🕉️ 24 November 2026, Tuesday · 08:08:38 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← धर्मसिन्धु — परिच्छेद-सूची

📖 धर्मसिन्धु · तृतीय परिच्छेद (उत्तरार्ध) — श्राद्ध, आशौच, अन्त्येष्टि, संन्यास · पृष्ठ 68/81

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

तिथ्यादिनिषेधापवाद

निषिद्धेपिदिनेकुर्यात्तर्पणं तिलमिश्रितम् १ इति तिथिविशेषोष्टकादिरितिमयूखे अत्र कातीयानां केषाञ्चिद्वार्षिकादौ परे हनिभरण्यादौ विसर्जनान्ते च श्राद्धाङ्गतर्पणाचारोनदृश्यते तत्र मूलम्मृग्यं क्षयाहश्राद्धदिने नित्यतर्पणेतिलग्रहणं तु बहुग्रन्थविरुद्धम्॥

नान्दीश्राद्धयोगविचार

30. नान्दीश्राद्धेयद्वक्तव्यं…

अथ नान्दीश्राद्धेयद्वक्तव्यं तत्पूर्वार्धेप्रपञ्चितम् एतच्चोपनयनादिमहाकर्मसुपूर्वेद्युः कार्यं जातकर्माद्यल्पकर्ममुतदहरेव तत्र देशकालौ सङ्कीर्त्यसत्यवसुसञ्ज्ञकाविश्वदेवानान्दीमुखाःमातृपितामहीप्रपितामह्योनान्दीमुख्यःपितृपितामहप्रपितामहानान्दीमु मातामहमातु पत्नीसहितानान्दी एतानुद्दिश्यपार्वणविधानेन सपिण्डं नान्दीश्राद्धं करिष्ये इति सङ्कल्पः अर्ध्यकालेन वैवपात्राण्यासाद्यतेषु द्वौद्वौकुशौनिधाययवोसिसोमदैवत्य इति पूर्वोक्तोहेनयवानोप्योशन्तस्त्वेतिद्वयोर्द्वयोरावाह्यामुकविश्वेदेवाःप्रीयन्तां नान्दीमुखामातरः प्रीयन्तान्नान्दीमुखाः पितामह्यः प्रीयन्तामित्यादिना यथा लिङ्गपात्राणि पुरतोन्यसेत् नान्दीमुखामातरइदं वोर्घ्यमित्यादिना यथा लिङ्गन्द्वाभ्यामर्घ्यपात्रं विभज्यदेयं द्विर्द्विर्गन्धदानम्।चतुर्थ्यन्तानुद्दिश्यस्वाहाहव्यं नममेत्यादिदेववदन्नदानम् पिण्डदानकालेनान्दीमुखाभ्योमातृभ्यः स्वाहानान्दीमुखाभ्यः पितामहीभ्यः स्वाहेत्येवं प्रत्येकं द्वौद्वावित्यष्टादशपिण्डान्दद्यात् अत्रानुमन्त्रणं कृताकृतम् एवं सर्वं पित्र्यमपिसव्यादिनादैवधर्मेणैवकार्यमित्यादिसर्वं पूर्वार्धतोज्ञेयं तत्रानुक्तोविशेषएवात्रोक्तः॥

31. अयथविभक्ताविभक्तनिर्णयः

अयथविभक्ताविभक्तनिर्णयः तत्र जीवत्पितकनिर्णये श्राद्धाधिकारिनिर्णये च प्रायेणोक्तं विशेषस्तूच्यते विभक्तधनानां भ्रात्रादीनां सर्वेधर्माः पृथगेव सपिण्ड्यन्तप्रेतकर्मषोडशमासिकानिचैकस्यैवेत्यादि तु प्रागुक्तम् अविभक्तानां तु धननिरपेक्षाणिस्नानसन्ध्याब्रह्मयज्ञमन्त्रजपोपवासपारायणादीनिनित्यनैमित्तिककाम्यानिपृथगेव

अग्निसाध्यं श्रौतस्मार्तनित्यकर्मापि पृथगेव पितृ पाकोपजीवीस्याद्भ्रातृपाकोपजीविकः। इति पक्षान्तरं कात्यायनादिपरम् पञ्चमहायज्ञमध्ये देवभूतपितृमनुष्ययज्ञाज्येष्ठस्यैव पाकभेदे आश्वलायनानां वैश्वदेवभेदोविकल्पेन ज्येष्ठेन कृते वैश्वदेवेकनिष्ठस्यपाकसिद्धौ तेन तूष्णीं किञ्चिदन्नमग्नौ क्षिप्त्वा विप्रायदत्त्वा भोक्तव्यामिति केचित् देवपूजातुपृथगेकत्रवा प्रति वार्षिकदर्शसङ्क्रान्तिग्रहणादि श्राद्धानि ज्येष्ठस्यैव तीर्थश्राद्धाद्यपियुगपत्सर्वेषामविभक्तानां प्राप्तावेकस्यैव भेदेनप्राप्तौ भिन्नम् एवं गयाश्राद्धेपि योज्यं काम्येदानहोमादौ द्रव्यसाध्ये भ्रात्राद्यनुमत्याधिकारः मघात्रयोदशी श्राद्धं पृथगेवेत्युक्तम्॥

32. तीर्थश्राद्धं तत्र

अथ तीर्थश्राद्धं तत्र गङ्गादि तीर्थप्राप्तावर्ध्यावाहर्नाद्वजाङ्गुष्ठनिवेशनतृप्तिप्रश्नविकिरविसर्जनदिग्बन्धवर्ज्यंसकृन्महालयवत्सर्वपितृगणोद्देशेनधूरिलोचनसञ्ज्ञकविश्वेदेवसहितं तीर्थश्राद्धं कुर्यात् अग्नौकरणं कृताकृतं करणपक्षेतीर्थजलसमीपे श्राद्धं चेत्तदाप्राकृतमन्त्रयुतं तीर्थजलेकार्यम् अन्यथाहस्तादौ पिण्डानां तीर्थेप्रक्षेपएव प्रतिपत्तिः अत्र तीर्थवासिन एव विभाविगुणा अपि मुख्याः तदभावेऽन्ये अत्र श्राद्धीयेदेशेऽन्नादि द्रव्ये च काकश्वादिभिर्दृष्टेऽपि न दोषः तीर्थश्राद्धाङ्गतर्पणं दर्शवत्पूर्वं कार्यं देशकालो सङ्कीर्त्य सर्वपितृगणमुच्चार्य एतेषाममुकतीर्थप्राप्तिनिमित्तकं तीर्थश्राद्धं सपिण्डं सदैवं सद्यः करिष्ये इति सङ्कल्पः धूरिलोचनविश्वेदेवादि सर्वं सकृन्महालयवत् तीर्थयात्रायां साग्नेः सपत्नीकस्यैवाधिकारः निरग्निकस्य त्वपत्नीकस्यापि स्त्रियाः स्नानदानतीर्थयात्रानामस्मरणादिकं पुत्राद्यनुमत्यैव सधवायायात्रादिकं पत्यासहैव ॥

33. तीर्थयात्राविधिः तीर्थयात्रां

अथ तीर्थयात्राविधिः तीर्थयात्रां चिकीर्षुः प्राग्विधायोपोषणं गृहे।पारणाहेघृतश्राद्धं वृद्धिधर्मयुतं चरेत् १ तथा च षड्दैवतं नवदैवतं वाद्वादशदैवतं वा बहुसर्पिर्युतेमान्नेन श्राद्धं कुर्यात् निवेदनकाले इदं घृतं सान्नं दत्तं दास्यमानं चेत्यादिवदेत् गणेशं विप्रान्साधूंश्च शक्त्या सम्पूज्य यात्रा सङ्कल्पं कृत्वा श्राद्धशेषेण पारणां कृत्वा व्रजेदिति केचित् अन्ये तु श्राद्धान्ते यात्रासङ्कल्पं कृत्वा श्राद्धशेषवघृतमात्रमादायग्रामान्तरं क्रोशन्यूनं गत्वा तत्र श्राद्धशेषघृतसहितान्नान्न्तरेण पारणामित्याहुः श्रीपरमेश्वरप्रीतिकामः पितृमुक्तिकामोवाऽमुकप्रायश्चित्तार्थं वामुकतीर्थयात्रां करिष्ये इति यात्रासङ्कल्पऊह्यः उपवासात्पूर्वं मुण्डनं कार्यमिति केचित् अन्ये तु प्रायश्चित्तार्थयात्रायामेवमुण्डनमित्याहुः एवं गयोद्देश्यकयात्रायामपिमुण्डनविकल्पः उद्यतस्तुगयां गन्तुं श्राद्धं कृत्वा घृताधिकम्। विधायकार्पटीवेषं ग्रामं कृत्वा प्रदक्षिणम् १ ततः प्रतिदिनं गच्छेत्प्रतिग्रहविवर्जितः। यश्चान्यं कारयेछक्त्या तीर्थयात्रां नरेश्वरः २ स्वकीयद्रव्ययानाभ्यां तस्य पुण्यं चतुर्गुणम्।यात्रामध्ये आशौचेरजोदोषे वा शुद्धिपर्यन्तं स्थित्वा तदन्ते गच्छेत् विषममार्गे तु नदोषः सङ्कल्पि-

तयात्रामध्येतीर्थान्तरप्राप्तौ श्राद्धादिकं कार्यमेव वाणिज्याद्यर्थं गतेनापि मुण्डनोपवासादिकार्यं कार्यान्तरप्रसङ्गेन तीर्थगमनेर्धं फलं वाणिज्यार्थं गमने पादफलम् मार्गेद्विर्भोजनादिकरणे छत्रोपानहसेवने च पादोनं यानमारुह्यगमनेऽर्धम् अनुषङ्गेण तीर्थप्राप्तौ तीर्थस्नानात्स्नानजं फलं न तीर्थयात्राफलम् मार्गेन्तरानदीप्राप्तौ स्नानादिपरपारतः। अर्वागेवसरस्वत्या एषमार्गगतोविधिः १

34. तीर्थसामीप्यप्राप्तौ

तीर्थसामीप्यप्राप्तौ विधिः यानानि तु परित्यज्यभाव्यं पादचरैर्नरैः। भक्त्या च विलुठेत्तत्रकुर्याद्वेषं च कार्पटम् १ तीर्थप्राप्तिपूर्वदिने तीर्थप्राप्तिदिनेवोपवासः कार्यः तीर्थेमुसलस्नानं कृत्वोदङ्मुखः प्राङ्मुखो वा केशश्मश्रुलोमनखान्युदकसंस्थानिवापयेत् ततः समन्त्रकं स्नानं तत्र प्रणवेन जलमालोड्यतीर्थमवगाह्य ॐ नमोदेवदेवायशितिकण्ठायदण्डिने। रुद्राय चापहस्ताय च क्रिणेवेधसेनमः १ सरस्वती च सावित्री वेदमातागरीयसी। सन्निधात्रीभवत्वत्रतीर्थेपापप्रणाशिनी २ इति मन्त्रेण स्नायात् शेषः स्नानविधिर्नित्यवत् ततस्तर्पणादि तीर्थश्राद्धं श्राद्धोत्तरदिनेततोगमनं न श्राद्धदिने मुण्डनं चोपवासश्च सर्वतीर्थेष्वयं विधिः। वर्जयित्वा कुरुक्षेत्रं विशालं विरजङ्गयाम् १ सर्वतीर्थेष्विति प्रसिद्धमहातीर्थेष्वित्यर्थः दशमासोत्तरं पुनस्तीर्थप्राप्तौ मुण्डनादितीर्थविधिः प्रयागे तु योजनत्रयादागतस्य दशमासादर्वागपि प्रयागे जीवत्पितृकगुर्विणी पतिकृतचूडवालानामपि सभर्तृक स्त्रीणामपप्रथमयात्रायां वपनं केचित्सभर्तृकस्त्रीणां सर्वान्केशान्त्समुद्धृत्यछेदयेदङ्गुलद्वयमित्याहुः तत्र वेणीदानविधिर्द्वितीपरिच्छेदेउक्तः यतिभिस्तुतीर्थेप्यृ तु सन्धिष्वेवकक्षोपस्थवर्जं वपनं कार्यं तीर्थप्राप्तावविलम्बेन स्नानपितृतर्पणश्राद्धादिकुर्यात् न पर्वादिकालं विचारयेत् आकस्मिकमहातीर्थप्राप्तौ द्वित्रिदिनादिवासासम्भवेभुक्तेनापि रात्रावपिसूतकिनापि ग्रहणपर्वणी व स्नानं हिरण्यादिना तीर्थ श्राद्धं च कार्यम् एवं मलमासेपि योज्यम् अथ परार्थस्नानम् मातरं पितरं जायां भ्रातरं सुहृदं गुरुम्। तीर्थे स्नायाद्यमुद्दिश्यसोष्टमांशंलभेन्नरः १ यद्वाप्रतिकृतिं दर्भमयीं सत्तीर्थवारिषु। मज्जयेच्चयमुद्दिश्यसोष्टमांशम्फलं लभेत् २ पक्वान्नेन तीर्थश्राद्धेतेनैव पिण्डाः हिरण्यादिना कृते पिण्डद्रव्याणि सक्तुसंयावपायसपिण्याकगुडान्यतमानि पिण्डानां तीर्थे प्रक्षेप एव नान्याप्रतिपत्तिः एतच्चापुत्रया विधवयाकार्यं सपुत्रयानकर्त्तव्यम्भर्तुःश्राद्धङ्कदाचनइतिस्मृतेः अनुपनीतेनापि कार्यं यतिनातुनकर्तव्यं दण्डं प्रदर्शयेद्भिक्षुर्गयां गत्वा न पिण्डदः। दण्डस्पर्शाद्विष्णुपदेपितृभिः सहमुच्यते १ एवं कूपवटादिष्वपि दण्डप्रदर्शनमेव तीर्थवृत्तिदौर्वल्येन प्रतिग्रहेदशमांशदानेन शुद्धिः॥

35. शौचनिर्णयः श्रीविठ्ठलरुक्मिणीं

अथ शौचनिर्णयः श्रीविठ्ठलरुक्मिणीं च पितरौ दीनवत्सलौ। ध्यात्वेष्ट-

गर्भनाशजननाद्याशौचम्

सिद्धयेनत्वावक्ष्येथाशौचनिर्णयम् १ तत्रादौ गर्भनाशजननाद्या शौचम् आचतुर्थाद्भवेत्स्रावः पातः पञ्चमषष्ठयोः । अतऊर्ध्वं प्रतिः स्यात्तत्राशौचं विविच्यते १ तत्र गर्भस्रावे आद्यमासत्रये मातुस्त्रिरात्रं चतुर्थमासे च तू रात्रमस्पृश्यत्वरूपमाशौचम् पित्रादिसपिण्डानां स्रावमात्रेस्नानाच्छुद्धिः पञ्चमषष्ठमासयोर्गर्भपाते गर्भिण्या माससमसङ्ख्यं क्रमेण पञ्चषट्दिनान्यस्पृश्यत्वलक्षणमाशौचम् पित्रादिसपिण्डानां तु त्रिदिनं जननाशौचं मृताशौचं तु नास्ति इदं स्रावपाताशौचं सर्ववर्णसाधारणं गर्भिण्याः सप्तममासमभृतिप्रसवेमातुः पित्रादिसपिण्डानां च सम्पूर्णजननाशौचं तच्चविप्रेदशाहं क्षत्रियेद्वादशाहं वैश्ये पञ्चदशाहं शूद्रेमासः सङ्करजातीनां शूद्रवत् विज्ञानेश्वरस्तुनैषमाशौचं किं तु स्नानमात्रमित्याह सर्ववर्णेषु दशाहं वा जननाशौचेगर्भिण्यादशाहमस्पृश्यत्वं कर्मानधिकारस्तु कन्योत्पत्तौमासं पुत्रोत्पत्तौविंशतिरात्रम् इदं स्वस्वाशौचोत्तरमिति विप्रस्त्रियाः क्रमेण चत्वारिं शत्रिं शहिनान्यनधिकारः पितुः सापत्नमातुश्च कन्यायाः पुत्रस्यवोत्पत्तौ सचैलस्नानात्प्रागस्पृश्यत्वम् पित्रादिसपिण्डानां जननाशौचेकर्मानधिकारमात्रं कर्माद्यतिरिक्तकाले स्पर्शेदोषोन जातकर्मणिदानै च नालच्छेदनात्पूर्वं पितुरधिकारः एवं पञ्चमपष्टदशमदिनेषु दाने जन्मदादिपूजने चाधिकारः

सपिण्डममानोदकसगोत्रनिर्णयः

तत्र विप्राणां प्रतिग्रहेऽपिदोषोन कूटस्थमारभ्यसप्तमपुरुषपर्यन्ताः सपिण्डाः ततः सप्तसमानोदकाः ततः सप्तैकविंशतिपर्यन्ताः सगोत्राः तत्र सपिण्डानां दशाहमित्युक्तं सोदकानां त्रिरात्रं सगोत्राणामेकरात्रमितिनागोजीभट्टीये अन्ये तु सगोत्राणां नाशौचमित्याहुः अयं सपिण्डसोदकाद्या शौचविभागो जननेमरणे च समानः मरणेत्वाशौचविच्छेदेपि स्नानमात्रं यावदेककुलत्वज्ञानं तावद्भवत्येवेतिक्शेिषः अत्रेदं बोध्यं कूटस्थादारभ्यसन्ततिभेदे एकसन्ततौ कश्चिदष्टमोपरसन्ततौ च कश्चित्सप्तमस्तयोश्चैकतः सापिण्ड्यानुवृत्तिः परतो निवृत्तिरित्युक्तं तत्राष्टमेन निवृत्तसापिण्ड्यकेन सप्तमादीनाम्परसन्ततिस्थानां जनने मरणे त्रिदिनमाशौचं कार्यं सप्तमेनत्वनुवृत्तं सापिण्ड्यकेनाष्टमादीनां जननेमरणे वा दशाहमेवकार्यम् एवं सोदकत्रिरात्रादौ कन्या विषयकत्रिपुरुषसापिण्ड्येचोह्यं तत्राष्टमस्य मृतपितृकत्वे जीवत्पितृकत्वेपि च त्रिदिनमेव त्र्यम्बकीये भट्टोजीये नागोजीये चाशौचप्रकरणेऽन्यत्र च पित्रादिजीवनाजीवनकृत विशेषादर्शनादिति केचित् अपरे तु निर्णयसिन्धौ सापिण्ड्यप्रकरणे आदशमाद्धर्मविच्छित्तिरित्यादिसुमन्तुवाक्यस्यशूलपाणिकृतव्याख्यानेएकपिण्डदानक्रियान्वयित्वरूपसापिण्ड्यलक्षणमनुसृसजीवत्पित्रादित्रिकस्यप्रप्पितामहात्परेत्रयः पिण्डभाजस्तदूर्ध्वं त्रयोनवपुरुषपर्यन्तालेपभाजः श्राद्धकर्ताचदशम इति दशमादूर्ध्वं सापिण्ड्यनिवृत्तिः पितृपितामहजीवने नवपुरुषपर्यन्तं पितृजीवनेऽष्टपुरुषपर्यन्तं सा-

पित्रादिगृहेकन्याप्रसूतौ

पिण्ड्यमितिप्रतिपादनादष्टमादेः पित्रादिजीवनदशायां दशाहमाशौचं पित्रादिमरणोत्तरमेषवत्रिदिनमितिवदन्ति अत्र ममद्वितीयपक्षएव युक्तो भाति पितृगृहेकन्यामसूतौ पित्रोस्तद्गृहवर्तिभ्रातृणाञ्चैकाहः पितृगृहवर्तिपितृव्यादीनां सर्वेषां पितृसपिण्डानामेकाह इति स्मृत्यर्थसारे एवं भ्रात्रादिगृहे भगिन्यादिप्रसवेऽपितेषामेकाहः माधवस्तु पितृगृहेकन्यायाः प्रसूतौ पित्रोस्त्रिरात्रं तगृद्गृवर्त्तिभ्रातृणामेकाह इत्याह कन्यायाः पतिगृहेप्रसवेपित्रादीनान्नाशौचम्

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬