निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथश्राद्धेब्राह्मणसङ्ख्या वैश्वदेवेसमाः पित्र्येविषमाः तेनद्वैवैश्वदेवे त्रयःपितृपार्वणेइतिपञ्चविप्राः अथवाचत्वारोदैवेपार्वणेतुपित्रादीनामेकैकस्यत्रयस्त्रयइतित्रयोदशविप्राः यद्वापित्रादेरेकैकस्यपञ्चेत्येकोनविंशतिः किंवाएकैकस्यसप्तेतिपञ्चविंशतिः एवन्दर्शादौपार्वणाधिक्येविप्राधिक्यमूह्यं तथाचवैश्वदेवेद्वौचतुरोवोपवेश्यपित्रादिष्वेकैकस्यस्थानेएकन्त्रीन्पञ्चसप्तनववोपवेशयेदितिनिष्कर्षः सत्क्रियान्देशकालौचद्रव्यब्राह्मणसम्पदम्। शौचञ्चविस्तरोहन्तीतिपक्षेअशक्तौवादैवेएकः पितृपार्वणेचैकइतिद्वौविप्रै तदुक्तंश्रीभागवते द्वौदैवेपितृकार्येत्रीनेकैकमुभयत्रवा। भोजयेत्सुसमृद्धोपि श्राद्धेकुर्यान्नविस्तरम् १ देशकालोचितश्रद्धाद्रव्यपात्रार्हणानिच। सम्यग्भवन्तिनैतानिविस्तरात्स्वजनार्पणात् २ इति एतेनद्वैदैएकःपित्र्येइतिविप्रत्रयपक्षोनिर्मूलोवेदितव्यः द्वौदैबेथर्वणौविप्रौप्राङ्मुखावुपवेशयेत्। पित्र्येतूदङ्मुखांस्त्रींश्चऋग्यजुःसामवेदिनः १ अत्यशक्तौपार्वणद्वयेएकोविप्रः यदैकएवविप्रस्तदाविश्वदेवस्थानेशिवलिङ्गंशालग्रामंवासंस्थाप्यसर्वंश्राद्धंसमाचरेत् दैवान्नन्तत्क्षिपेदग्नौदद्याद्वाब्रह्मचारिणे। स्था-
नत्रयेएकोविप्रइतिपक्षःसपिण्डीकरणादन्यत्र सपिण्डीकरणेतुपार्वणेत्रयएवविप्राः वृद्धिश्राद्धेतुदैवेद्वौप्रतिपार्वणन्द्वौद्वावेवमष्टौनिकृष्टपक्षे सम्पदिदैवेचत्वारःप्रतिपार्वणञ्चत्वारइतिषोडशेत्येवन्दैवेपित्र्येचसमाविप्राइतिविशेषः सर्वथाब्राह्मणालाभेकृत्वादर्भमयान्बटून्। प्रेषानुप्रेपसंयुक्तंसर्वश्राद्धम्प्रकल्पयेत् १ अत्रविप्रानुकूल्यरूपदृष्टप्रयोजनाभावेप्यदृष्टार्थन्दक्षिणादेया एवंयतेःश्राद्धोपवेशनेपि साचदक्षिणाकालान्तरेन्यस्मैप्रतिपादनीया अथवाभ्यर्चितंलिङ्गंशालग्राममथापिवा। संस्थाप्यदेवपित्रर्थम्पीठेश्राद्धञ्चरेन्नरः १ पितरस्तस्यतिष्ठन्तिकल्पकोटिशतन्दिवि। निमन्त्रणन्तुविप्राणाम्पूर्वेद्युःसद्यएववा २ कुर्याद्विप्रांश्चनियमाञ्छ्रावयेत्यैकान्बुधः। अक्रोधनैःशौचपरैःसततम्ब्रह्मचारिभिः। भवितव्यम्भवद्भिश्चमयाचश्राद्धकारिणा १ इति।
अथसामान्यतःश्राद्धपरिभाषा निपात्यदक्षिणञ्जानुदेवान्परिचरेत्सदा। पितृृणाम्परिचर्यातुवामजानुनिपातनात् १ प्रदक्षिणन्तुदेवानाम्पितृृणामप्रदक्षिणम्। पितृृणान्द्विगुणाभुग्नादर्भादैवेऋजुत्वगाः २ दैवेतूदङ्मुखःकर्तापित्र्येस्याद्दक्षिणामुखः। सङ्कल्पेक्षणदानेपाद्येआसनेआवाहनेर्घ्यदानेगन्धाद्याच्छादनान्तपञ्चोपचारेन्नदानेपिण्डदानेञ्जनाभ्यञ्जनयोरक्षय्येस्वधावाचनेचसम्बन्धगोत्रनामोच्चारणमावश्यकमन्यत्रकताकृतं सम्बन्धगोत्रनामरूपाणीतिसम्बन्धनामगोत्ररूपाणीतिवोच्चारणेक्रमः तत्रसकारेणतुवक्तव्यङ्गोत्रंसर्वत्रधीमतेतिवाक्यात्काश्यपसगोत्रस्येकाश्यपगोत्रस्येतिवोच्चारः केचिच्छाखाभेदाद्व्यवस्थामाहुः गोत्रस्यत्वपरिज्ञानेकाश्यपङ्गोत्रमुच्यते। शर्मान्तंविप्रनामोक्तंवर्मान्तङ्क्षत्रियस्यतु १ गुप्तान्तञ्चैववैश्यस्यदासान्तंशुद्रजन्मनः। पित्रादिनामाज्ञानेतुतातपितामहप्रपितामहेत्येवम्ब्रूयात् ननामोच्चारयेदित्याश्वलायनः शाखान्तरेतुपितुर्नाम्नःस्थानेपृथिवीपदितिपितामहस्यान्तरिक्षसदितिप्रपितामहस्यदिविषदितिनामोच्चार्यं स्त्रीणान्दान्तन्नामसावित्रीदेत्येवमुच्चार्यं केचिद्देवीशब्दान्तमाहुः अन्येदेवीदापदयोःसमुच्चयमूचुः विभक्तिभिस्तुयत्किञ्चिद्दीयतेपितृकर्मणि। तत्सर्वंसफलं ज्ञेयंविपरीतन्निरर्थकम् १ पष्ठीविभक्त्यासङ्कल्पःक्षणश्चाक्षय्यकर्मच। षष्ठ्यावास्याच्चतुर्थ्यावासनदानन्द्विजातये २ द्वितीययावाहनंस्याद्विभक्तिस्तुचतुर्थिका ३ अन्नदानेपिण्डपूजास्वधास्वस्तीतिवाचने। पिण्डदानेसम्बुद्धिर्येचत्वेयादितःपुरा ४ ततःपरञ्चतुर्थीचेत्युभयंसर्वसम्मतम्। शेषाणिसर्वकर्माणिसम्बुध्यन्तेयथायथम् ५ इदन्तेवाइदंवोवाप्रयुज्यैवसमाचरेत्। सव्येनदैवङ्कर्मस्यादपसव्येनपैतृकम् ६ विप्रप्रदक्षिणाविप्रस्वागतं चार्घ्यदानकम्। सूक्तस्तोत्रजपोन्नस्यपात्रेषुपरिवेषणम् ७ आह्वानमन्नस्याघ्रणन्तथा चस्वस्तिवाचनम्। ताम्बूलदानमारभ्यासमाप्तेरितिपैतृकम् ८ प्रदक्षिणायेतदुक्तसव्येनैवसमाचरेत्। देवार्चादक्षिणादिःस्यात्पादजान्वंसमूर्धसु ९ शिरोसजानुपादेषु
वामाङ्गादिषुपैतृके। अक्षय्यासनार्ध्यवर्ज्यंस्वधाकारेणपितृभ्यःसर्वन्दानं देवेभ्यःस्वाहापदेन दैवतीर्थेनदैवन्तत्पितृतीर्थेनपैतृकम्॥
अथाचमनानि श्राद्धारम्भेद्विराचमनंविप्रपादक्षालनान्तेस्वपादक्षालनपूर्वकं द्विराचमनन्देवार्चनान्तेपित्रर्चनान्तेचैकैकमाचमनमाघ्राणान्तेएकंविकिरदानान्तेद्विरेकंवाश्राद्धान्तेस्वपादक्षालनपूर्वकन्द्विराचमनमिति अन्येभस्ममर्यादान्तेकरशुद्ध्यन्तेउच्छिष्टचालनान्तेचाप्येकैकमाहुः अथभोक्तुःपादशौचान्तेद्विराचमनम्पाणिहोमान्तेएकम्भोजनान्तेद्विरिति॥
अथदर्भाः आचान्तःप्राक्कुशांस्यक्त्वापाणावन्यांश्चधारयेत्। तथाच श्राद्धारम्भेधृतान्दर्भान्पाद्यान्तेचविसर्जयेत्। ततोदेवार्चनान्तेपित्रर्चनान्तेपिण्डशेषाघ्राणान्तेविकिरदानान्तेश्राद्धान्तेचपूर्वधृतदर्भास्त्यजेत् श्राद्धसागरादिप्रयोगेतुपित्रर्चनान्तेदर्भत्यागोनदृश्यते तेनक्वचिदाचमनेपदर्भत्यागोनेतिभाति॥
अथोहविचारः यत्रवहुवचनान्तःपितृशब्दस्तत्रपितृशब्दस्यसर्वपितृवाचित्वादूहोन यथार्घ्यपात्रेपितृनिमान्प्रीणयेत्यत्रमात्रादिश्राद्धेमातृनितिनवदेत् तत्रापिशुधनमन्त्रेषुशुन्धन्ताम्पितरःशुन्धन्ताम्पितामहाइत्यादिशुन्धन्ताम्मातरःइयादिचोहएव बहुवचनन्तुनोह्यते प्रथममन्त्रेएवपूज्यत्वार्थकत्वात् ऋचन्नोहेदितिनिषेधादृङ्मन्त्रेषुनोहः पिण्डदानेयेचत्वामत्रानुतेभ्यश्चेत्यत्रमातृश्राद्धेयाश्चत्वामत्रानुताभ्यश्चेतिनवदेत् स्त्रीणांस्त्रियःपुरुषाश्चानुगाइति पुमान्स्त्रियेतिपुल्लिङ्गशेषादितिवृत्तिकृत् अन्येतुयाश्चेत्याद्यूहमाहुः मात्रादिद्वित्वेपिण्डदानेएतद्वामस्मन्मातरौयज्ञदाश्रीदेयेचयुवामत्रान्वित्येकम्पिण्डन्दत्त्वास्मन्मातृभ्यां॰ अयम्पिं॰इत्यादिअभ्यञ्जनेस्न्मातरौ॰अभ्यञ्जाथां॰ अञ्जनेअञ्जाथाम् एवम्पितामहीप्रपितामहीद्वित्वेप्यूहः अथवहुत्वे एतद्बोस्मन्मातरोयज्ञदेश्रीदेरुद्रदेयथानामगोत्रायेचयुष्मानत्रानुइत्येकपिण्डदानादि अभ्यञ्जनेभ्यङ्ध्वम् अञ्जनेअङ्ध्वमित्यादि एकनामत्वेएकमेवनामद्विवचनान्तम्बहुवचनान्तंवावदेत् एवमर्घ्यदानकालेप्यस्मन्मातरावित्याद्यूहेनसंवोध्यइदंवामर्घ्यमिदंवोऽर्ध्यमित्यूहोबोद्धव्यः तथाचायन्तुनःपितरःसो॰ तिलोसिमोमदेवत्यो॰ उशन्तस्त्वानि॰ पिण्डानुमन्त्रणदशादानोपस्थानप्रवाहणप्राशनादिमन्त्रेषुबहुवचनान्तपितृपदयुक्तत्वादिहेतोर्नोहइतिसिद्धं नाप्रोक्षितंस्पृशेद्वस्तुनवदेन्मानुषीङ्गिरम्। नचोद्रीक्षेतभञ्जानन्नचैवाश्रूणिपातयेत् १ वैवेपित्र्येचसर्वत्रजपहोमादिकर्मसु। मौनङ्कुर्यात्प्रयत्नेनसकलम्फलमाप्नुयात् २ यदि मौनस्यलोपःस्याज्जपहोमार्चनादिषु। व्याहरेद्वैष्णवम्मन्त्रंस्मरेद्वाविष्णुमव्ययम् ३ यस्य स्मृत्वाचनामोक्तयातपोयज्ञक्रियादिषु। न्यूनंसम्पूर्णतांयातिसद्योवन्देतमच्युतम् ४ आदिमध्यावसानेषुश्राद्धस्येदमुदाहरेत्।
अथसङ्क्षेपतआश्वलायनादीनाम्प्रयोगक्रमः सव्येनापसव्येनवादेशकालौसङ्की-
र्त्यापसव्येनतत्तच्छ्राद्धार्हपितृणांषष्ठीविभक्त्याएतेषाममुकश्राद्धंसदैवं सपिण्डपार्वणविधिनैकोद्दिष्टेनवान्नेनामेनवाहिरण्येनवाश्वःसद्योवाकरिष्यइतिसङ्कल्पोयथासम्भवङ्कार्यः सर्वत्रकुरुष्वेसादियथोचितम्ब्राह्मणैःप्रतिवचनन्देयमेव ततोदैवघर्मेणविप्रस्यदक्षिणजानुंस्पृष्ट्वामुकपितृणाममुकश्राद्धेअमुकविश्वेदेवार्थन्त्वयाक्षणःक्रियतामितिक्षणन्दद्यात् ओन्तथेतिविप्रोवदेत् कर्ताप्राप्नोतुभवानिति विप्रःप्राप्नुवानीति एवम्पैतृधर्मेणवामजानुस्पर्शेनामुकश्राद्धेमुकस्यस्थानेत्वयाक्षणइत्यादिपूर्वंवत् त्रयस्थानेएकविप्रत्वेपितृपितामहमपितामहानांस्थानेइत्यादि अक्रोधनैरित्यादिप्रार्थना अत्रसर्वत्रदेवपूर्वत्वं क्वचित्पितृपूर्वकत्वंवक्ष्यते इदंसङ्कल्पक्षणदानादिपूर्वेद्युःसद्योवाकार्यम् ततःकुन्तुपेस्नातःस्नातान्धौतपादान्विप्रान्सन्निधापयेत् ततःसव्येनतिलोदकयवोदकेआचारात्कार्ये ततःसव्येनशुद्ध्यर्थम्प्रायश्चित्तार्थसूतजपः प्रदक्षिणाच समस्तसम्पदितिनमस्कारः अपसव्येनाचारादधिकारवाचनं ततआचमनप्राणायामौसव्येनकृत्वाअपसव्येनद्वितीयःसङ्कल्पः केचित्सद्यःकरणपक्षेद्वितीयसङ्कल्पनेच्छन्ति ततस्तिष्ठन्सव्येनैवदैवेपित्र्येचभवतांस्वागतमितिप्रतिविप्रम्प्रश्नः पूर्ववद्द्वितीयङ्क्षणदानम् अत्रवह्वृचानाङ्गृह्याग्निमतान्दर्शश्राद्धान्वष्टकापूर्वेद्युःश्राद्धेषुर्पिण्डपितृयज्ञव्यतिषङ्गेणश्राद्धप्रयोगोनान्येषान्नापिश्राद्धान्तरेषु सचद्वितीयक्षणदानान्तश्राद्धतन्त्रङ्कृत्वापरिसमूहनादीध्माधानान्तपिण्डपितृयज्ञतन्त्रान्तेपादक्षालनादिभस्ममर्यादान्तम् अग्नावग्नौकरणङ्कृत्वापरिवेषणादिसम्पन्नवचनान्तेपिण्डदानादिपात्रोत्सर्गपर्यन्न्तङ्कृत्वाविकिरादिश्राद्धशेषंसमापनीयमित्येवंरूपः एवंहिरण्यकेशीयादीनामपिप्रथमसङ्कल्पोत्तरमग्न्युपसमाधानान्वाधानाद्याज्यसंस्कारान्तेपाद्यादिपूजान्तेतत्तन्मन्त्रोहयुतःसविस्तरोग्नौकरणहोमोज्ञेयः
अथपाद्यम् अङ्गणेश्राद्धदेशद्वारेवाचतुरस्रन्द्विहस्तम्प्रादेशमात्रंवोदक्प्लवन्देवमण्डलङ्कृत्वाततोदक्षिणेषडङ्गुलंसक्त्वादक्षिणाप्लवञ्चतुर्हस्तंवितस्तिमात्रंवापितृमण्डलंवर्तुलंसव्यापसव्यप्रादक्षिण्याप्रादक्षिण्यादिदैवपैतृधर्मेणगोमूत्रगोमयाभ्याङ्कार्यं यथायथन्दर्भयवतिलगन्धपुष्पैस्तदर्चनम् मण्ण्डलसमीपेपीठेउपविष्टस्यैवप्राङ्मुखस्यविप्रस्यपादयोरुदङ्मुखःप्रत्यङ्मुखोवाकर्तामुकसञ्ज्ञकाविश्वेदेवाइदंवःपाद्यंस्वाहानमइतियवगन्धपुष्पयुतजलमञ्जलिनाप्रक्षिप्यर्शनोदेवीरितिशुद्धोदकेनपादावुपर्येवप्रक्षालयेत् नाधोभागेनापिसग्रन्थिकपवित्रहस्तेन पितृमण्डलेउदङ्मुखस्योपविष्टस्यपादयोर्दक्षिणामुखस्तिलगन्धादिजलमञ्जलिनापितृतीर्थेन पितरमुकनामरूपगोत्रेदन्तेपाद्यंस्वधानमइतित्रयस्थानेएकविप्रत्वेपितृपितामहप्रपितामहाइदंवःपाद्यमितिबहुवचनान्तेनप्रक्षिप्यशन्नोदेवीरित्यादिपूर्ववत् एवमग्रेपिपित्रादित्रयेब्राह्मणत्रयपक्षेइदन्तेइत्येकविप्रपक्षेइदंवइतिवचनोहोज्ञेयः एवम्मातामहादिपार्वणेपियो-
ध्यम् अत्रपाद्यात्पूर्वपदार्घ्यःपाद्योत्तरञ्चगन्धपुष्पाक्षतैःपादादिमूर्धान्तमर्चनपूर्वकन्दैवे एषवःपादार्घ्यइतिदत्त्वापित्र्येपितिलैर्मूर्धाद्यर्चनपूर्वकम्पादार्घ्यदानमुक्तन्तत्कायायनादीनामेवाचारात्तेषामेव बह्नृचानान्तुनैषआचारः ततःपाद्यशेषङ्गन्धयवतिलादिसव्यापसव्याभ्याम्मण्डलयोस्त्यक्त्वास्वपादक्षालनम्पवित्रत्यागञ्चकृत्वान्यपवित्रेधृत्वादेवमण्डलोत्तरेस्वयंविप्राश्चद्विराचम्यश्राद्धदेशेगच्छेयुः पादक्षालनोदकाचमनोदकयोःसंसर्गोनकार्यः अपसव्येनामुकश्राद्धसिद्धिरस्त्वितिवदेत्तैःप्रत्युक्तःनिरङ्गुष्ठंविप्रदक्षिणहस्तन्धृत्वासव्यापसव्याभ्याम्भूर्भुवःस्वःसमाध्वमितिसदर्भेषुपीठेष्वविलम्वेनोपवेशयेत् तत्रदैवेप्राङ्मुखोविप्रःपित्र्येतूदङ्मुखः असम्भवेदक्षिणान्यदिङ्मुखः अथआसनानि हैमंराजतं ताम्रंवादुकूलङ्कम्बलंवादारुजन्तृणमयम्पर्णमयंवासनम्प्रशस्तम्
दारुजेषुश्रीपर्णीजम्बूकदम्बाम्रबकुलशमी श्लेष्मातकशालवृक्षजन्यान्यासनानिशस्तानि अयःशङ्कमयम्पीठम्प्रदेयन्नोपवेशने। अग्निदग्धान्यायसानिभग्नानिचविवर्जयेत्? प्राक्संस्थादक्षिणासंस्थाभोक्तृपङ्क्तिस्तुपैतृके। तत्रदेवासनेप्रागग्रौद्वौदर्भै पित्र्येदक्षिणायैकैकन्दर्भस्थापयेत् घृतैस्तिलादितैलैर्वास्थापयेच्चप्रतिद्विजम्। दीपंसव्यापसव्याभ्यान्दीपमेकन्तुसव्यतः १ ब्राह्मणाश्चेतःप्रभृत्याश्राद्धसमाप्तेर्मैनिनःपवित्रहस्ताउच्छिष्टोच्छिष्टस्पर्शंवजेयन्तोवर्त्तेरन् अत्रयथालक्षणअतिथिरागतश्चेत्सव्येनविप्रपङ्क्तौविष्णुद्देशेनपूजयेत् सव्येनापवित्रःपवित्रोवेतिमन्त्रम्पठित्वा वैष्णव्यैनमः काश्यध्यै नमः क्षमायै॰ इतिभूमिन्नत्वा मेदिनीलोकमातात्वमित्यादिश्लोकैःस्तुत्वाच श्राद्धभूमिङ्गयान्ध्यात्वाध्यात्वादेवङ्गदाधरम्। प्राचीनावीति तद्विष्णोः परमम्पदं॰ तद्विप्रासो॰गायत्रीञ्चजपित्वासव्येनप्राणायामतिथ्यादिसङ्कीर्तनान्तेऽपसव्येनामुकपितृणामुपक्रान्तममुकश्राद्धङ्करिष्येइतिसंल्प्यात्रादौमध्येन्तेचदेवताभ्यश्चः पितृभ्यश्च॰ अमूर्तानाञ्च॰ चतुर्भिच॰ यस्यस्मृतिचत्रिःपठेत् अथदक्षिणेवामेवाकुक्षौतिलैःसहकुशत्रयम्परिहितवस्त्राञ्चलबद्धङ्कृत्वाकटिसंलग्नवस्त्रबहिर्भागेनसंवेष्ट्यरक्षणाख्योनीवीबन्धोनिहन्मिसर्वं यदमेध्यवद्भवेदितिश्लोकमन्त्रेणकार्यः सर्वतश्चापसव्येनापहतेत्यप्रदक्षिणम्। तिलान्क्षित्वोदींरतेतिसव्येनप्रोक्षणंस्मृतम् १ तिलारक्षन्तुमन्त्रेणद्वारेकुशतिलान्क्षिपेत्। तरत्समन्दीसूक्तेनपावमानीभिरेवच २ अभिमन्त्र्यजलन्तेनपाकादिप्रोक्षयेत्सुधीः। यद्वातद्विष्णोर्मन्त्रेणगायत्र्यावाभिमन्त्रितम् ३ यद्देवाइतिमन्त्राणान्त्रयेणैवान्यशाखिनः। वाचंयेस्पाकपूतत्वम्पुष्पाद्यंसर्वमुक्षयेत् ४ नाप्रोक्षितंस्पृशेच्छ्राद्धकालेसेतञ्जपेत्ततः। पदार्थयोग्यतांवाचयित्वादेवार्चनञ्चरेत् ५ तत्रप्रत्युपचारन्दैवेपित्र्येचाद्यन्तयोरपोदद्यात् देवद्विजसन्निधाबुदमङ्मुखउपविश्यतदक्षिणकरमुत्तानंवामकरेणधृत्वादक्षिणेनसयवन्दर्भद्वयममुकेषांविश्वेषान्देवानाम्भूर्भुवःस्वरिदमासनङ्खाहेतिहस्तेजलमासिच्यदक्षिणभागेआसने क्षिपेभहस्तेदर्भदानम् आसनेष्वासनन्दद्यानतुपाणौकदाचन। पितृकर्मणिवामेच दैवेद-
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा