🕉️ 24 November 2026, Tuesday · 08:08:30 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← धर्मसिन्धु — परिच्छेद-सूची

📖 धर्मसिन्धु · तृतीय परिच्छेद (उत्तरार्ध) — श्राद्ध, आशौच, अन्त्येष्टि, संन्यास · पृष्ठ 63/81

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

दैवेअर्ध्यकल्पना

द्यात्तुदक्षिणे १ विप्रोधर्मोसिविशिराजाप्रतिष्ठितइतिमन्त्रेणगृहीत्वास्वासनमितिवदेत् कर्तासनंस्पृशन्नपोदत्त्वास्यतामितिविप्रोधर्मोसीतिवदेत् अपोदत्वादैवेक्षणः क्रियतामितिनिरङ्गुष्टङ्करङ्गृह्णीयादोन्तथेत्यादिप्राग्वत् इदन्तृतीयनिमन्त्रणम् अथार्घ्यकल्पना तत्रपात्राणिहैमंरौप्यन्ताम्रमयंवादारुजंवापलाशादिपर्णमयंवाकांस्यंवाशङ्खशुक्तिजंवाखङ्गपात्रंवार्घ्यपात्रम्प्रशस्तम् अत्रविप्रैाकत्वद्वित्वचतुष्टयत्वादावपिदैवेर्घ्यपात्रद्वयमेव यत्तुदैवेद्वेर्घ्यपात्रेपित्र्येत्रीण्युभयत्रैकैकंवेत्येकपात्रत्वपक्षान्तरन्तदशक्तिपरम् एवं पात्रद्वयम्प्रोक्षितायाम्भुविप्रागग्रकुशेषुन्युब्जमुत्तानंवासाद्यप्रोक्ष्यन्युब्जपक्षेउत्तानीकृत्यतयोर्द्विकुशेद्वेद्वेपवित्रेनिधायशन्नोदेवीरितिमन्त्रावृत्त्याऽपआसिच्यवोसीतिमन्त्रेणावृत्त्या यवानोप्यतूष्णीङ्गन्धपुष्पाणिक्षिपेत् केचिद्गन्धद्वाराम्ओषधीः प्रतिमोदध्वमित्यृग्भ्याङ्गन्धपुष्पाणिक्षिपन्ति देवार्घ्यपात्रेसम्पन्नेइत्युक्त्वासुसम्पन्ने इति प्रत्युक्तोवामकरं विप्रदक्षिणजानुनिन्यस्यामुकविश्वान्देवान्भवत्स्वावाहयिष्ये इति पृष्ट्वावाहयेत्यनुज्ञातोविश्वेदेवासआगतेत्यृचाप्रतिविप्रन्दक्षिणपादादियुग्मक्रमेणजान्वंसमूर्धान्तंयवान्विकिरेत् विश्वेदेवाः शृणुतेत्यृचोपस्थायभूमौशिष्टान्यवान्विकिरेत हिरण्यकेशीयादयस्त्वर्घ्यदानगन्धादिपूजोत्तरमग्नौकरणकालेयेदेवासः इत्यायातपितर इति मन्त्राभ्यामग्निदक्षिणतोदेवपित्रावाहनं कुर्वन्ति कातीयैस्त्वर्घ्यपात्रासादनात्प्रागेवदेवपित्रावाहनङ्कार्यं तथैव कात्यायनसूत्रात् ततोर्घ्यपात्रसम्पत्तिंवाचयित्वाद्विजोत्तमान्। तदग्रेचार्घ्यपात्रेतु स्वाहार्घ्यमितिविन्यसेत् १ अपोदत्वाविप्रहस्तेदद्यादर्घ्यपवित्रके। यादिव्या इति मन्त्रेणहस्तेष्वर्घ्यंविनिक्षिपेत् २ विश्वेदेवाइदंवोर्घ्यंस्वाहानमइतीरयन्। प्रतिविप्रंयादिब्येत्यावृत्तिः केचित्तुयादिव्याइत्यनेनदत्तार्घ्यानुमन्त्रणमाहुः मयूखेकातीयप्रयोगेविप्रहस्तेर्घ्यपवित्रदानान्ते आवाहनवदङ्गेष्वर्चनं कृत्वार्घ्यदानमित्युक्तम् एकविप्रत्वेएकस्यैवहस्तेद्विरर्घ्यदानं विप्रचतुष्टयपक्षेएकैकम्पात्रंविभज्यद्वयोर्द्वयोर्देयं कूर्चस्तुतत्तत्पात्रस्थएव क्वचित्क्षीरदधिघृततलतण्डुलसर्षपकुशाग्रपुष्पेतिद्रव्याष्टकमर्घ्यपात्रेप्रक्षिप्यमित्युक्तम् आद्यन्तयोरपोयच्छन्गन्धाद्यैरर्चनं चरेत्।

दैवेगन्धाद्यर्चनम्

अमुकविश्वेदेवाअयंवोगन्धः स्वाहानम् इति करेणैवविप्रहस्तेष्वेवद्विर्द्विर्दानम् एवं सर्वत्रदैवेस्वाहानम् इत्यन्तमुच्चार्योपचारदानं चन्दनागरुकर्पूरकुङ्कुमानिप्रदापयेत्। गन्धद्वारेन्धमायनेतेचपुष्पकम् १ धूरसीत्यमुनाधूपमुद्दीप्यस्वेतिदीपकम्। युवं वस्त्राणि मन्त्रेण वस्त्रं दद्यात्प्रयत्नतः २ आसनेस्वासनम्ब्रूयादर्घ्येऽस्त्वर्ध्यन्द्विजोत्तमः। सुगन्धश्चसुपुष्पाणिसुमाल्यानिसुधूपकः ३ सुज्योतिश्चैवदीपश्चस्वाच्छादनमितिक्रमः। कर्त्ता स्कन्धभृतोत्तरीयोविगतपवित्रकरो विप्रहस्तदत्तगन्धैर्विप्रभालाद्यङ्गेषुलिम्पेत् विप्रभालेवर्तुलपुण्डून्त्रिपुण्ड्रंवानकुर्यात् अत्रविप्राणां कस्तूरीविकल्पिता आग्रनेते इति औषधीः प्रतिमोदध्वमितिबागन्धदानवद्धस्तेष्वेवेदंवः पुष्पमिति पुष्पदानकार्यं तत्रविहि-

विहितपुष्पाणि

तपुष्पाणि आगस्तम्भृङ्गराजं च तुलसीकमलं तथा। चम्पकं तिलपुष्पं चदूर्वाश्च पितृबल्लभाः १ विहिताप्रतिषिद्धाचतुलसीपिण्डपूजने। सुकुमारैः किसलयैर्यवदूर्वाङ्कुरैरपि २ जलोद्भवैश्च कुसुमैर्मल्लिकाचूतपुष्पकैः। अतिमुक्तैश्चतगरैः सम्पूज्याः पितरः सदा ३ जातीपुष्पैर्विप्रपूजां कुर्यात्पिण्डार्चनन्तुन।

वर्ज्यपुष्पाणि

अथवर्ग्यपुष्पाणिकरवीरञ्चधत्तूरम्बिल्वपत्रं च केतकीम्। बकुलं कुन्दपुष्पं च किंशुकं च कुरण्टिकाम् १ सर्वाणि रक्तपुष्पाणि वर्जयेच्छ्राद्धकर्मणि। जलोद्भवानिदेयानिरक्तान्यपिविशेषतः २ अथ धूपः धूपस्तुगुग्गुलुर्देयस्तथा चन्दनसारजः।

धूपदीपादि

अगरुश्चसकर्पूरोघृतमध्वादिसंयुतः १ येतुप्राण्यङ्गजाधूपाहस्तवाताहताश्रये। नतेश्राद्धेनियोक्तव्या येचकेचोग्रगन्धयः २ घृतन्नकेवलन्दद्याद्दुष्टं वा तृणगुग्गुलुम्।पाददेशेऽयंवोधूपइतिदानम् अथदीपः घृतेनदीपोदातव्यस्तिलतैलेनवापुनः। वसामेदादि दीपोवर्ज्यः इदं वोज्योतिरितिवायं वोदीपप्रकाशः इति वामुखसमीपेदीपः कौशेयं कार्पासं वा वस्त्रविहितं कृष्णं मलिनमुपभुक्तं छिद्रितं निर्दशं रजकधौतं च निषिद्धं यज्ञोपवीतं दातव्यं वस्त्राम्भावेविजानता। निष्क्रयो वा यथाशक्तिवस्त्रालाभेप्रदीयते १ पितृृन्न्सत्कृत्यवासोभिर्दद्याद्यज्ञोपवीतकम्। यज्ञोपवीतदानेन विनाश्राद्धं तु निष्फलम् २ यज्ञोपवीतं यति स्त्री शूद्रश्राद्धेष्वपि ज्ञेयम्। अथान्यान्यपिदेयानि धातुमयानि धूपदीपपात्राणि कमण्डलुं ताम्रमयं काष्ठजं वा पिमृन्मयम्।

अन्यान्यपिदेयानि

नारिकेलमयंवापिश्राद्धेदद्यात्प्रयत्नतः १ छत्रोपानदासनशयनदर्पणः च अमरव्यजनपादुका केशप्रसाधनी पटवासादि सुगन्धचूर्णाङ्गारधानिकायष्टिकम्बलाञ्जनशलाकाश्च देयाः अलङ्काराश्च दातव्या यथाशक्तिहिरण्मयाः। केयूरहारकटकमुद्रिकाकुण्डलादयः १ स्त्रीभ्यो योषिदलङ्कारादेयाः श्राद्धेषु योषिताम्। मञ्जीरमेखलादामकर्णिकाकङ्कणादयः २ सौवर्णंराजतं कांस्यं दद्याद्भोजनभाजनम्। कर्पूरादेश्च भाण्डानि ताम्बूलायतनं तथा ३ स्वयमन्येन वा बन्दीकृतानां केनाप्युपायेन मोचने पितृणां ब्रह्मपदम् इत्थञ्चोक्तवचनादाच्छादन दानान्ते पृथग्यज्ञोपवीतं दत्त्वा शक्तिसत्वेछत्रालङ्कारादिकं दत्त्वा तत्कालैस्पर्शायोग्यानां सङ्कल्पं कृत्वा पूजनं पूर्णमस्तु सङ्कल्पसिद्धिरस्त्वित्युक्त्वा प्रत्युक्तो मन्त्रहीनं क्रियाहीनं सम्पद्धीनं द्विजोत्तमाः। श्राद्धंसम्पूर्णतांयातुप्रसादाद्भवताम्मम १.यस्यस्मृत्या देवताभ्य इति जपेत्।

काण्डानुसम्मयपदार्थानुसमयविचारः

एव मासनादि सर्वपूजाकाण्डं दैवं समाप्य पैतृङ्कमासनप्रभृतिपूजाकाण्डम् आरभेदितिकाण्डानु समयक्रमः एव माधवसम्मतः कातीयास्त्वासनक्षणावाहनार्ध्यपर्यन्तं पाद्यान्तप्रयोगवत्पदार्थानुसमयक्रमेणैवदैवेपित्र्ये च कृत्वा गन्धादिपूजामेवकाण्डानु समयेन कुर्वन्ति एकं पदार्थेदैवपित्र्यादिषु सर्वत्रानुष्ठायतेनैवक्रमेण द्वितीयादि पदार्थाअनुष्ठेयाइत्ययम्पदार्थानुसमयः एकत्रैव सर्वपदार्थान्समाप्यान्यत्रसर्वपदार्थानुष्ठानमितिकाण्डानुसमयः अथान्यपवित्रेधू-

पित्रासनादि

त्वापित्रर्चनं सङ्कल्प्यासनाद्याच्छादनान्त पूजावैश्वदेवोक्तरीत्यैव पितृधर्मेणकार्या विशेषस्तूच्यते द्विगुणभुग्नं कुशत्रयं विप्रवामेक्षिपेत् पार्वणस्थाने विप्रत्रयपक्षे पितुर्यथानामगोत्रस्येदमासनमित्यादि पृथगुच्चारः एकविप्रत्वे पितृपितामहः प्रपितामहानामिदमासनमित्युच्चारः एवमग्रिमोपचारेष्वप्यूह्यं शेषं प्राग्वत् ततस्तृतीयनिमन्त्रणमपिप्राग्वद्धस्तधारणपूर्वकं कार्यम् अथार्घ्यासादनम्

पित्रर्घ्यकल्पना

द्विजाग्रेदक्षिणाग्रांस्त्रींस्त्रीन्दर्भानास्तीर्यतेष्वाग्नेयीसंस्थानिप्रतिपार्वरणं पात्राणि त्रीणि त्रीण्येवासाद्यपितृपात्रपश्चिमेमातामहादिपार्वणस्य प्रतिपार्वणमेक विप्रत्वे नवविप्रत्वादि पक्षे पित्रीण्येव पात्राणि एकविप्रत्वेतद्धस्ते एवार्घ्यत्रयं नवविप्रत्वादि पक्षे एकैकं पात्रं विभज्य त्रिषु त्रिषु देयम् प्रतिपात्रोपरि दक्षिणाग्राद्विगुणाः साग्रानिरग्रावात्रयस्त्रयः कुशाः पितृतीर्थेन पात्रेषु जलमापूर्यशन्नोदेवीरिति सर्वपात्रेषु सकृदनुमन्त्रणमाश्वलायनानां तद्भिन्नैः कातीयादिभिः शन्नोदेवीरितिमन्त्रेण प्रतिपात्रं मन्त्रावृत्त्याजलमापूर्य हिरण्यकेशीयास्तुशन्नोदेवीरिति मन्त्रन्नेच्छन्ति सर्वमतेतिलोसीतिमन्त्रावृत्त्याप्रतिपात्रं तिलावापः अत्र पितृशब्दस्यानूहः इत्युक्तं गन्धादिप्रक्षेपः प्राग्वत् ततः पित्रर्घ्यपात्रं सम्पन्नमित्यादि यथालिङ्गं सम्पत्तिंवाचयित्वापोदत्त्वा दक्षिणामुखस्तिष्ठन्सव्यङ्करं कुशतिलयुतं विप्रवामजानुनिन्यस्य पितृपितामहादीन्द्वितीयान्तनुच्चार्य भवत्सु आवाहयिष्ये इति पकिमूर्धन्यमेकं विप्रं पृच्छेत् सर्वत्रपङ्क्तिमूर्धन्यम्प्रत्येवप्रश्नः आवाहयेत्यनुज्ञातउशन्तस्त्वेतिमन्त्रावृत्त्यामुकममुकनामगोत्ररूपमावाहयामीति प्रति विप्रं मूर्धादिपादान्तमंसादियुग्माङ्गेषु तिलविकिरणेनावाह्यसर्वविशावाहनान्ते आयन्तुनः पितर इति सकृदुपतिष्ठेत् अत्रकातीयैर्नमोवः पितर इत्यादिइहसन्तः स्यामेत्यन्तेनार्चनमुक्तम् आवाहनेसव्यापसव्ययोर्विकल्पः हस्तशिष्टतिलान्विशाग्रेभूमाविकीर्य पित्रर्घ्यपात्रसम्पत्तिरस्त्वित्युक्त्वाप्रत्युक्तःसव्यङ्कृत्वाऽधःसदर्भैः सहार्घ्यपात्रमेकैकं पाणिभ्यामुद्धृत्य विप्राग्रेस्वधार्घ्या इति मन्त्रावृत्त्यास्थापयेत् एकविप्रत्वे एकाग्रे एव पात्रत्रयं मन्त्रावृत्त्या नवविप्रत्वे पितृविप्रत्रयमुख्याग्रे पात्रन्यासोमन्त्रेण एवं पितामहादिपुमुख्याग्रेएव एवं चत्रिरेव स्वधार्घ्या इति मन्त्रोच्चारः प्रतिपार्वणे अथर्ववेदिनां प्रपितामहादि पित्रन्तं प्रातिलोम्येन सर्वः प्रयोगः ततः सन्त्वर्घ्या इति प्रत्युक्तोऽपोदत्त्वा पात्रस्थं पवित्रं विप्रहस्तेषु दत्त्वा प्रथमपात्रोदकं सशेषं खड्गपात्रे पात्रान्तरे वा गृहीत्वा पितरिदं ते अर्घ्यं पितामहेदं ते अर्घ्यं मित्यादि यथालिङ्गं प्रत्येकमर्घ्यं देयम् पित्रादि त्रयाणामेक विप्रत्वे त्रिभिः पात्रैरेकस्यैवहस्तेर्घ्यं देयं षण्णामेक विप्रत्वे षट्पात्राण्येक हस्ते पितुः स्थाने विप्रत्रयादिपक्षे एकार्घ्यं विभज्यतेषु देयम् अर्घ्यान्तेजलदानं पितरिदं ते अर्ध्यमित्यर्घ्यमन्त्रश्च प्रतिविप्रमावर्तते एवं पितामहादि विप्रेष्वपि एवमर्घ्यं दत्वा विप्रहस्तात्स्रवन्तीरपोयादिव्या इति मन्त्रेण प्रति विप्रमनुमन्त्रयेदिति बह्वृचः अन्यशाखिनां तु यादिव्या इति मन्त्रेणार्घ्यदानम् अर्घ्यदानान्ते प्रतिविप्रमपोदानं तथाचैकविप्रत्वेनुमन्त्रण-

संस्रावमुखाञ्जनादिविचारः

मपोदानं चान्तेसकृदेव विप्रभेदेत्वावर्तते अर्घ्यदानेनामगोत्राद्युच्चारोनक्रियते श्राद्धसागरकारैस्तुकार्य इति युक्तं भातीत्युक्तम् अथ शेषजलयुतप्रथमार्घ्यपात्रेपात्रद्वयस्थ शेषोदकमेकीकृत्यतेन जलेन मुखाञ्जनं कार्यम् आयुः कामेननेत्रसेचनं कार्यं संस्रवान्त्समवनीयेत्याद्याश्वलायनसूत्रात् केचिद्विप्रहस्तगलिताम्बुसंस्रावस्तस्यैकीकरणमाहुः दर्शादौमातामहपात्रोदकेतत्पात्रद्वयोदकंसमवनीयमातामहपात्रोदकं पितृपात्रस्थसंस्रावेसन्नयेत मातृपार्वणभेदेमातामहपात्रसमवनीतोदकं मातृपात्रस्थसमवनीतोदकेतदुदकं पितृपात्रस्थैकीकृतोदक इति तत्संस्रावपात्रं दैविकविप्रादुत्तरतोरत्निमात्रेप्रोक्षितेदर्भेषुन्युब्जं सकूर्चम्पितृभ्यः स्थानमसीत्यासादयेत् युद्वाप्रथमपात्रमुत्तानं संस्रावोदकसहितं मन्तेणासाद्यतृतीयपात्रेण सकूर्चपवित्रं तदाच्छादयेत् पक्षद्वयेपिगन्धादिनाभ्यर्च्यासमाप्तेर्नचालयेन्नचस्पृशेत् कातीयास्तुशुन्धन्तामिति भूमिम्प्रोक्ष्यपितृषदनमसीतिकुशानास्तीर्यपितृभ्यःस्थानमसीतिप्रथमन्न्युब्जङ्कृत्वागन्धादिदीपान्तैरर्चन्ति अथ प्राचीनावीती आद्यन्तयोरपोयच्छन्गन्धाद्यैः पूजनं चरेत् अमुकशर्मन्यथानामगोत्रायन्तेगन्धःस्वधानमइति

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬