निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
भोजननिमित्तकाशौचेपिकर्मलोपोन अथ तुकथमपिस्वल्पसंवन्धयुक्तेस्नानंवासोयुतंस्यादितित्रिंशच्छ्लोकी स्मृत्यर्थसारेप्येवम् अयमस्यार्थः स्वल्पेनापिएकाहाद्याशौचप्रयोजकेन सम्बन्धेनयुक्तेशालकजामात्रादौमृतेसचैलंस्नानकार्यं सर्वत्रगुरुणोलघुनोवामृताशौचस्यप्राप्तिकालेसमाप्तिकालेचस्नातव्यमितियावत् अथवास्वल्पैर्दशाहभिन्नपक्षिणीत्रिन्दिनाद्याशौचप्रयोजकैःसम्बन्धैर्युक्तेबन्धुत्रयमातुलानुपनीतसपिण्डादौमृतेदेशान्तरेकाला-
न्तरेपिस्नानम्भवत्येव तथाचयस्यसन्निहितकालेआशौचप्राप्तिस्तस्यातिक्रान्तकालेस्नानं यस्यतुसन्निहितकालेपिस्नानमात्रन्तस्यकालान्तरेस्नानमपिनेत्यर्थः यद्वास्वल्पआशौचप्रयोजकसम्बन्धभिन्नःसम्बन्धः यथाशालकसुतत्वम्ऊढकन्यायाःपितृव्यतत्पुत्रत्वादिभगिन्याभ्रातृपुत्रत्वादितद्युक्तेअशौचाभावेपिस्नानमात्रम्भवत्येव यत्किचित्सम्बन्धे अशौचाभावेपिस्नानमात्रंसन्निधौसर्वत्रकार्यमित्यर्थः पक्षत्रयमपिइदंशिष्टाचारेदृश्यते इतियुक्तम्भाति ॥
अथाशौचापवादः सपञ्चधा कर्तृतः १ कर्मतः २ द्रव्यतः ३ मृतदोषतः ४ विधानतइति ५ तत्रकर्तृतोयथा यतीनाम्ब्रह्मचारिणाञ्चसपिण्डजननमरणयोर्नाशौचम् मातापितृमरणेतुयतिब्रह्मचारिणोःसचैलंस्नानमात्रम्भवत्येव ब्रह्मचारिणःसमावर्तनोत्तरम्ब्रह्मचर्यदशायाम्मृतानाम्पित्रादिसपिण्डानान्त्रिरात्रमाशौचमुदकदानञ्चकार्यम् अनुगमननिर्हरणनिमित्तकत्वाशौचम्ब्रह्मचारिणोऽप्यस्त्येव पित्राद्यन्त्यकर्मकरणेब्रह्मचारिणआशौचमप्यस्त्येव आरब्धप्रायश्चित्तानाम्प्रायश्चित्तानुष्ठानसमयेआशौचन्न समाप्तेतुप्रायश्चित्तेत्रिरात्रमतिक्रान्ताशौचं कृतकर्माङ्गनान्दीश्राद्धानान्तत्कर्मसमाप्तिपर्यन्तन्तत्कर्मोपयोगिकार्येआर्त्यादिसङ्कटेआशौचन्न जाताशौचमृताशौचवतोर्मरणसमयप्राप्तौनाशौचं तेनदानादिकंसतिवैराग्येआतुरस्यसन्न्यासोऽपिभवतीतिसिन्ध्वादयः देशविप्लवदुर्भिक्षादिमहापदिसद्यःशौचम् आपदपगमेआशौचावशेषेअवशिष्टाशौचमस्त्येव ॥
अथकर्मतः अन्नसत्रिणामन्नादिदानेषुनाशौचम् प्रतिग्रहीतुस्तुआमान्नग्रहणेदोषोन पक्वान्नभोजनेतुत्रिरात्रङ्क्षीरपानं गृहीतेऽनन्तव्रतादावेकादश्यादौचारब्धकृच्छ्रादिव्रतेचनाशौचं तत्रस्नानादिशारीरनियमाःस्वयङ्कार्याः अनन्तपूजादिकमन्येनकारणीयम् ब्राह्मणभोजनादिकमाशौचान्ते राजादीनाम्प्रजापालनादौनाशौचम् ऋत्विजाम्मधुपर्कपूजोत्तरन्तत्कर्मणिनाशौचं तेनयेष्वाधानपशुबन्धादिषुमधुपर्कोनोक्तस्तेषुकृतेपिवरणेतान्त्यत्कान्येऋत्विजःकार्याः दीक्षितानान्दीक्षणीयोत्तरमवभृथस्नानपर्यन्तंयज्ञकर्मणिनाशौचं दीक्षितर्त्विग्भ्यांस्नानमात्रङ्कर्ममध्येकार्यम् अवभृथात्पूर्वमेवाशौचाभावः अवभृथन्तुनभवत्येवेतिसिन्धुः कर्मान्तेतुत्रिरात्रपूर्वन्यायात् रोगभयराजभयादिनाशार्थेशान्तिकर्मणिनाशौचं क्षुत्पीडितकुटुम्बस्यप्रतिग्रहेनाशौचं विस्मरणशीलस्याधीतवेदशास्त्राध्ययनेपिनाशौचं वैद्यस्यनाडीस्पर्शनेनाशौचं श्रद्धेतूक्तम् मूर्तिप्रतिष्ठाचौलोपनयनविवाहाद्युत्सवतडागाद्युत्सर्गकोटिहोमतुलापुरुषदानादिककर्मसुनान्दीश्राद्धोत्तरन्नाशौचं सङ्कल्पितेपुरश्चरणजपेऽविच्छेदेनसङ्कल्पितहरिवंशश्रवणादौचप्रारम्भोत्तरन्नाशौचं कालादिनियमाभावेतुस्तोत्रहरिवंशादिकमाशौचेहेयमेव सर्वोप्ययमाशौचापवादोनन्यगतिकत्वेआर्तौचज्ञेयइतिसिन्धौनागो-
जीयेचोक्तं तेनानन्यगतिकृत्वादिकमालोच्यैवाशौचाभावोयोज्यः अत्रयद्वक्तव्यन्तत्पूर्वार्धेतत्रतत्रोक्तमेव केचित्तुव्रतेष्विवदीक्षितानामृत्विजामारब्धोत्सवादीनाञ्चस्वरूपतआरम्भतश्चावश्यकत्वादार्त्याद्यभावेप्याशौचाभावइत्याहुः कन्यायाऋतुशङ्कादिसङ्कटेमुहूर्तान्तराभावेकूश्माण्डहोमादिनाजाताशौचेविवाहारम्भोपिकार्यइत्युक्तं विवाहादिषुनान्दी-श्राद्धोत्तरमाशौचपातेपूर्वसङ्कल्पितान्नमसगोत्रैर्दातव्यम्भोक्तव्यञ्च दातारम्भोक्तारंसिद्धान्नञ्चसूतकीनस्पृशेत् विवाहा-दौतदन्यत्रवाभुञ्जानेषुविप्रेषुदातुराशौचपातेपात्रस्थमप्यन्नन्त्यक्त्वान्यगेहोदकाचान्ताःशुध्यन्तीत्यादिपूर्वार्धेउक्तम् एवंसहस्रभोजनादावपिपूर्वसङ्कल्पितान्नेषुज्ञेयम् पार्थिवशिवपूजायान्नाशौचम् आशौचेसन्ध्याश्रौतस्मार्तहोमादिविषयेपूर्वार्धेउक्तम् अग्निसमारोपप्रत्यवरोहावाशौचयोर्नकार्यौ तेन समारोपोत्तरमाशौचपातेपुनराधानमेव समारोपप्रत्यवरोहयोरन्यकर्तृकत्वस्याशौचापवादस्यचाभावात् इदम्बह्वृचानान्द्वादशाहंहोमलोपेऽन्येषान्त्र्यहंहोमलोपेएवपुनराधानञ्ज्ञेयं ग्रहणनिमित्तकेस्नानश्राद्धदानादौनाशौचं कश्चित्स्नानमात्रङ्कार्यन्नश्राद्धादीत्याह सङ्क्रान्तिस्नानादावपिनाशौचं नित्यकृत्येषुस्नानाचमनभोजननियमास्पृश्यस्पर्शनादि-नियमेषुनाशौचम् अन्यद्वैश्वदेवब्रह्मयज्ञदेवपूजादिनित्यन्नैमित्तिकङ्काम्यञ्चाशौचेषुनकार्यम् भोजनकालेआशौचापादकजननमरणश्रवणेमुखस्थङ्ग्रासन्त्यक्त्वास्नायात् मुखस्थग्रासभक्षणेएकोपवासः सर्वान्नभोजनेत्रिरात्रोपवासः इतिकर्मतआशौचसदसद्भावविचारः ॥
अथद्रव्यतः पुष्पफलमूललवणमधुमांसशाकतृणकाष्ठोदकक्षीरदधिघृतौषधतिलतद्विकारेक्षुतद्विकाराणां-लाजादिभर्जितान्नस्यलड्डुकादीनाञ्चाशौचिस्वामिकानामाशौचिगृहस्थितानाञ्चग्रहणेदोषोन आशौचिहस्तात्तुकिमप्येतन्नग्राह्यम् पण्येतुवणिजादेराशौचेपितद्धस्ताल्लवणादेरामान्नस्यचक्रयेनदोषः जलदधिलाजादिकन्तुक्रयेणापितद्धस्तान्नग्राह्यम् ॥
अथमृतदोषतः शास्त्रानुज्ञांविनाशस्त्राग्निविषजलपाषाणभृगुपातानशनादिभिर्बुद्धिपूर्वकंस्वेच्छयात्मघातकानान्नाशौचं तच्चात्मघातनङ्क्रोधात्परोद्देशेनवास्तुस्वतएवेष्टसाधनताभ्रमेणवा तथाचौर्यादिदोषराजहतानाम्पारदार्येतत्पत्यादिहतानां-विद्युद्धन्तानाञ्चनाशौचम् अन्यैर्निषिद्धोपिगर्वान्नदीतरणवृक्षाधिरोहकूपावरोहादौप्रवृत्तोमृतस्तस्यापिनाशौचं योगवादिहरणार्थन्तद्धननार्थंवाप्रवृत्तोगोसर्पनखिशुङ्गिदंष्ट्रिगजचोरविप्रान्त्यजादिभिर्हतस्तस्यनाशौचम् महापातकिनां-तत्संसर्गिणाञ्चमहापापितुल्यानाञ्चपतितानान्नपुंसकानाञ्चमरणेनाशौचं स्त्रीणाञ्चपत्यादिहस्त्रीणांहीनजातिगामिनीनाङ्गर्भघ्नी-नाङ्कुलटानाञ्चपूर्वोक्तात्मघातादिपापयुक्तानाञ्चमृतौनाशौचं तत्रैषांशवानांस्पर्शाश्रुपातवहनदहनान्त्यकर्माणिनकुर्यात् स्पर्शादिकरणेज्ञानाज्ञाना-
भ्यासादितारतम्येनकृच्छ्रातिकृच्छ्रसान्तपनचान्द्रायणादिप्रायश्चित्तानिसिन्ध्वादिग्रन्थान्तरतोज्ञेयानि तेनैषाम्मृतदेहस्यजलेप्रक्षेपः ततःसंवत्सरोत्तरम्पुत्रादिस्तदीयात्मघातादिपापानुसारेणप्रायश्चित्तन्तस्यकृत्वानारायणबलिञ्चकृत्वापर्णशरदाहादिपूर्वकमाशौचमौर्ध्वदेहिकञ्चकुर्यात् केचित्प्रेतशरीरन्दग्ध्वादाहनिमित्तञ्चान्द्रायणत्रयङ्कृत्वाऽस्थीनिसंस्थाप्याब्दान्तेपूर्वोक्तरीत्यौर्ध्वदेहिकमित्याहुः अथवालौकिकाग्निनातूष्णीं दग्ध्वास्वजीवनसन्देहाद्वाभक्तयावापुत्रादयःसंवत्सरादर्वागपितत्तदात्मघातादिपापोक्त-द्विगुणप्रायश्चित्तपूर्वकन्नारायणवलिङ्कृत्वापर्णशरदाहमस्थिदाहंवाकृत्वाशौचमौर्ध्वदेहिकञ्चकुर्युः इदञ्चप्रायश्चित्तार्हाणामेव प्रायश्चित्तानर्हाणाङ्घटस्फोटेनबहिष्कृतानाञ्चदासीद्वारापतितोदकविध्यनन्तरंसपिण्डीकरणवर्जमौर्ध्वदेहिकं तेनसांवत्सरिक-मप्येकोद्दिष्टविधिनैव यद्वात्मघातिनाम्पुत्रादिर्मृतजातीयवधोक्तब्रह्महत्यादिप्रायश्चित्तसहितञ्चान्द्रायणं-तप्तकृच्छ्रद्वयञ्चकृत्वानारायणबलिपूर्वकन्तन्दहेत् तथाचात्मघातिनाङ्गोगजव्याघ्रादिहेतुकदुर्मरणवताञ्चपतितादीनाञ्चपूर्वोक्तानां-सर्वेषान्नमरणदिनादारभ्याशौचङ्किन्तुतत्तत्प्रायश्चित्तनारायणवलपूर्वकसमन्त्रकदाहदिनमारभ्यैवाशौचं जलाग्न्यादिभिः-प्रमादमृतानान्तुमरणदिनादारभ्याशौचादिकमस्त्येव तच्चत्रिरात्रमितिकेचित् दशाहमितिबहवः किन्तुप्रमादमरणस्यापिदुर्मरणत्वात्तन्निमित्तप्रायश्चित्तपूर्वकमेवदाहादिकार्यं तदुक्तस्मृत्यर्थसारे चण्डालगोब्राह्मणचोरपशुदंष्ट्रिसर्पाग्न्युदकादिभिःप्रमादान्मरणेचान्द्रायणन्तप्तकृच्छ्रद्वयञ्चतत्प्रायश्चित्तङ्कृत्वापञ्चदशकृच्छ्राणिवाप्रायश्चित्तङ्कृत्वाविधिवद्दहनशौचोदकदानादिसर्वङ्कार्यमेवेति प्राणान्तिकप्रायश्चित्तेनमृतस्यदशाहमाशौचं-सर्वाणिप्रेतकार्याणिचकर्तव्यानि प्रायश्चित्तेननस्यशुद्धत्वात् एवमारब्धप्रायश्चित्तस्यप्रायश्चित्तमध्येमरणेपिशुद्धत्वादिकञ्ज्ञेयम् आहिताग्नेस्तुपतितादेर्मरणेदर्पादिनाचाण्डालशृङ्गचोरादिहेतुकेचमरणेविशेषः त्रेताग्नीन्प्रक्षिपेदप्सुआवसध्यञ्चतुष्पथे । पात्राणितुदहेदग्नौसाग्निकेपापकर्मणि १ ततःप्रायश्चित्तार्हत्वानर्हत्वादिपूर्वोक्तव्यवस्थयानिर्मथ्याग्निनादाहाद्यन्त्यकर्मेति महापातकसंयुक्तःसाग्निकोयदिजीवति । पुत्रादिःपालयेदग्नीन्प्रायश्चित्तक्रियावधि १ प्रायश्चित्तन्नकुर्याद्यःकुर्वन्वाम्रियतेयदि । जलेग्नीन्प्रक्षिपेदग्नौपात्राणितुजलेषुवा २ माधवीयेआहिताग्नेर्दुर्मरणेप्यात्मघातेचतंलौकिकाग्निनातूष्णीं-दग्ध्वातदस्थीनिक्षीरेणप्रक्षाल्यतत्प्रायश्चित्तङ्कृत्वाश्रौताग्निभिःसमन्त्रकन्दाहादिकार्यमित्युक्तम् इदन्निरग्नेरपिदुर्मरणेयोज्यम् अथसर्पहतेविशेषः प्रमादेनवादर्पादिनावासर्पतोमृतावाशौचादिनकार्यं वक्ष्यमाणन्नागपूजाव्रतङ्कृत्वानारायणबलिसौवर्णनागदानप्रत्यक्षगोदानानिकृत्वादाहाशौचादिकार्यं सर्वत्रदुर्मरणेपतितादिमरणेचतत्तत्प्रायश्चित्तादिकृत्वादाहाशौचादिकार्यमित्युक्तं तत्रप्रायश्चित्तानिप्रसङ्गादुच्यन्ते बुद्धिपूर्वकमात्मघातेनमृतानान्त्रिंशत्कृच्छ्राणिप्रायश्चित्तम् एतच्चजातिवध-
प्रायश्चित्तेनसमुच्चितङ्कार्यं तद्यथा ब्राह्मणेनात्मघातेकृतेद्वादशाब्दं ब्रह्महत्याप्रायश्चित्तन्त्रिंशत्कृच्छ्रमात्मघातप्रायश्चित्तञ्चतत्पुत्रादिःकुर्यातं ब्राह्मणस्त्रियात्मघातकृतेब्राह्मणस्त्रीवध-प्रायश्चित्तन्त्रिंशत्कृच्छ्राणिच एवंशूद्राद्यात्मघातेप्यूह्यम् अशक्तावात्मघातेचान्द्रायण-द्वयन्तप्तकृच्छ्रचतुष्कञ्च प्रमादेनजलादिमरणेपञ्चदशकृच्छ्राणि चान्द्रायणपूर्वकन्ततकृच्छ्रद्वयंवा पतितमृतेषोडशकृच्छ्राणि ब्रह्महत्यादिपापिनाम्प्रायश्चित्तात्पूर्वम्मरणेतत्तत्पापप्रायश्चिन्त्तम्पुत्रेणकार्यम् प्रायश्चित्तानर्हाणान्तुपतितोदकदानविधिरेवन-प्रायश्चित्तादीत्युक्तं सिन्धौतुप्रायश्चित्तानर्हाणामपिपुत्रादिर्नारायणबलिपूर्वसर्वमौर्ध्वदेहि-कंसपिण्डीकरणन्दर्शादिश्राद्धं-गयादिश्राद्धञ्चकुर्यादेव एवम्म्लेच्छीकृतस्यापि पतितोदकविधिरपुत्रविषयइत्युक्तम् इदमेवयुक्तं यस्तुकिञ्चित्कालम्म्लेच्छीकृतःप्रायश्चित्तार्हस्तस्यषोडशकृच्छ्रादिप्रायश्चित्तम्पुत्रेणकृत्वापर्णशरदाहादिकार्यम् प्रमादमरणभिन्नेषु-चौर्यपारदार्यादिहेतुकेषुदुर्मरणेषुचान्द्रायणद्वयन्तप्तकृच्छ्रवेत्याकरतोविचार्ययोज्यं किञ्चव्याघ्रादिहेतुकदुर्मरणेषुशातातपोक्तदानादिविधरपिकार्यः तथाहि
व्याघ्रहतेविषकन्याविवाहनं गजहतेचतुर्निष्कपरिमितहेमनिर्मितगजदानं राजहतेसौवर्णपुरुषदानं चोरहतेप्रत्यक्षधेनुदानं वैरिहतेवृषदानं वृषभेणहतेयथाशक्तिहेमदानं शय्यायाञ्चमृतेदेयाशय्यातूलीसमन्विता निष्कहेमनिर्मितविष्णुप्रतिमाधिष्ठिताच शौचहीनमरणेद्विनिष्कहैमविष्णुदानं संस्कारहीनमरणेविप्रपुत्रोपनयनम् अश्वहतेनिष्कत्रयहेमकृताश्वदानं शुनाहतेक्षेत्रपालस्थापनं सूकरहतेमहिषदानं कृमिभिर्हतेपञ्चखारीमितगोधूमदानं वृक्षहतेवस्त्रयुतसौवर्णवृक्षदानं शृङ्गिणाहतेवस्त्रयुतवृषभदानं शकटहतेसोपस्करङ्किञ्चत्द्रव्यदानम् भृगुपातमृतेधान्यपर्वतदानम् अग्निनामृतेउदपानोत्सर्गविधिः काष्ठहतेधर्मार्थसभाकरणं शस्त्रहतेमहिषीदानम् अश्महतेसवत्सपयस्विन्यागोर्दानं विषेणहतेहेमनिर्मितपृथ्वीदानम् उद्बन्धनेनमृतेहेमकपिदानं जलेमृतेद्विनिष्कहेमनिर्मितवरुणदानं विषूचिकामृतेस्वाद्वन्नेनशतविप्रभोजनं कण्ठस्थितकवलस्यमरणेघृतधेनुदानं कासरोगमृतेऽष्टकृच्छ्राणि अतीसारमृतेलक्षगायत्रीजपः शाकिन्यादिग्रहैर्मृतेरुद्रैकादशिनीजपः विद्युत्पातमृतेविद्यादानम् अन्तरिक्षमृतेवेदपारायणम् पतितेमृतेषोडशकृच्छ्राणि अस्पृश्यस्पर्शयुक्तमरणेसच्छास्त्रपुस्तकदानमित्यादि अत्र शय्यामरणेशौचहीनसंस्कारहीनमरणेकृमिविषूचिकाकण्ठकवलकासातिसाररोगग्रहग्रहणैर्मरणेन्तरिक्षमृतेऽस्पृश्यस्पर्शमरणेचदानादिविधिरेवनप्रायश्चित्तन्नैवनारायणबलिर्नापिवर्षादिकालप्रतीक्षा व्याघ्रादिहेतुकंविषजलशस्त्रादिहेतुकञ्चमरणम्प्रमादेन-दर्पादिनाबुद्ध्याचेत्यनेकधासम्भवति तत्रोक्तव्यवस्थयाप्रायश्चित्तन्नारायणबलिर्दानादिविधिश्चेतित्रयाणांसमुच्चयः यदिपुत्रादिःपितुर्जलादिदुर्मरणप्रायश्चित्तम्ब्रह्महत्यादितत्त-
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा