🕉️ 24 November 2026, Tuesday · 08:12:54 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← धर्मसिन्धु — परिच्छेद-सूची

📖 धर्मसिन्धु · तृतीय परिच्छेद (उत्तरार्ध) — श्राद्ध, आशौच, अन्त्येष्टि, संन्यास · पृष्ठ 61/81

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

दर्भाः

9. श्राद्धार्हद्रव्याणि

अथश्राद्धार्हद्रव्याणि तत्रदर्भाः दर्भग्रहणेकालोमन्त्रोदर्भभेदाश्चद्वितीयपरिच्छेदेउक्ताः विशेषस्तूच्यते कुशामुख्याःकुशाभावेकाशदूर्वोशीरतृणादयः तत्रकाशैदूर्वाभिर्वाकृतपवित्रहस्तोनाचामेत् द्वाभ्यामनामिकाभ्यान्तुधार्येदर्भपवित्रके। एकानामिकयावापिद्वयोर्मध्येतुपर्वणोः १ साग्रौविगर्भौतुकुशौकार्यन्ताभ्याम्पवित्रकम्। द्वाभ्यान्तत्स्याच्चतुर्भिर्वाग्रन्थियुक्तन्नवाभवेत् २ स्नानेदानेजपेहोमेस्वाध्यायेपितृकर्मणि। सपवित्रौसदर्भौवाकरौकुर्वीतनान्यथा २ ब्रह्मग्रन्थिपवित्राढ्योनावामेच्चबुधःसदा। केचिद्ग्रथितपवित्राभावेसाग्रदर्भौद्वौदक्षिणकरेवामेतुत्रीन्द्वौवाविभृयादित्याहुः आसनेद्वौदर्भौ पितृकर्मणिसमूलाद्विगुणादर्भाः दैवेसाग्राऋजवः पि–

त्र्येपिसपिण्डीकरणपर्यन्तमृजुदर्भास्तदूर्ध्वन्द्विगुणाभुग्नाइति येचपिण्डाश्रितादर्भायैः कृतम्पितृतर्पणम्। मलमूत्रोत्सर्गधृतामलमूत्राद्यमेध्यगाः १ मार्गेचितौयज्ञभूमौस्थितायेस्तरणासने। ब्रह्मयज्ञेचयेदर्भास्यागार्हाःसर्वएवते २ अन्यानिचपवित्राणिकुशदूर्वात्मकानिच। हेमात्मकपवित्रस्यकलान्नार्हन्तिषोडशीम् ३ पञ्चगुञ्जमाषमानेनषोडशमाषंहेममयम्पवित्रकमित्याहुः अथहविः व्रीहियवतिलमाषगोधूमश्यामाकप्रियङ्गुमुद्गस-

हविः

र्षपाःश्राद्धेप्रशस्ताः चणकोविकल्पितः यावनालोपिविकल्पितः इष्टापूर्तेमृताहेचदर्शवृद्ध्यष्टकासुच। पात्रेभ्यस्त्वेषुकालेषुदेयन्नैवकुभोजनम् १ अगोधूमञ्चयच्छ्राद्धम्माषमुद्गविवर्जितम्। तैलपक्वेनरहितङ्कृतमप्यकृतम्भवेत् २ राजमाषाश्चनिष्पावाअपिशस्ताःसतीनकाः। राजमाषामहाराष्ट्रभाषया'चवळी'तिप्रसिद्धाः निष्पावाः पावटे' इति सतीनका 'वाटाणे' इति कदलीफलमाम्रफलंसुरणःपनसःत्रिविधङ्कर्कटीफलं कोशातकी 'दोडका' इतिप्रसिद्धा कुस्तुम्बुरुर्वैकल्पिकम् पटोलम्बदरमामलकङ्खर्जुरीफलञ्चिञ्चार्द्रकंशुण्ठीमूलकन्द्राक्षालवङ्गैलापत्रकाणिजीरकंहिङ्गुदाडिमफलमिक्षुःशर्करागुडःकर्पूरःसैन्धवसामुद्रेलवणेपूगीफलन्ताम्बूलपत्रमितिश्राद्धेप्रोक्तानिहवींषि गव्येदधिदुग्धे घृतङ्गव्यम्माहिषञ्च के चिन्माहिषन्तकंसद्यःकृतमनुद्धृतनवनीतङ्ग्राह्यमाहुः केचिन्महिषीक्षीरंशर्करादियुतङ्ग्राह्यमाहुः मथितन्निर्जलन्दधिसर्वनिषिद्धं जम्बीरफलं विहितप्रतिषिद्धत्वाद्विकल्पितम् अक्षोटः 'अक्रोड' इतिप्रसिद्धः शृङ्गाटकः 'शिङ्गाडे' इतिप्रसिद्ध चिर्भटं 'खर्बुज' इतिप्रसिद्धं शीतकन्दली 'राताळी' तिप्रसिद्धम् एतेश्राद्धेविहिताः आम्रातकः 'आम्बाडा' इतिप्रसिद्धस्तण्डुलीयो 'माठ' इतिप्रसिद्धः एतौद्वौविहितप्रतिषिद्धौ केचिद्राजमाषङ्कृष्णेतरमुद्गङ्कृष्णनष्पावञ्चनिषिद्धमाहुः कथञ्चिद्यदिविप्रेभ्योनदत्तम्भोजनेमधु। पिण्डास्तुनैवदातव्याः कदाचिन्मधुनाविना १ अक्षतागोपशुश्चैवश्राद्धेमांसन्तथामधु। देवराच्चसुतोत्पत्तिःकलौपञ्चविवर्जयेत् १ इतिवचनद्वयान्मधुनिऐच्छिकविकल्पः केचिद्यथाचारम्प्रदेयन्तुमधुमांसादिकन्तथा। इतिवचनाद्देशाचारानुसारेणव्यवस्थितविकल्पमाहुः मांसंश्राद्धेषुनैवदेयङ्कलिवर्ज्यत्वात् नदद्यादामिषंश्राद्धेनचाद्याद्धर्मतत्ववित्। इत्यादिश्रीभागवतवचनाच्च अन्यानिमुञ्जातचव्यकसेरुकालेयादिद्रव्याणिबहूनिमहानिबन्धेषूक्तानितान्यप्रसिद्धत्वाच्छ्राद्धेश्यापेक्षोपयोगयोरभावाच्चनोच्यन्ते॥

10. वर्ज्यानि

अथवर्ज्यानि यद्यपिविहितोत्तयैवर्ताद्भन्नानामग्राह्यत्वम्प्राप्तन्तथापिविशेषदोषप्रदर्शनायाप्राप्तनिषेधज्ञापनायचतानिसङ्गृह्यन्ते उत्कोचादिनाप्राप्तम्पतितान्त्यजादेः प्राप्तमन्यायार्जितङ्कन्याविक्रयादिलब्धन्धनन्निन्द्यम् पित्रर्थम्मेदेहीतियाचनार्जितमपिनिषिद्धम् आढकीकुलित्थमसूरकोद्रवराजसर्षपानिषिद्धाः लाङ्केतिप्रसिद्धाःमर्कट-

काश्चवर्ज्याः शिग्रुकूष्माण्डोभयविधालाबुकरमंर्दार्द्रमरीचपिण्डर्मूलककुसुम्भशणवंशाङ्कुराः दशविधालशुनादिपलाण्डुभेदाःकृत्रिमलवणानिरक्तबिल्वंश्वेतङ्कृष्णंवृन्ताकं गाजरापरपर्यायङ्गृञ्जनम्भोकरसञ्ज्ञः श्लेष्मातकोरक्तनिर्यासाश्चवर्ज्याः सामुद्रसैन्धवेभक्ष्ये प्रत्यक्षंलवणेबुधैः। बिडालोच्छिष्टमाघ्रातंश्राद्धेद्रव्यंविवर्जयेत् १ करीरफलपुष्पाणि विडङ्गमरिचानिच। बीजपूरम्पटोलञ्चश्राद्धेदवापतत्यधः २ कृष्णधान्यानिसर्वाणिवर्जयेच्छ्राद्धकर्मणि। नवर्जयेत्तिलांश्चैवमुद्गमाषांस्तथैवच ३ दातुर्यद्यत्प्रियन्तत्तद्देयन्निन्द्यन्नचेद्धितत्। अजाविमहिषीक्षीरन्तद्विकारांश्चवर्जयेत् ४ वालुकाकीटपाषाणैःकेशैर्यच्चाप्युपद्रुतम्। वस्त्रेणवीजितञ्चान्नंवर्जयेच्छ्राद्धकर्मणि ५ अमेध्यैर्जङ्गमैःस्पृष्टंशुष्कम्पर्युषितञ्चयत्। द्विःपक्वम्परिदग्धञ्चसिद्धभक्षांश्चवर्जयेत् ६ यत्सकृत्पाकेनभक्षणार्हमपिहिङ्गुजीरकादिसंस्कारार्थपुनःपच्यतेतद्द्विःपक्वंवर्ज्यं यत्तुद्विःपाकेनैवभक्षणार्हन्तन्न निषिद्धमितिसिन्धुः यदन्नैकदेशःकेनचित्पूर्वमास्वादितस्तदन्नंश्राद्धेवर्ज्यम् मारीषं 'राजगिरे’ तिप्रसिद्धंशाकन्धान्यञ्चवर्ज्यं वटप्लक्षोदुम्बरकपित्थनीपमातुलिङ्गफलानिनभक्षयेत् क्षीरञ्चलवणैर्मिश्रन्ताम्रेगव्यंसुरासमम्। अस्यापवादः पयोद्धृतसारञ्चपयसासंयुतन्दधि। घृतञ्चैतानिगव्यानिनैवदुष्टानिताम्रके १ पिप्पलीवर्तुलमरीचादेःप्रत्यक्षस्यनिषेधोनत्वन्यद्रव्यम्मिश्रितस्य नारिकेलंविहितप्रतिषिद्धं यच्चपौतिकशाकादिकञ्जीर्णतक्रंसन्धिन्यादिक्षीरमनिर्दशायाःक्षीरम्मृग्यादिक्षीरम्फेनिलतक्रादिकंहस्तदत्तस्नेहलवणादिकञ्चनित्यभोजनेनिषिद्धन्तत्सर्वश्राद्धेपिवर्जयेत् काकृमिजन्तुभिःकेशरोमनखादिभिश्चदूषितंसतिसम्भवेवर्जयेत् असम्भवेतुकेशादिकमुद्धृत्यसम्प्रोक्ष्यहिरण्यस्पर्शकृत्वाभुञ्जीत श्वमार्जारमूषकादिभिरालीढादिकन्त्वापद्यपिवर्ज्यमित्युक्तम् यत्तुमण्डकवटकसक्तुपायसाषुपकृसरादीनांस्नेहसिद्धानाञ्चपर्युषितत्वदोषोनास्तीतिवचनन्तन्नित्यभोजनपरन्नतुश्राद्धपरमितिशिष्टाः यदग्निपक्वंसदेकरात्रिद्विरात्राद्यन्तरितन्तत्पर्युषितमुच्यते कदर्यादीनामन्नन्नित्यभोजनेश्राद्धकर्मणिचनग्राह्यं तेचकदर्यश्चोरोनटोवीणोपजीवीवार्धुषिकोभिशस्तोगणिकाचिकित्सकःक्रुद्धःपुंश्चलीमत्तःक्रूरःशत्रुःपतितोदाम्भिकः पतिपुत्ररहितास्त्रीस्वर्णकारः स्त्रीजितोग्रामयाजकोघातुकःकर्मारस्तन्तुवायःकृतघ्नोवस्त्रक्षालनोपजीवीदारोपजीवीसोमवक्रयीचित्रकर्मागायकइत्यादयस्त्रैवर्णिकाअपिअग्राह्यान्नाः आत्मानन्धर्मकृत्यञ्चपुत्रदारांश्चपीडयेत्। लोभाद्यःपितरौभृत्यान्सकदर्यइतिस्मृतः १ द्वावेवाश्रमिणौभोज्यौब्रह्मचारीगृहीतथा। वानप्रस्थोयतीलिङ्गीनभोज्यान्नाःप्रकीर्तिताः २ षण्मासंयोद्विजोभुङ्क्तेशुद्रस्यान्नंविगर्हितम्। सतुजीवन्भवेच्छूद्रोमृतःश्वाचाभिजायते ३ अन्यानिचद्रव्याणिनिवन्धेषुव-

३ पौतिक 'शेपु' इति॥

हूनिनिषिद्धानितानिविहितोत्तयर्थसिद्धवादप्रसिद्धत्वाच्चनोक्तानि दुर्गन्धफेनिलङ्क्षारम्पङ्किलम्पल्वलोदकम्। नभवेद्यत्रगोतृप्तिर्नक्तंयच्चाप्युपाहृतम् १ नग्राह्यन्तज्जलंश्राद्धेयच्चाभोज्यनिपानजम्। स्नानमाचमनन्दानन्देवतापितृतर्पणम् २ शूद्रोदकैर्नकुर्वीततथामेघाद्विनिःसृतैः। नाहरेदुदकंरात्रौतुलसीङ्गोमयम्मृदम् ३ तुलसीबिल्वजान्हवीजलभिन्नम्पर्युषितञ्जलम्पुष्पञ्चत्यजेत् दौहित्रःकुतुपःकालश्छागःकृष्णाजिनन्तथा। रौप्यं दर्भास्तिलागावःखङ्गपात्रम्पितृप्रियम् १ आरण्याःकृष्णतिलामुख्याः तदभावेग्राम्यागौराःकृष्णाश्च छागसान्निध्यंश्राद्धेतिप्रशस्तं कुक्कुटविड्वराहकाकमार्जारशूद्रषण्ढरजस्वलासान्निध्यमतिनिन्द्यं चाण्डालरजस्वलाखञ्जश्वित्रिन्यूनाङ्गातिरिक्ताङ्गादिभिर्वीक्षितमन्नमभोज्यम् आपदिमृद्भस्महिरण्योदकस्पर्शाद्भोज्यम् पावमानीतरत्समन्दीमन्त्रैर्गायत्र्यादिभिश्चदर्भजलप्रोक्षणेदुष्टान्नशुद्धिः पादुकोपानहौछत्रंरक्वचित्राम्बरन्तथा। रक्तपुष्पञ्चमार्जारंश्राद्धभूमौविवर्जयेत् १ घण्टानादोश्वधत्तूरशङ्खशुक्तिसान्निध्यञ्चवर्ज्यम्॥

11. श्राद्धदिनकृत्यं

अथश्राद्धदिनकृत्यं गोमयादिभिर्भूमिभाण्डशुद्धिः देवताब्रह्मचारियतिशिशूनाम्पिण्डदानपर्यन्तमन्नन्नदेयम् अतिशिशवस्तुगृहान्तरेभोजनीया तिलानवकिरेत्तत्रसर्वतोवन्धयेदजान्। पाकःश्राद्धकर्त्रास्वयमेवकार्यः तदभावेशुद्धपत्न्यातदभावेतुवान्धवैः। सगोत्रैर्वासपिण्डैर्वामित्रैर्वासुगुणान्वितैः १ पुंश्चलीञ्चतथावन्ध्यां विधवाञ्चान्यगोत्रजाम्। वर्जयेच्छ्राद्धपाकार्थममातृपितृवंशजाम् २ नपाकङ्कारयेत्पुत्रीङ्गर्भिणीञ्चापिदुर्मुखीम्। पाकभाण्डानिसौवर्णरौप्यताम्रोद्भवानिच ३ कांस्यानिमृन्मयन्तूक्तन्नव्यमेवमनीषिभिः। पैत्तलंरङ्गजातञ्चविहितन्नोननिन्दितम् ४ नकदाचित्पचेदन्नमयस्थालीपुपैतृकम्। फलशाकादिछेदनार्थभन्नानामायसानांशस्त्राणाम्भाण्डानाञ्चदर्शनमपिपाकादिस्थानेनिषिद्धम् पक्वान्नस्थापनार्थन्तुशस्यन्तेदारुजान्यपि। गृह्याग्नौतुपचेदन्नंश्राद्धीयंलौकिकेपिवा १ यस्मिन्नग्नौपचेदन्नन्तस्मिन्होमोविधीयते। तत्रगृह्याग्नौपाकेविशेषः प्रातर्होमङ्कृत्वातदेकदेशम्महानसेकृत्वापाकङ्कुर्यात् पाकान्तेपाकाग्न्येकदेशङ्गृह्याग्नौसंयोज्यगृह्येऽग्नौकरणवैश्वदेवादिकार्यम् अत्रैवंव्यवस्था कात्यायनादीनाङ्गृह्यौपाकः आश्वलायनानान्तुनैत्यकेपचनाग्नौ अग्नौकरणन्त्वाश्वलायनानांव्यतिषङ्गेणश्राद्धेगृह्याग्निपक्वचरुणागृह्येएव व्यतिषङ्गाभावेपाणिहोमः अन्यशाखीयस्यगृह्याग्नावग्नौकरणं विधुरस्योच्छिन्नाग्निकस्यचपृष्टोदिविविधानादिनाग्निसम्पादनं तच्चपूर्वार्धेउक्तम् भोजनपात्राणितुहेमरौप्यकांस्यजानिवापलाशकम्मलकदलीमधूकपत्रनिर्मितानिवा अथनिमन्त्रणादिश्राद्धाहेभुक्तान्नपरिणामपर्यन्तङ्कर्तुर्विप्राणाञ्चनियमाः स्त्रीसङ्गपुनर्भोजनानृतभाषणाध्यापनद्यूतायासभारोद्वहनहिंसादानप्रतिग्रहचौर्याध्वगमनदिवास्वापकलहादिवर्जनङ्कर्तृभोक्त्रुभयधर्माः स्त्रीसङ्गश्चश्राद्धदिनेत-

त्पूर्वदिनेचऋतुकालेपिवर्ज्यः ताम्बुलक्षुरकर्माभ्यङ्गदन्तधावनवर्जनङ्कर्तृधर्माः भोक्तृविप्राणान्तैलाभ्यङ्गेउद्वर्तनेक्षौरेचविकल्पः कर्तुर्भोक्तुश्चमुख्यवारुणस्नानेनैवाधिकारोनतुगौणस्नानेन श्राद्धकृच्छुक्लवासाःस्यान्मौनीचविजितेन्द्रियः। उपवासम्परान्नञ्च औषधञ्चविवर्जयेत् १ अवस्त्रत्वम्मलवद्वस्त्रत्वङ्कौपीनवत्त्वङ्कच्छहीनत्वमनुत्तरीयत्वङ्कावायवस्त्रत्वमार्द्रवस्त्रत्वन्द्विगुणवस्त्रत्वंरक्तवस्त्रत्वन्दग्धवस्त्रत्वंस्यूतवस्त्रत्वमित्येकादशविधनग्नत्वङ्कर्तृभोक्तृभ्यांवर्ज्यं कर्तुर्ललाटेऊर्ध्वपुण्ड्रादेर्विकल्पः भोक्तुस्तुभवत्येव चन्दनतिलकस्तुपिण्डदानात्प्राक्कर्तुर्वर्ज्यः भोक्तुस्तुभोजनकालात्प्राक्वर्ज्यः सदर्भहस्तेनतिलकोनकार्यः करणेआचमनन्दर्भत्यागश्च कर्त्रानिमन्त्रितविप्रत्यागोनकार्यः प्रमादेनत्यागेयत्नेनविप्रःप्रसादनीयः बुद्धिपूर्वकत्यागेयतिचान्द्रायणम्प्रायश्चित्तम् आमन्त्रितस्तुयोविप्रोभोक्तुमन्यत्रगच्छति। नरकाणांशतङ्गत्वाचाण्डालेष्वभिजायते १ आमन्त्रितस्तुयःश्राद्धेविलम्बङ्कुरुतेद्विजः। देवद्रोहीपितृद्रोहीपच्यतेनरकेषुसः २ स्त्रीसङ्गः पुनर्भोजनञ्चश्राद्धपूर्वरात्रावपिकर्तृभोक्तृभ्यांवर्ज्यं दशकृत्वःपिबेदापोगायत्र्याश्राद्धभुक्द्विजः। सायंसन्ध्यामुपासीतजपेच्चजुहुयादपि १ सूतकेचप्रवासेचअशक्तौश्राद्धभोजने। औपासनादिकंहोमन्नकुर्यात्किन्तुकारयेत् २ निमन्न्त्रितस्तुनश्राद्धेकुर्याद्भार्यादिताडनम्। अपराह्णाख्यम्मुहूर्तत्रयेवनस्पतिच्छेदन्दधिमन्थनंसर्वैर्नकार्यं यदाकर्तुरशतयातत्पुत्रशिष्यादिः प्रतिनिधिःश्राद्धङ्करोति तदायजमानप्रतिनिधिभ्यामुभाभ्याम्पूर्वोक्ताःसर्वेकर्तृनियमाःकार्याः मुक्तकच्छातुयानारीमुक्तकेशीतथैवच। हसतेवदतेऽत्यन्तन्निराशाःपितरोगता : १ सवर्णम्प्रेषयेदाप्तन्द्विजानान्तुनिमन्त्रणे। अभोज्यम्ब्राह्मणस्यान्नंवृषलेनिमन्त्रितम् २ तथैवृषलस्यान्नम्ब्राह्मणेननिमन्त्रितम्। वृषलःशूद्रः।

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬