🕉️ 24 November 2026, Tuesday · 08:04:09 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← धर्मसिन्धु — परिच्छेद-सूची

📖 धर्मसिन्धु · प्रथम परिच्छेद — काल, मलमास, तिथि-निर्णय, व्रत-परिभाषा · पृष्ठ 7/81

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

ग्रहणेयिम्बदानविधिः

ग्रहणेयिम्बदानविधिः न्मनक्षत्रस्थितामुकग्रहणसूचितसर्वानिष्टप्रशान्तिपूर्वकम्एकादशस्थानस्थितग्रहणसूचितशुभफलावाप्तयेबम्बदानङ्करिष्येइतिसङ्कल्प्यसूर्यं चन्द्रराहुञ्चध्यात्वानमस्कृत्य। तमोमयमहाभीमसोमसूर्यविमर्दन। हेमताराप्रदानेनममशान्तिप्रदोभव १ विधुन्तुदनमस्तुभ्यंसिंहिकानन्दनाच्युत। दानेनानेननागस्यरक्षमांवेधजाद्भर्यात् २ इतिमन्त्रमुच्चार्य इदंसौवर्णराहुविम्बन्नागं सौवर्णरविबिम्बंराजतं चन्द्रबिम्बंवा घृतपूर्णकांस्यपात्रनिहितंयथाशक्तितिलवस्त्रदक्षिणासहितङ्ग्रहण सूचितारिष्टविनाशार्थशुभफलप्राप्त्यर्थचतुभ्यमहंसम्प्रददेइतिदानवाक्येनपूजितब्राह्मणायदद्यात् एवं चतुर्थाद्यनिष्टस्थानेष्वपिदानङ्कार्यमितिभाति यस्यजन्मराश्यादिग्रहणन्तेन राहुग्रस्तरवीन्दुविम्बन्नावलोकनीयम् इतरजनैरपिपटजलादिव्यवधानेनैवग्रस्तबिम्बं द्रष्टव्यन्नसाक्षात् मङ्गलकार्येषुपूर्णग्रासे चन्द्रग्रहेद्वादश्यादितृतीयान्तन्दिनसप्तकंवर्ज्यम्

मङ्गलेषु वर्ज्यदिनादि

मङ्गलेषु वर्ज्यदिनादि. सूर्यपूर्णग्रासेएकादश्यादिचतुर्थ्यन्तदिनानिवर्ज्यानि खण्डग्रहणेतुदिनादि. चतुर्दश्यादिदिनत्रयंवर्ज्यं ज्योतिनिबन्धेषुग्रासपादतारतम्येन दिनाधिक्योनत्वन्तारतम्येनयोजितं ग्रस्तास्तेपूर्वदिनत्रयंवर्ज्यं ग्रस्तोदयेपरन्दिनत्रयंवर्ज्यं ग्रहणनक्षत्रंषण्मासम्पूर्णग्रासेवर्ज्यम् पादादिग्रासेसार्धमासादितारतम्येनयोज्यम् पूर्वसङ्कल्पितस्यद्रव्यस्यग्रहणोत्तरन्दानेतद्विगुणन्देयम्भवति इतिग्रहणनिर्णयोद्देशः ३१

44. समुद्रस्नाननिर्णयः

समुद्रस्नाननिर्णयः समुद्रपौर्णमास्यमावास्यादिपर्वसुस्नायात् भृगुभौमदिने स्नानंवर्जयेत्। अश्वत्थसागरौसेव्यौनस्पर्शस्तुकदाचन। अश्वत्थम्मन्दवारेचसागरम्पर्वणिस्पृशेत् १ नकालनियमः सेतौसमुद्रस्नानकर्मणि। समुद्रस्नानप्रयोगोन्यन्त्रज्ञेयः इति धर्मसिन्धुसारेसमुद्रस्नानोद्देशः ३२

45. तिथिविशेषेनक्षत्रविशेषेवारादौचविधिनिषेधाः

तिथिविशेषेनक्षत्रविशेषेवारादौचविधिनिषेधाः। सप्तम्यान्नस्पृशेत्तैलन्नीलवस्त्रन्नधारयेत्। नचाप्यामलकैः स्नानन्नकुर्यात्कलहन्नरः १ सप्तम्यान्नैव कुर्वीतताम्रपात्रेण भोजनम्। नन्दातिथिप्वभ्यङ्गोवर्ज्यः रिक्तासुक्षौरंवर्ज्यं जयासुमांसंशूद्राद्यैर्वर्ज्यम् पूर्णा-

मुस्त्रीवर्ज्या रविवारेभ्यङ्गोभौमवारेक्षौरम्बुधेयोषिच्चवर्ज्या चित्राहस्तश्रवणेषुतैलम्बर्ज्यं विशाखाप्रतिपत्सुक्षौरंवर्ज्यम् मघाकृत्तिकात्र्युत्तरासुस्त्रीनसेव्या तिलभक्षणन्तिलतर्पणञ्चसप्तम्यान्न नारीकेलमष्टम्यामलाबुनवम्याम्पटोलन्दशम्यान्निष्पावमेकादश्याम्मसूरन्द्वादश्यांवार्ताकन्त्रयोदश्यांवर्ज्यम्। पूर्णिमादर्शसङ्क्रान्तिचतुर्दश्यष्टमीषुच। नरश्चण्डालयोनौस्यात्तैलस्त्रीमांससेवनात् १ पूर्णिमादर्शसङ्क्रान्तिद्वादशीपुश्राद्धदिनेचवस्त्रम्पीडयेत् रात्रौमृदङ्गोमयमुदकञ्चनाहरेत् गोमूत्रम्प्रदोषकालेनगृह्णीयात् अमादिपर्वस्ववश्यंशान्त्यर्थन्तिलहोमीस्यात् आत्मरक्षणायदानादिकञ्चकुर्यात् पर्वसुनाधीयीत शौचाचमनब्रह्मचर्यादिसेवीस्यात् प्रतिपद्दर्शषष्ठीनवमीतिथिषुश्राद्धदिनेजन्मदिनेव्रतेचोपवासेचरविवारेमध्याह्नस्नानसमयेचकाष्ठेनदन्तधावनंवर्ज्यम्। अलाभेदन्तकाष्ठानां निपिद्धेपिदिनेतथा। अपान्द्वादशगण्डूषैः पत्रैर्वाशोधयेन्मुखम् १ अत्रसर्वत्रनिषेधेपुतिथ्यादिकन्तत्कालव्यापिग्राह्यम् इतिधर्मसिन्धुसारेतिथ्यादौविधिनिषेधसङ्ग्रहोद्देशस्त्रयस्त्रिंशत्तमः ३३

46. मीमांसाधर्मशास्त्रज्ञाः

मीमांसाधर्मशास्त्रज्ञाः सुधियोऽनलसाबुधाः। कृतकार्याःप्राङ्निबन्धैस्तदर्थनायमुद्यमः १ येपुनर्मन्दमतयोऽलसाअज्ञाश्चनिर्णयम्। धर्मेवेदितुमिच्छन्तिरचितस्तदपेक्षया २ निबन्धोयन्धर्मसिन्धुसारनामासुबोधनः। अमुनाप्रीयतां श्रीमद्विठ्ठलोभक्तवत्सलः ३ सर्वत्रमूलवचनानीहज्ञेया नितद्विचारश्च। कौस्तुभनिर्णयसिन्धुश्रीमाधवकृतनिबन्धेभ्यः ४ प्रेम्णासद्भिग्रन्थः सेव्यः शब्दार्थतः सदोषोपि। संशोध्यवापिहरिणासुदाममुनिसतुषपृथुकमुष्टिरिव ५ इतिश्रीमदनन्तोपाध्यायसूनुकाशीनाथोपाध्यायविरचितेधर्मसिन्धुसारेप्रथमपरिच्छेदः समाप्तः॥

श्रीगणेशायनमः। श्रीपाण्डुरङ्गायनमः। श्रीपाण्डुरङ्गं विबुधान्तरङ्गं नौमीन्दिरां माधवमन्दिरां च। सतामनन्तं हितमामनन्तं गुरुं गरिष्ठं जननीं वरिष्ठाम् १ काशीनाथाभिषेनात्रानन्तोपाध्यायसूतुना। सामान्यं निर्णयं प्रोच्य विशेषेण विनिर्णयः २ सङ्गृह्यते धर्मसिन्धुसाराख्ये कालगोचरे। ग्रन्थे प्रस्फुटबोधाय पुनरुक्तिर्न दूषणम् ३

१ अथचैत्रमासकृत्यम् प्रथमपरिच्छेदेमासविशेषानपेक्षंसामान्यतस्तिथ्यादिनिर्णयमभिधायास्मिद्वितीयपरिच्छेदे चैत्रादिमासविशेषोपादानेनप्रतिपदादितिथिषुविहितसंवत्सरकृसनिर्णयसारंसङ्गृह्णीमः अत्रशुक्लप्रतिपदादिरमान्तएवमासःप्रायेणदाक्षिणात्यैराद्रियतेइतितमेवाश्रित्यनिर्णयउच्यते अत्रकिञ्चित्पूर्वपरिच्छेदोक्तमपिपुनर्विशेषोक्तिभिर्दृढीक्रियतेइतिपुनरुक्तिर्नदोषाय तत्रमेषसङ्क्रान्तौपूर्वाः पराश्चदशदशनाड्यः पुण्यकालः रात्रौत्वर्धरात्रात्माक्सङ्क्रमेपूर्वदिनोत्तरार्धपुण्यम् अर्धरात्रात्परतःसङ्क्रमेउत्तरदिनस्यपूर्वार्धपुण्यम् अर्धरात्रेसङ्क्रमेदिनद्वयेपुण्यम् अर्थातथिनिर्णयः तत्रचैत्रशुक्लप्रतिपदिवत्सरारम्भः तत्रौदयिकीप्रतिपत्ग्राह्या दिनद्वयेउदयव्याप्तौअव्याप्तौवापूर्वा

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬