🕉️ 25 November 2026, Wednesday · 09:46:38 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← धर्मसिन्धु — परिच्छेद-सूची

📖 धर्मसिन्धु · तृतीय परिच्छेद (उत्तरार्ध) — श्राद्ध, आशौच, अन्त्येष्टि, संन्यास · पृष्ठ 69/81

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

मृतजातेजननोत्तरम्मृतेचाशौचम्

मृतजातेशिशौसपिण्डानां सम्पूर्णमेव जननाशौचम् मृताशौचं नास्ति जननोत्तरं नालच्छेदनात्पूर्वं शिशुमरणेपित्रादिसपिण्डानां त्रिदिनं जननाशौचं मातुस्तुदशाहमेव मृताशौचं तु नास्ति नालच्छेदनोत्तरं दशाहाभ्यन्तरेशिशुमरणे सपिण्डादीनां सम्पूर्णमेवजननाशौचं मरणाशौचं तु नास्ति

36. मृताशौचं तत्र

अथ मृताशौचं तत्र मृताशौचवतामस्पृश्यत्वं कर्मानधिकारश्च दशाहानन्तरं नामकरणात्प्राक्शिशुमरणे सपिण्डानां स्नानमात्रम् मातापित्रोस्तुपुत्रमृतौ त्रिरात्रं कन्यामृताचैकाहः सापत्नमातुः सर्वत्रपितृवत् नाम्नः पूर्वं खननमेव नित्यं नामकरणानन्तरं चूडाकरणपर्यन्तं तदभावेवर्षत्रयपूर्तिपर्यन्तं दाहखननयोर्विकल्पः नामकरणोत्तर दन्तोत्पत्तेः प्राक्पुत्रमरणे दाहेसपिण्डानामेकाहः खनने तु स्नानाच्छुद्धिः मातापित्रीरुभयत्रापित्रिरात्रं कन्यामृतौ तु त्रिपुरुषसपिण्डानामुभयत्रस्नानाच्छुद्धिः मातापित्रोः कन्यामृतौ दन्तोत्पत्तिपर्यन्तमुभयत्रैकाहः अत्र नामकरणं द्वादशदिनोपलक्षणं दन्तजननं सप्तममासोपलक्षणं तेन द्वादशदिनमारभ्य षण्मासपर्यन्तमेकाहादिफलितं सप्तममासमभृतिचूडाकरणपर्यन्तं तदभावे तृतीयवर्षपूर्तिपर्यन्तं दाहेखनने वा सपिण्डानामेकाहः केचित्खनने एकाहोदाहे त्रिरात्रमित्याहुः मातापित्रोरुभयत्रत्रिरात्रम् एतत्पुत्रमृतौ कन्यामृतौ तु वर्षत्रयपर्यन्तं सपिण्डानां स्नानाच्छुद्धिः मातापित्रोः सप्तममासप्रभृतिकन्यामृतौ त्रिरात्रं विज्ञानेश्वरस्त्वेकादशदिनमारभ्ययावदुपनयनं पुत्रमृतौ कन्यामृतौ तु यावद्विवाहं मातापित्रो स्त्रिरात्रमेवेत्याह प्रथमवर्षादौ कृतचूडस्य पुत्रस्यमरणेपित्रादीनां सर्वेषां त्रिदिनं नियतं दाहश्चनियतः त्रिवर्षोर्ध्वं कृतचूडस्याकृतचूडस्यवमरणेमागुपनयनात्पित्रादि सर्वसपिण्डानां त्रिदिनं दाहोनियतः सोदकानां त्वनुपनीतमरणेऽनूढकन्यामरणे च नाशौचं किं तु स्नानमात्रम् अनुपनीतभ्रातृमरणे भगिन्यानाशौचम् ऊनद्विवर्षस्यखननं मुख्यम् अनुगमनं वैकल्पिकम् पूर्णद्विवर्षस्यदाहोमुख्यः अनुगमननित्यम् अत्र दाहोदकदानादितूष्णीमेव कृतचूडायपूर्णत्रिवर्षायचभूमौ पिण्डदानं दन्तजननपर्यन्तं तत्तुल्यवयस्केभ्यो द्वितीयदिनेतदुद्देशेन दुग्धदानं त्रिवर्षान्तं चौलान्तं वा पायसदानं तदूर्ध्वमुपनयनपर्यन्तमाशौचान्ते सवयोभ्यस्तदुद्देशेन भोजनादिदानं स्त्रीशूद्रयोस्तुकृतचूडयोरप्युदकदानादिवैकल्पिकं शूद्रस्यत्रिवर्षपर्यन्तमेतदेवाशौचम्

अत्थोपनयनस्थानेविवाहः त्याचत्रिवर्षोर्ध्वं विवाहपर्यन्तं तदभावे षोडशवर्षपर्यन्तं वा शुद्रपमरणेत्रिदिनं तदूर्ध्वं जात्याशौचं कन्यायावर्षत्रयानन्तरं वाग्दानात्प्राङ्मरणे त्रिपुरुषसपिण्डानामेकाहः मातापित्रो स्त्रिदिनं दाहादितूष्णीं वाग्दानोत्तरं विवाहात्प्राक्कन्यामरणे पितृसपिण्डानां भर्तृसपिण्डानां च त्रिदिनम् अत्रोभयकुलेपिसाप्तपुरुषं सापिण्ड्यं दाहादितूष्णीमेव जननेऽनुपनीतमरणे चातिक्रान्ताशौचं नास्ति पितुरपत्य जननश्रवणे देशान्तरे कालान्तरे स्नानं भवत्येव अनुपनीतमरणेतिक्रान्तेऽपि स्नानं भवत्येवेतिस्मृत्यर्थसारः अनुपनीतस्यानूढकन्यायाश्च मातापितृमरणे एव दशाहाशौचम् अन्यमरणे तु न किमपि उपनयनोत्तरं मरणे सपिण्डानां दशाहं सोदकानान्त्रिरात्रं सगोत्राणामेकाहंस्नानाच्छुद्धिर्वेत्यादिविशेषःमागुक्तोत्रानुसन्धेयः स्त्रीशुद्रयोर्विवाहोत्तरम्मरणेदशाहः शूद्रस्यविवाहाभावेषोडश-वर्षोत्तरमित्युक्तं विवाहोर्ध्वङ्कन्यायाः पितृगृहेमरणेमातापित्रोःसापत्नमातुः-सापत्नभ्रातुःसोदरभ्रातुश्चत्रिरात्रम् पितृव्यादीनान्तद्गृहवर्तिनामेकाहः तद्गृहवर्तिनामपिसपिण्डानामेकाहइतिकेचित् ग्रामान्तरमृतौपित्रोःपक्षिणीतिकेचित् ऊढायाःकन्यायाःपतिगृहेमरणेपित्रोःसापत्नमातुश्चत्रिरात्रम् भ्रातुःपक्षिणी पितृव्यादीनामेकाहइतिकेचित् मातापित्रोर्मरणेसापत्नमातुर्मृतौचोढकन्यायास्त्रिरात्रन्दशाहान्तः दशाहोर्ध्वङ्कालान्तरेवत्सरान्तरेपिपक्षिणी भ्रातुरुपनीतस्य-विवाहितभगिन्याश्चपरस्परगृहमरणेपरस्परस्यत्रिरात्रं गृहान्तरमृतौपरस्परस्यपक्षिणी ग्रामान्तरेत्वेकाहः अत्यन्तनिर्गुणत्वेएकग्रामेपिस्नानम् एवंसापत्नभ्रातृभगिन्योरपि भगिनीमृतौभगिन्याअप्येवमेवेतिभाति ऊढकन्यायाः पितामहपितृव्यादिमरणेस्नानमेव मातुलमरणेभगिनीपुत्रस्यभगिनीकन्यायाश्चपक्षिणी उपकारकमातुलमरणेस्वगृहे-मातुलमरणेचत्रिरात्रम् अनुपनीतमातुलमरणेग्रामान्तरेमातुलमरणेचैकरात्रम् एवंसापत्नमातुलमरणेऽपि मातुलानीमरणेभर्तृभगिन्यपत्यस्पस्त्रीपुंसरूपस्यपक्षिणी सापत्नमातुलानीमरणेतुनाशौचम् उपनीतभागिनेयमरणेमातुलस्य-मातुलभगिन्याश्चत्रिरात्रम् एवंसापत्नभागिनेयेमृतेपि अनुपनीतभागिनेयमरणेमातुलस्यमातुलभगिन्याश्चपक्षिणी एवंसापत्नभागिनेयेमृतेपि अनुपनीतपदेनावशिष्टोपनयनमात्रःकृतचूडश्चूडायाअभावेत्रिवर्षोर्ध्ववयस्कोवाग्राह्यइतिभाति एवमग्रेप्यनुपनीतपदस्यार्थोबोध्यः भागिनेयीमरणेतुस्नानमात्रमितिभाति मातामहमरणेदुहित्रपत्यस्यपुत्ररूपस्य-कन्यारूपस्यवात्रिरात्रं ग्रामान्तरेपक्षिणी मातामह्याम्मृतायान्दौहित्रस्यदौहित्र्याश्चपक्षिणी अत्रसर्वत्रपुरुषस्योप-नीतस्यैवस्त्रियाश्चविवाहितायाएवमातापित्रतिरिक्ताशौचेधिकारइत्युक्तम् अत्रमातुलमातुलानीमातामहादिमृतौस्त्र्यपत्य-स्याशौचोक्तिस्त्र्यम्बकीयानुसारेणान्यत्रतुनैवंस्पष्टमुपलभ्यते उपनीतदौहित्रमरणेमातामहस्यमातामह्याचत्रिरात्रम्

अनुपनीतेदौहित्रेमृतेमातामहस्यमातामह्याश्चपक्षिणी दौहित्रीमरणेतुनाशौचमितिभाति श्वश्रूश्वशुरयोर्मरणेजामातुः-सन्निधौत्रिरात्रम् असन्निधौतुपक्षिणी उपकारकयोर्मरणे त्वसन्निधाबपित्रिरात्रमेव ग्रामान्तरेएकरात्रम् भार्यामरणेननिवृत्तसम्बन्धयोःश्वश्रूश्वशुरयोरनुपकारकयोर्मृतेतुपक्षिण्येकाहोवेतिभाति जामातरिमृतेश्वश्रूश्वशुरयोरेकरात्रं स्नानाच्छुद्धिर्वा स्वगृहेजामातुमरणेत्रिरात्रम् उपनीतेशालकेमृतेभगिनीभर्तुरेकाहः अनुपनीतेतुशालकेस्नानं ग्रामान्तरेमृतेपिस्नानम् भार्यामरणेननिवृत्तसम्बन्धेशालकेस्नानमितिनागोजीभट्टीये शालकसुतमरणेस्नानं कश्चिच्छालिकायाम्मृतायांशालकवदेकाहादिकमाह मातुःस्वसरिमृतायांस्वस्रपत्ययोःकन्यापुत्रयोःपक्षिणी एवंसापत्नमातुः स्वसृमरणेपि पितुःस्वसरमृतायांस्वस्रपत्ययोःकन्यापुत्रयोःपक्षिणी पितुःसापत्नस्वसृमरणेतुस्नानमात्रम् भ्रात्रपत्यमरणेतुपितृष्वसुःस्नानं स्वगृहेपितृष्वसृमातृष्वसृमरनेत्र्यहम् उपनीतबन्धुत्रयमरणेपक्षिणी अनुपनीतस्यगुणहीनस्यवावन्धुत्रयंस्यमरणेएकाहः स्वगृहेमरणेतुत्रिरात्रम् अत्रबन्धुत्रयपदेनात्मबन्धुत्रयम्पितृवन्धुत्रयं-मातृबन्धुत्रयमितिनवबन्धुवोग्राह्याः तेयथा आत्मपितृष्वसुःपुत्राआत्ममातृष्वसुःसुताः । आत्ममातुलपुत्राश्चविविज्ञेयाआत्मबान्धवाः १ पितुःपितृष्वसुःपुत्राःपितुर्मातृष्वसुःसुतः ।-पितुर्मातुल पुत्राश्चविज्ञेयाःपितृबान्धवाः २ मातुःपितृष्वसुःपुत्रामातुर्मातृष्वसुःसुताः । मातुर्मातुलपुत्राश्चविज्ञेयामातृवान्धवाः ३ इति पितृष्वस्रादिकन्यानान्तुविवाहितानाम्मरणे तद्बन्धुवर्गस्त्वेकेनेतिवचनवलादेकाहोऽनूढानान्तुमरणेस्नानमात्रमितिनिर्णयसिन्ध्वाशयः नागोजीभट्टास्तुबन्धुत्रयवाक्येपुत्रपदं-कन्योपलक्षकमित्याहुः तन्मतेपितृष्वस्रादिकन्यानामूढानाम्मरणेपक्षिणी अनुढानामेकाहइत्यादि पितृष्वस्रादिकन्याभिस्तुबन्धुत्रयमरणेस्नानमात्रङ्कार्यमितिसिन्ध्वाशयेनसिध्यति भट्टमतेतुपुत्रवत्तद्वाक्यस्थात्मपदस्यापिकन्या-परत्वापत्त्याकन्याभिरपिबन्धुत्रयाशौचङ्कार्यमित्यापतति तत्रचबहुशिष्टाचारविगानमितिसिन्ध्वाशयोयुक्तोभाति अत्रेदन्तत्वं देवदत्तीयबन्धुनवकमध्येआत्मबन्धुत्रयेसंवन्धसाम्यात्परस्परमाशौचम् अवशिष्टबन्धुषट्केतुबन्धुषट्कमरणेदेवदत्तस्य-आशौचन्देवदत्तस्यमरणेतुबन्धुषट्कस्यनाशौचंसम्बन्धाभावादितिसुधीभिरूह्यं दत्तकस्यमरणेपूर्वापरपित्रोस्त्रिरात्रं-सपिण्डानाम्मेकाहमाशौचं नीलकण्ठीयेदत्तकनिर्णयेतूपनीतदत्तकमरणादौपालकपित्रादिसपिण्डानान्दशाहादि-कमेवाशौचमित्युक्तं दत्तकेनापिपूर्वापरपित्रोर्मृतौत्रिरात्रम्पूर्वापरसपिण्डानाम्मरणेएकाहः पित्रोरौर्ध्वदेहिककरणेतुकर्माङ्गं-दशाहमेव दत्तकस्यपुत्रपौत्रादेर्जननेमरणेवापूर्वापरसपिण्डानामेकाहः एवम्पूर्वापरसपिण्डमरणादावपिदत्तकपुत्रपौत्रादेरेकाहः इदंसपिण्डसमानोदकभिन्नेदत्तीकृतेज्ञेयं सगोत्रसपिण्डेसोदकेचदत्तीकृतेयथाक्रमन्दशाहन्त्रिरात्रञ्चयथाप्राप्तम्भवत्येव आचार्येमृतेत्रिरात्रं ग्रामान्तरेमृतेपक्षिणी उपनीयवेदाध्यापकआचार्यः स्मा

र्तकर्मनिर्वाहकोप्याचार्यः आचार्यभार्यासुतयोर्मरणेएकाहः मन्त्रोपदेशकगुरुमरणे त्रिरात्रङ्ग्रामान्तरेपक्षिणी शास्त्राध्यापकोव्याकरणज्योतिःशास्त्राद्यङ्गाध्यापकश्चानूचानसञ्ज्ञकस्तन्मरणेएकाहः सकलवेदाध्यापकगुरुमरणेपक्षिणी वेदैकदेशाध्यापकउपाध्यायस्तन्मरणेएकाहः शिष्यस्योपनीयाध्यापितस्यमृतौत्रिरात्रं निवृत्ताध्ययनस्यमृतौपक्षिणी परोपनीतस्यबहुकालमध्यापितस्यमरणेएकाहः सहाध्यायमृतौपक्षिणी ऋत्विज्यनिवृत्तर्त्विक्कर्मणिमृतेत्रिरात्रं ग्रामान्तरेपक्षिणी कर्मनिवृत्तौग्रामान्तरेएकाहः एकग्रामेपक्षिणी एवंयाज्यमरणेपि सार्थवेदाध्यायीश्रौतस्मार्तकर्मनिष्ठश्चश्रोत्रियस्तयोर्मरणेमैत्रीगृहानन्तर्यादिसम्बन्धेत्रिरात्रम् एकतरसम्बन्धेपक्षिणी सम्बन्धाभावेएकाहः सवर्णमित्रमरणेएकाहः यतिमरणेसर्वसपिण्डानांस्नानमात्रं स्वगृहेउदासीनासपिण्डमरणेएकाहः स्वाधिष्ठितस्वगृहेअसपिण्डमरणेत्र्यहम् आशौचप्रयोजकसम्बन्धिनि स्वगृहेमृतेत्रिरात्रं ग्रामाधिपदेशाधिपादेर्मृतौसज्योतिः दिवामरणेरात्रौस्नानाच्छुद्धिःरात्रिमरणेदिवाशुद्धिरितिसज्योतिःपदार्थः पक्षिणीपदार्थस्तुदिवामरणेसदिवसः-सारात्रिर्द्वितीयदिवसेनक्षत्रदर्शनपर्यन्तमिति आगामिवर्तमानाहर्द्वययुतामध्यगता रात्रिः रात्रिमरणेसारात्रिस्तदुत्तरमहोरात्रिश्चेतिपक्षणी केचित्तुरात्रिमरणेपिमरणदिनाद्द्वितीयदिनस्थनक्षत्रपर्यन्तमेव-पक्षिणीपदार्थइत्याहुः एवमतिक्रान्तेविषयेदिवारात्रौवाभरणज्ञानानुसारेणपक्षिणीव्यवस्थायोज्या आचार्यमातुलादीनान्त्रिरात्राद्याशौचमन्यस्मिन्नन्त्यकर्मकर्तरिज्ञेयं शिष्यादीनामन्त्यकर्मकर्तृत्वेतुदशाहाद्येव ग्राममध्येयावच्छवस्तिष्ठतितावत्ग्रामस्याशौचं नगरेतुनैवं ग्रामनगरलक्षणान्यन्यत्र गृहे गवादिपशुमृतौयावच्छवस्तिष्ठेत्तावदाशौचं द्विजगृहेशुनोमृतौगृहस्यदशरात्रमाशौचं शुद्रमरणेमासम् पतितमृतौमासद्वयम् म्लेच्छादिमृतौमासचतुष्टयं दासानाङ्गृहजातक्रीतऋणमोक्षितलब्धत्वादिप्रकाराणाङ्खस्वामिमरणेस्वजातीयाशौचं युद्धेशस्त्रघातेनसद्योमृतेस्नानमात्रन्नाशौचमन्त्यकर्मापिदशाहादिकंसद्यएवकर्तव्यं युद्धक्षतेनकालान्तरेमरणेएकाहः त्र्यहादूर्ध्वंयुद्धक्षतेनमचताराङ्मुखहतेयुद्धेकपटेनहतेचत्रिरात्रं युद्धक्षतेनसप्तरात्रादूर्ध्वम्मृतौदशाहमित्याहुः पित्रादिरूपमृद्धेहतस्यसद्यःशौचादिकंलोकविदिष्टत्वान्नवदन्ति प्रयागादौकाम्यमरणेस्नान्मात्रम् मार्याश्चत्तार्थमग्न्यादिमरणेएकाहः दारोगपीडाक्षमाणाञ्जलादिप्रवेशेत्रिरात्रम् अत्रापिनशिष्टाचारसम्मतिः एवङ्कारागृहेमृतस्यैकरात्रेऽपि ॥

37. आतिक्रान्ताशौचं

अथातिक्रान्ताशौचं तत्रजननाशौचेऽतिक्रान्ताशौचन्नास्ति पितुःस्नानमात्रन्तत्रापिभवति मृताशौचेप्यनुपनीतमरणादिनिमित्तेषुत्रिरात्रैकरात्रेषुमातुलादिपरगीत्रीयमरणनिमित्तकेषुपक्षिणीत्रिरात्रादिषुचातिक्रान्ताशौचन्नास्ति तत्रोढकन्यायाः पित्रोर्मरणेत्रिरात्रेऽतिक्रान्तेपिदशाहान्तस्त्र्यहं तदूर्ध्वंवत्सरान्तरेपिपक्षिणीत्यु-

क्तम् एवंसोदकादिविषयत्रिरात्रादिष्वतिक्रान्ताशौचन्न स्नानमात्रत्वत्रापिकालान्तरेपिभवत्येव किन्तुदशाहादिमृताशौचविषयमेवातिक्रान्ताशौचङ्कर्तव्यं तत्रदशाहाद्याशौचानान्त्रिरात्रादीनाञ्चतत्त-दाशौचमध्येज्ञानेऽवशिष्टदिनैःशुद्धिः पुत्रादेरपिशेषदिनैरेवशुद्धिः अन्त्यकर्मापिशेषदिनैरेवसमापनीयम् एवमस्थिपर्णशरसंस्कारोपिशेषेणैव एवंसोदकत्रिरात्रेपिशेषेणशुद्धिः त्रिरात्रायुत्तरन्तुदशाहन्यूनाशौचानां दशाहमध्येज्ञानेपिनातिक्रान्ताशौचङ्किन्तुस्नानमात्रम् मातापित्रोर्मरणे दूरदेशेपिवत्सरान्तरेपिश्रवणेपुत्रस्य-श्रवणप्रभृतिदशाहादिपूर्णमेवाशौचं दम्पत्योःपरस्परन्देशान्तरेकालान्तरेपिपूर्णन्दशाहमेव सपत्नीनाम्परस्परन्देशकाल-विशेषानपेक्षन्दशाहमेव सापत्नमातुर्मरणेपुत्रस्यदशाहोर्ध्वन्देशकालानपेक्षन्त्रिरात्रम् औरसपुत्रमृतौमातापित्रो-र्वत्सरान्तरेपित्रिरात्रं दशाहोर्ध्वमेकदेशेसपिण्डमरणेज्ञातेमासत्रयपर्यन्तन्त्रिरात्रं षण्मासपर्यन्तम्पक्षिणी नवमासपर्यन्तमेकरात्रं ततोवर्षपर्यन्तंसज्योतिःस्नानमात्रंवा माधवमतेपक्षत्रयपर्यन्तन्त्रिरात्रं षण्मासपर्यन्तम्पक्षिणी वर्षपर्यन्तमेकरात्रं वर्षोर्ध्वंस्नानमात्रमिति अत्रापदनापद्विषयत्वेनव्यवस्था अथदेशान्तरेसपिण्डमरणेदशाहोर्ध्वञ्ज्ञातेपक्षत्रयपर्यन्तन्त्रिरात्रं षण्मासपर्यन्तम्पक्षिणी नवमासपर्यन्तमेकाहः वर्षपर्यन्तं सज्योतिरितिमाधवमतं विज्ञानेश्वरस्तुदेशान्तरेसपिण्डमरणेदशाहोर्ध्वञ्ज्ञातेस्नानमात्रमित्याह अत्रमाधवमतमेवयुक्तम् अतिक्रान्ताशौचंवयोवस्थानिमित्तकाशौचञ्चसर्ववर्णसाधारणं देशान्तरन्तुविप्रस्यविंशतियोजनात्परं क्षत्रियादेःक्रमेणचतुविंशत्रिंशत्षष्टियोजनैः केचिद्विप्रस्पत्रिंशद्योजनोत्तरन्देशान्तरमाहुः भाषाभेदसहितमहागिरिणाभाषाभेद-सहितमहानद्यावाव्यवधानमपिदेशान्तरं यत्तुकेचिद्भाषाभेदरहितमपि गिरिनदीव्यवधानन्देशान्तरमाहुः तद्योजनगतविंशत्यादिसङ्ख्यायास्त्रिचतुरादिन्यूनत्वेऽपिदेशान्तरत्वसम्पादकतयायोज्यमितिभाति अन्यथामहानदी-परपूर्वतीरवासिनामेकयोजनमध्येपिदेशान्तरत्वापत्तेः अत्रसगोत्रविषयाशौचान्येवभार्यापतिपुत्रादिभिः सर्वैरनुष्ठेयानि यानितमातुलत्व नीत्वादिप्रयुक्तानिभिन्नगोत्राशौचानितेषुजायापतिपुत्रादिषुमध्येयत्सम्बन्धियबन्धुष्टकनुष्ठेयन्नसर्वै रात्रौजननमरणेरात्रौमरणज्ञानेवारात्रिन्त्रिभागाङ्कृत्वाप्रथमभागद्वयेपूर्वदिनन्तृतीयभागेउत्तरदिनमारभ्याशौचं यद्वार्धरात्रात्प्राक्पूर्वदिनम्परतःपरदिनम्

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬