🕉️ 24 November 2026, Tuesday · 08:04:11 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← धर्मसिन्धु — परिच्छेद-सूची

📖 धर्मसिन्धु · तृतीय परिच्छेद (उत्तरार्ध) — श्राद्ध, आशौच, अन्त्येष्टि, संन्यास · पृष्ठ 65/81

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

विप्रवमने

हनम् २ प्रौढपादोबहिः कक्षोबहिर्जानुकरोपिवा। अङ्गुष्ठेनविनाऽश्नातिमुखशब्देन वा पुनः ३ पीतावशिष्टतोयानिपुनरुद्धृत्यवापिबेत्। खादितार्धं पुनः खादेन्मोदकादिफलादिकम् ४ मुखेन वा घमेदन्नं निष्ठीवेद्भाजनेपि च। इत्थमश्नन्द्विजः श्राद्धं हत्वागच्छत्यधोगतिम् ५ श्राद्धपङ्क्तौ तु भुञ्जानो ब्राह्मणो ब्राह्मणं स्पृशेत्। तदन्नमत्यजन्भुक्त्वा गायत्र्यष्टशतं जपेत् ६ पात्रे विप्रान्तरोच्छिष्टसंसर्गेतन्निरस्यहस्तम्प्रक्षाल्य भुक्त्वा स्नात्वाद्विशतं जपेत् उच्छिष्टभोजने सहस्रं जपेत् भुञ्जानेषु तु विप्रेषु प्रमादात्स्रवतेगुदम्। पादकृच्छ्रं ततः कृत्वा अन्यं विप्रं नियोजयेत् १ अथ वप्रवमने तत्र पित्रादि विप्रवमने लौकिकाग्निस्थापनचरुनिर्वापाज्यभागान्तेनामगोत्रपूर्वकमग्नौपितृनावाद्यवैश्वदेविकवमनेदेवानावाह्य सम्पूज्यान्नत्यागं कृत्वा प्राणायस्वाहेत्यादि मन्त्रैर्द्वात्रिंशदाहुतीर्जुहुयात्पुनः श्राद्धन्त्राकुर्यादितिपक्षद्वयम् पक्षद्वये पीन्द्रायसामेतिसूक्तजपोनित्यः अनयोः पक्षयोर्व्यवस्थोच्यते वैश्वदेविकविप्रवमनेहोम एव न पुनः श्राद्धं पित्र्यविशेष्वपि पिण्डदानोत्तरंवान्तौहोमएवनपुनः श्राद्धम् पिण्डदानात्प्राक्पित्र्यविभवान्तां तद्दिने उपवासं कृत्वा परेद्युः पुनः श्राद्धं कार्यम् इदं सपिण्डीकरणमहैकोद्दिष्टमासिकाब्दिकप्रत्याब्दिकश्राद्धेष्वेवदर्शादौतुवमनेतद्दिनेएवामेन श्राद्धं कार्यम् एव मष्टकान्वष्टकापूर्वेद्युः श्राद्धेष्वपि तत्रामश्राद्धेसाग्नेह्वृचस्य व्यतिषङ्गादियथोक्तप्रयोगासम्भवात्सां कल्पिकविधिनादर्शान्वष्टकापूर्वेद्युः श्राद्धान्यामेनकार्याणि तत्तल्लोपप्रायश्चित्तं वा निबन्धोक्तं कर्तव्यमितिभाति वृद्धिश्राद्धेपिण्डरहितसङ्क्रान्त्यादिश्राद्धेनित्यश्राद्धेचवमने आवृत्तिरेव तीर्थश्राद्धेदर्शवदामेनैवमहालयश्राद्धेपार्वणस्थानीयविप्रवमनेपुनरावृत्तिः एकोद्दिष्टस्थानीयविप्रवमनेहोमएवेतिभाति वैश्वदेविकविशवमनेसर्वश्राद्धेषु होमएवेत्युक्तमेव होमपक्षे आवृत्तिपक्षेचसर्वत्रसूक्तजपोनित्यइत्यप्युक्तम् भोजनान्ते प्राचीनावीती तृप्ताः स्थेतिविप्रान्पृष्ट्वातृप्ताः स्म इति प्रत्युक्तो गायत्रीं मधुवाता इति तृचमक्षन्नमीतिचश्रावयित्वा अथ वाक्षन्नमीत्येतदन्ते तृप्तिप्रश्नं कृत्वा श्राद्धं सम्पन्नमितिपृष्ट्वा सुसम्पन्नमित्युक्तः परिवेषणकालेनुद्धरणेऽधुनापिण्डार्थं सर्वान्नादुद्धृर्त्यावकिरार्थं चोद्धृत्य अन्नशेषैश्च किं कार्यमिति पृच्छेत्तुसद्विजान्।

भोजनान्तेतृप्तिप्रश्नादि

ते इष्टैः सहभोक्तव्यमिति प्रत्युक्तिपूर्वकम् १ प्रदद्युः सकलं तस्मै स्वीकुयुर्वायथारुचि।कातीयैस्तुतृप्ताञ्ज्ञात्वावक्ष्यमाणप्रकारेण विकिरं दैवेपित्र्येचदत्वाविप्रेभ्यः पितृपूर्वकं सकृदपोदत्वागायत्रीं मधुमतीश्च श्रावयित्वा तृप्तिप्रश्नः सम्पत्तिप्रश्नश्चकार्यः एवं शाखान्तरेप्युत्तरापोशनात्पूर्वमेवविकिरदानम् बह्वृचानां तु पिण्डान्ते एव विकिरः हिरण्यकेशीयैराचान्तेउक्तः तत उच्छिष्टभाग्भ्योन्नं दीयतामित्युक्ताविप्राः पात्रस्थम्भुक्तशेषं दैविकं दक्षिणे पैतृकंवामेबहिः कृत्य पितृपूर्वं दत्तमुत्तरापोशनममृतापिधानमसीतिकुर्युः पिण्डदानं त्वाचान्तेष्वनाचान्तेषु वा विप्रेषु कार्यं विशाश्चमुखप्रक्षालनपूर्वकहस्तप्रक्षालनादिशरावादौकुर्युर्नकांस्यताम्रपात्रयोः शुद्धोदकेनाचम्यकयान-

पिण्डदानम्

इति तृचञ्जपेयुः अथ पिण्डदानं तच्चार्चनोत्तरमग्नौकरणोत्तरं भोजनोत्तरविकिरोत्तरं स्वधावाचनोत्तरं विप्रविसर्जनोत्तरमितिषट्पक्षाः स्मृत्युक्ताः तेषां शाखाभेदेनव्यवस्थेतिसिन्धुः तत्राश्वलायनानां भुक्तवत्स्वनाचान्तेष्वाचान्तेषु वा विप्रेषु पिण्डदानं ततोविकिरः आपस्तम्बहिरण्यकेशीयादीनां विप्रविसर्जनान्ते पिण्डदानं कातीयानां विकिरोत्तरमाचान्तेष्वनाचान्तेषु वा तत्राग्निहोमेऽग्निसमीपे पाणिहोमेविप्रसमीपे बह्वृचानां पिण्डदानम् अन्येषां प्रायोविप्रसमीप एव तत्रद्विजोच्छिष्टादुत्तरतोव्याममात्रेऽरत्निमात्रे वा पिण्डदानं सङ्कल्प्यबह्वृचानामेककरेणान्येषां कराभ्यां घृतेनस्फ्येन खादिरकाष्ठेनदर्भमूलेनवाऽपहताअसुरा इति मन्त्रं प्रतिलेखां पठन्नाग्नेय्यग्रं प्रत्यगपवर्गपार्वणसङ्ख्ययारेखामेकां द्वित्र्यादिकां बोल्लिख्यप्रत्येकमभ्युक्षेत् पिण्डसङ्कल्पेरेखाकरणे च सव्यापसव्ययोर्विकल्पः अत्र कातीयैर्येरूपाणीतिमन्त्रेणाग्नौकरणाग्नेरुल्मुकं रेखादक्षिणतोनिधेयं रेखासुसकृदाच्छिन्नं बर्हिदक्षिणाग्रमास्तीर्यशुन्धन्तां पितरः शुन्धन्तां पितामहाइत्यादिमन्त्रैस्तिलोदकं बर्हिष्यासिञ्चेत् अत्र कातीयानां पितरमुकनामगोत्रावनेनिक्ष्वेत्यादि मन्त्राः अन्येषां मार्जयन्तां पितरः सोम्यासइत्यादयोमन्त्राः अग्नौकरणशेषयुतसर्वान्नेनमधुसर्पिस्तिर्लामश्रेणपिण्डान्पत्न्याकारयित्वारेखायाम्पराचीनपाणिनापितृतीर्थेनपित्रादिभ्योदद्यात् एतत्तेऽस्मत्पितर्यथानामगोत्ररूपयेचत्वामत्रानुपित्रेअमुकनामगोत्ररूपायायम्पिण्डःस्वधानमस्तेभ्यश्चगयायांश्रीरुद्रपदेदत्तमस्त्वित्यादिमन्त्रैरूहेण अत्र केषाञ्चित्पिण्डपात्रावनेजनं पात्रन्युब्जीकरणं च केचित्पिण्डेषुमापानं वर्जयन्ति ततोलेपभाक्तृप्तये हस्तलेपं पिण्डदर्भमूलेषु निमृज्यात्रपितरोमादयध्वं यथा भागमावृषायध्वमितिपिण्डान्सकृदनुमन्त्र्यसव्यपार्श्वेनोदण्डवृत्ययथाशक्तिप्राणान्नियम्यपर्यावृत्यामीमदन्तपितरइतितथैवानुमन्त्र्यसव्येन पिण्डशेषमाघ्रायाचम्यान्यपवित्रे धृत्वापसव्येन शुन्धन्तामित्यादि यथासूत्रं जलनिनयनं पूर्ववत्कुर्यात् अत्र भुक्तशेषान्नाभावेद्रव्यान्तरेण पिण्डदानं कार्यं कपित्थबिल्वकुक्कुटाण्डामलकबदराणां मध्ये शक्तितोन्यतमप्रमाणाः पिण्डाः केचित्पार्वणपिण्डत्रये यथोत्तरं प्रमाणाधिक्यमाहुः तथाहूस्तलेपाभावेपिदर्भेषु हस्तं निमृज्यादेवेतिमेधातिथिः एकोद्दिष्टश्राद्धेषु दर्भलेपोनेतिसुमन्तुः अत्र नीवींविस्रस्याभ्यञ्जनादीति केचित् पिण्डपूजनान्ते उपस्थानात्प्राक्नीवीविस्रम् इति सागरे अथास्मत्पितरमुकनामगोत्ररूपाभ्यङ्क्ष्वेतियथालिङ्गमन्त्रावृत्यापिण्डेषु तैलं घृतं वा भ्यञ्जनं दर्भैर्दत्वातथैवाङ्क्ष्वेतिकज्जलं दद्यात् आपस्तम्बानामादावञ्जनं ततोभ्यञ्जनम् एतद्वः पितरो वा स इति मन्त्रं प्रतिपिण्डं पठन्वासोदशां वा त्रिगुणसूत्रं वाप्रतिपिण्डेदेद्यादितिहेमाद्रिः सकृन्मन्त्रं पठन्सकृदेवदद्यादित्यन्ये कातीयैस्तुमन्त्रेण प्रतिपिण्डं नामगोत्राद्युच्चार्यत्रिगुणं सूत्रं देयं ततः कशिपूपबर्हणेनिवेद्यास्मत्पितृभ्यइतिचतुर्थ्याक्षतगन्धपुष्पधूपदीपसर्वप्रकारकनैवेद्यताम्बूलदक्षिणादिभिःपिण्डपूजांसव्येनापसव्येनवाकुर्यात् यत्किञ्चि-

त्पच्यतेभक्ष्यं भोज्यमन्नमगर्हितम्। अनिवेद्यनभोक्तव्यं पिण्डमूलेकथञ्चन १ ततोनमोवः पितरइषे इत्यादिमन्त्रैः पिण्डानुपस्थायोत्तान हस्तेन परेतन इति मन्त्रेण सकृदुक्तेन युगपत्प्रवाहयेत् ततोदक्षिणाग्निहोमपक्षेऽग्नेतमद्याश्वमित्यग्निसमीपमागत्ययदन्तरिक्षमितिमन्त्रेण गार्हपत्योपस्थानम् औपासने होमपक्षे गार्हपत्यपदरहिततन्मत्रेणोपस्थानम् इदं बह्वृचानामेव पाणिहोमेतु तेषामपिनास्त्येव वीरं मेदत्तपितर इति मन्त्रेण मध्यममेकपिण्डं पार्वणद्वयेमध्यपिण्डद्वयमन्वष्टक्यादौमध्यपिण्डत्रयमादायपत्न्यैदद्यात् पत्नी आधत्तपितर इति मन्त्रेण सकृपठितेनैवपिण्डमेकमनेकं वा प्राशयेत् आपस्तम्बस्त्वपान्त्वौषधीनां रसम्प्राशयामिभूतकृतं गर्भन्धत्स्वेतिमध्यपिण्डं पत्न्यै प्रयच्छति प्राशनमन्त्रः स एव यथेहपुरुषो असदिति पाठमात्रं भिद्यते इत्थमेव कातीयानाम् इदं भार्यायाः पिण्डप्राशनं प्रजाकामत्व एव केचिन्नित्यमाहुः भार्यानेकत्वे पिण्डविभज्य प्रतिपत्निमन्त्रेण प्राशयेत् पार्वणद्वयेपिण्ण्डद्वयं द्वाभ्यां देयम् पत्नीबहुत्वेगुणतोवयसाचयोग्यायै पिण्डोदेयः बह्वीनां योग्यत्वे एकस्मिन्दर्शे एकस्यै अन्यस्मिन्नपरस्यै इति पत्नीरुग्णान्यदेशस्थागुर्विणीसूतिकापिवा। तदातं जीर्णवृषभश्छागो वा भोक्तुमर्हति १ इतरौजले क्षिपेत् पुत्रादिकामनाभावेक्षिपेदग्नौजलेपिवा। पिण्डांस्तुगोजविप्रेभ्यो वायसेभ्यः प्रदापयेत् १ तीर्थश्राद्धेसदापिण्डान्क्षिपेत्तीर्थेसमाहितः।

पिण्डोपघाते

अथ पिण्डोपाघाते श्वसृगालखरैः स्पृष्टः पिण्डो भिन्नः प्रमादतः। मार्जारमूषकैः स्पृष्टचाण्डालपतितादिभिः १ प्राजापत्यं च रेत्स्नात्वा पुनः पिण्डान्यथाविधि। पाकान्तरेण तेन पाकेन वा पिण्डदानमात्रं पुनः कार्यं न सर्वश्राद्धावृत्तिरितिसर्वसम्मतं काकस्पर्शेतु न दोषः अथ पिण्डनिषेधः विवाहव्रतचूडासुवर्षमर्धतदर्धकम्।

पिण्डनिषेधनिर्णयः

संस्कारेषु तथान्येषु वृद्धिमात्रे च मासकम् १ पिण्डदानं मृदास्नानं न कुर्यात्तिलतर्पणं श्राद्धाङ्गतर्पणं नित्यतर्पणं च तिलैर्नकार्यमित्यर्थः महालयेगयायां पित्रोः प्रत्यब्देयस्य कस्यापि मृतस्य सपिण्डीषोडशमासिकान्तेषु प्रेतकृत्येषु कृतमङ्गलोपि पिण्डान्दद्यात् केचित्भ्रात्रादिवार्षिकेप्याहुः पिण्डयज्ञे च यज्ञे च सपिण्ड्यां दद्युरेव च। तथा विकृतावन्वष्टकादौ यत्र पुनः पिण्डदानविधिः यत्र वा पूर्वेद्युः श्राद्धादौ पिण्डपितृयज्ञविकृतित्वं तत्रापि न पिण्डदाननिषेध इति सिन्धुः तेनाष्टकाश्राद्धेपिननिषेध इति भाति अयं च मङ्गलोत्तरं पिण्डदानतिलतर्पणनिषेध स्त्रिपुरुषसपिण्डानामिति भाति अथ पिण्डोद्वासनान्ते विकिरो देयः

विकिरदानम्

उपवीतीदैविकद्विजसन्निधौ सदर्भभुवि असोमपाश्च ये देवा इति मन्त्रेण सजलयवमन्नं विकिरेत् प्राचीनावीतीपित्र्यद्विजसन्निधौ सदर्भभुवि ये अग्निदग्धाये अनग्निदग्धेतिऋचासतिलमन्नं विकीर्य अग्निदग्धाश्चयेजीवायेप्यदग्धाः कुलेमम। भूमौ दत्तेन तृप्यन्तु तृप्तायान्तु पराङ्गतिम् १ इति कातीयसौत्रमन्त्रेण सतिजललेनप्लावयेत् पिण्डवद्विकिरो पिसार्ववर्णिकान्नस्यैव केचिदसोमपा इति दैवे विकिरं

आशिषःप्रार्थनादि

दत्वा असंस्कृतप्रमीतायेति पौराणमन्त्रेण पित्रेदत्वाये अग्निदग्धाइत्यृचापृथगुच्छिष्टपिण्डं कुशोपरिदद्यादित्याहुः हस्तौ प्रक्षाल्यद्विराचम्यान्यपवित्रे धृत्वारिंस्मरेत् विकिरं पृथगेवनिष्कास्य काकेभ्य उत्सृजेदिति काशिका देवद्विजहस्ते शिवा आपः सन्त्वित्यादिभिरपोगन्धषुष्पयवान्दत्वा भूमौ तेषु त्यक्तेष्वन्येक्षता आशीरर्थं देयाः एवं पित्र्य हस्तेष्वपसव्येनापोगन्धपुष्पतिलदानादि कृत्वा सव्येनामुकगोत्रशर्माहमभिवादयामि अस्मद्गोत्रं वर्धतामित्यादि केचिदत्रपित्र्य हस्ते गन्धतिलादिदानं सव्येनाहुः कातीयास्तु हस्तेऽक्षतदानान्ते अक्षय्योदकं दत्त्वा अघोराः पितरः सन्त्वित्युक्त्काभिवादनं दातारोनोभिवर्धन्तामित्यादिकमाहुः एवमाशिषोगृहीत्वा क्षतान्मूर्धनिधृत्वा स्वयं शिष्यादिभिर्वाभो जनपात्राणि चालयित्वाचामेत् अनुपनीतोनारीचासजातिश्च न चालयेत्। सव्येनदैवे पित्र्ये च स्वस्तिवाचनं देवेभ्यः स्वस्तीतिब्रूत पितृभ्योऽमुकनामगोत्रादिभ्यः स्वस्तीतिब्रूतेति ततः सव्यापसव्याभ्यां तत्तदुच्चारपूर्वकमक्षय्योदकदानं ततोन्युब्जपात्रमुत्तानं कृत्वाततः परं सर्वमुपवीत्येवकुर्यात द्विजेभ्यः सकर्पूरताम्बूलादि दत्त्वा पितृपूर्वकं नामगोत्राद्युच्चार्यदक्षिणां दद्यात् अमुकशर्माहममुकनामगोत्रपित्रादिस्थानोपविष्टायविप्रायरजतदक्षिणाम्प्रतिपादयामीत्याद्गि दैवेसुवर्णम् अशक्तावुभयत्रयज्ञोपवीतं दक्षिणा दक्षिणाः पान्त्वित्युत्त्कास्वधां वाचयिष्ये इति पृष्ट्वा वाच्यतामित्युक्ते पितृपितामहेत्याद्युच्चार्य स्वधोच्यतामित्युत्त्काऽस्तुस्वधेतितैरुक्ते पिण्डसमीपे जलं निषिच्यस्वधासम्पद्यन्तामितिसम्पत्तिं वाचयेत् कातीयसूत्रेदातारोनोभिवर्धन्तामित्याशिषोर्थनं स्वधावाचनं न्युब्जापात्रमुत्तानीकरणं दक्षिणादानं चेतिक्रमः ततोदेवादिप्रीतिं वाचयित्वा पिण्डस्थानेऽक्षतादिक्षिप्त्वा सव्येनैववाजेवाजे इति मन्त्रेणोत्तिष्ठन्तु पितरो विश्वेदेवैः सहेतियुगपद्दर्भेण पितृपूर्वं विप्रान्स्पृशन्विसृजेत् आमावाजस्येति प्रदक्षिणीकृत्य ततोदातारोनोभिवर्धन्तामित्यादि वरयाचनं येषां विसर्जनान्ते पिण्डदानं तेषामाचान्ते षुसौमनस्यदक्षिणादिकाक्षय्यस्वधावाचनान्ते दातारोनोभियर्धन्तामित्यादि ततः पिण्डदानादीतिक्रमः हिरण्यकेशीयानां पिण्डदानादिप्रयोगोविस्तृतत्वान्न्नोक्तः विप्रैर्वरेदत्तेस्वादुषंस ब्राह्मणासः पितरः इति मन्त्रौ पठेत् विप्राः इहैवस्तम् आयुः प्रजामितिवदेयुः आशीर्भिर्नन्दितोविप्रान्पादाभ्यङ्गादिनासन्तोष्यनत्वाऽद्यमेसफलं जन्ममन्त्रहीनं यस्यस्मृत्येत्यादि विष्णुस्मरणपूर्वकं कर्मार्पयत्वा विप्रान्क्षमापयेत् अष्टौपदान्यनुव्रज्यदक्षिणीकृत्यचागतः। दीपं हस्तेन निर्वाप्य पवित्रत्यागपूर्वकम् १ पादशुद्धिर्द्विराचामेदुच्छिष्टोद्वासनं ततः। बह्वृचोवैश्वदेवन्तुयथाविधिचरेत्ततः २ ततस्तुवैश्वदेवान्तेसभृत्यमुतबान्धवः। भुञ्जीतातिथिसंयुक्तः सर्वपितृनिषेवितम् ३ श्राद्धशेषान्नंशिष्यायज्ञातिभ्यश्चदेयं नशूद्राय द्विजभुक्तावशिष्टं तु शुचिभूमौ निखानयेत्। अत्रप-

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬