निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
र्वादौनिषिद्धम्माषाद्यपिभोक्तव्यं वैधत्वेन निषेधाप्रवृत्तेरिति केचित् अनिषिद्धभोजनेनापि श्राद्धशेषभोजनविधि सिद्धिरित्यन्ये श्राद्धशेषभोजनाकरणेदोषः श्राद्धदिने उपवासनिषेधाच्छ्राद्धशेषाभावे पाकान्तरेण भोजनम् एकादश्यादाववघ्राणं यत्रतूपवासोनावश्यकस्तत्रैकभक्तं श्राद्धशेषन्दिवैवभोक्तव्यन्नरात्रौ तेननक्तव्रतेऽवघ्राणमेव श्राद्धावशिष्टभोक्तारस्तेवैनिरयगामिनः। सगोत्राणां सकुल्यानां ज्ञातीनां च न दोषकृत् १ ब्रह्मचारियतिविधवानां नित्यं निषिद्धं ज्ञातिगोत्रसम्बन्धिभिन्नगृहेश्राद्धशेषभोजने प्राजापत्यं प्रायश्चित्तं यतीनां वपनं लक्षप्रणवजपश्च गुरोर्योगिनो वा श्राद्धशेषं गृहिणोनदोषाय न शूद्रं भोजयेत्तस्मिन्गृहे यत्नेनतद्दिने। श्राद्धशेषं न शूद्रेभ्यः प्रदद्यादखिलेष्वपि १ इति श्रीमदनन्तोपाध्यायसूनुकाशीनाथोपाध्यायविरचिते धर्मसिन्धुसारेपार्वणश्राद्धप्रक्रिया ॥
अथ श्राद्धदिने वैश्वदेवनिर्णयः तत्रतावच्छ्रौताग्निमतां बह्वृचानां श्रद्धात्पूर्वं पृथक्पाकेन वैश्वदेवः स्मार्ताग्निमतां निरग्निकानां च बह्वृचानां श्राद्धान्तएव श्राद्धशेषेण पृथक्पाकेनवा कातीयानां तु स्मार्तश्रौताग्निमतां श्राद्धीयपाकेन पूर्वमेव निरग्निकानामन्ते श्राद्धशेषेण पृथक्पोकेन वा तैत्तिरीयाणां तुसाग्निकानां सर्वत्रादौ वैश्वदेवः पञ्चमहायज्ञास्त्वन्ते अन्येषामादावन्तेवेति विकल्पः तैत्तिरीयाणामेव वैश्वदेवात्पक्षयज्ञाभिन्नाः सर्वशाखिनां वृद्धिश्राद्धेपाकेन क्रियमाणे पूर्वमेव वैश्वदेवः वह्वृचानामन्ते वा पूर्वं वा आमादिनावृद्धिश्राद्धे सर्वेषां पूर्वमन्तेवेति भाति नित्यश्राद्धे पूर्वमेव एकादशाहाद्येकोद्दिष्टेषु साग्निरनग्निश्च सर्वोपि श्राद्धशेषं द्विज़ाधीनं कृत्वा पाकान्तरेणैव वैश्वदेवादिकुर्यात् ॥
अथ नित्यश्राद्धं वार्षिकादि श्राद्धदिने श्राद्धात्पश्चात्तेनैवपाकेन पाकान्तरेणवोनित्यश्राद्धं कार्यं नित्यश्राद्धीयसर्वदेवतानां प्रथमश्राद्धेप्रवेशे प्रसङ्गसिद्धिरेव तथाच दर्शादिषु महालयान्वष्टकादि पुनित्य श्राद्धलोपएव एतच्चदेवहीनं दर्शवत्पड्दैवतं द्वावेकं वा विप्रं निमन्त्र्यदेशकालान्ननियमहीनं पुनर्भोजनब्रह्मचर्यादि कर्तृभोक्तृनियमरहितं यादृशतादृशेनैवानिषिद्धान्नेन दिवैवरात्रौप्रहरपर्यन्तं वा कार्यं स्वस्याशक्तौ पुत्रादिनासूतकेदर्शादिवल्लोपः वृद्ध्युत्तरं मण्डपोत्थानावधिसपिण्डैर्नकार्यं नित्यवैश्वदेवान्तर्गतपितृयज्ञोत्तरं मनुष्ययज्ञात्प्रागेव भाति तत्र दर्शवत्षट्पितृृन्देवहीनानुच्चार्यनित्यश्राद्धं करिष्ये इति शिष्यादिश्चेद्यजमानस्य पितृपितामहेत्याद्युच्चार्यसङ्कल्पयेत् पितृृणामिदमासनमित्यासनं निराश्राद्धेक्षणः क्रियतामितिक्षणः पूर्वोच्चारिताः पितरः अयं वोगन्धइत्येवं गन्धादिभिर्विप्रमभ्यर्च्यवर्तुलेचतुरस्रेवामण्डलेपात्रेऽन्नं परिविष्य पृथ्वीतेपात्रमित्यादिब्रह्मर्पणान्तदर्शवत् भोजनान्ते दक्षिणां दत्त्वानवादत्त्वा नमस्कारेण विसर्जयेत् विप्रस्यान्नदेर्वाऽभावे यथाशक्तयन्नमुद्धृत्य षोढाविभज्यास्मत्पितृपितामहेत्यादि चतुर्थ्यन्त षड्देवताउच्चार्ये दमन्नं स्वधानममेतित्यजेत् तदन्नंविप्रायगोभ्योवादेयञ्जलादौवात्या-
ज्यम् अन्नत्यागस्यापिलोपे आर्चन्नत्रमरुत इति ऋचोदशवारं जपेत् इति नित्यश्राद्धविधिः ॥
अथ श्राद्धानुकल्पाः अनेकविप्रालाभे देवस्थाने शालग्रामादिकं स्थापयित्वैकविप्रे पित्रादि त्रयं मातामहादि सहितदेवताषट्कञ्चावाह्यसर्वं श्राद्धं कार्यमित्युक्तं सर्वथाविप्रालाभेदर्भबटु श्राद्धमित्याद्यप्युक्तम् ॥
अथामश्राद्धं तत्र केनचित्सङ्कटेन पाकासम्भवे जातकर्मणि च ग्रहणनिमित्तकश्राद्धेचामश्राद्धं कार्यं सपिण्डन श्राद्धं मासिकं प्रतिवार्षिकं महालयाष्टकान्वष्टकादि श्राद्धं चामेननकार्यं शुद्रस्यतुदशाहपिण्डादिश्राद्धमात्रमामेन न कदापि पाकेन तत्र पितृनुद्दिश्यामुकश्राद्धं सदैवं सपिण्डमामेनहविषाकरिष्यतिसङ्कल्पः अन्यः प्रयोगः पूर्वोक्तएव पाकप्रोक्षणस्थाने आमप्रोक्षणम् आवाहने उशन्तस्त्वेनिमन्त्रेहविषे अत्तवेइत्यत्र हविषेस्वीकर्तवेइत्यूहः भस्ममर्यादान्तम्प्राग्वत् विप्रहस्तेषुतण्डुलैरग्नौकरणम् अन्नाच्चतुर्गुणं द्विगुणं समं वा तत्तदामं पात्रेषु संस्थाप्य पाणिहोमशेषं पिण्डार्थं संस्थाप्य पात्रेषु दत्त्वा पृथ्वीतेपात्रमित्यादि इदमामं हव्यं कव्यमित्यादि इदमामममृतरूपं स्वाहेत्यादि यथाधर्मं मध्वित्यन्तं प्राक्कृतं यथासुखञ्जुषध्वमित्यस्यापोशनमाणाहुतितृप्तिप्रश्नानां लोपः सम्पन्नवाचनन्तेन्नशेषप्रश्नलोपः सर्वमतेतण्डुलैः सक्तुभिर्वापिण्डदानं केचिद्गृहसिद्धान्नेन पायसेन वा पिण्डानाहुः एवं विप्रसमीपे पिण्डदानान्तेनमोवः पितरइषेइत्यत्रोपस्थानमन्त्रइषेस्थानेआमद्रव्यायेत्यूहः पिण्डोद्वासनान्ते पिण्डजातीयद्रव्येण विकिरदानम् आमश्राद्धेस्वस्तीतिब्रूतेतिवर्ज्यं वाजेवाजे इति मन्त्रेतृप्तायातेतिस्थानेतर्प्सथयातेत्यूहः ततः प्राग्वच्छेषंसमापयेत् आमश्राद्धं द्विजैः पूर्वाह्णेकार्यं शूद्रैरपराह्णएव आमान्नाभावे हिरण्यश्राद्धमप्येवमेव सङ्कल्पादौ सर्वत्र हिरण्यपदमामपदस्थाने योज्यम् आमवद्धेमप्रोक्षणम् अत्तवइत्यादिमन्त्रत्रयोहः प्राग्वदेव तण्डुलादिभिर्हस्तेऽग्नौकरणं हिरण्यमन्नादष्टगुणं चतुर्गुणं द्वगुणं समंवादेयं हिरण्यश्राद्धे दक्षिणास्त्येव श्राद्धीयमामं हेमवाद्विजदत्तं यथेष्टं विनियोज्यं शूद्रदत्तं तु भोजनादन्यत्रविनियोज्यं श्राद्धीयामेन पञ्चयज्ञाः श्राद्धञ्चनकार्यं हेमश्राद्धे आमश्राद्धे च पिण्डदानविकल्पात्साङ्कल्पिकविधिनाप्येतद्द्वयं साङ्कल्पिकेचसमन्त्रकावाहनार्घ्याग्नौकरणपिण्डदानविकिराक्षय्यस्वधावाचनप्रश्नेत्येतत्सप्तकंवर्ज्यं तत्रामुकश्राद्धमामेन हविषाहिरण्येन वा साङ्कल्पविधिना करिष्य इति सङ्कल्पः शूद्रगृहेऽन्यदीयमपिक्षीराद्यपिनभक्ष्यं किमुततदीयमामादि तद्गृहेपक्त्वानभक्ष्यमिति तस्माच्छूद्राल्लुब्धन्द्विजगृहेपक्त्वाभक्ष्यम् इत्यामश्राद्धहेमश्राद्धविधिः॥
अथपक्वान्नद्रव्यकसाङ्कल्पिकश्राद्धविधिः तत्र येषु सङ्क्रान्तियुगमन्वादिषु वृद्ध्युत्तरकालिकदर्शादिषु वा पिण्डदानं निषिद्धं तत्र सर्वत्र साङ्कल्पिकविधिः यश्चपिण्डदाना-
दिवहुविस्तृतं श्राद्धमनुष्ठानुमशक्तः सोपि साङ्कल्पिकं कुर्यात् तद्यया अमुकं श्राद्धं साङ्कल्पिकविधिनान्नेन हविषा करिष्ये इति सङ्कल्प्य तृतीयक्षणदानान्तं पूर्ववत्कृत्वार्घ्यदानसमन्त्रकावाहनं च वर्जयेत् देवानावाहयामीति पितृृना वाहयामीत्येवावाह्यगन्धादि पूजनादि भस्ममर्यादान्तेऽग्नौकरणं वर्जयित्वा परिवेषणादि सम्पन्नवचनान्ते उत्तरापोशनं विकिर पिण्डदानवर्जमक्षय्यवचनान्तं कृत्वा स्वधां वाचयिष्ये स्वधोच्यतामितिवाक्यरहितं सर्वं पूर्ववत्समापयेत् इति मां कल्पिकप्रयोगः॥
अथान्येप्यनुकल्पाः तत्र द्विजाद्यभावदर्भबदुविधानेन पिण्डदानमात्रमुक्तम् अथ वा द्रव्यविप्रयोरभावे पक्वान्नस्य पैतृकसूक्तेन होमः कार्यः यद्वाश्राद्धदिनेप्राप्तेभवेन्निरशनः पुमान्। किञ्चिद्दद्यादशक्तो वा उदकुम्भादिकं द्विजे १ तृणानिवागवेदद्यात्पिण्डान्वाप्यथनिर्वपेत्। तिलदर्भैः पितॄन्वापितर्पयेत्स्नानपूर्वकम् २ अथ वा तृणभारं दहेत् धान्यं वा तिलान्वास्वल्पां दक्षिणां वा द्विजायदद्यात् अथ वा सङ्कल्पादि सर्वश्राद्धप्रयोगं पठेत् सर्वाभावेवनं गत्वोर्ध्ववाहुः स्वकक्षं दर्शयन्निदं पठेत् नमेऽस्तिवित्तन्नधनन्नचान्यच्छ्राद्धोपयोगिस्वपितृृन्नतोस्मि।तृप्यन्तुभक्त्यापितरोमयैतौभुजौकृतौवर्त्मनिमारुतस्य १ इति प्रभासखण्डेऽन्येपिमन्त्राउक्ताः इत्यनुकल्पाः॥
अथ श्राद्धभोजने प्रायश्चित्तानि दर्शश्राद्धे षट्प्राणायामाः महालयादि श्राद्धेषु त्रिवर्षोर्ध्वं प्रतिवार्षिकेषु च षट्प्राणायामाः गायत्र्यादशकृत्वोभिमन्त्रितस्यजलस्यपानं वा एवमन्येष्वप्यनुक्तप्रायश्चित्तश्राद्धेषूक्तजलपानमेव वृद्धिश्राद्धे प्राणायामत्रयं जातकर्मादि चूडान्तसंस्काराङ्गवृद्धिश्राद्धेसान्तपनकृच्छ्रं जातकर्माङ्गश्राद्धे चान्द्रायणं वा अन्यसंस्काराङ्गश्राद्धे उपवासः सीमन्तसंस्कारेतत्संस्काराङ्गश्राद्धे च चान्द्रायणम् आपदिदशाहान्तर्नवसञ्ज्ञकश्राद्धेषुएकादशाहेचश्राद्धभोजनेप्राजापत्यकृच्छ्रं द्वादशाहिकसपिण्डीश्राद्धे ऊनमासेचपादोनकृच्छ्रः द्वितीयमासिकत्रैपक्षिकोनषाण्मासिकोनाब्दिकेष्वर्धकृच्छ्रः अन्यमासिकेषु प्रथमाब्दिकेवर्षान्तसपिण्डश्राद्धे च पादकृच्छ्रः उपवासो वा गुरवेद्रव्यं दातुं श्राद्धभोजने सर्वत्रोक्तार्धं जपशीलेतदर्धम् अनापनमासान्तेषु चान्द्रायणं प्राजापत्यं च द्विमासाद्युक्तचतुर्षु पादोनकृच्छ्रः त्रिमासादिषु पूर्वोक्तेष्वर्धकृच्छ्रः प्रथमाब्दिकेपादोनकृच्छ्रः द्वितीयतृतीयाब्दिकेएकोपवासः क्षत्रियश्राद्धे एतद्द्विगुणं वैश्यश्राद्धे त्रिगुणं शूद्रश्राद्धे सर्वत्रचतुर्गुणं चाण्डालविषजलसर्पपश्वादिहतपतितक्लीवादिनवश्राद्धे चान्द्रायणम् एकादशाहान्तं पराकञ्चान्द्रं च द्वादशाहादौपराकः द्विमासादिचतुर्ष्वतिकृच्छ्रः अन्यमासिकेषुकृच्छ्रः आब्दिकेपादः अभ्यासे सर्वत्र सर्वं द्विगुणम् आमहेमश्राद्धे साङ्कल्पिकेचतत्तदुक्तप्रायश्चित्तार्धं यतिश्च ब्रह्मचारी च पूर्वोक्तप्रायश्चित्तं कृत्वोपवासत्रयं प्राणायामशतं घृतप्राशनं चाधिकं चरेत् अनापदिद्विगुणं चरेत् दर्शादौगृहिवदेव ब्रह्मचारिणश्चौलसंस्कारेभोजनेकृच्छ्रः
:
सीमन्तेचान्द्रम् अन्येषूपवासः एकादशाहश्राद्धभोजने चान्द्रं पुनः संस्कारश्चेतिहेमाद्रिः॥
अथक्षयाहश्राद्धे विशेषः तत्र यस्यपित्रादेर्मरणं यन्मासे यत्पक्षे यत्तिथौतद्दिनं तस्य मृताहस्तत्र पित्रादित्रिदैवत्यं वार्षिकश्राद्धं पुरूरवार्द्रवदेवसहितं कार्यं नचात्रसपत्नीकत्वं पित्रादीनां नाप्यत्रमातामहादित्रयम् अत्र तिथिद्वैधेनिर्णयोरात्रावपिकार्यत्वं ग्रहणदिनेतत्प्राप्तौनिर्णयोमलमासादिनिर्णयोदर्शदिनेतत्प्राप्तौनिर्णयःशुद्धिश्राद्धनिर्णयश्च श्राद्धकालनिर्णयप्रसङ्गेन पूर्वोक्तोऽनुसन्धेयः पारणेमरणेचैव तिथिस्तात्कालिकीमतेति वचनात् मरणकालिकतिथेरपराह्णादिव्याप्त्याब्दिकश्राद्धनिर्णयोज्ञेयः पित्रोः प्रथमाब्दिकश्राद्धं विभक्तैर्भ्रातृभिः पृथक्कार्यम् अविभक्तत्वेज्येष्ठेनैव मातृमृताहेमात्रादि त्रिदैवत्यं श्राद्धम् मातापित्रोर्मृताहैक्येपूर्वं पितुः श्राद्धं कृत्वा स्नात्वा मातुःश्राद्धं कार्यम् एवमेकदिने पित्रोर्मरणेन मातुर्भर्त्रासहदाहकरणेपि ज्ञेयं सहगमनेत्वेकमेवपाकं कृत्वा पितृमातृपार्वणद्वययुतं श्राद्धं षट्पिण्डाअर्घ्याश्चविश्वेदेवास्तुनभिन्नाः सहगमने सुवासिनी मरणे च विप्रपङ्क्तौमुवासिनीमधिकां भोजयेत् सुवासिन्यैकुङ्कुमादिस्त्र्यलङ्कारान्दद्यात् सर्वत्र स्त्रीणां श्राद्धे वस्त्रयज्ञोपवीतगन्धादिकमेवविप्रेभ्योदेयं न कुङ्कुमादि एवंसापत्नमातुर्मातामहतत्पत्न्योर्मातुलस्यपितृव्यतत्पत्न्योर्भ्रातुः श्वश्रूश्वशुरयोर्गुरोःपितृष्वसुर्मातृष्वसुर्भार्यायाभर्तुर्भगिन्यादेश्चैतेषामपुत्रत्वेपार्वणविधिनैवप्रतिवार्षिकंश्राद्धङ्कार्यम् केचित्पितृमातृमातामहमातामहीव्यरिक्तानां सर्वेषामेकोद्दिष्टविधानेनैवेत्याहुः अत्र देशाचारानुसारेण व्यवस्था पित्रादिवार्षिकदिने पितृव्यादि वार्षिकप्राप्तौ स्वयं पित्रादि श्राद्धं कार्यं पितृव्यादि श्राद्धं तु पुत्रशिष्यादिद्वाराकार्यं दिनान्तरे वा स्वयं कार्यं सन्न्यासिनोप्याब्दिकादि पुत्रः कुर्यात्सपार्वणम्। प्रथमेवर्षे वर्षान्तसपिण्डनपक्षेमृताहात्पूर्वदिनेसपिण्डनमब्दपूर्तिश्राद्धं च कृत्वा परेद्युर्वार्षिकं कार्यम्॥
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा