निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
दिनस्यपञ्चविभागास्त्रित्रिमुहूर्तकास्तत्राद्योभागःप्रातःसञ्ज्ञः द्वितीयःसङ्गवः तृतीयोमध्याह्नः चतुर्थोपराह्णः पञ्चमोभागः सायाह्नः दिनस्यपञ्चदशोभागोमुहूर्तः तत्रसप्तमोगन्धर्वोष्टमोमुहूर्तःकुतुपः नवमोरौहिणः तत्रदर्शादिश्राद्धानान्निर्णयःपूर्वपरिच्छेदयोःप्रायेणोक्तः विशेषस्तूच्यते साग्निकानाङ्कात्यायनादीनामन्वाधानपिण्डपितृयज्ञदर्शश्राद्धानामेकदिनकर्तव्यत्वनियमान्त्रेधाविभक्तदिनतृतीयभागरूपापराह्णव्यापिन्याममायान्दर्शश्राद्धङ्कर्तव्यम् अथप्रतिसांवत्सरिकमासिकादिनिर्णयउच्यते तत्रैकोद्दिष्टम्मध्याह्नेसप्तमाष्टमनवम-
मुहूर्तरूपेकार्यं तत्रापिकुतुपरौहिणसञ्ज्ञकावष्टमनवममुहूर्तौमुख्यःकालः तत्रपूर्वत्रैवपरत्रैववादिनेमध्याह्नव्याप्तौसैवतिथिर्ग्राह्मा दिनद्वये मध्याह्नव्याप्तौमध्याह्रास्पर्शेवापूर्वत्रैव दिनद्वयेसाम्येनैकदेशव्याप्तौपूर्वा खर्वदर्पाद्यैर्व्यवस्थेत्यन्ये वैषम्येणैकदेशव्याप्तावाधिक्येननिर्णयः पार्वणेत्वपराह्णव्यापिनीग्राह्या पूर्वत्रैवपरत्रैववापराह्णव्याप्तौसैवग्राह्या दिनद्वयेतद्व्याप्तौतदस्पर्शेवांशतःसमव्याप्तौवापूर्वा विषमव्याप्तौत्वधिकाग्राह्या माधवाचार्यास्तुदिनद्वयेपूर्णापराह्णव्याप्तावंशतःसमव्याप्तौचोत्तरतिथेःक्षयेपूर्वा वृद्धौपरा उत्तरतिथेःक्षयवृद्ध्यभावेपिपरेत्याहुः अयङ्क्षयाहनिर्णयःप्रत्याब्दिकेमासिकेसकृन्महालयेचज्ञेयः श्राद्धेभरण्यादिनक्षत्रंव्यतीपातादियोगश्चापराह्णव्यापीत्युक्तन्द्वितीये केचिच्छुक्लपक्षेउदयव्यापिनक्षत्रङ्कृष्णपक्षेऽस्तमयव्यापि योगस्तुकुतुपादिव्यापीत्याहुः एतच्चपार्वणश्राद्धङ्कुतुपादिमुहूर्तपञ्चकेकार्यनसायाह्नेनरात्रौनप्रातःसङ्गवयोः पिण्डपितृयज्ञदिनेसायाह्नेपिपार्वणमनुज्ञायते यदाविघ्नवशाद्दिनेसांवत्सरिकश्राद्धन्नकृतन्तदारात्रावपिप्रथमप्रहरपर्यन्तङ्कार्यम् मृताहातिक्रमेचाण्डालत्वादिदोषोक्तेः ग्रहणदिनेदर्शमासिकप्रतिवार्षिकादिश्राद्धप्राप्तौतद्दिनेएवान्नेनामेनवाहेम्नावाकुर्यान्नोत्तरदिने प्रथमाब्दिकन्त्रयोदशेमलमासेकार्यमित्युक्तं तेनयत्रद्वादशमासिकंशुद्धमासेभवतितत्रत्रयोदशेऽधिकएवप्रथमाब्दिकङ्कार्यं यदात्वधिकमध्येद्वादशम्मासिकन्तदाद्वादशमासिकस्यद्विरावृत्तिङ्कृत्वाचतुर्दशेशुद्धमासेप्रथमाब्दिकम्एवन्द्वितीयादिमासिकस्यापिमलमासेमाप्तस्यद्विरात्तिर्ज्ञेया द्वितीयाद्याब्दिकन्तुशुद्धमासेएव एवम्महालयोपिशुद्धेएव नाधिकेमासेकिञ्चिदपि मलमासमृतानान्तुयदासएवमलमासोभवतितदाधिकएवसांवत्सरिकन्नशुद्धे दर्शदिनेवार्षिकप्राप्तौपूर्वंवार्षिकङ्कृत्वाततः पिण्डपितृयज्ञम्पाकान्तरेणदर्शश्राद्धञ्चकुर्यात् परेतुआदौपिण्डपितृयज्ञस्ततोवार्षिकं ततोदर्शइतिक्रममाहुः एवम्मासिकादिष्वपिज्ञेयं सपिण्डीकरणादूर्ध्वंयावदब्दत्रयम्भवेत्। तावदेवनभोक्तव्यन्तदीयेश्राद्धमात्रके १ प्रथमाव्देस्थ्यादिभोजीद्वितीयेमांसभक्षकः। तृतीयेरक्तभोजीस्याच्छुद्धञ्चतुर्थके २ इत्यास्ताम्प्रासङ्गिकम्प्रकृतमनुसरामः पार्वणमपिहेमश्राद्धमामश्राद्धञ्चद्वेधाविभक्तदिनपूर्वभागेएवकार्यम् सर्वचश्राद्धन्तत्तन्निर्णीतकालेतत्तत्तिथ्यभावेपिकर्तव्यंसाकल्यवचनादिनाशास्त्रतस्तत्रतत्तत्तिथिसत्वादितिङ्कालतत्त्वविवेचने वृद्धिश्राद्धम्प्रातःसङ्गवयोःकार्यम् मध्याह्नोगौणः अपराह्नसायाह्नरात्रयोनिषिद्धाः रात्रौविवाहेप्रातर्वृद्धिश्राद्धन्नकृतन्तदारात्रावपिकार्यमितिक्वचित् ग्रहणनिमित्तकम्पार्वणश्राद्धम्पुत्रजन्मनिमित्तकञ्जातकर्माङ्गवृद्धिश्राद्धञ्चरात्रावपिकार्यम् इतिकालनिर्णयः॥
अन्नादिनापितृतृप्तिविचारः पुत्रादिभिःपितृमात्राद्युद्देशेनश्राद्धेक्रियमाणेनामगोत्रम्मन्त्राश्चतत्तदन्नन्तान्पितृन्प्रापयन्ति तत्रपित्रादीनान्देवरूपत्वेतदन्नममृतरूपम्भूत्वा तत्रोपतिष्ठते गन्धर्वत्वेभोग्यरूपेणपशुत्वेतृणरूपेणसर्पत्वेवायुरूपेणयक्षत्वेपानरूपेणदानवादित्वेमांसत्वेनप्रेतत्वेरुधिरत्वेनमनुष्यत्वेन्नादिरूपेणेति ग्रन्थान्तरे तस्यतेपितरःश्रुत्वाश्राद्धकालमुपस्थितम्। अन्योन्यम्मनसाध्यात्वासम्पतन्तिमनोजवाः १ तैर्ब्राह्मणैः सहाश्नन्तिपितरोवायुरूपिणः। अतएवश्रीरामेणश्राद्धेक्रियमाणेसीताविप्रेषुदशरथादीन्ददर्शेतिकथाश्रूयते प्रावृष्यन्तेयमःप्रेतान्पितृृंश्चाथयमालयात्। विसर्जयतिभूलोकङ्कृत्वाशून्यंस्वकम्पुरम् १ तेपुत्रादेःप्रकाङ्क्षन्तिपायसम्मधुसंयुतम्। कम्यागतेसवितरिपितरोयान्तिवैसुतान् २ अमावास्यादिनेप्राप्तेगृहद्वारंसमाश्रिताः। श्राद्धाभावेस्वभवनंशापन्दत्त्वाव्रजन्तिते ३ अतोमूलैःफलैर्वापितथाप्युदकतर्पणैः। पितृतृप्तिम्प्रकुर्वीतनैवश्राद्धंविवर्जयेत् ४ किञ्चश्राद्धेनब्रह्मादिस्तम्बपर्यन्तंसकलभूततृप्तिःश्रूयते तत्र पिशाचादिरूपाणांविकिरादिभिस्तृप्तिर्वृक्षादिरूपाणांस्नानवस्त्रोदकादिनाकेषाञ्चिदुच्छिष्टपिण्डादिनेति अतोब्रह्मीभूतपितृकेणापिश्राद्धङ्कार्यं तत्रपितृपितामहप्रपितामहादिरूपमेकैकम्पार्वणंवसुरुद्रादित्यादिभेदेनध्येयम् एकोद्दिष्टंवसुरूपेणेतिसर्वत्र केचित्तपितृपितामहप्रपितामहाःप्रद्युम्नसङ्कर्षणवासुदेवात्मनाध्येयाः कर्तानिरुद्धात्मनेत्याहुः एवंवरुणप्रजापत्यग्निरूपेणक्वचित् क्वचिन्मासऋतुवत्सररूपेणेति तत्रयथाचारंसमुच्चयेनविकल्पेनवाध्यानमितिव्यवस्था पित्रादिपार्वणंयत्रतत्र मातामहादयः। सर्वत्रैवाहिकर्तव्यानाब्दिकैमासिकेपुनः १ मासिकेषुत्वाब्दिकेचत्रिदैवत्यम्प्रकीर्तितम्। वृद्धौतीर्थेन्वष्टकासुगयायाञ्चमहालये २ त्रिपार्वणकमत्रेष्टंशेषंषाट्पौरुषंविदुः। सपत्नीकम्पित्रादित्रयंसपत्नीकम्मातामहादित्रयमितिषाट्पौरुषत्वं क्षयाहंवर्जयित्वैकंस्त्रीणान्नास्तिपृथक्क्रिया। अन्वष्टकासुवृद्धौचगयायाञ्चक्षयेऽहनि १ अत्रमातुःपृथक्श्राद्धमन्यत्रपतिनासह। अर्थाविश्वेदेवाः यत्रविशेषोनोच्यतेतत्रसर्वत्रपार्वणश्राद्धेपुरूरवार्द्रवसञ्ज्ञकाविश्वेदेवाः काम्यश्राद्धेमहालयेचधूरिलोचनसञ्ज्ञकाः नैमित्तिकेऽष्टकाख्याष्टमीश्राद्धेचकामकालसञ्ज्ञकाः एकोद्दिष्टंसपिण्डीकरणंवानैमित्तिकसञ्ज्ञं नान्दीश्राद्धेसत्यवसुसञ्ज्ञकाः तत्रापिगर्भाधानपुंसवनसीमन्तोन्नयनेतिसंस्कारत्रयाङ्गमग्न्याधानसोमयागाङ्गञ्चनान्दीश्राद्धमिष्टिश्राद्धसञ्ज्ञकङ्कर्माङ्गश्राद्धसञ्ज्ञकञ्चतत्रक्रतुदक्षसञ्ज्ञकाविश्वेदेवाः पार्वणद्वयाद्ययोर्जीवनान्मातृपार्वणकमेवक्रियमाणन्नान्दीश्राद्धं देवरहितङ्कार्यम् एवम्पार्वणत्रयस्यभिन्नत्वेनानुष्ठीयमानेनान्दीश्राद्धेपिमातृपार्वणन्देवहीनं नान्दीश्राद्धेहिदिनत्रयेक्रमेणपार्वणत्रयङ्कार्यम् एकस्मिन्दिनेपृथक्पृथक्पार्वणत्रयं सहतन्त्रेणवापार्वणत्रयमितित्रयःपक्षाः नित्यश्राद्धन्देवरहितङ्कार्यम् एवंसपिण्डीकरणात्प्राक्तनान्येकोद्दिष्टश्राद्धान्यपिदेवहीनानि इतिश्राद्धदेवतानिर्णयः॥
अथश्राद्धेब्राह्मणाः तत्र जातकर्मादिसंस्कारैःसंस्कृतःसत्यवाक्शुचिः।वेदाध्ययनसम्पन्नःषट्सुकर्मस्ववस्थितः १ पुरुषत्रयविख्यातःसवैब्राह्मणउच्यते।इतिब्राह्मणसामान्यलक्षणं तत्रोत्तममध्यमाधमभेदेनत्रिविधाब्राह्मणाः तत्रोत्तमाः वेदाध्ययनसम्पन्नावेदाङ्गाध्यायिनोपिच। येवैय्याकरणायेचमीमांसाध्ययनेरताः १ पौराणि-
कश्चवेदान्तीधर्मशास्त्ररतोपिच। एतेषामपियेपुत्राब्रह्मवेत्तातथैवच २ वेदार्थज्ञःकर्मनिष्ठस्तपोनिष्ठश्चयोगिनः। पितृमातृपरश्चैवस्वधर्मनिरतस्तथा ३ शिशुरप्यग्निहोत्रीचसोमादिश्रौतकर्मवित्।शिवभक्तोविष्णुभक्तोभार्यायामृतुकालगः ४ गुरुभक्तोज्ञाननिष्ठःसोमयाजीचसत्यवाक्।सुशीलस्नातकयतिब्रह्मचारिणउत्तमाः ५ एतेसर्वेसपत्नीकायुवत्वादिगुणान्विताः।सापिण्ड्ययोनिशिष्यत्वादिसम्बन्धैश्चवर्जिताः ६ कुष्ठापस्मारादिदोषैर्हीनाश्चेदुत्तमाःस्मृताः।तत्रदशाहादिसूतकादिप्रयोजकसापिण्ड्यसगोत्रसोदकत्वरूपसम्बन्धःसापिण्ड्यपदाभिधेयः योनिसंवन्धोमातुलत्वश्वशुरत्वशालकत्वादिः आदिनागुरुत्वसहाध्यायित्वमित्रत्वादयः तथाचसपत्नीकत्वादिगुणयुक्ताउक्तसम्बन्धहीनाअपस्मारान्धत्वादिदोषहीनावेदाध्यायित्वादिसप्तविंशतिप्रकाराविप्राउत्तमाइतिसिद्धं तत्रविशेषः यद्येकम्भोजयेच्छ्राद्धेछन्दोगन्तत्रपूजयेत्।ऋचोयजूम्पिसामानित्रितयन्तत्रविद्यते १ ऋग्वेदिनञ्चपित्रर्थेयाजुषन्तुपितामहे।प्रपितामहेसामगञ्चभोजयेच्छ्राद्धकर्मणि २ अथर्ववेदिनंवैश्वदेवेपित्र्येचभोजयेत्।एतेनस्वशाखीयद्विजाभावेद्विजानन्यान्निमन्त्रयेदितिनिरस्तं केचिद्यथाकन्यातथाहविरितिनियमात्यैःसहयोनिसंवन्धस्तएवपरशाखीयाः श्राद्धार्हाइत्याहुस्तन्निर्मूलं केचिछ्राद्धकर्तृसगोत्रसप्रवरावर्ज्याः पितृपुत्रौभ्रातरौद्वौनिरग्निङ्गुर्विणीपतिम्।सगोत्रप्रवरं चैववर्जयेच्छ्राद्धकर्मणि १ इतिवचनादित्याहुः विनामांसेनमधुनाविनादक्षिणयाशिषा ।
परिपूर्णम्भवेच्छ्राद्धंयतिषुश्राद्धभोजिषु १ इतियतिप्रशंसा अथमध्यमाविप्राः मातामहोमातुलोभागिनेयोदौहित्रोजामातागुरुःशिष्योयाज्यःश्वशुरऋत्विक्शालकःपितृष्वसृपुत्रोमातृष्वसृपुत्रोमातुलपुत्रोऽतिथिःसगोत्रोमित्रमित्येतेमध्यमाः दौहित्रजामातृस्वस्त्रीयादीनांविद्यादिगुणवतांश्राद्धेनिमन्त्रणाभावेदोषः गुणहीनत्वेतुनदोषः षड्भ्यस्तुपुरुषेभ्योर्वाक्श्राद्धार्हानैवगोत्रिणः।षड्भ्यस्तुपरतोभोज्याअलाभेगोत्रजाअपि १ अत्रविशेषः ऋविजःसपिण्डाःसम्बन्धिनःशिष्याश्चवैश्वदेवस्थानेनियोज्यानतुपित्र्ये एवमन्येपिविगुणाविप्रादेवस्थानेयोज्याः पितापितामहोभ्रातापुत्रोवाथसपिण्डकाः।नपरस्परमर्घ्याःस्युर्नश्राद्धेऋत्विजस्तथा १ वैश्वदेवेनियोक्तव्यायद्येतेगुणवत्तराः।अथवर्ज्याविप्राः क्षयश्वासमूत्रकृच्छ्रभगन्दरादिमहारोगीहीनाङ्गोधिकाङ्गःकाणोबधिरोमूकःशत्रुःकितवोभृतकाध्यापकोमित्रद्रोहीपिशुनःकुनखी
कृष्णदन्तःक्लीवोमातापितृगुरुत्यागीचोरोनास्तिकःपापकर्माविहितकर्मत्यागीनक्षत्रोपजीवीवैद्योराजभृत्योगायकोलेखकःकुसीदजीवी वदविक्रयीकवित्वजीवीदेवार्चनजीवनटोगृहदाहीसमुद्रगामीशस्त्रकर्त्तासोमविक्रयीपक्षिपोषकःपरिवेत्तादिधिषुपतिःकुमाराध्यापकःपुत्रात्प्राप्तविद्योद्रव्यप्राप्त्यर्थंवेदघोषकारीग्रामयाजीकेशपशुविक्रयीशिल्पीपित्राविवादकारीशूद्रयाजकोजटीश्मश्रुहीनोनिर्दयोरजस्वलापतिर्गर्भिणीपतिःकुब्जोवामनोरक्तनेत्रोवाणिज्योपजीवीछिन्नोष्ठश्छिन्नलिङ्गोगडुमाञ्ज्वरितोदेवलकोविधुरोनिरग्निःशूद्रगुरुःशूद्रशिष्योदाम्भिकोगोविक्रयीरसविक्रयीवेदनिन्दकोवृक्षरोपकःकदर्यःसदायाचकः कृषिजीवीसाधुनिन्दितोमेपमहिषयोःपोषकःकपिलकेशोविस्मृतवेदोनिष्ठुरवागित्यादयोविप्राहव्यकव्ययोर्वर्ज्याः धर्मार्थमुदरार्थंवौषधकारीविगर्हितः। देवार्चनपरोनित्यंवित्तार्थीवत्सरत्रयम् १ असौदेवलकोनामदेवस्वग्राहकोपिच। वर्जनीयःसविज्ञेयःसर्वकर्मसुसर्वदा २ इदम्मनुष्यस्थापितदेवताविषयमितिभाति दाराग्निहोत्रसंयोगङ्कुरुतेयोग्रजेस्थिते। परिवेत्तामविज्ञेयःपरिवित्तिस्तुअग्रजः १ अग्रजानुज्ञादौनदोपइत्युक्तं ज्येष्ठायांयद्यनूढायाङ्कन्यायाभूह्यतेऽनुजा। साचाग्रेदिधिषूर्ज्ञेयापूर्वातुदिधिषूर्मता १ प्रतिमाविक्रययोवैकरोतिपतितस्तुसः। जीवनार्थम्परास्थीनिनयतेपतितःसच २ गाननृत्यादिकमुदरार्थनिषिद्धन्नतुभगवदर्थम् अत्रविप्राणाङ्ग्राह्यत्वोत्त्यैवतद्भिन्नानांवर्ज्यत्वेसिद्धेपुनर्वर्ज्यपरिगणनंवर्ज्यभिन्नानान्निर्गुणानामपिग्राह्यत्वार्थं विद्याशीलादिगुणवत्त्वेकुष्ठित्वकाणत्वादिशारीरदोषाणान्नदूषकत्वं गयायान्तुनिर्गुणाअपितेएवभोज्याः नविचार्यङ्कुलंशीलंविद्याचतपएवच। पूजितैस्तैस्तुसन्तुष्टादेवाःसपितृगुह्यकाः १ इत्युक्तेः ब्राह्मणान्नपरीक्षेततीर्थेक्षेत्रनिवासिनः। यत्तु नब्राह्मणम्परीक्षेतदैवेकर्मणिधर्मवित्। पित्र्येकर्मणितुप्राप्तेपरीक्षेतप्रयत्नतः १ इतितदसम्भवपरं गायत्रीसारमात्रोपिवरंविप्रःसुयन्त्रितः। नायन्त्रितश्चतुर्वेदीसर्वाशीसर्वविक्रयी १ इतिहेमाद्रौव्यासः श्राद्धेकाणादयोभोज्यामिश्रितावेदपारगैः। विप्रानिमन्त्रणात्पूर्वमेवपरीक्षणीयानतुनिमन्त्रणोत्तरम् इतिब्राह्मणविचारः॥
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा