निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
इष्ट्यादिप्रारम्भनिर्णयः इष्टिस्थालीपाकौपौर्णमास्यामारब्धव्यौनतुदर्शे आधानगृहप्रवेशनीयहोमानन्तरमेवपौर्णमास्यांयदिदर्शपौर्णमासारम्भः क्रियते तदामलमासपौषमासशुक्रास्तादिदोषोनास्ति तत्रातिक्रमेतुशुद्धमासादिप्रतीक्षेत्येके सर्वथा शुद्धकालेएवारम्भइत्यपरे इतिइष्ट्यादिप्रारम्भनिर्णयोद्देशः २५
अथविकृतिकालः तास्त्रिविधाः निसाआग्रयणचातुर्मास्याद्याः नैमित्तिक्योजातेष्ट्यादयः काम्याःसौर्यादयः एताः पुरुषार्थाः एवङ्कत्वङ्गभूताअपिद्विविधाः नित्यनैमित्तिकाश्च तत्रविकृतिपुसद्यस्कालत्वद्व्यहकालत्वयोर्विकल्पः एवम्पर्वणिशुक्लपक्षगतदेवनक्षत्रेषुत्राकर्तव्याइति विकल्पः तत्रपर्वणिकरणपक्षेअपराह्णादिसन्धौसन्धिदिनेसग्रस्कालान्द्व्यहकालांवा विकृतिकृत्वाप्रकृतेरन्वाधानम् मध्याहेपूर्वाह्नेवासन्धौसन्धिदिनेप्रकृतिसमाप्यसद्यस्कालैवविकृतिःकार्या कृत्तिकादीनिविशाखान्तानिचतुर्दशनक्षत्राणिदेवनक्षत्राणीत्युच्यन्ते आग्रयणेविशेषोद्वितीयपरिच्छेदेवक्ष्यते अन्वारम्भणीयेष्टिश्चतुर्दश्याङ्कार्या इतिविकृतिसामान्यनिर्णयाद्देशः २६
पशुयागस्तुवर्षर्तौश्रावण्यादिचतुर्णापर्वणामन्यतमेपर्वणिदक्षिणायनदिनेउत्तरायर्णादनेवाकार्यः तत्रखण्डपर्वणिविकृतिसामान्योक्तपर्वनिर्णयः इतिपशुयागोदेशः २७
अथचातुर्मास्यकालः तत्प्रयोगेचत्वारः पक्षाः फाल्गुन्याञ्चैत्र्यांवापौर्णमास्यां वैश्वदेवपर्वकृत्वाचतुर्पुचतुर्षुमासेष्वाषाढ्यादिष्वेकैकम्पर्वेत्येवंयावज्जीवमनुष्ठानमिति यावज्जीवपक्षः उक्तरीत्यासंवत्सरपर्यन्तमनुष्ठायसवनेष्ट्यापशुयागेनवासोमयागेन वा समापनंसांवत्सरपक्षः प्रथमेऽहनिवैश्वदेवपर्व चतुर्थेवरुणप्रघासपर्व अष्टमनवमयोः साकम्भेधपर्व द्वादशेशुनासीरीयपर्वेतिद्वादशाहपक्षः पञ्चभिर्दिनैः समाप्तौयथाप्रयोगपक्षः द्वादशाहयथाप्रयोगपक्षयोरुदगयनेशुक्लृपक्षेदेवनक्षत्रेष्वारभ्यशुक्लपक्षएवसमातिरितिबहवः कृष्णपक्षैवासमाप्तिरितिकेचित् द्वादशाहपञ्चाहपक्षयोरपिसवनेष्ट्यादिनासमापनेकृतेसकृत्करणं तदभावेप्रतिवत्सरमनुष्ठानं क्वचिदैकाहिकप्रयोगपक्षोप्युक्तः सचचैत्र्यादिषुचतसृषुपौर्णमासीष्वेकस्याङ्कस्याञ्चिद्भवति क्कचित्तसप्ताहपक्षः सयथा द्व्यहेवैश्वदेवपर्व तृतीयदनेवरुणप्रघासः चतुर्थेग्रहमेधीया पञ्चमेमहाहवींषि पष्टेपितृयज्ञादिसाकमेधपर्वशेषः सप्तमेशुनासीरीयपर्वेति अत्रशुक्लपक्षादिः पञ्चाहपक्षोक्तः कालः इतिचातुर्मास्यकालनिर्णयोद्देशः २८
अथ काम्यनैमित्तिकादीष्टिनिर्णयः काम्येष्टीनांविकृतिसामान्यनिर्णयानुसारेणपर्वण्यनुष्ठानं शुक्लपक्षस्थदेवनक्षत्रेवा जातेष्टिस्तुपत्न्याविंशतिरात्र्यात्मककर्मानधिकाराख्यजननाशौचनिवृत्तौसत्याम्पर्वणिकार्या गृहदाहेष्ट्यादिनैमित्तिकेष्टीनान्निमित्तानन्तरमनुष्ठानेपर्वाद्यपेक्षानास्ति तदसम्भवेपर्वापेक्षा क्रत्वर्थानान्नित्यानां
क्रतुनासहैवानुष्ठानं नतत्रपृथक्कालापेक्षा हविर्दोषोद्देशादिनिमित्तिकक्रत्वर्थेष्टयस्तु स्विष्टकृदुत्तरंसमिष्टयजुषःप्राक्निमित्तस्मरणेतदानीमेवतदीयतन्त्रोपजीवनेननिर्वापप्रभृतिकार्याः तदनन्तरंस्मरणेतत्प्रयोगंसमाप्यपुनरन्वाधानादिविधिनाकार्याः इति काम्यनैमित्तिकादीष्टीनान्निर्णयोद्देशः २९
अथाधानकालः आधानन्तुपर्वणिनक्षत्रेचोक्तं तत्रसङ्कल्पप्रभृतिपूर्णाहुतिपर्यन्तप्रयोगपर्याप्तम्पर्वग्राह्यं तदसम्भवेगार्हपत्याधानाद्याहवनीयाधानपर्यन्तंविद्यमानं ग्राह्यम् एवन्नक्षत्रस्यापिनिर्णयः दिनद्वयेकर्मकालव्याप्तपर्वसत्वेयत्रोक्तनक्षत्रयोगस्तद्राह्यं वसन्तऋतुपर्वोक्तनक्षत्रेसेतन्त्रितयसन्निपातेप्रशस्ततमम् ऋत्वभावेमध्यमं केवलेपर्वणिनक्षत्रेवाधमं नक्षत्राणितुकृत्तिकारोहिणीविशाखापूर्वाफल्गुन्युत्तराफल्गुनीमृगोत्तराभाद्रपदेतिसप्ताश्वलायनसूत्रोक्तानि कृत्तिकारोहिणीत्र्युत्तरामृगपुनर्वसुपुष्यपूर्वाफल्गुनीपूर्वाषाढाहस्तचित्राविशाखानुराधाश्रवणज्येष्ठारेवतीतिसूत्रान्तरोक्तानि सोमपूर्वाधानेतुनर्तुपृच्छेन्ननक्षत्रमितिवचनात्सोमकालानुरोधेनैवाधानन्नतत्र पृथक्कालविचारः इत्यधानकालोद्देशः ३०
अथग्रहणनिर्णयः चन्द्रसूर्यग्रहणंयावच्चाक्षुषदर्शनयोग्यं तावानपुण्यकालः अतोग्रस्तास्तस्थलेऽस्तोत्तरन्द्वीपान्तरेग्रहणसत्त्वेपिदर्शनयोग्यत्वाभावान्नपुण्यकालः एवं ग्रस्तोदयेउदयात्पूर्वन्नपुण्यकालः मेघादिप्रतिबन्धेनचाक्षुषदर्शनासम्भवेशास्त्रादिना ग्रहणपर्वकालः स्पर्शमोक्षकालौशाखास्नानदानाद्याचरेत् रविवारेसूर्यग्रहश्चन्द्रवारेचन्द्रग्रहश्चूडामणिसञ्ज्ञस्तत्रदानादिकमनन्तफलं ग्रहस्पर्शकालेस्नानं मध्येहोमः सुरार्चनं श्राद्धञ्च मुच्यमानेदानम्मुक्तेस्त्रानमितिक्रमः तत्रस्नानजलेपुतारतम्यम्। शीन्तमुष्णोदकात्पुण्यमपारक्यं परोदकात्। भूमिष्ठमुद्धृतात्पुण्यन्ततःप्रस्रवणोदकम् १ ततोपिसारसं पुण्यन्ततः पुण्यन्नदीजलम्। ततस्तीर्थनदीगङ्गापुण्यापुण्यस्ततोम्बुधिः २ इति ग्रहणेस्ननञ्चसचैलङ्कार्यं सचैलत्वम्मुक्तिस्त्रानपरमितिकेचित् मुक्तिस्नानाभावे स्नाननिर्णयः सूतकित्वानपगमः ग्रहणेस्त्रानममन्त्रकं सुवासिनीभिःस्त्रीभिरशिरः-स्नानङ्कार्यं शिष्टस्त्रियस्तुग्रहणेषुशिरःस्त्रानं कुर्वन्ति जाताशौ वेमृताशौचेचग्रहणनिमित्तंस्नानदामश्राद्धादिकङ्कार्यमेव स्नानेनैमित्तिकेप्राप्तेनारीयदिरजखला। पात्रान्तरिततोयेनस्नानङ्कृत्वाव्रतञ्चरेत् १ नवस्त्रपीडनङ्कुर्यान्नान्यद्वासश्चधारयेत्। त्रिरात्रमेकरात्रंवासमुपोष्यग्रहणेस्नानदानाद्यनुष्ठानेमहाफलम् एकरात्रपक्षेग्रहणदिनात्पूर्वदिनेउपवासइतिकेचित् ग्रहणसंवद्धाहोरात्रउपवासइत्यपरे पुत्रवद्गृहिणोग्रहणसङ्क्रान्त्यादौनोपवासः पुत्रवत्पदेनकन्यावानपिग्राह्यइतिकेचित् ग्रहणेदेवपितृतर्पणकार्यमितिकेचित् सर्वेषामेववर्णानान्तकंराहुदर्शने। तेनग्रहणका लेस्पृष्टवस्त्रादेःक्षालनादिनाशुद्धिःकार्या अत्रगोभूहिरण्यधान्यादिदानम्महाफलं तपोविद्योभययुक्तम्मु-
ख्यन्दानपात्रं सत्पात्रेदानात्पुण्यातिशयः। सर्वगङ्गासमन्तोयंसर्वेव्याससमाद्विजाः। सर्वभूमिसमन्दानङ्ग्रहणेचन्द्रसूर्ययोः १ इत्युक्तिः पुण्यसामान्याभिप्राया अतएव दानपात्रादिविचारः. सममब्राह्मणेदानन्द्विगुणम्ब्राह्मणब्रुवे। श्रोत्रियेशतसाहस्रम्पात्रेत्वानन्त्यमश्नुते
१ इतितारतम्यमुक्तम् अब्राह्मणेसंस्कारादिरहितेजातिमात्रेब्राह्मणेदानंयथोक्तफलं गर्भाधानादिसंस्कारयुतोवेदाध्ययनाध्यापनरहितो ब्राह्मणब्रुवस्तत्रदानमुक्तन्द्विगुणफलं वेदाध्ययनादियुतेश्रोत्रियेसहस्रफलं विद्यासदाचरणादियुतेपात्रेऽनन्तफलमिसेतद्वाक्यार्थः ग्रहणेश्राद्धमामेनहेम्नावाकार्यं सम्पनवेत्पक्कान्नेनकुर्यात् सूर्यग्रहणेतीर्थयात्राङ्गश्राद्धवत्घृतप्रधानान्नेन श्राद्धङ्कार्यं ग्रहणेश्राद्धभोक्तुर्महादोषः ग्रहणेतुलादानादिकंसम्पन्नेनकार्यम्। चन्द्रसूर्यग्रहेतीर्थेमहापर्वादिकेतथा। मन्त्रदीक्षाम्मकुर्वाणोमासर्क्षादीन्नशोधयेत् १ मन्त्रदीक्षामकारस्तन्त्रेद्रष्टव्यः दीक्षाग्रहणमुपदेशस्याप्युपलक्षणम्। युगेयुगेतुदीक्षासीदुपदेशः कलौयुगे। मन्त्रोपदेशादिविचारःचन्द्रसूर्यग्रहेतीर्थेसिद्धक्षेत्रेशिवालये १ मन्त्रमात्रप्रकथनमुपदेशः सउच्यते मन्त्रग्रहणेसूर्यग्रहणमेवमुख्यं चन्द्रग्रहणेदारिद्र्यादिदोषोक्तेरितिकेचित्। चन्द्रसूर्योपरागेचस्नात्वापूर्वमुपोषितः। स्पर्शादिमोक्षपर्यन्तञ्जपेन्मन्त्रं समाहितः १ जपाद्दशांशतोहोमस्तथाहोमाच्चतर्पणम्। होमाशक्तौजपङ्कुर्याद्धोमसङ्ख्याचतुर्गुणम् १ मूलमन्त्रमुच्चार्यतदन्तेद्वितीयान्तम्मन्त्रदेवतानामोच्चार्यअमुकान्देवतामहन्तर्पयामिनमइतियवादियुक्तजलाञ्चाम्यनेनेत्युच्चार्यजलेनस्वमूर्ध्निअभिषिञ्चेदितिमार्जनन्तर्पणदशांशेनकार्यम् मार्जनदशांशेनब्राह्मणभोजनम् एवञ्जपहोमतर्पणमार्जनविप्रभोजनात्मकपञ्चप्रकारम्पुरश्चरणं तर्पणाद्यसम्भवेतत्तत्सङ्ख्याचतुर्गुणो जपएवक्रार्यः अयञ्चग्रहणेपुरश्चरणप्रकारोग्रस्तोदयेग्रस्तास्तेचनसम्भवति पुरश्चरणाङ्गोपवासःपुत्रवद्गृहिणापिकार्यः महन्तर्पयामिनमइतियवादियुक्तजलाञ्जलिभिस्तर्पणंहोमदशांशेनकार्यम् एवन्नमोन्तम् एवकार्यःङ्गोपवासः पुत्रद्गृहिणापिकार्यः पुरश्चरणकर्तुःस्नानदानादिनैमित्तिककर्मलोपेप्रसवायप्रसङ्गा नैमित्तिकस्नानदानादिकम्भार्यापुत्रादिप्रतिनिधिद्वाराकार्यम् अत्रेत्थमितिकर्तव्यता स्पर्शकालात्पूर्वस्त्रात्वा अमुकगोत्रोऽमुकशर्माहराहुग्रस्तेदिवाकरेनिशाकरे वा अमुकदेवताया अमुकमन्त्रसिद्धिकामोग्रासादिमुक्तिपर्यन्तममुकमन्त्रस्यजपरूपम्पुरश्चरणं करिष्ये इतिसङ्कल्पञ्चकृत्वाऽऽसनबन्धन्यासादिकञ्चस्पर्शात्पूर्वमेवविधायस्पर्शादि- पुरश्चरणविधिः मोक्षपर्यन्तम्मूलमन्त्रजपङ्कुर्यात् ततः परदिनेस्नानादिनिसकृत्यंविधाय अमुकमन्त्रस्यकृतैतद्ग्रहणकालिकामुकसङ्ख्याकपुरश्चरणजपसाङ्गतार्थन्तद्दशांशहोमतद्दशांशतर्पणतदशांशमार्जनतद्दशांशब्राह्मणभोजनानिकरिष्येइतिसङ्कल्प्यहोमादिकन्तत्तच्चतुर्गुणद्विगुणान्यतरजपंवाकुर्यात् ग्रहणकालेचतत्प्रेरितः पुत्रादिरमुकशर्मणोऽमुकगोत्रस्यामुकग्रहणस्पर्शस्नानजनितश्रेयःप्राप्त्यर्थस्पर्शस्नानङ्करिष्येइत्यादिसङ्कल्पपूर्व-
कन्तदीयस्नानदानादिकङ्कुर्यात् पुरश्चरणमकुर्वद्भिरपिगुरूपदिष्टःस्वस्वेष्टदेवतामन्त्रजपोगायत्रीजपश्चावश्यङ्ग्रहणेकार्योन्यथामन्त्रमालिन्यं ग्रहणकालेशयनेकृतेरोगो मूत्रेदारिद्र्यंषुरीषेकृमिर्मैथुनेग्रामसूकरोऽभ्यङ्गेकुष्ठीभोजनेनरकइति पूर्वपक्कमन्नङ्ग्रहणो- ग्रहणेत्याज्यानि त्तरन्त्याज्यम् एवङ्ग्रहणकालस्थितजलपानेपादकुच्छ्राभिधानाज्जलमपि साज्यं काञ्जिक्रन्तकङ्घृततैलपाचितमन्नङ्क्षीरञ्चपूर्वसिद्धङ्ग्रहणोत्तरङ्ग्राह्यं घृतेसन्धिते गोरसेषुग्रहणकालेकुशान्तरायङ्कुर्यात् अथवेधविचारः सूर्यग्रहेग्रहणप्रहरादर्वाक्यामचतुष्टयंवेधः चन्द्रग्रहेतुप्रहरत्रयं तथाचदिनप्रथमप्रहरे सूर्यग्रहे पूर्वरात्रिप्रहरचतु- ग्रहणवेध. ष्टयेनभोक्तव्यं द्वितीयेयामेग्रहणेरात्रिद्वितीययामादौनभोक्तव्यम् एवंरात्रिप्रथमप्रहरेचन्द्रग्रहेदिनद्वतीययामादौनभुञ्जीत रात्रिद्वितीययामादौग्रहणे दिनतृतीययामादौनभुञ्जीत बालवृद्धातुरविषयेतुसार्धप्रहरात्मको मुहूर्तत्रयात्मकोवा वेधः शक्तस्यवेधकालेभोजनेत्रिदिनमुपोषणम्प्रायश्चित्तं ग्रहणकालेभोजनेप्राजापत्यम्प्रायश्चित्तं चन्द्रस्यग्रस्तोदयेतुयामचतुष्टयवेधात्तत्पूर्वन्दिवानभुञ्जीत केचित्तचन्द्रपूर्णमण्डलग्रा सेयामचतुष्टयंवेधएकदेशग्रासेया मत्रर्यामित्याहुः ग्रस्तास्तेतु ग्रस्तावेवास्तमानन्तुरवीन्दूप्राप्नुतोयदि। परेद्युरुदयेस्नात्वाशुद्धोभ्यवहरेन्नरः १ अत्रस्नात्वाशुद्धइत्युक्त्याशुद्धमण्डलदर्शनकालिकस्तानात्पूर्वमशुद्धिप्रतिपादनाज्जलाहरणपाकादिकंशुद्धबिम्बोदयकालिकस्नानात्पूर्वन्नकार्यमितिभाति ग्रस्तास्तादानिर्णयः सूर्यग्रस्तास्तादौ पुत्रवद्गृहिणउपवासनिषेधात्तेनषण्मुहूर्तात्मकंवेधन्त्यक्त्वाग्रहणात्पूर्वभोक्तव्यमितिकेचित् पुत्र वद्गृहिणामपितत्रोपवास एवकार्यइतिमाधवमतमेवतुशिष्टाचारानुसृतंयुक्तं सूर्यग्रस्तास्तेचन्द्रग्रस्तोदयेचाहिताग्निनान्वाधानंविधायजलेनवतङ्कांर्यनतुभोजनं चन्द्रग्रस्तास्तेउत्तरदिनेसन्ध्याहोमादौनदोषः तत्राल्पकालेनशास्त्रतोमुक्तिनिश्चयेमुक्त्यनन्तरंस्त्रात्वाहोमादिकङ्कर्तव्यं चिरकालेनमुक्तौहोमकालातिक्रमप्रसङ्गाद्भस्तोदयइवग्रहणमध्येएवसन्ध्यांहोमञ्चकृत्वाशास्त्रतो मुक्तिकालेस्नाखाब्रह्मय ज्ञादिनित्यकर्मकर्तव्यमितिभाति दर्शेग्रहणनिमित्तकश्राद्धेनैवदर्शश्राद्धसङ्क्रान्तिश्राद्धानांसङ्गसिद्धिर्भवति ग्रहणदिनेपित्रादेर्वार्षिकश्राद्धप्राप्तौसतिसम्भवेन्नेनकार्यम् ब्राह्मणाद्यलाभेनासम्भवेतुआमेनहेम्नावाकार्यं स्वजन्मराशेस्तृतीयषष्ठैकादशदशमराशिस्थितङ्ग्रहणंशुभप्रदं द्वितीयसप्तमनवमपञ्चमस्थानेषुमध्यमं जन्मच जन्मचतुर्थाष्टमद्वादशराशिस्थितमनिष्टप्रदं यस्यजन्मराशौजन्मनक्षत्रेवाग्रहणन्तस्यविशेषतोनिष्टप्रदन्तेनगर्गाद्युक्ताशान्तिः कार्या अथवाविम्बदानकार्यं तद्यथा चन्द्रग्रहेरजतमयञ्चन्द्रविम्बंसुवर्णमयन्नागबिम्बञ्चकृत्वा सूर्यग्रहेसौवर्णसूर्यबिम्बन्नागबिम्बञ्चकृत्वाघृतपूर्णताम्रपात्रेकांस्यपात्रेवानिधायतिलवस्त्रदक्षिणासाहित्यसम्पाद्य ममजन्मराशिज-
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा