🕉️ 24 November 2026, Tuesday · 08:10:17 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← धर्मसिन्धु — परिच्छेद-सूची

📖 धर्मसिन्धु · तृतीय परिच्छेद (उत्तरार्ध) — श्राद्ध, आशौच, अन्त्येष्टि, संन्यास · पृष्ठ 70/81

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

आहिताग्न्यनाहिताग्निनिर्णयः

अत्रदेशाचारादिनाव्यवस्था आहिताग्नेर्मन्त्रवद्दाहदिनमारभ्यपुत्रादिभिराशौचङ्कार्यम् अत्राहिताग्निपदेनश्रौताग्नित्रय-वान्ग्राह्यः तद्भिन्नोगृह्याग्निमानप्यनाहिताग्निपदेनग्राह्यः आहिताग्नेर्विदेशमरणे मन्त्रवद्दाहात्पूर्वम्पुत्रादीनामाशौचं-सन्ध्यादिनित्यकर्मलोपश्चनास्ति मन्त्रवद्दाहमारभ्यतुपुत्रादिसपिण्डानान्दुहितृदौहित्रादिभिन्नगोत्राणाञ्चाशौचम्भवत्येव. न–.

त्वतिक्रान्तनिमित्तकआशौचाभावस्तस्यहासोवा अतएवाहिताग्नेःपर्णशरदाहेऽपिदशाहमेवदेशान्तरेकालान्तरेपिसिद्ध्यति अनाहिताग्नेर्मरणदिनादारभ्यपुत्रादिभिराशौचङ्कार्यम् अनाहिताग्नेर्देशान्तरेमरणेअतिक्रान्ताशौचम्मरणश्रवणानन्तरमेव-पूर्वोक्तव्यवस्थयाकार्यम् अनाहिताग्नेरस्थिदाहपर्णशरदाहयोस्तुपूर्वमगृहीताशौचयोर्भार्यापुत्रयोर्दशाहमेव गृहीताशौचयोस्तुसंस्कारकर्तृभिन्नयोर्दाहकालेत्रिरात्रं सपत्न्योर्मिथश्चैवम् पत्नीसंस्कारेपत्युश्चैवम् एतद्भिन्नसपिण्डानान्तुपूर्वमगृहीताशौचानामनाहिताग्निसंस्कारकालेत्रिरात्रं गृहीताशौचानान्तुसपिण्डानान्दाहकालेस्नानमात्रम् इदं सपिण्डानान्त्रिरात्रादिकम्पुत्रादेर्दशाहादिकञ्चदशाहोर्ध्वंसंस्कारकरणेज्ञेयं दशाहमध्येसंस्कारकरणेतुशेष-दिनैरेवशुद्धिःकर्मसमाप्तिश्च आहिताग्नेरेवदशाहमध्येपिशरीरदाहेऽस्थिदाहेपर्णशरदाहेवाशेषेणन-शुद्धिःसमन्त्रकदाहदिनस्यैवप्रथमदिनत्वादित्युक्तं दशाहोर्ध्वन्देशान्तरमृतानाहिताग्निवार्ताश्रवणदिनात्कृतत्रिरात्राशौचानां-सपिण्डानाञ्चतुर्थादिदिनेषुसंस्कारारम्भेदाहकालेस्नानम् अगृहीताशौचानान्त्रिदिनमेव भार्यापुत्रादेःश्रवणदिनादारभ्यदशाहं द्वितीयादावहन्यारम्भेचतुर्थदिनेसपिण्डशुद्धिः भार्यादेर्दशाहमेवश्रवणदिनादित्यूह्यं देशान्तरगतस्यद्वादशवर्षादिप्रतीक्षोत्तरम्पर्ण-शरदाहेप्येवमेवपुत्रादेः-सपिण्डानाञ्चदशरात्रन्त्रिरात्रादिकमूह्यम् प्रतीक्षाचयदारभ्य वार्तानश्रूयतेतदारभ्यपञ्चदशवर्षाणिमातापित्रोः अन्येषाम्पूर्वेवयसिविंशतिः मध्यमे पञ्चदश उत्तरेवयसिद्वादश प्रतीक्षायुक्त्यादिभिर्मरणनिश्चयासम्भवेकार्या॥

38. आशौचसम्पातेनिर्णयः

अथाशौचसम्पातेनिर्णयः दशाहमृताशौचेदशाहस्यततोन्यूनस्यवामृताशौचस्यसम्पातेपूर्वप्रवृत्ताशौचसमाप्त्याशुद्धिः १ दशाहजननाशौचेदशाहन्न्यूनंवाजननाशौचम्पततिचेत्पूर्वप्रवृत्तसमाप्त्याशुद्धिः २ दशाहमृताशौचेजननाशौचं-दशाहन्त्र्यहंवासम्पतेत्तदामृताशौचसमाप्त्याशुद्धिः ३ त्र्यहमृताशौचेत्र्यहन्ततोन्यूनंवामृताशौचं-त्र्यहञ्जननाशौचंवासम्पतेत्तदापूर्वप्रवृत्तान्तेशुद्धिः ४ त्रिदिनजननाशौचेत्रिदिनजननाशौचपातेपूवान्तेशुद्धिः ५ पक्षिणीमृताशौचेपक्षिण्येकाहान्यतरमृतकपातेपूर्वान्तेशुद्धिः जननाशौचेनसमेनाधिकेनवामृताशौचन्नापैति पक्षिण्यादिरूपमृतकेनत्रिदिनन्दशाहञ्चजननाशौचन्त्रिदिनमृताशौचेनदशाहञ्जाताशौचञ्चनापैतीतिबहवः कश्चित्तुन्यूनेनापिमृत-केनाधिकस्यापिजाताशौचस्यनिवृत्तिरित्याह त्रिदिनमृताशौचेनदशाहम्मृतकन्ननिवर्तते एवम्पक्षिण्यात्रिदिनमेकाहेन-पक्षिणीचनापैति त्रिदिनजाताशौचेनदशाहञ्जाताशौचननिवर्तते अत्रेदम्बोध्यं सम्पातोनामाशौचिनामेका-शौचित्वज्ञानेपराशौचित्वज्ञानं तेनपूर्वाशौचमध्येउत्पन्नमपिपराशौचम्पूर्वाशौचान्तेज्ञातञ्चेत्पूर्वेणननिवर्ततेसम्पाताभावात् पूर्वत्वपरत्वेतूत्पत्तिकृतेनज्ञानकृते तेनपूर्वोत्पन्नस्यपरोत्पन्नज्ञानोत्तरञ्ज्ञानेपिपूर्वोत्पन्नेनपरोत्पन्नन्तन्मध्येज्ञातन्निवर्ततएव सम्पातएवज्ञानकृतोनतुपूर्वत्वादिकमितिसिद्धान्ता-

दिति दशाहान्त्यरात्रौयदिनिवृत्तियोग्यदशाहसम्पातस्तदादिनद्वयमधिकङ्कार्यम् दशमरात्रेश्चतुर्थयामेनिवृत्तियोग्यदशाहान्तर-सम्पातेदिनत्रयमधिकं दशाहान्त्यरात्रौचतुर्थयामेवानिवृत्तियोग्यत्रिरात्राशौचपातेतुपूर्वेणशुद्धिर्नद्व्यहादिवृद्धि एवन्त्र्यहाद्याशौचानान्निवृत्तियोग्यानाम्परस्परन्तृतीयरात्रौतृतीयरात्रिशेषेवासम्पातेपूर्वेणशुद्धिर्नद्वयहादिवृद्धिः वर्धितद्वित्रिदिने-दशाहान्तरपातेपूर्वेणद्विरात्रेणत्रिरात्रेणवाननिवृत्तिः वर्धितद्विरात्रेणपक्षिण्यानिवृत्तिः वर्धितत्रिरात्रेणान्यत्ररात्रस्यनिवृत्तिः यदातुभागिनेयादिर्मातुलादेरन्त्यकर्मकरोतितदातन्निमित्तेदशाहाद्याशौचेसतियदिसपिण्डमरणनिमित्तन्दशाहादिकं-पततितदातस्यपूर्वेणशुद्धिर्नभवति कर्माङ्गाशौचस्यास्पृश्यतामात्रप्रयोजकत्वे-नसन्ध्यादिकर्मलोपाभावेनलघुत्वात् लघुनागुरोर्निवृत्त्यभावात् एवन्त्रिरात्रपातेपि, जननत्रिरात्रस्यनिवृत्तिर्मृतकत्रिरात्रस्यनेत्यादिकमूह्यम् पुत्रस्यसपिण्डाशौचेनमावापित्रोराशौचन्नापैति एवम्भार्यायाभर्त्राशौचन्नापैति केचित्पत्युर्भार्याशौचमपिनापैतीत्याहुः मात्राशौचमध्येपित्राशौचपातेपूर्वान्तेशुद्धिः स्मृत्यर्थसारादयस्तुपितुः-सम्पूर्णमेवाशौचङ्कार्यमित्याहुः पित्राशौचेमातुर्मरणेपित्राशौचंसमाप्यपक्षिणीमधिकाङ्कुर्यात् इयम्पक्षिणीवृद्धिर्दशमरात्रेरर्वाकमरणेतज्ज्ञानेवाभवति दशमरात्रौतद्रात्रिचतुर्थयामे वामातृमरणादौतुद्विरात्रत्रिरात्रावेवनपक्षिणी मातुरनाहिर्ताग्निभर्तुर्मरणाद्द्वितीयादिदिनेषुसहगमनेपिनाधिकापक्षिणी भर्त्राशौचान्तेशुद्धिः नवश्राद्धपिण्डादिकंयुगपत्समापयेत् भर्त्राशौचोत्तरमन्वारोहणेत्रिरात्रम् एतत्रिरात्रंसपिण्डानामेव पुत्रस्यतुमात्राशौचंसम्पूर्णमेवेतिभाति सहगमनेसपिण्डानामपिपूर्णमेवाशौचन्त्रिरात्रन्त्वनुगमनपरमितिगौडाः इदमेवयुक्तम् इयंसम्पातेपूर्वेणशुद्धिःसूतिकायाअग्निन्दस्वचनास्ति यदा देशान्तरमृतपितुर्वार्ताश्रुत्वा-पुत्रैर्दशाहमाशौचङ्कृतंसंस्कारस्त्वस्थ्यलाभादिहेत्वन्तरवशान्नकृतोदशाहोत्तरञ्चसंस्कारआरब्धस्तत्रसंस्कारकर्तुःपुत्रस्यकर्माङ्गन्दशाहमाशौचं तदाशौचमध्येसपिण्डमरणेपूर्वान्तेशुद्धिर्न मातुर्मरणेपिनाधिकापक्षिणी किन्तुसपिण्डाशौचम्मात्राशौचञ्चसम्पूर्णमेवकार्यम् अतिक्रान्तकालाद्वर्तमानस्यबलवत्त्वात् एवन्द्वादशवर्षादिमतीक्षोत्तरम्पुत्रादिभिः-क्रियमाणपित्रादिसंस्काराङ्गदशाहाशौचेऽन्यसपिण्डादिमरणेपीतिपूर्वशेषेणशुद्धेरपवादःसिन्धावुक्तः जननाशौचेमृताशौचे-वामृतकसम्पातेपिण्डदानाद्यन्त्यकर्मप्रतिबन्धोनास्ति मृताशौचेजाताशौचेवापुत्रजननेजातकर्मादिप्रतिबन्धोनास्तीत्येके पूर्वाशौचान्तेजातकर्मेत्यन्ये मातुर्याधिकापक्षिणीतन्मध्येपितुर्महैकोद्दिष्टश्राद्धंवृषोत्सर्गंशय्यादानादिकञ्चकुर्यात् अन्यसपिण्डाशौचेलेकादशाहकत्यन्नकार्यमितिबहवः कार्यमितिकश्चित् ॥

अनुगमने

39. शवस्पर्शानुगमनादिसंसर्गाशौचं

अथशवस्पर्शानुगमनादिसंसर्गाशौचं संसर्गाशौचेनित्यकर्मानधिकारोनास्ति किन्त्वस्पृश्यत्वमात्रं तदपितदीयभार्यापुत्रादीनान्नास्ति किन्तुसंसर्गकर्तुरेव एवन्तगद्गृहवर्तितत्स्वामिकान्नादिद्रव्याणान्नाग्राह्यत्वं तत्रसजातीयशवस्पर्शेसज्योतिराशौचं हीनवर्णस्पर्शेऽधिकङ्कल्प्यम् अथानुगमने सजातीयस्यविजातीयस्यशवस्यानुगमनेस्नात्वाग्निसंस्पर्शङ्घृतप्राशनञ्चकृत्वापुनःस्त्रात्वाप्राणायामङ्कुर्यात् विप्रस्यशूद्रानुगमनेत्रिरात्रन्नद्यांस्नानङ्घृतप्राशनम्प्राणायामशतञ्चनात्रनित्यकर्मलोपः अथनिर्हरणे स्नेहेनसजातीयशवनिर्हरणेतदन्नाशनेतद्गृवासेचदशाहः

निर्हरणे

तद्गृहवासमात्रेन्नाशनमात्रेवात्रिरात्रम् अन्नाशनगृहवासयोरभावेएकाहः ग्रामान्तरस्थंशवन्निर्हृत्यग्रामान्तरवासेसज्योतिः मौल्यग्रहणेनसजातीयनिर्हरणेदशाहः विजातीयनिर्हारेशवजातीयम् भृतिग्रहणेनहीनजातीयनिर्हरणेशवजातीयद्विगुणं सोदकशवनिर्हरणेपिदशाहः शवालङ्कारकरणेपादकृच्छ्रम् अज्ञानादुपवासः अशक्तौस्नानं धर्मार्थमनाथद्विजशवनिर्हरणेदाहकरणेचाश्वमेधादिपुण्यंस्नानमात्राच्छुद्धिः अग्निस्पर्शोघृताशनञ्चात्रापि धर्मार्थमपिशूद्रशवनिर्हरणेद्विजस्यैकाहः धर्मार्थमनाथशबानुगमनादौ-नदोषः ब्रह्मचारिणस्तुपितृमातृमातामहाचार्योपाध्यायभिन्नशवर्निर्हरणादीव्रतलोपः पूर्वोक्तरीत्याशौचञ्च ततस्तेनकृच्छ्रप्रायश्चित्तम्पुनरुपनयनञ्चकार्यम् पित्रादेर्निर्हरणेपिब्रह्मचारिणाआशौचिनामन्नन्नभक्ष्यं तेपांस्पर्शोपिनकार्यः

दाहादौ

अत्रापिनित्यकर्मलोपोन अथदाहादौ समोत्कृष्टवर्णप्रेतस्पस्नेहादिनादाहोदकदानादिसकलौर्ध्वदेहिककरणेतत्तज्जात्याशौचं तदन्तेस्नेहलोभाद्यनुसारेणगुरुलघुप्राजापत्यादीनान्त्रयं स्नेहादिनासवर्णानान्दाहमात्रकरणे·तद्गृहवासेत्रिरात्रं तदन्नभक्षणेदशरात्रं तदुभयाभावेएकाहः हीनवर्णेनोत्तमवर्णस्य दाहमात्रकरणेशवजात्याशौचम् भृतिग्रहणेनसवर्णस्यदाहमात्रकरणेपिदशाहाद्येव मौल्येनोत्तमवर्णदाहेद्विगुणम् उत्तमेनाधमवर्णदाहनिर्हरण-करणेतज्जात्याशौचन्तदन्तेक्रमेणद्विगुणन्त्रिगुणञ्चतुर्गुणम्प्रायश्चित्तम् मौल्येनहीनवर्णदाहादौ-तुप्रायश्चित्तमाशौचञ्चोक्तापेक्षयाद्विगुणं धर्मार्थंसमोत्कृष्टवर्णप्रेतस्यदाहादिसकलौ-र्ध्वदेहिककरणेपिनाशौचं-नित्यपिण्डदानाद्यनन्तरंस्नानमात्राच्छुद्धिः द्विजेनशूद्रस्यधर्मेणापिदाहादिनकार्यम् अथब्रह्मचारिणापितृमातृमतामाहादीना-मन्याधिकार्यभावेदाहाद्यन्त्यकर्मकार्यं तदा कर्माङ्गन्दशाहमस्पृश्यत्वलक्षण-माशौचञ्चकार्यं तदापितेषामाशौचिनामन्नम्ब्रह्मचारिणाऩभोक्तव्यम् आशौचिस्पृष्टतयावासश्चनकार्यः तदुभयकरणेमायश्चित्तम्पुनरुपनयनञ्च ब्रह्मचारिणापूर्वोक्तपित्रादिभिन्नानान्दाहाद्यन्त्यकर्मकरणेकृच्छ्रत्रयप्रायश्चितम्पुनरुपनयनञ्चाशौचान्तेकार्यम् पित्रादेर्दा-हमात्रकरणेएकाहमाशौचङ्कार्यम् अत्रसर्वत्रब्रह्मचारिणःसन्ध्याग्निकार्यादिकर्मलोपोन ब्रह्मचारिभिन्नस्यापिदाहा-दिनिमित्तकसंसर्गाशौ-

रोदने

चेब्रह्मयज्ञादिनित्यकर्मलोपोनेत्युक्तं तत्रदेवपूजावैश्वदेवादिकमन्येनकारणीयं स्वयङ्कर्त्तुंयोग्यन्तुस्वेनैवकार्यम् ब्रह्मचारिणः पित्राद्यन्त्यकर्माकरणेतुपित्रादिमरणेआशौचन्न समावर्तनोत्तरम्पूर्वमृतानाम्पित्रादिसपिण्डानान्त्रिरात्रमाशौचङ्कार्यम् अथरोदनेआशौचादि विप्रादिभिःसवर्णमरणविषयेऽस्थिसञ्चयनात्पूर्वंरोदनेस्नानं तदुत्तरमाचमनं विप्रस्यशूद्रविषयेऽस्थिसञ्चयनात्प्राक्त्रिरात्रं तदुत्तरमेकरात्रं शूद्रस्यविषयेतद्गृहवासादिसम्बन्धेऽस्थिसञ्चयनात्प्रागेकरात्रं तदूर्ध्वस्त्रानं सपिण्डानान्त्वनुगमनरोदनादौनदोषः नात्रापिकर्मलोपः अत्रसर्वत्रयस्ययावानाशौचकालस्तन्निर्वाह्यस्नात्वैवसविशुद्ध्यतिनतुस्नानंविनातावत्कालमात्रातिक्रमेणशुद्धिः अन्त्यकर्मकर्त्तुरस्थिसञ्चयनात्प्राक्स्त्रीसङ्गेचान्द्रायणम्प्रायश्चित्तम् ऊर्ध्वप्राजापत्यत्रयम् अन्येषाम्मृताशौचिनांसञ्चयनात्प्राक्सङ्गमेत्रिरात्रमुपवासः

आशौच्यन्नभक्षणे

ऊर्ध्वमेकरात्रम् अश्वाशौच्यन्नभक्षणे असगोत्रोनापदिबुद्धिपूर्वंसकृदप्याशौचिस्वामिकम्पक्वमन्नंयस्मन्दिनेभुङ्क्तेतदारभ्यतेनयावत्तेपामाशौचमवशिष्टन्तावदाशौचङ्कार्यम् आशौचान्तेचविप्राशौचेसान्तपनम्प्रायश्चित्तं शूद्राशौचेचान्द्रायणं क्षत्रियादेःकलावभावान्नलिख्यते क्वचिल्लेखस्तुव्युत्पादनमात्रार्थोनेदानीमुपयुज्यतेइतिप्रायउपेक्ष्यते मत्याभ्यासेविप्रशूद्राशौचयोःक्रमेणमासम्पण्मासङ्कृच्छ्रादिव्रताचरणम् अमत्याभोजनेयावदन्नपाकमाशौचङ्क्रमेणैकरात्रंसप्तरात्रञ्चोपोषणन्दशशतञ्चप्राणायामाः अमत्याभ्यासेद्विगुणम् आपद्यमत्याभोजनेतदहराशौचमेकःप्राणायामः शूद्राशौचेऽष्टाधिकसहस्रगायत्रीजपः ज्ञानतआपदित्रिरघमर्षणमष्टोत्तरसहस्रगायत्रीजपः शुद्राशौचेप्राजापत्यं शुद्रस्यद्विजाशचेस्नानम्पञ्चगव्याशनञ्च सर्वमिदञ्जननाशौचेन्यूनंयोज्यम् एवमाहिताग्न्याशौचेपिन्यूनमितिस्मृत्यर्थसारे सर्वमिदमाशौचिस्वामिकान्नभोजने यदातुतदस्वामिकमाशौचिस्पृष्टमात्रमन्नम्भुङ्क्तेतदामत्याभोजनेकृच्छ्रम् अमत्यार्धमितिस्मृत्यर्थसारेउक्तम् आशौचिस्पृष्टाशौचिस्वामिकान्नभोजीतुतत्स्वामिकान्नशननिमित्तन्तत्स्पृष्टान्नाशननिमित्तञ्चेतिप्रायश्चित्तद्वयंसमुच्चयेनकुर्यात् आशौचिस्वामिकामान्नप्रतिग्रहेतूक्तप्रायश्चित्तार्धम् आशौचन्तुनास्ति दातृभोक्तृभ्यामुभाभ्यामज्ञातेजननेमरणेवानदोषः अन्यतरेणज्ञातेदोषः तत्रदातुर्ज्ञानेभोक्तुरज्ञानेभोक्तरल्पम्प्रायश्चित्तं दातुरज्ञानेपिभोक्तुर्ज्ञानेपूर्णमेव

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬