निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
त्पापप्रायश्चित्तंवात्मघातप्रायश्चित्तंवाकर्तुन्नशक्नोति तदोक्तदानादिविधिन्नारायणवलिञ्चकुत्वाऽत्यशक्तौनारायण-वलमात्रङ्कृत्वौर्ध्वदेहिकङ्कुर्यात् तावतापुत्रादिसपिण्डानांशुद्धिसिद्धेः पित्रादेस्तुपुत्रादिभिस्तत्तत्प्रायश्चित्ताकरणेन-रकादिभोगःस्यादेवेतिबोद्ध्यम् अथविधिविहितजलादिमरणे तत्रप्रयागेसर्ववर्णानांरोगिणामरोगिणाञ्चभागीरथीप्रवेशादि-नामरणेकामिकमहाफलं शुद्रस्यारोगिणोषिप्रयागभिन्नेपिजलादिमरणमनुज्ञातं व्याधितोभिषजात्यक्तोविप्रोवृद्धोथवायुवा । तनुन्त्यजेज्जलाग्न्याद्यैःसयथेष्टफलंलभेत् १ दुश्चिकित्स्यैर्महारोगैःपीडितोजीवनाक्षमः । प्रविशेज्ज्वलनन्दीप्तङ्करोत्यनशनन्तथा २ अगाधतोयराशिञ्चभृगोःपतनमेवच । गच्छेन्महापथंवापितुषारगिरिमादरात् ३ प्रयागवटशाखाग्राद्देहत्यागङ्करोतिच.। उत्तमान्प्राप्नुयाल्लोकानात्मघातीभवेत्क्वचित् ४ नराणामथनारीणांसर्ववर्णेपुसर्वदा । आशौचंस्यात्त्र्यहन्तेषांवज्रानलहतेतथा ५ वाराणस्याम्म्रियेद्यस्तुप्रत्याख्यातभिषक्क्रियः । काष्ठपाषाणमध्यस्थोजाह्नवीजलमध्यगः ६ अविमुक्तोन्मुखस्तस्यकर्णमूलगतोहरः । प्रणवन्तारकम्ब्रूतेइत्यदिवचानोच्चयः ७ पुराणस्थोमाधवादिनिवन्धेषुह्युदाहृतः ।
अत्रानुज्ञातेबुद्धिपूर्वकात्मघातेगृहस्थादीनामेवाधिकारः यतेस्तुनाधिकारः त्र्यहाद्याशौचविधानात् यतेःकाम्यकर्मण्यनधिकाराच्चेतिनिर्णयसिन्धुः इदानीन्तनशिष्टास्तुरोगादिपीडांसोढुमशक्तौ-सन्न्यासाश्रमङ्गृहीत्वातीर्था-दिनात्मघातङ्कुर्वन्ति गृहस्थविधुरादयश्चनकुर्वन्ति केचित्त्वपरिहार्यरोगादिग्रस्तवृद्धा-देर्जलादिनावुद्ध्यात्मघातःकलौप्रयागभिन्नदेशेनभवति भृग्वग्निपतनैश्चैववृद्धादिमरणन्तथेतिकलिवर्ज्येषुपरिगणनादित्याहुः एतन्मतेमरणान्तप्रायश्चित्तविधयःकाशीखण्डादौविप्रादेर्देहत्यागविधयश्चयुगान्तरपराः प्रयागमरणंस्त्रीणांसहगमनञ्च-कलियुगेसर्वसम्मतम् अत्र सर्वत्रसहगमनभिन्नेविधिवाक्यानुज्ञातेदेहत्यागेत्रिरात्रमाशौचमितिबहवः दशाहमितिकेचित् एवम्फलकामनयाविहितेकाम्यप्रयागमरणेपिपक्षद्वयञ्ज्ञेयम् अथयःपतितोघटस्फोटेनबहिष्कृतोयश्चम्लेच्छीकृतो-यश्चप्रायश्चित्तानर्हपापीतस्यत्रिविधस्यपितृमातृभिन्नस्यपतितोदकविध्यनन्तरंसपिण्डीकरणवर्ज्यमन्त्यकर्मपितुर्मातुश्चत्रिविधस्यापिनारायणबलिपूर्वकंसपिण्डीकरणसहितंसर्वम्भवतीत्युक्तं तत्रपतितोदकदानविधिर्यथा
सर्वगान्दासीमाहूयतस्यैवेतनन्दत्त्वाअशुद्धपूर्णघटहस्तान्ताम्ब्रूयात् हेदासिगच्छमूल्येनतिलान्तोयपूर्णमिमङ्घटञ्चशीघ्रमानय ततोदक्षिणामुखीउपविश्यवामपादेनतङ्घटंसतिलङ्क्षिप घटक्षेपणकालेचामुकसञ्ज्ञकपतितप्रेतपिबपिबेतिमुहुरुच्चारयेति सादासीतद्वाक्यंश्रुत्वामूल्यङ्गृहीत्वातथाकुर्यात् एवङ्कृतेपतिततृप्तिर्नान्यथा एतञ्चपतितस्यमृतदिनेकार्यम् इतिपतितोदकविधिः इतिमृतदोषतआशौचापवादःसप्रसङ्गःसविस्तरोनिरूपितः ॥
अर्थावधानतः यतेर्मृतावाशौचन्नास्ति तस्यप्रेतक्रियोदकदानाशौचसपिण्डीकरणादेर्निषिद्धत्वात् सपिण्डीस्थानएकादशेऽहनिपार्वणश्राद्धमात्रङ्कार्यम् प्रतिसांवत्सरिकश्राद्धदर्शश्राद्धादिकन्तुपार्वणविधिनासपिण्डकम्भवत्येव अत्रविस्तरोग्रन्थान्तरेवक्ष्यते एतच्चत्रिदण्डिनामेकदण्डिनांहंसपरमहंसादीनांसर्वेषामेवज्ञेयम् एवंवानप्रस्थमरणेपिनाशौचं कृतजीवच्छ्राद्धेमृतेसपिण्डैराशौचादिकर्तव्यन्नवेतिविकल्पः ब्रह्मचारिमृतौत्वाशौचमस्त्येव युद्धमृतेप्याशौचनेतिसर्वग्रन्थेषूपलभ्यतेनत्वेवम्ब्राह्मणेषुशिष्टाचारः इतिपञ्चधाशौचापवादोनिरूपितः ॥
अथजीवतोप्याशौचं यथापतितस्यघटस्फोटकालेसर्वसपिण्डानामेकाहमाशौचम् इत्याशौचंसापवादंयथा-मतिनिरूपितम् । समर्पितंरुक्मिणीशश्रीमद्विठ्ठलपादयोः १ इतिसापवादाशौचप्रकरणम् ॥
अथौर्ध्वदेहिकारम्भोपयोगिनारायणवल्यादिप्रकारउच्यते तत्रदुर्मरणेष्वात्मघातेजलादिभिःप्रमादमरणेपतितादि-मरणेचपूर्वोक्तव्यवस्थयामुकगोत्रस्यामुकशर्मणोमुकदोषनाशार्थमौर्ध्वदेहिकेसम्प्रदानत्वयोग्यतासिद्ध्यर्थममुकप्रायश्चित्तममुकदानंवाकरिष्यइत्यादिसङ्कल्पपूर्वकन्तत्तत्प्रायश्चित्तन्दानञ्चकार्यम् अशक्तौदानमेवकार्यं ततोऽमुकगोत्रामुकशर्मणोमुकदुर्मरण-दोषनाशार्थमौर्ध्वदेहिकप्रदानत्वयोग्यतासिद्ध्यर्थन्नारायणबलिङ्करिष्यतिसङ्कल्प्य पूर्वार्धोक्तसन्ततिफलककाम्य-नारायणबलिवत्सर्वङ्कुर्यात् एतत्तवर्षान्तेकरणपक्षे सद्यःकरणपक्षेतुपूर्वोक्तद्विगुणप्रायश्चित्तंसङ्कल्प्यशुक्लैकादश्यादि-कालमनपेक्ष्यैवसमनन्तरोक्तसङ्कल्पङ्कृत्वाविधिनास्थापितेकलशद्वयेहेमप्रतिमयोर्विष्णुंवैवस्वतंयमञ्चावाह्यपुरुषसूक्तेनयमायसोममितिचक्रमेणषोडशोपचारैःसम्पूज्यतत्पूर्वभागेरेखायान्दक्षिणाग्रकुशानास्तीर्यशुन्धन्तांविष्णुरूप्यमुकप्रेतइतिदशस्थानेष्वपोनिनीयमधुघृततिलमिश्रानोदनपिण्डान्दशामुकगोत्रामुकशर्मन्प्रेतविष्णुदैवतायन्तेपिण्डइतिदक्षिणसंस्थान्प्राचीनावीतीत्यादिपैतृधर्मेणदद्यात् गन्धादिभिरभ्यर्च्य प्रवाहणान्तङ्कृत्वानद्याङ्क्षिपेत् श्वःसद्योवापूर्वस्थापितविष्णुमभ्यर्चैकविप्रेविप्रालाभेदर्भ-वटौवापादक्षालनादितृप्तिप्रश्नान्तंविष्णुरूपयेतावाहनपूर्वकङ्कृत्वाविप्रसमीपेतूष्णींरेखाःकृत्वादर्भास्तरणेआपोनिनयनञ्चकृत्वा दर्भेषुसव्येनविष्णवेब्रह्मणेशिवायचसपरिवाराययमायचेतिचतुर्भ्यःपिण्डचतुष्टयन्दत्त्वापसव्येन विष्णुरूपिप्रेतामुकगोत्रनामायन्ते-पिण्डइत्येकम्पञ्चमम्पिण्डन्दत्वातथैवाभ्यर्च्य प्रवाहणान्तेविप्राचान्ततादिश्राद्धशेषसमापनान्ते-प्रेतबुद्ध्याविप्रायवस्त्राभरणादिदत्त्वाविप्रेणप्रेतायतिलाञ्जलिन्दापयेत् अमुकगोत्रायामुकशर्मणेविष्णुरूपिणेप्रेतायायन्तिलतो-याञ्जलिरितिमन्त्रेण विप्रालाभेस्वयन्दद्यात् ततोविप्रान्वाचयेत् अनेननारायणबलिकर्मणाभगवान्विष्णुरिमममुकम्प्रेतंशुद्धमपापमर्हङ्करोत्वितिकाम्यप्रयोगेस्मिन्प्रयोगेचसङ्कल्पेनामगोत्रोच्चारेचविशेषः
स्पष्टएव पूर्वत्रकाश्यपगोत्रदेवदत्तप्रेतेत्याद्युच्चारः अत्रतुगोत्रनामज्ञानसत्वाद्दुर्भरणेनमृतस्पयन्नामगोत्रन्तदेवोच्चारये-दितिसङ्कल्पविशेषेपिहेतुःस्पष्टएवेति इतिदुर्मरणेअर्ध्वदेहिकाधिकारार्थन्नारायणबलेःप्रयोगः ॥
अथसर्पहतेव्रतम् प्रतिमासंशुक्लपञ्चम्याम्उपवासन्नक्तंवाकृत्वापिष्टमयन्नागम्पञ्चफणमनन्तवासुकि-शङ्खपद्मकम्बलकर्कोटकाश्वतरधृतराष्ट्रशङ्खपालकालियतक्षककपिलेतिद्वादशनामभिर्द्वादशमासेषुसम्पूज्यपायसेनविप्रान्सम्भोज्यवत्सरान्तेहेमनागम्प्रत्यक्षाङ्गाञ्चदत्त्वानारायणबलिपूर्वकन्दाहाशौचादिकङ्कार्यम् अथवानमोअस्तुसर्पेभ्य-इतितिस्रआज्याहुतीर्जुहुयात् पञ्चम्याम्पन्नगंहेमंस्वर्णेनैकेनकारयेत् । क्षीराज्यपात्रमध्यस्थम्पूज्यविप्रायदापयेत् १ प्रायश्चित्तमदम्प्रोक्तन्नागदष्टस्यशम्भुना । इति ततोनारायणबल्यादि ॥
अथपालाशप्रतिकृतिदाहादिविधिः तत्रदेशान्तरमरणेपराक्द्वयमष्टौकृच्छ्रान्वाकृत्वास्थीनिदहेत् अस्थ्नाञ्चाण्डालश्वादिस्पर्शेपञ्चगव्योदकादिभिःप्रक्षाल्यदहेत् यस्यास्थीनिसर्वथानलभ्यन्तेतस्पपर्णशरदाहः कुर्याद्दर्भमयम्प्रेतङ्कुशैस्त्रिशतषष्टिभिः ।बालाशीभिःसमिद्भिर्वासङ्ख्याचैवम्प्रकीर्तिता १ तत्रभूमौकृष्णाजिनमास्तीर्यतत्रशरं दक्षिणायतन्निवेश्यतत्रपलाशवृन्तानिन्यसेत् शिरसिचत्वारिंशत् ४० ग्रीवायान्दश १० बाव्होःप्रत्येकम्पञ्चाशदेवंशतं १०० कराङ्गुलीषुदश १० उरसिविंशतिः २० जठरेत्रिंशत् ३० शिश्नेचत्वारि ४ अण्डयोस्त्रयन्त्रयम् ६ ऊर्वोःप्रत्येकम्पञ्चाशदेवंशतम् १०० जङ्घातःपादतलान्तम्प्रत्येकम्पञ्चदशैवम् ३० पादाङ्गुलीषुदश १० एवंषष्ट्यधिकशतत्रयमितैर्दर्भैःपालाशसमिद्भिर्वाशरीरङ्कृत्वाऊर्णावस्त्रेणबध्वा जलमिश्रपिष्टेनलिम्पेत् शक्तौसत्यान्नारिकेरादीन्यपि तथाहि शिरसिनारिकेरफलंवर्तुलालाबुंवा ललाटेकदलीपत्रं दन्तेदाडिमबीजानि कर्णयोःकङ्कणम्ब्रह्मपत्रंवा चक्षुषोःकपर्दौ २ नासिकायान्तिलपुष्पं नाभावब्जं स्तनयोर्जम्बीरफलद्वयं वातेमनःशिलाम् पित्ते.हरितालं कफेसमुद्रफेनं रुधिरेमधु पुरीषेगोमयम् मूत्रेगोमूत्रं रेतसिपारदं वृषणयोर्वृन्ताकन्द्वयं शिश्नेगृञ्जनं केशेषुवनसूकरसटावटप्ररोहावा लोमसुऊर्णाम् मांसेमाषपिष्टलेपः पञ्चगव्यैःपञ्चामृतैश्चसर्वतःसिञ्चनम् पुनर्नोअसुं॰असुनीतेइत्यृग्भ्याम्प्राणप्रवेशम्भावयेत् यद्वा यत्तेयममितिसूक्तेनशुक्रमसीतिपारदङ्क्षिप्त्वाअक्षीभ्यामितिशरीरंस्पृशेत् शरीरंस्नापयित्वाचन्दनमनुलिप्यवस्त्रोपवीतेपरिधाय्यअयंसदेबदत्तइत्यभिमृश्यइदञ्चास्योपासनमितिध्यात्वाविधिवहाहादिकार्यम् अत्राहिताग्नेरस्थिदाहेपर्णशरदाहेवादशाहमाशौचमनाहिताग्नेस्त्र्यहमित्यादिप्रागुक्तमनुसन्धेयं द्वादशाब्दादिप्रतीक्षोत्तरम्पर्णशरदाहादिक्रियतेचेत्तदात्रिंशत्कृछ्राणिचान्द्रायणत्रयंवाकृत्वाकार्यम् ॥
अथातीतप्रेतसंस्कारकालः प्रत्यक्षशवसंस्कारेदिननैवविशोधयेत् । आशौचमध्येसंस्कारेदिनंशोध्यन्तुसम्भवे १ दशाहोत्तरन्तुदिनंसंशोध्यैवग्राह्यं तत्रवत्सरादूर्ध्वङ्क्रियमाणप्रेतकर्मण्युत्तरायणमेवश्रेष्ठं तत्रापिकृष्णपक्षएव तत्रनन्दात्रयोदशीचतुर्दशीदिनक्षयान्वर्जयेत् शुक्रशनिवारौवर्ज्यौ भौमवारोपिवर्ज्यइत्येके नक्षत्रेषुभरणीकृत्तिकार्द्राश्लेषामघाज्येष्ठामूलन्धनिष्ठोत्तरार्धंशततारकादिचतुष्टयञ्चेतिनक्षत्राणि त्रिपुष्करयोगश्चेत्यतिदुष्टानिसर्वथात्यजेत् कृत्तिकापुनर्वसूत्तराफल्गुनीविशाखोत्तराषाढापूर्वाभाद्रपदाचेतित्रिपादनक्षत्राणि द्वितीयासप्तमीद्वादशीचतिथिः कुजशनिरविवाराश्चेतित्रयाणांयोगेत्रिपुष्करः कैश्चिद्रविस्थानेगुरुवारउक्तः एतेष्वेवतिथिवारेषुमृगचित्राधनिष्ठायोगेद्विपुष्करः त्रिपुष्कयोगोवृद्धौलाभेनष्टेहृतेमृतौचत्रिगुणफलदः द्विपुष्करोद्विगुणफलदः तेनप्रेतकार्येद्वावपित्याज्यौ द्वयोर्योगेद्विपुष्करइतिकश्चित् गुरुशुक्रास्तपौषमासमलमासावैधृतिव्यतीपातपरिघयोगाःविष्टिःकरणञ्चतुर्थाष्टमद्वादशचन्द्रश्चेत्यपिसर्वथात्यजेत् रोहिणीमृगपुनर्वसुपूर्वोत्तराफल्गुनीचित्राविशाखाऽनुराधापूर्वोत्तराषाढाधनिष्ठेतिकिञ्चिद्दुष्टानिसम्भवेत्यजेत् भौमवारोपित्याज्यइत्येके कर्तुस्तिसृषुजन्मतारासुप्रत्यरितारायाञ्चषर्णशरादिदाहोनेष्टः तथाचार्कगुरुचन्द्रवाराअश्विनीपुष्यहस्तस्वातीश्रवणभानिचप्रशस्तानि मध्यमानिसर्वथात्याज्यानिचोक्तानि नन्दायांशुक्रवारेचतुर्दश्यान्त्रिजन्मताराप्रत्यरितारासुचैकोद्दिष्टश्राद्धभतिनिन्द्यं साक्षादेकादशाहेनकोपिनिषेधः अस्यनिषिद्धनक्षत्रादेरपवादः युगमन्वादिसङ्क्रान्तिदर्शेचप्रेतकर्मणि । पुनःसंस्कारादिकेपिनक्षत्रादिनशोधयेत् १ गुरुभार्गवयोर्मौढ्येपौषमासेमलिम्लुचे । नातीतःपितृमेधःस्याद्गयागोदावरींविना २ इतिपुनःसंस्कारकालः साग्निकस्यपर्णशरदाहेकृतेपश्चाद्देहलाभेपर्णशरदाहीयार्धदग्धकाष्ठैस्तन्दहेत् तादृशकाष्ठालाभेलौकिकाग्निनादग्ध्वा-तदस्थीनिमहाजलेक्षिपेत् एवमन्येषान्निरग्नीनामपिपर्णशरदाहोत्तरंशरीरलाभेस्थिलाभेवायोज्यम् अमृतं मृतमाकर्ण्यकृतंयस्यौर्ध्वदेहिकम् ।
प्रायश्चित्तमसौस्मार्तङ्कृत्वाग्नीनादधीतच १ अत्र पुनःसंस्कारादिप्रकारःपूर्वार्धेउक्तः आधानान्तेआयुष्मतीष्टिः अनाहिताग्नेस्तुचरुः भर्तरिजीवत्येवमरणवार्तांश्रुत्वार्यादस्त्रियासहगमनङ्कृतन्तदातत्स्त्रीमरणमवैधमेव ज्ञातमरणमेवहिसहगमनेनिमित्तं नतुमरणज्ञानमात्रम् अतस्तस्याभार्यायाआत्मघातादिदोषप्रायश्चित्तन्तत्पुत्रादिभिःकृत्वानारायणबलिपूर्वकमौर्ध्वदेहिकङ्कार्यम्
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा