🕉️ 24 November 2026, Tuesday · 08:08:19 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← धर्मसिन्धु — परिच्छेद-सूची

📖 धर्मसिन्धु · तृतीय परिच्छेद (उत्तरार्ध) — श्राद्ध, आशौच, अन्त्येष्टि, संन्यास · पृष्ठ 64/81

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

पितॄणाङ्गन्धाद्यैःपूजनम्

एकविप्रत्वेशर्माणोयंवोगन्धइत्यादिनात्रिस्त्रिर्गन्धदानं शेषं प्राग्वत् केचिदमीतेगन्धाम्इतिबहुत्वङ्गन्धेप्राहुः अर्घ्यदानाभिन्नेसर्वत्रस्वधानमइत्यन्तेनदानम् अत्रपित्र्यविप्रपूजनेगन्धादेः पदार्थानुसमयः काण्डानुसमयोवा सम्पूर्णवाचनादिप्राग्वत्कृत्वाचतुष्कोणंवर्तुलञ्चयथाक्रमंवारिणागोमयभस्मादिनावामण्डलानिसव्यापसव्याभ्याङ्कुर्यात् नत्रनैर्ऋतीमारभ्येशानीपर्यन्तन्दैवे ईशानीतोनैर्ऋतीपर्यन्तम्पित्र्येच प्रादक्षिण्यामादक्षिण्याभ्याङ्कार्याणि तत्रपूर्वोक्तपात्राण्यासादयेत् नायसान्यपिपात्राणिपैत्तलानिनतुक्वचित् ।

पात्रासादनादि

नचसीसमयानीहशस्यन्तेत्रपुञ्जान्यपि १ कांस्यपात्रं विकल्पितं पर्णपात्रेषु पलाशमधूकोदुम्बरकुटकप्लक्षजानिशस्तानि कदलीचूतपनसजम्बुचम्पकानिमध्यमानि एवं पात्राण्यासाद्यपितृपूर्वकं परितोभस्ममर्यादां पितृपूर्वकविप्राणां करशुद्धिं च सव्यापसव्याभ्यां कुर्यात् तत्रपिशङ्ग इति रक्षाण इति मन्त्रद्वर्यकेचिदाहुः आचम्यकरशुद्धिजलं पादक्षालनमण्डले क्षिपेत्

अग्नौकरणम्

अथाग्नौकरणं तच्चाश्वलायनानां गृह्याग्रिमतां व्यतिषङ्गेण श्राद्धमयोगेगृह्या शिपकचरुणागृह्या नावेवकार्यं व्यतिषं गाभावेपाणिहोमः श्रौताग्निमतान्दशेंव्यतिपङ्गाभावात्पाणिहोम एव पूर्वेद्युरन्वष्टक्ययोर्दक्षिणाग्नौश्रपणं होमश्च निरग्निकानान्तु सर्वत्रपाणिहोमएव आपस्तम्बादीनां श्रौताग्निम तांसर्वाधानिनां दक्षिणाग्नौ अर्धाधानिनां गृह्याग्निमात्रवतां च गृह्याग्नावेव प्रवासस्थानां निरग्निकानां च अयाश्वाग्ने मनोज्योतिरुद्बुध्यव्याहृतिहोमेनोत्पादितेलौकिकामौद्धुत्वाग्नेरुत्सर्गः नत्वेषां क्वापिपाणिहोमः पाकस्तुसर्वत्रपचनाग्नावेव कातीयानाङ्गृह्याग्रिम-

होमप्रकारः

तां गृह्याग्निविहृतपचनाग्नौपाकोग्नौकरणं तु गृह्याग्नावेव श्रौताग्निमतां सर्वाधानपक्षेदक्षिणाग्नावर्धाधानपक्षे औपासनाग्नावितिकाशिकायामुक्तं कातीयानामर्धाधानपक्षएवयुक्तइतिभाति निरग्नीनां कातीयानामपसव्यादिनापित्र्यादिद्विजहस्तएवाग्नौकरणं तत्र पक्षद्वयं देवद्विजकरेएवसव्येनहोमः यद्वाऽपसव्येन पित्र्यद्विजपङ्क्तौप्रथमद्विजकरे इति बह्वृचानां तु पित्र्यद्विजकरेष्वेवप्रतिविप्रं होमः वाजसनेयिनां त्वेकहोमएवेतिश्राद्धकाशिकायां कातीयसूत्रवृत्तौ केचित्तुष्पृष्ठोदिविविधानेनाग्निमुत्पाद्याग्नाबेवजुह्वति सामगादीनां साग्नीनामग्नावग्नेरसन्निधानेदैवकरेपित्र्यकरेवा निरग्नीनां तु देवद्विजकरएव मृतभार्यस्या पत्नीकस्यप्रथमदेवद्विजकरएवहोमोनपित्र्ये इति सर्वसाधारणम् अथहोमप्रकारः वह्वृचानांव्यतिषङ्गपक्षेऽग्नावग्नौकरणं करिष्ये इति पृष्ट्वा क्रियतामितिअनुज्ञातोगृह्यपक्वं च रुमुद्धृत्यद्विधाविभज्यापसव्येनोत्तरभागादवदानसम्पदामेक्षणेऽवदायसोमायपितृमतेस्वधानमःसोमायपितृमतइदन्नममेतिहोमत्यागौकृत्वादक्षिणभागात्पुनस्तथैवावदायाग्नयेकव्यवाहनायस्वधानमइतिहोमत्यागौकुर्यात् सव्येनापसव्येनवामेक्षणमग्नावनुप्रहरेत् यद्वासव्येनस्वाहान्तोक्तमन्त्रेणाहुतिद्वयं सोमाग्न्योर्व्यत्यासेनादायजुहुयादिति कातीयानां तु गृह्येश्रपणमकृत्वैवपचनाग्निपक्वमन्नमादायकृताक्तं कृत्वा पूर्वत्प्रश्नानुज्ञानन्तरं स्मार्ताद्यग्निं परिस्तीर्यतिस्रःसमिधआधायसव्येनाग्नयेकव्यवाहनाय स्वाहासोमायपितृमतेस्वाहेतिमेक्षणेनाहुतिद्वयञ्जुहुयादपसव्येनवापाणिहोमेपीत्थमेवप्रकारऊह्योविशेषस्तूक्तः आपस्तम्बानान्तुआज्यभागान्तेउद्भ्रियतामग्नौचक्रियतामिति प्रश्नेकाममुद्भ्रियतामितिअनुज्ञानं हिरण्यकेशीयानामुद्धरिष्याम्यग्नौकरिष्यामीति प्रश्नः यन्मेमातेत्यादिमन्त्रैःसप्तान्नाहुतयःषडाज्याहुतयइतित्रयोदशाहुतयः मन्त्रास्तु विस्तरभयान्नोक्ताः हिरण्यकेशीयानामाज्यभागान्तेसोमायपितृमते इत्यादि षोडशमन्त्रैः षोडशाज्याहुतयः षोडशान्नाहुतयश्रप्रतिपार्वणम्बोध्याः मन्त्रेषु पित्रादिपदोहआज्यान्नपदयोरूहश्च तद्ग्रन्थेष्वेवज्ञेयोति विस्तृतत्वान्नोच्यते अथ पाणिहोमप्रकारः तत्र विप्रपाणावग्नौकरणं करिष्ये इति प्रश्नः

पाणिहोमप्रकारः

क्रियतामित्यनुज्ञा करिष्ये इति प्रश्नेकुरुष्वेत्यनुज्ञानभवतीति सर्वत्राश्वलायनमतं कातीयादीनां तु भवत्येव आश्वलायनसूत्रवृत्तौ तु पाणिहोमेकथमपि प्रश्नः प्रतिवचनं च न कार्यमितिद्योतितं सदर्भं पित्र्यविप्रं पाणिं सव्येनपरिसमुह्यपर्युक्ष्यमेक्षणेन करेण वा पूर्ववदाहुतिद्वयं सोमायेत्यादिमन्त्राभ्यां प्राचीनावीत्येवजुहुयात् तत्र करेणहोमपक्षे वामहस्तेन दर्भेण दक्षिणकरे उपस्तीर्यदक्षिणेनद्विरवदायवामेनाभिघार्यचतुरवत्तित्वादिसम्पाद्यम् बह्वृचानां सर्वपित्र्यकरेषु होमएकोद्दिष्टविप्रकरेहोमः कृताकृतः होमान्तेसव्येनपरिसमूहनोक्षणे पाणिहोमेमेक्षणानुप्रहरणं न केचित्पाणिहोमेपरिसमूहनादिकं मेक्षणं चनेच्छन्ति विप्राश्चपाणिहुतान्नं कर्त्रादेवपूर्वं सव्येनैवामासुपकमिति मन्त्राभिघारिते स्वस्वपात्रे संस्थाप्य भोजनस्थानादन्बत्रा-

अन्नपरिवेषणम्

चम्ययथास्थानमुपविशेयुः अग्नौकरणशेषं पिण्डार्थमवस्थाप्य पित्र्यपात्रेष्वेवसर्वान्न परिवेषणान्ते परिवेषणीयं केचिदग्नौकरणशेषपरिवेषणोत्तरं सर्वान्न परिवेषणमाहुः अग्नौकरणशेषं देवपात्रेषु न देयं कातीयानां तु साग्नीनामग्नौहोमेदेवपूर्वं सर्वपात्रेषु शेषदानं निरग्नेर्देवविप्रकरे होमे पितृपात्रेष्वेवपित्र्यकरे होमे देवादिसर्वपात्रेषु हुतशेषदानर्मितिकाशिका अन्नं पाणौ हुतं यच्च यच्चान्यत्परिवेषितम्। एकीकृत्यैवभोक्तव्यं पृथक्भक्षोनविद्यते १ बौधायनानां तु पाणिहुतेन्नेभक्षितेन्यान्नपरिवेषणमुक्तम् अथ पूर्वोक्तवद्देवपूर्वं घृताभिघारितपात्रेषु पूर्वोक्तहविष्यान्नपरिवेषणं स्वयं पत्नीवान्योवाकुर्यात् नापवित्रेण नैकेन हस्तेन च विनाकुशम्। नायसेनापिपात्रेण श्राद्धेषु परिवेषयेत् १ व्यञ्जनादिकं पर्णाद्यन्तर्हितहस्तैर्देयं दर्व्यादेयं घृतं चान्नं समस्तव्यञ्जनानि च। उदकञ्चैवपक्वान्नन्नोदर्व्यातुकदाचन १ हस्तदत्तन्तुनाश्नीयाल्लवणव्यञञ्जनादिकम् अपक्वं तैलपक्वं च हस्तेनैवप्रदीयते २ घृतादिपात्राणि भूमौ स्थापयेन्नभोजनपात्रे ओदने परमान्ने च पात्रमासाद्यतत्रघृतपूरणे रुधिरतुल्यता पङ्क्तौ विषमदातुश्च निष्कृति र्नैव विद्यते। सर्वदा च तिलाग्राह्याः पितृकृत्येविशेषतः १ भोज्यपात्रेतिलान्दृष्ट्वानिराशाः पितरोगताः।

अन्ननिवेदनं

हिङ्गुशुण्ठीपिप्पलीमरीचकानि शाकादि संस्कारार्थान्येव न तु साक्षाद्भक्षयेत् परिवेषणकाले एव तत्सर्वप्रकारमन्नपिण्डार्थं पिण्डपात्रे परिवेषणीयमिति सागरे अथोपवीती दैवेपात्रे परितः कुशयवान्विकीर्यपत्र्ये तु तिलान्विकीर्यान्नं गायत्र्याप्रोक्ष्यतूष्णीं परिपिच्य दक्षिणहस्तउपरि वामोधोदैवे पित्र्येतु विपरीत इत्येवं स्वस्तिकाकारकराभ्यां पात्रमालभेत् तत्रमन्त्रः पृथिवीतेपात्रं द्यौरपिधानं ब्राह्मणस्त्वामुखेमृतं जुहोमिब्राह्मणानां त्वाविद्यावतां प्राणापानयोर्जुहोम्यक्षितमसिमैषां क्षेष्ठाअमुत्रामुष्मिल्ँ लोके इति अयमन्त्रआपस्तम्बकात्यायनादिभिर्नानाविधःपठितोयथासम्प्रदायंवाच्यः इत्यभिमन्त्र्यअतोदेवेतिवाइदंविष्णुरितिवाऋचमुत्त्काविष्णोहव्यंरक्षस्वेतिपित्र्येतुकव्यंरक्षस्वेतिन्युब्जेनकरेणन्युब्जं द्विजाङ्गुष्ठमनखमन्नेनिवेश्य प्रदक्षिणं भ्रामयेत् पित्र्येत्वप्रदक्षिणम् अत्र कातीयानामपहताम् इति यवानान्दैवे तिलानां पित्र्येपात्रपरितोवकिरणमुक्तं ततो वामकरेण पात्रं स्पृशन्नमुकेविश्वेदेवादेवता इदमन्नं हव्यमयं ब्राह्मण आहवनीयार्थे इयं भूर्गया अयं भोक्तागदाधर इदमन्नं ब्रह्म इदं सौवर्णपात्रमक्षय्यवटच्छायेयम् अमुकदेवेभ्यः इदमन्नं सोपस्करममृतरूपं परिविष्टं परिवेक्ष्यमाणं चातृप्तेः स्वाहाहव्यं नमोनमम ओं तत्सदिति सयवदर्भजलं दक्षिणकरेण पात्रवामभागेभूमौ क्षिपेत् एवं दैविकविप्रान्तरेपि ततो ये देवासइत्युपस्थानं ततः पित्र्यधर्मेण पितृपात्रालम्भाङ्गुष्ठनिवेशनाद्यन्ते वामेन पात्रमालभ्यपितादेवता एकविप्रत्वे पित्रादयो यथा नामगोत्रादेवता इदमन्नं कव्यमित्यादि॰ इदं राजतं पात्रमक्षय्यवटच्छायेयम् अस्मत्पित्रेऽमुकनामगोत्ररूपाय त्रयस्थाने विप्रैक्येऽस्मत्पितृपितामहप्रपितामहेभ्योऽमुकगोत्रनामरूपेभ्यः इदमन्नं सोपस्करममृतरूपं परिविष्टं परि-

अन्नसमर्पणम्

वेक्ष्यमाणं चातृप्तेः स्वधाकव्यं नमोनमम ओं तत्सदिति तिलकुशजलं पितृतीर्थेन वामकराधोनीतेन दक्षिणकरेण पात्रदक्षिणेभूमौ क्षिपेत् एवमन्यत्रापियथादैवतमूहः पितृस्थानेनेकविप्रत्वे त्रिषु विप्रेषु पित्रे इत्यादिनैकवचनान्तेन त्यागः एवमग्रेपि त्रिषु त्रिषूह्यं ततो ये चेहेति सकृदुपस्थानम् अतिथिश्चेद्देवधर्मेण स्वेष्टदेवतायै इदमन्नमित्यादियदेवास इत्यादि अपसव्यं देवताभ्यः पितृभ्यसप्तव्या अमूर्तानां ब्रह्मार्पणं हरिर्दाता चतुर्भिश्च ओं तत्सद्ब्रह्मार्पणमस्तु येषामुद्दिष्टं तेषामभक्षय्याप्रीतिरस्तु इति तिलोदकमुत्सृजेत् सव्यम् एकोविष्णु अन्नहीनं क्रियाहीनं मन्त्रहीनं च यद्भवेत् तत्सर्वमच्छिद्रं जायतामित्युक्त्वाविप्रैर्जायतां सर्वमच्छिद्रमित्युक्ते अनेन पितृयज्ञेन पितृरूपीजनार्दनवासुदेवः प्रीयतामितितिलकुशजलमुत्सृजेदित्याचारः केचिद्ब्रह्मार्पणमित्यादि सङ्कल्पोत्सर्गे सव्यमेकोविष्णुरित्यादावपसव्यं कुर्वन्ति तत्र ब्रह्मार्पणेति एकोविष्णुरित्यनयोः सङ्कल्पयोर्विभागे सव्यापसव्यविभागे च प्रत्यक्षवचनानुपलम्भाद्यथाचारं कार्यम् अकृते सङ्कल्पेन्नंविप्रानस्पृशेयुः ईशानवि गयायै गदाधराय पुण्डरीकाक्षा इति नत्वापितृपूर्वं विप्रकरेषु जले दत्ते विप्रास्तेनान्नं प्रोक्ष्यत्रिर्गायत्र्याभिमन्त्रयेयुः कर्ता सव्येन पितृपूर्वमाषोशनार्थमुदकं दत्त्वा सव्याहृतिकां गायत्रीन्त्रिःसकृद्बोक्त्वा मधुवाता इति तृचमुक्त्वा मधुमधुमध्वितित्रिरुक्त्वा ॐ तत्सद्यथा सुखं जुषध्वमितिवदेत् विप्रांश्चवलिदानवर्ज्यनित्यवदापोशनं कृत्वा कर्त्रा श्रद्धायां प्राणे निविष्टोमृतं जुहोमिशिवोमाविशाप्रदाहाय प्राणाय स्वाहेत्यादि पञ्चमन्त्रेषूच्यमानेषु पञ्चमाणाहुतीः कृत्वा ब्रह्मणिमआत्मामृतत्वायेत्युच्यमाने षष्ठीं कुर्युः ततो मौनिनोमुखशब्दचापल्यं वर्जयन्तः सशेषं भुञ्जीरन् दधिक्षीरघृतपायसानितुनिःशेषम् आपोशनकरे विप्रे सङ्कल्पाच्छिद्रभाषणात्।

ब्राह्मणभोजनादि

निराशाः पितरो यान्ति आपोशनं दक्षिणभागे कार्यं न तु वामभागे पुनरापूर्यापोशनं सुरापानसम्मम् आपोशनमकृत्वान्नं मर्दयेन्नैवकर्हिचित्। विप्रैर्बलिदानं न कार्यं केचिदाज्येन कुर्वन्ति तन्न पायसाज्यमाषान्नैर्वलिदाननिषेधात् विप्राश्चवामकरेणान्नं नस्पृशेयुर्नपदा भाजनं स्पृशेयुः सम्पादितमेव वस्तुकरादिनायाचेयुर्नासम्पादितम् अन्नगुणदोषान्नकीर्तयेयुः कर्ता चानिषिद्धान्नं भोक्तुः पितुश्चात्मनश्चप्रियं प्रयच्छन्तत्तदन्नमाधुर्यादिगुणकीर्तनेन प्ररोचयन्ददामीत्यवदन्याचितं यच्छन्भुञ्जानानपश्यन्हविर्गुणानपृच्छन्दैन्याश्रुपातक्रोधादिकमकुर्वञ्जलं पाययन्शनैर्भोजयेत् उच्छिष्टाः पितरोयान्ति पृच्छतोलवणादिकम्। अथ सव्येनैवसव्याहृतिगायत्रीं त्रिरुक्त्वा पौरुषं सूक्तं कृणुष्वपाजोरक्षोहणमित्याद्यारक्षोघ्नीः पितृलिङ्गकान् इन्द्रेशसोमसूक्तपावमानी सूक्तानि अप्रतिरथसञ्ज्ञमाशुः शिशानसूक्तविष्णुब्रह्मरुद्रार्कस्तोत्रादिकं भोक्तृविप्रान्श्रावयेत् असम्भवेगायत्रीजपं कुर्यात् वीणावंशध्वनिं चापिविप्रेभ्यः सन्निवेदयेत्। मण्डलब्राह्मणं पाठ्यं नाचिकेतत्रयं तथा १ त्रिमधुत्रिसुपर्णं च पावमानयजूंषिच। आशुःशिशानसूक्तं च अग्नयेकव्यवा-

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬