाहक्रियाःकार्याएवताएव पूर्वाइत्युच्यन्ते ततएकादशाहमारभ्यसपिण्डीकरणान्तामध्यमसञ्ज्ञास्तासुसपिण्डादीनाङ्कृताकृतत्वं तदूर्ध्वाअनुमासिकसांवत्सरिकाद्यास्ताउत्तराख्याःसपिण्डादिभिर्नकार्याएव इदञ्चतदीयवृत्त्यादिस्थावरधनस्यचरधनस्यवाग्रहणाभावे तदन्यतरधनग्रहणेतुसपिण्डादिभिरपिमध्यमोत्तराख्याअपिक्रियाःकार्याएव राज्ञातुमृतधनसत्त्वेतद्धनद्वारातत्सजातीयवर्णहस्तेनसर्वाअपिक्रियाःकारणीयाएव धनाभावेतुपूर्वान्ताएवावश्यङ्कारणीयानान्याः सपिण्डादिनृपान्तभिन्नानान्तुमृतस्यधनाभावेपिस्वधनेनैवसपिण्डीकरणान्तक्रियाकरणमावश्यकम् मृतस्यधनङ्गृहीत्वाप्रेतकार्याकरणेनृपान्तानांसद्वर्णवधप्रायश्चित्तम् पुत्राद्यैर्भ्रातृसन्तत्यन्तैर्दौहित्रैश्चतत्पुत्रैश्चत्रिविधाअपिक्रियाधनग्रहणसत्त्वेतदसत्त्वेवापिकार्याएव तत्रस्त्रीणामुत्तराःक्रियामृताहन्येव नतुदर्शादौ भर्तृश्राद्धेनैर्वानर्वाहस्मृतेः पूर्वमध्यमाख्यास्तुपृथगेवस्त्रीणां केचित्पुत्रपत्योरभावेस्त्रीणान्दौहित्रादिभिःसपिण्डीकरणरहिताएवोत्तराःक्रियाःकार्याः सपिण्डीकरणन्तुन्तासान्नकार्यं सपिण्डीकरणाभावेपिएकोद्दिष्टविधिनावार्षिकादिकङ्कार्यमित्याहुः ब्राह्मणस्त्वन्यवर्णानान्नकुर्यात्कर्मपैतृकम्। कामाल्लोभाद्भयान्मोहात्कृत्वातज्जातितांव्रजेत् १ शुद्रेणापिब्राह्मणस्यनकार्यपैतृकङ्क्वचित्।

दत्तककर्तव्यनिर्णयः

दत्तकस्तुजनकपितुःपुत्राद्यभावेजनकपितुः श्राद्धङ्कुर्याद्धनञ्चगृह्णीयात् जनकपालकयोरुभयोःपित्रोःसन्तत्यभावेदत्तकोजनकपालकयोरुभयोरपिधनंहरेत् श्राद्धञ्चप्रतिवार्षिकमुभयोःकुर्यात् दर्शमहालयादौतुद्वयोःपित्राद्योःश्राद्धन्देयं तत्रद्वयोःपित्राद्योःपृथक्पिण्डदानम् पित्रादिद्वयद्वयोद्देशेनैकैकोवापिण्डः एवन्दत्तकस्यपुत्रोपिदत्तकजनकस्यपुत्राद्यभावेस्वपितरम्पितामहद्वयम्प्रपितामहद्वयञ्चोच्चार्यदर्शादिकङ्कुर्यात् तथैवधनंहरेत् एवन्दत्तकपौत्रोपितज्जनककुलेप्रपितामहस्यपुत्राद्यभावेपितरम्पितामहञ्चैकमुच्चार्यप्रपितामहद्वयमुच्चार्यदर्शादिश्राद्धङ्कुर्यात्प्रपितामहस्यधनञ्चहरेत् राद्येषांस्वासुभार्यास्वपत्यन्नस्याद्रिक्थंहरेयुःपिण्डञ्चैभ्यस्त्रिपुरुषन्दद्युरित्यादेरेकपिण्डेद्वावनुकीर्तयेद्ग्रहीतारञ्चोत्पादयितारञ्चातृतीयात्पुरुषादित्यादेवश्चलौगाक्ष्यादिस्मृतिवचनात् यदिजनकपालकयोरुभयोरपिपुत्रादिसन्ततिसत्त्वन्तदादत्तकउभयोरप्यौर्ध्वदेहिकंवार्षिकादिकञ्चनकुर्यात् पालकपितुरौरसपुत्राद्विभक्तेनदत्तकेनदर्शमहालयादिश्राद्धमात्रम्पालकपित्रादिपार्वणोद्देशेनकार्यम् अविभक्तस्यतुतदौरसकृतदर्शादिनैवदत्तकस्यदर्शादिसिद्धिरितिभाति ब्रह्मचारिणोमासिकाब्दिकादिश्राद्धम्मातापितृभिःकार्यम् ब्रह्मचारिणातुमातृपितृमा-

ब्रह्मचारिविधयकनिर्णयः

तामहोपाध्यायाचार्यभिन्नानांशवनिर्हरणन्दाहाद्यन्त्यकर्मचनकार्यम् अन्याधिकार्यभावेमातृपितृमातामहाचार्याणान्दाहादिकम्ब्रह्मचारिणाकार्यं तत्रदशाहकर्मकरणेदशाहमाशौचं दाहमात्रकरणेएकाहं तदाप्यस्यनित्यकर्मलोपोनास्ति अशुचित्वेप्याशौचिनामन्नन्तेननभोक्तव्यं तैःसहनवस्तव्यं तदुभयकरणेप्रायश्चित्तपुनरुपनयनेवक्ष्येते अन्येषान्दाहादौकृच्छ्रत्रयम्पुनरुपनयनञ्च धर्मार्थङ्केनचित्कस्यचित्सवर्णस्यदाहादिश्राद्धादिकरणेसम्पत्त्यादिफलम् अयंसर्वोषिश्राद्धविधिःशूद्राणाममन्त्रकःकार्यः

स्त्रीशूद्रादिकर्तव्यनिर्णयः

अत्रकेचिद्वैदिकमन्त्रपाठएवशूद्राणांवर्ज्यः पौराणमन्त्रास्तुपठनीयाइत्याहुः पौराणमन्त्राअपिशूद्रेणस्वयन्नपठनीयाःकिन्तुविप्रद्वारापठनीयाः वेदमन्त्रास्तुनविप्रद्वारापीतिसिन्धुः एवन्द्विजस्त्रियोपिव्रतोद्यापनादाविवसङ्कल्पमात्रंस्वयङ्कृत्वावैदिकमन्त्रादिप्रयुक्तंसर्वश्राद्धंविप्रद्वाराकारयेयुरितिपारिजातकारमतं शुद्रस्यसदामश्राद्धमेव पित्रेनमःपितामहायनमइत्येवमादिनानमोन्तनाममन्त्रेणनिमन्त्रणपाद्यासनगन्धपुष्पादिनाविप्रान्त्सम्पूज्यामन्निवेद्यसक्तुनापिण्डदानादिकृत्वादक्षिणादानादिनाश्राद्धंसमाप्यसजातीयान्गृहसिद्धपक्वान्नेनभोजयेत् यत्तुसिन्धौनाममन्त्रेणावाहनाग्नौकरणकाश्यपगोत्रोच्चारपूर्वकपिण्डदानादिकन्तर्पणादिकम्पाकेनपिण्डदानादिकञ्चोक्तन्तत्सच्छूद्रविषयं सप्तपुरुषन्त्रिपुरुषवापरम्परयास्नानवैश्वदेवतर्पणादिकंशुद्रकमलाकरादिग्रन्थसङ्गृहीतन्धर्मनियमेनाचरन्सच्छूद्रउच्यते एवङ्किरातयवनादिहीनजातीयानांविप्रेभ्यआमदानदक्षिणादानपूर्वकंस्वस्वजातीयभोजनात्मकमेवश्राद्धं राजकार्येनियुक्तस्यवन्धनिग्रहवर्तिनः। व्यसनेषुचसर्वेषुश्राद्धंविप्रेणकारयेत् १ अत्रप्रथमञ्जीवत्पितृकनिर्णयउक्तस्तत्रप्रसङ्गात्किञ्चिदधिकारविचारोप्युक्तः इदानीन्तुसर्वोप्यधिकारक्रमविचारःसविस्तरउक्तइतितेनात्रपुनरुक्तिर्बालबोधनार्थत्वान्नदोषाय इतिश्रीमदनन्तोपाध्यायसूनुविरचितेधर्मसिन्धुसारेश्राद्धाधिकारदाहाद्यधिकारनिर्णयः॥

3. श्राद्धशब्दार्थः

अथश्राद्धशब्दार्थः पित्रादीन्मृतानुद्दिश्यविहितेकालेदेशेपक्वान्नामान्नहिरण्यान्यतमद्रव्यस्पविधिनादानंश्राद्धं तत्राग्नौकरणम्पिण्डदानम्ब्राह्मणभोजनञ्चप्रधानं तदुक्तं होमश्चपिण्डदानञ्चतथाब्राह्मणभोजनम्। श्राद्धशब्दाभिधेयस्यादस्मिन्नौपचारिकम् १ इति क्वचिद्वचनादशक्त्यावापिण्डदानाद्यकरणेब्राह्मणभोजनादिमात्रमपिश्राद्धपदार्थःसम्पद्यतइतिचतुर्थपदार्थः तथाचवचनान्तरं यजुषाम्पिण्डदानन्तु बह्वृचानान्द्विजार्चनम्। श्राद्धशब्दाभिधेयंस्पादुभयंसामवेदिनाम् १ अश्रद्धयापितरोनसन्तीतिमत्वाश्राद्धमकुर्वाणस्परक्तम्पितरः पिबन्ति॥

4. श्राद्धभेदाः

अथश्राद्धभेदाः तत्रश्राद्धञ्चतुर्विधम् पार्वणश्राद्धमेकोद्दिष्टश्राद्धन्नान्दीश्राद्धंसपिडीकरणश्राद्धञ्चेतिभेदात् पित्रादित्रयोद्देशेनविहितम्पिण्डत्रययुतम्पार्वणं तच्चै-

पार्वणविचारः

कपार्वणकद्विपार्वणकत्रिपार्वणकमितित्रिविधं तत्रपित्रादेर्मृततिथौ क्रियमाणम्प्रतिसांवत्सरिकमेकपार्वणकम् अमावास्यादिषण्णवतिश्राद्धनित्यश्राद्धानि महालयान्वष्टक्यभिन्नानिद्विपार्वणकानि एतेषुसपत्नीकपित्रादित्रयसपत्नीकमातामहादित्रययोरेवोद्देशात् अन्वष्टकाश्राद्धन्त्रिपार्वणकं पित्रादित्रयमात्रादित्रयसपत्नीकमातामहादित्रयाणामुद्देशात् महालयश्राद्धन्तीर्थश्राद्धञ्चपार्वणैकोद्दिष्टरूपम् पित्रादिपार्वणत्रयस्यपत्न्याद्येकोद्दिष्टगणस्यचोद्देशात् केचिदेतद्द्वयम्मातामहमातामह्योःपार्वणभेदेनपार्वणचतुष्टययुतङ्कुर्वन्ति केषाञ्चित्सूत्रेदर्शोपित्रिपार्वणकश्चतुःपार्वणकोवेतिहेमाद्रौ एकोद्देशेनक्रियमाणमेकपिण्डयुतमेकोद्दिष्टं तदपित्रिविधं नवसञ्ज्ञन्नवमिश्रसञ्ज्ञम्पुराणसञ्ज्ञञ्चेति मृतस्यप्रथमदिनमारभ्यदशाहान्तंविहितानिनवसञ्ज्ञानि

एकोद्दिष्टादिविचारः

एकादशाहादीन्यूनाब्दान्तानिनवमिश्राणि एतानिविश्वदेवहीनानि ततःपराणिकनिष्ठभ्रातृवार्षिकशस्त्रहतचतुर्दशीश्राद्धादीनिपुराणसञ्ज्ञानि केचित्सपिण्ड्युत्तरङ्क्रियमाणानाम्पार्वणानामपिपुराणसञ्ज्ञामाहुः पुत्रजन्मविवाहादौक्रियमाणंवृद्धिश्राद्धन्नान्दीश्राद्धम् इदम्पूर्वार्धेविस्तरेणप्रपञ्चितम् एतदेवगर्भाधानपुंसवनसीमन्तेषुआधानेसोमेचक्रियमाणङ्कर्माङ्गमिष्टिश्राद्धमितिचोच्यते अत्रक्रतुदक्षौविश्वेदेवाः अन्यकर्मसुवृद्धिसञ्ज्ञं तत्रसत्यवसुविश्वेदेवाः इतिनामभेदोदेवभेदश्चान्यत्समानम् एतच्चपार्वणत्रययुतत्वात्पार्वणभेदान्तर्गतमपिदर्शादितोबहुधर्मभेदात्पृथगुद्दिष्टम् मृतस्यद्वादशाहादिकालेपिण्डार्घ्यसंयोजनादिरूपंसपिण्डीकरणम् एतदपिपार्वणैकोद्दिष्टविकाररूपम् अत्रविशेषोवक्ष्यते एवञ्चपार्वणमेकोद्दिष्टमितिद्विविधमेवश्राद्धम् एतत्पुनस्त्रिविधं नित्यन्नैमित्तिकङ्काम्यञ्चेति नियतनिमित्तेविहितन्नित्यं यथादर्शादि प्रत्यहंविहितमपिश्राद्धन्नित्यचसञ्ज्ञम्पार्वणद्वययुतंविश्वदेवहीनमुक्तम् अनियतनिमित्तेविहितं नैमित्तिकं यथासूर्यचन्द्रग्रहणादौ एतदपिषड्दैवतम् फलकामनोपाधिकङ्काम्यं यथापञ्चम्यादितिथौकृत्तिकादिनक्षत्रेच॥

5. श्राद्धदेशाः

अथश्राद्धदेशाः दक्षिणाप्रवणेगोमयोपलिप्तेकृमिकेशास्थिश्लेष्मादिवर्जितेकृत्रिमभूमिवर्जितेरजस्वलादर्शनादिवर्जितेश्राद्धङ्कार्यं कुरुक्षेत्रप्रभासपुष्करप्रयागकाशीगङ्गायमुनानर्मदादितीरनैमिपगङ्गाद्वारगयाशीर्षाक्षय्यवटादिषुश्राद्धम्महाफलं शमीपन्त्रप्रमाणेनपिण्डन्दद्याद्गयाशिरे। उद्धरेत्सप्तगोत्राणिकुलमेकोत्तरंशतम् १ पितामाताचभार्याचभगिनीदुहितातथा। पितृमातृष्वसाचैवसप्तगोत्राणिवैविदुः २ एषां गोत्राणाम्पुरुषाःक्रमेणचतुर्विंशतिविंशतिषोडशद्वादशैकादशदशाष्टावित्येकोत्तरशतसङ्ख्यास्तेषामुद्धारइत्यर्थः तत्रपितृकुलेद्वादशपूर्वाद्वादशपराइतिचतुर्विंशतिरेवमग्रेपितुलसीकाननच्छायाशालग्रामस्यसन्निधिः। चक्राङ्कितस्यसान्निध्यमेषुयत्क्रियतेनरैः १ स्नानन्दानन्तपःश्राद्धंसर्वमक्षय्यतांव्रजेत्। गोगजाश्वादिजुष्टप्रदेशेम्लेच्छदेशेषश्राद्धं

नकार्यम् परकीयग्रहादौश्राद्धकरणेतद्भूमिस्वामिपितरोभागंहरन्ति तेनगृहस्वामिनेमूल्यन्दत्त्वाकार्यं स्वाम्यनुज्ञयावाकार्यं वनानिगिरयोनद्यस्तीराण्यायतनानिच। देवखाताश्चगर्ताश्चनस्वाम्यन्तेषुकस्यचित् १ नैकवासानचद्वीपेनान्तरिक्षेकदाचन। श्रुतिस्मृत्युदितङ्कर्मनकुर्यादशुचिः क्वचित् २॥

6. श्राद्धकालाः

अथश्राद्धकालाः तेचप्रायेणामासङ्क्रान्तियुगादिमन्वादिमहालयादयःपूर्वपरि-

अमासङ्क्रान्त्यादिश्राद्धकालाः

च्छेदउक्ताएव केचित्तूच्यन्ते महातीर्थप्राप्तिर्व्यतीपातोमृताहोग्रहणद्वयंश्राद्धम्प्रतिरुचिःश्रोत्रियादिब्राह्मणसम्पत्तिरर्धोदयकपिलाषष्ठयाद्यलभ्ययोगाग्रहपीडादुःस्वप्नदर्शनन्नवान्नप्राप्तिर्नवोदकप्राप्तिर्गृहप्रच्छादनादिनिमित्तञ्चश्राद्धकालाः यदाविष्टिर्व्यतीपातोभानुवारस्तथैवच। पद्मकोनामयोगोयमयनादेश्चतुर्गुणः १ सर्वमासानाङ्कृष्णपक्षेषुश्राद्धमुक्तम् अत्रप्रत्यहम्पञ्चम्यादिवायदहःसम्पत्तिर्वेतित्रयःपक्षाः एकदिनपक्षेदर्शएव नारायणवृत्तौतुदर्शश्राद्धेनैवपक्षश्राद्धसिद्धिरुक्ता सर्वमासेषुदर्शश्राद्धाशक्तौकन्याकुम्भवृपस्थेर्केसतिदर्शत्रयेएकत्रदर्शेवाश्राद्धम् साग्निकस्यत्वशक्तस्यपिण्डपितृयज्ञमात्रेणदर्शसिद्धिः निरग्निकस्यब्राह्मणभोजनमात्रेणधान्यादिद्रव्यदाननवादर्शसिद्धिः कृष्णपक्षेपमहालयापरपक्षस्यश्रेष्ठत्वं तत्रापिपञ्चदशाहादिपक्षाअन्योपिवहुविस्तरोद्वितीयपरिच्छेदेउक्तः अत्रविशेषान्तरङ्कालतत्त्वविवेचने पञ्चदशाहव्यापिमहालयप्रयोगारम्भोत्तरमाशौचपातेकृतमहालयानांवैफल्यं तेनशुद्ध्यन्तेकस्याञ्चित्तिथौसकृन्महालयमात्रमनुष्ठेयम् एवम्पञ्चम्यादिपक्षेपि प्रतिवन्धान्तरेप्रतिनिधिद्वाराशेपमहालयानुष्ठानम् पितृव्यज्येष्ठभ्रात्रादीनामपुत्राणाम्महालयापरपक्षेतत्तन्मृततिथौतदेकपार्वणकमहालयश्राद्धञ्जीवत्पितृकेणापिकार्यमिति द्वादशपौर्णमास्योऽसम्भवेमाघीश्रावणीप्रौष्ठपद्योनित्याः कस्मिंश्चित्कृष्णपक्षेप्रतिपदादिपञ्चदशतिथिषुकृत्तिकादिभरण्यन्तनक्षत्रेषुविष्कम्भादियोगेपुसूर्यादिवारेषुववादिकरणेषुचश्राद्धेफलविशेषोक्तेरेतेतिथ्यादयःकाम्यश्राद्धकालाज्ञेयाः इतिसामान्यकालः अथापराह्लादिविशेषनिर्णयः

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬