निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथ क्षयाहाज्ञाने निर्णयः यस्य मृतस्य देशान्तरमरणादिनामासोज्ञायतेतिथिर्नज्ञायतेतस्यतन्मासन्दर्शेशुक्लैकादश्यां कृष्णैकादश्यां वा प्रतिवार्षिकं श्राद्धम् मृततिथिर्ज्ञातामासोन ज्ञातस्तदामार्गशीर्षेमाघेवाभाद्रेवाऽऽषाढेवार्तात्तिथौ वार्षिकं तिथिमासयोरज्ञानेयद्दिनेदेशान्तरं प्रस्थितस्तन्मासदिवसौ ग्राह्यौ प्रस्थानदिनादेरशानेमृतवार्ता श्रवणतिथिमासौ प्रस्थानवार्ता श्रवणयोर्मासज्ञानेतिथेरज्ञानेतन्मासेदर्शादौ प्रस्थानादिमासविस्मरणे तिथिस्मरणे मार्गशीर्षादिषुक्तचतुर्षुतत्तिथौ वार्षिकम् मरणतच्छ्रवणप्रस्थानानां दिनमासयोरज्ञाने माघस्यमार्गस्यवादर्शे श्राद्धं द्वादशादिवर्षप्रतीक्षोत्तरं प्रतिकृतिदाहेदाहदिने वार्षिकादि
अथ श्राद्धविघ्नेनिर्णयः निमन्त्रणोत्तरं विप्रस्यसूतकेमृतकेवाप्राप्ते आशौचन्ननिमन्त्रणं च द्वितीयक्षणरूपं समन्त्रकं ग्राह्यं न लौकिकमिति भाति कर्तुस्तुपाकपरिक्रियोत्तरमाशौचाभावः पाकपरिक्रियाचसमन्त्रकं पाकप्रोक्षणमित्याहुः कर्तुर्गृह्रेभोजनारम्भोत्तरं जनने मरणे वा भोजनशेषं त्यक्त्वा परकीयजलेनाचामेत् मम तु प्रतिभाति सर्वस्याप्याशौचापवादस्यानन्यगतिविषयत्वात्सङ्कटाभावेपाकपरिक्रियोत्तरमपि कर्तुराशौचेतदन्ते श्राद्धम् भोक्तुस्तु भोजनारम्भात्प्रागाशौचज्ञानेन्योनिमन्त्रणीयः भोजनारम्भोत्तरमाशौचे तु कर्त्रा तथैव श्राद्धं समापनीयम् भोक्त्रातुभोजनान्तेआशौचप्रकरणेवक्ष्यमाणम्प्रायश्चित्तङ्कार्यम् सङ्कटे तु पूर्वोक्तमिति युक्तं चेत्ग्राह्यम् अथ सिन्धौपाकोत्तरमाशौचाभाववचनस्य कर्तृ मात्रपरत्वाद्भोक्तुः प्रायश्चित्तमाशौचञ्चोक्तं तद्यथा ब्राह्मणक्याशौचेश्राद्धे सकृत्कामतोन्नभोजने सान्तपनकृच्छ्रम् अभ्यासेमासङ्कृच्छ्र चरेत् अज्ञानाद्विप्रादीनां ज्ञाता शौचानामन्नभक्षणे एकाहं त्र्यहं पञ्चाहं सप्ताहं क्रमेणाभोजनमन्ते पञ्चगव्याशनं च अभ्यासेद्विगुणम् आशौचं तु ब्राह्मणादीनामाशौचेयः सकृदेवान्नमश्नातितस्य तावदाशौचं यावत्तेपामाशौचं तदन्ते प्रायश्चित्तं कुर्यादिति विष्णूक्तं ज्ञेयं श्राद्धकालेऽन्यकालेचैतत्सममेवेति ज्ञेयं दातृभोक्तृभ्यामुभाभ्यामाशौचं न ज्ञातं चेन्नदोषः आशौचमध्ये श्राद्धदिनपते आशौचान्ते एकादशाहेकार्यम् एकादशाहोमलमासेचेन्मलेपिकार्यम् तत्रातिक्रमेशुद्धमासे
एतन्मासिके प्रतिवार्षिके च ज्ञेयं दर्शादीनां तु पञ्चमहायज्ञादिवल्लोप एव नाशौचान्ते कर्तव्यत्वं नापि प्रायश्चित्तम् आशौचं विना दर्शादीनां लोपेप्युपवासादिरूपं प्रायश्चित्तमेवनकालान्तरेनुष्ठानम् एकादशाहेऽसम्भवेऽमावास्यायां शुक्लृकृष्णैकादश्योर्वार्षिकम् मासिकञ्चोदकुम्भं च यद्यन्तरितं भवेत्। तत्त दुत्तरसातं त्र्यादनुष्ठेयं प्रचक्षते १ केचिदाब्दिकमप्यन्तरितं दर्शादिकालासम्भवेऽग्रिममासेतत्तिथौ कार्यमित्याहुः आशौचेतरव्याध्यादि विघ्नेविस्मृतौचैवमेव केचिद्व्याध्यादि विघ्ने पुत्रादिनातद्दिनेएवान्नेनाब्दिकमाहुः अथभार्यारजोदोषे
तत्र दर्शयुगादिमन्वाद्यष्टकान्वष्टकादि श्राद्धानि पाककर्त्रन्तरसत्वेऽन्नेन तद्दिने कार्याण्यन्यथामादि द्रव्येण कालादर्शोदर्शश्राद्धं पञ्चमेहनीतिपक्षान्तरमाह सकृन्महालयस्तुदर्शे भार्यारजसिमुख्यकालातिक्रमभिया तत्रैव कार्यः एवमाश्विनशुक्लपञ्चम्यन्तकालेप्यूह्यम् अष्टम्यादौसकृन्महालयोभार्यारजोदोषेन कार्यः कालान्तरसत्वादित्यादि महालयं प्रकरणोक्तमनुसन्धेयम् प्रत्याब्दिकं मासिकं च रजोदोषे पितद्दिनएवकार्यमित्येकः पक्षः पञ्चमेहनिकार्यमित्यपरः पक्षद्वयेपिग्रन्थसम्मतिः शिष्टाचारसम्मतिश्च भार्यान्तरसत्वे तद्दिनएवेतिसर्वसम्मतं तद्दिने करणपक्षे श्राद्धकालेरजस्वलादर्शनादिकं वर्ज्यं तेनतादृ-
शगृहासम्भवे योग्यपाककर्त्रसम्भवे च पञ्चमेहनीतिपक्षः श्रेयान् अपुत्रास्त्रीरजोदोषे भर्तुराब्दिकं पञ्चमेहनिकुर्यान्नत्वन्यद्वारातद्दिने अथ पतिमुद्दिश्याग्निप्रवेशे तत्र सहगमनमेव विप्राणां क्षत्रियादेस्तु सहगमनमनुगमनं च एकचित्यारोहेणदम्पत्योः सहैवमन्त्रवद्दाहः सहगमनम् भर्तुः समन्त्रकदाहोत्तरं पृथक्चितावग्निप्रवेशोनुगमनं तत्रोभयत्रापितिथ्यैक्ये एकदिने एव तन्त्रेण पाकादिकृत्वा दर्शवत्षट्पिण्डषडर्घ्यविप्रभेदयुतं पितृपार्वणमातृपार्वणविशिष्टं श्राद्धं कार्यं विश्वेदेवास्तुनभिन्नाभिन्नावा तिथिभेदेपि श्राद्धदिनैक्येएवमेव तिथिभेदाच्छ्राद्धदिनभेदेतु वार्षिकादि पृथगेवकार्यं केचित्तुसहगमनेतिथिभेदेपिभर्तुः क्षयाहश्राद्धदिने एव पत्न्याः श्राद्धं न तु दिनान्तरइत्याहुस्तदल्पकालव्यवधानेयोज्यं न तु द्वित्र्यादितिथिव्यवधाने॥
अथ श्राद्धसम्पातेनिर्णयः तत्र पित्रोर्मृताहैक्ये पूर्वं पितुः श्राद्धं ततः पाकभेदेन्नमातुरित्युक्तं गृहदाहादिनासपिण्डानां युगपन्मरणे सम्बन्धसामीप्यक्रमेण श्राद्धानि पाकभेदेन पृथक्कुर्यात् पृथक्पाकेन भिन्नश्राद्धाशक्तौ तन्त्रेण श्रपणं कृत्वा श्राद्धङ्कुर्यात्पृथक्पृथक। क्रमेणैकदने मरणेमरणक्रमेण तत्रैकदिने एकस्त्रयाणां श्राद्धानि न कुर्यात् वार्षिकश्राद्धत्रयप्राप्तौ श्राद्धद्वयं स्वयं कुर्यात् तृतीयादिभ्रात्रादिना कारयेद्दिनान्तरेवा कुर्यात् पित्रोः सपिण्डस्य च सम्पातेतूक्तं श्राद्धं कृत्वा तु तस्यैवपुनः श्राद्धं न तद्दिने। नैमित्तिकं तु कर्तव्यं निमित्तोत्पत्त्यनुक्रमात् १ तथाषण्णवतिश्राद्धेषु समानदेवताकत्वेतन्त्रेण श्राद्धानि अधिकदेवताकत्वेपृथक्श्राद्धानि वार्षिकमासिकोदकुम्भश्राद्धेषु नित्यश्राद्धं दर्शादिश्राद्धं च देवतानां भेदात्पृथक्कार्यम् महालयेतीर्थश्राद्धे दर्शादिषण्णवतिषु च नित्यश्राद्धस्य प्रसङ्गसिद्धिः मासिकेनोदकुम्भश्राद्धस्य प्रसङ्गसिद्धिः तत्र प्रसङ्गसिद्धिस्थलेदर्शादिकं प्रसङ्गिश्राद्धमेव सङ्कल्पपूर्वंसाङ्गमनुष्टेयम् प्रसङ्गसिद्धं तु नित्यादिकं न सङ्कल्पादावुच्चार्यमिति लोपापरपर्यायएवप्रसङ्गसिद्धिपदेनोच्यते तन्त्रसिद्धौ तु प्रकारद्वयं भाति दर्शव्यतीपातश्राद्धयोस्तन्त्रानुष्ठाने षट्पुरुषानुद्दिश्यदर्शश्राद्धं व्यतीपातश्राद्धं च तन्त्रेणकरिष्ये इति सङ्कल्प्यदर्शपातश्राद्धयोः देवार्थेक्षणः करणीय इति दैवेनिमन्त्र्यदर्शपातश्राद्धयोः पित्राद्यर्थेक्षणः करणीय इति वर्गद्वयार्थं विप्रद्वयादिकं न मन्त्र्यैकमेवश्राद्धं कार्यमित्येकः प्रकारः अथ वा पूर्ववत्सङ्कल्प्यदैवेतन्त्रेणैकमेवविप्रं निमन्त्र्यषोडशनासिकतन्त्रवत्दर्शश्राद्धेक्षणः करणीय इति दर्शविप्रनिमन्त्रणानन्तरं व्यतीपातश्राद्धेक्षण इति विप्रान्तरं निमन्त्र्यविप्रचतुष्टयादियुतं पातश्राद्धेपिण्डाभावात्षडर्घ्यपिण्डयुतं श्राद्धमेकेनैवपाकेनकार्यमित्यपरः प्रकारः एवं त्रिचतुरादिश्राद्धानां तन्त्रे ऊह्यम् अत्र पक्षद्वयेविचार्ययुक्ततरपक्षः सद्भिरनुष्ठेयः मयूखेतुसपिण्डकेन दर्शश्राद्धेनापिण्डकस्य व्यतीपातादिश्राद्धस्यैकदेवताकस्यप्रसङ्गसिद्धिरेव न तन्त्रसिद्धिस्तन्त्रोदाहरणं तु पातसङ्क्रान्त्यादिरित्युक्तं यत्त्वष्टक्ये -
नपितृमातृवार्षिकमासिकयोः प्रसङ्गसिद्धिरित्युक्तं तन्महालयेनवार्षिकसिद्ध्यापत्त्यावहुग्रन्थविरुद्धं यत्र च दर्शवार्षिकश्राद्धादौदेवताभेदाच्छ्राद्धभेदस्तत्र निमित्तानियतिश्चात्रपूर्वानुष्ठानकारणमितिवाक्यात् पूर्वं वार्षिकं ततोदर्शः यत्सर्वान्प्रत्येकरूप्येणैकदानप्राप्नोतितदनियतनिमित्तकं वार्षिकं मासिकं वा पूर्वं कार्यमितिवाक्यार्थः वार्षिकमासिकादीनां सम्पातेपितृपूर्वकत्वं सम्बन्धसामीप्यादिकं चानुपदमेवोक्तं दर्शमहालययोः सम्पातेपूर्वं महालयस्ततोदर्शः दर्शेवार्षिकमहालययोः प्राप्तौ पूर्वं वार्षिकं ततोमहालयस्ततोदर्शइतित्रयं पाकभेदेन विस्तरोमहालयप्रकरणे तथाकाम्यतन्त्रेणनित्यस्यतन्त्रं श्राद्धस्यसिद्ध्यति अथ सङ्क्रान्त्ययनद्वयविषुवद्वययुगादिमन्वादिभाद्रकृष्णत्रयोदशीश्रोत्रियागघुनमयुक्तमघाभरणीमघायुतत्रयोदशीवैधृतिव्यतीपातोपरागपुत्रोत्पत्तिनिमित्तकालभ्ययोगनिमित्तकश्राद्धानि प्रोष्ठपदीभिन्नसर्वपौर्णमासीश्राद्धानिचैतानि श्राद्धानि पिण्डरहितानि साङ्कल्पविधिनाकार्याणि एषु दर्शवत्षट्पुरुषोद्देशः तेनैषामे ककालसम्पातेतन्त्रेण सिद्धिः नित्यश्राद्धस्य प्रसङ्गसिद्धिः उपरागश्राद्धस्य भिन्नकालत्वेपृथगनुष्ठानम् उपरागश्राद्धेन सङ्क्रान्तिदर्शादिश्राद्धानां प्रसङ्गसिद्धिरितिप्रथमपरिच्छेदेमतान्तरमुक्तम् पुत्रोत्पत्तिनिमित्तकश्राद्धस्य नवदेवताकत्वात्पृथगनुष्ठानं तच्चहेम्नैवकार्यं नत्वामेन नाप्यन्नेनेति इति श्राद्धसम्पातेनिर्णयः॥
अथ तिलतर्पणं तच्चयच्छ्राद्धेयावन्तः पितरस्तर्पितास्तावत्पितृगणोद्देशेन तच्छ्राद्धाङ्गत्वेन तिलैस्तर्पणं कार्यं तत्र कालनियमः पूर्वं तिलोदकं दर्शेप्रत्यब्देतुपरेहनि। इत्यादि तदयं निष्कर्षः दर्शश्राद्धेश्राद्धात्पूर्वं श्राद्धाङ्गतिलतर्पणं तत्र विप्रनिमन्त्रणोत्तरं पाकारम्भोत्तरं वा ब्रह्मयज्ञकरणे ब्रह्मयज्ञाङ्गनित्यतर्पणेनैव दर्शाङ्गतिलतर्पणस्यसिद्धिः ततः पूर्वं वैश्वदेवोत्तरं वा ब्रह्मयज्ञकरणे श्राद्धीयषट्पुरुषोद्देशेन श्राद्धाङ्गतर्पणं कृत्वा श्राद्धारम्भः कार्यः प्रत्यहिकं सर्वपितृतर्पणतुब्रह्मयज्ञकालेकार्यम् एवं युगादिमन्वादिसङ्क्रान्तिपौर्णमासीवैधृतिव्यतीपातश्राद्धेषुद्रर्शवत्पूर्वमेव तीर्थश्राद्धेसर्वपित्रुद्देशेनपूर्वं वार्षिकश्राद्धेपरेद्युरेवश्राद्धीयदेवतात्रयोद्देशेन वार्षिकश्राद्धदिने नित्यतर्पणं तिलैर्नकार्यं सकृन्महालयेसर्वपित्रुद्देशेन परेद्युरेव अन्येषु महालयपक्षेष्वष्टकान्वष्टकापूर्वेद्युः श्राद्धेषु माध्यावर्षार्धोदयगजच्छायाषष्ठीभरणीमघाश्राद्धेषु हिरण्यश्राद्धेचानुव्रज्यतर्पर्णश्राद्धीयदेवतोद्देशेन श्राद्धसम्पातेतुयदितत्प्रसङ्गसिद्धिस्तदातदीयमेवतर्पणं तन्त्रत्वेतुपूर्वतर्पणवन्तां पश्चात्तर्पणवतां च श्राद्धानां समसङ्ख्यत्वे आदावन्तेवातर्पणं विषमसङ्ख्यत्वेबह्वनुरोधेन सङ्क्रान्तिषु ग्रहणेपित्रोः श्राद्धेदर्शेव्यतीपातेपितृव्यादिश्राद्धेमहालयेचनिषिद्धेपिदिने श्राद्धातिलतर्पणं कार्यमिति केचित् अन्ये तु सर्वत्रश्राद्धाङ्गतर्पणेकोपितिथ्यादिनिषेधोनेत्याहुः अथ श्राद्धाङ्गतर्पणनिषेधः वृद्धिश्राद्धेसपिण्ड्यां च प्रेतश्राद्धेनुमासिके। संवत्सरम्बिमोकेचनकुर्यात्तिलतर्पणम् १ तत्र तर्पणप्रकारः परेहनितर्पणेस्नात्वातर्पणं
कृत्वा नित्यस्नानं प्रातः सन्ध्यां च कुर्यात् यद्वानित्यस्नानप्रातः सन्ध्योत्तरं श्राद्धाङ्गतर्पणं सम्बन्धनामगोत्ररूपाणि द्वितीयान्तान्युच्चार्यस्वधानमस्तर्पयामीतिबह्वृचैर्दक्षिणहस्तेनान्यैरञ्जलिनात्रिस्त्रिस्तर्पयेत् प्रत्यञ्जलिमन्त्रावृत्तिः एवं नित्यतर्पणेपि ज्ञेयम् अथ ब्रह्मयज्ञाङ्गेनित्यतर्पणेतिलयुक्ततर्पणनिषेधकालः रविभौमभृगुवारेषुप्रतिपत्पष्ठ्येकादशीसप्तमीत्रयोदशीषुभरणीकृत्तिकामघासुनिशिसन्ध्यासुगृहेजन्मनक्षत्रेशुभकार्यदिनेऽन्यदीयेशोभनयुतगृहेमन्वादिषु युगादिषु गजच्छायायामयनद्वये च तिलतर्पणं मृदास्नानं पिण्डदानञ्चनकार्यं केचिदयनद्वयेयुगादिमन्वादिषु तिलतर्पणं नदोषायेत्याहुः विवाहव्रतचूडासुवर्षमर्धं तदर्धकमन्यत्रसंस्कारेमासं मासार्धं वातिलतर्पणादिकं महालयगयाक्षयाहश्राद्धं विना न कार्यमित्युक्तम् अत्र निषिद्धदिनेतिलालाभेवाहेमरौप्ययुतहस्तेन दर्भयुतहस्तेन वा नित्यतर्पणकार्यम् अथ तिथ्यादिनिषेधापवादः तीर्थेतिथिविशेषे च गयायां प्रेतपक्षके ।
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा