🕉️ 24 November 2026, Tuesday · 08:04:15 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← धर्मसिन्धु — परिच्छेद-सूची

📖 धर्मसिन्धु · तृतीय परिच्छेद (उत्तरार्ध) — श्राद्ध, आशौच, अन्त्येष्टि, संन्यास · पृष्ठ 73/81

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

घटस्फोटविधिः

भर्तुस्तुदाहाद्यौर्ध्वदेहिककरणनिमित्तमुक्तपुनःसंस्कारादिकार्यं क्वचिज्जीवतोप्यन्त्यकर्मविहितं यथाप्रायश्चित्तानिच्छोःपतितस्यघटस्फोटे तथाहि महापातकेनोपपातकेनवापतितोयदिप्रायश्चित्तन्नकरोतितदातङ्गुरूणां

कृतघटस्फोटस्यसग्रहविधिः

बान्धवान्नांराज्ञश्चसमक्षमाहूयतत्पापम्प्रकटीकृत्यतम्पुनःपुनरुपादिशेत् प्रायश्चित्तङ्कुरुस्वाचारंलभस्वेति सयद्येवमपिनाङ्गीकरो-तितदारिक्तादिनिन्द्यतिथौसायाह्नेसपिण्डाबान्धवाश्वसम्भूयदासीहस्तेनानीतममेध्यकुत्सितजलादिपूर्णङ्घटंसर्वतोदास्याद्यन्वारम्भङ्कुर्वन्तोदास्यादासस्यवावामपादेनन्युब्जञ्छिन्नाग्रदर्भेषुकारयित्वादासीसहितावदेयुरमुमनुदकङ्करोमीतिनामग्रहणपूर्वकम्प्राचीनावीतिनोमुक्तशिखाश्चसन्तः ततोधिकारीकर्ता दाहवर्ज्यञ्जीवन्तमेवोद्दिश्यपिण्डो-दकदानादिप्रेतकार्याण्येकादशाहान्तानिनाम्नैवकुर्यात् मिताक्षरायाम्प्रेतकार्योत्तरङ्घटनिनयनमुक्तम् एकाहमाशौचंसर्वेषां यस्यघटस्फोटःकृतस्तेनसहसम्भाषणस्पर्शादिसंसर्गोनकेनापिकार्यः करणेपतिततुल्यता घटस्फोटप्रयोजनन्तुपूर्वार्धान्तेउक्तं घटस्फोटनिश्चयोत्तरङ्घटस्फोटदिनात्प्राक्पतितज्ञातीनान्धर्मकार्येष्वनधिकारइतिकश्चित् कृतघटस्फोटस्यपुंसोनुतापेतत्पाप-प्रायश्चित्तान्तेसङ्ग्रहविधिरुच्यते तत्रादौशुद्धिपरीक्षा कृतप्रायश्चित्तोज्ञातिसमक्षङ्गोभ्यस्तृणभारन्दद्यात् गोभिस्तृणेभक्षितेशुद्धिः भक्षणाभावेपुनःप्रायश्चित्तञ्चरेत् एवन्निश्चितसंशुद्धौसमानेयुर्नवङ्घटम् । हैमंवामृन्मयंवापिपवित्रजलपूरितम् १ ततःसपिण्डास्तङ्घटंसंस्पृश्याभिमन्त्र्यतज्जलैःपावमानीभिरापोहिष्ठेत्यादिभिस्तरत्समन्दीभिश्चपापिनमभिषिच्यतेनसहसर्वेस्नात्वातञ्जलघटमस्मैदद्युः सचशान्ताद्यौःशान्तापृथिवीशान्तंविश्वमन्तरिक्षंयोरोचनस्तमिहगृह्णामीतियजुर्भिस्तङ्घटङ्गृह्णीयात् ततस्तदुदकन्तेनैवसाकंसर्वेपिवेयुः ततःसकूश्माण्डमन्त्रैराज्यहोमङ्कृत्वासुवर्णगाञ्चदद्यात् ततस्तस्यजातकर्मादिव्रतबन्धान्ताविवाहान्तावासंस्काराःकार्याः एवङ्कृतेशुद्धेनतेनसंस्पर्शसम्भोजनादिव्यवहारङ्कुर्यात् एवमुपपातकेमहापातकेचकृतघटस्फोटस्यशुद्धिर्ज्ञेया इतिसङ्क्षेपतःकृतघटस्फोटशुद्धिः ॥

प्रायश्चित्तन्दशदानानिच

50. आन्त्येष्टिनिर्णयः

अथान्त्येष्टिनिर्णयः वन्देश्रीमदनन्ताभिधगुरुचरणौसताम्मताचरणौ । जननीमथान्नपूर्णांसम्पूर्णांसद्गुणैर्वन्द्याम् १ श्रीविठ्ठलन्नमस्कृत्यविघ्नकक्षहुताशनम्। अन्त्येष्टिनिर्णयंवक्ष्येसर्वशाखोपयोगिनम् २ तत्रान्त्यक्रियाधिकारिणःश्राद्धारम्भेएवोक्ताः सर्वाभावेधर्मपुत्रःकार्यः तत्रपुत्राद्यकारिणापित्रादिकमासन्नमरणन्दृष्ट्वासार्धाब्दादिप्रायश्चित्तम्मोक्षधेन्वादिदानानिचतेनकारणीयानिस्वयंवातमुद्दिश्यकर्तव्यानि तत्रप्रायश्चित्तप्रयोगःप्रायश्चित्तप्रकरणेद्रष्टव्यः शक्तौसत्याम्प्रायश्चित्तान्तेदशदानानिकार्याणि तत्रगवामङ्गेषुतिष्ठन्तिइतिगोदानमन्त्र्रः सर्वभूताश्रयाभूमिर्वराहेणसमुद्धृता । अनन्तसस्यफलदाअतःशान्तिम्प्रयच्छमे १ इतिभूमेः महर्षेर्गोत्रसम्भूताःकाश्यपस्थतिलाःस्मृताः । तस्मादेषाम्प्रदानेनममपापंव्यपोहतु १ इतितिलानां हिरण्यगर्भगर्भस्थमितिहिरण्यस्य कामधेनुषुसम्भूतंसर्वक्रतुषुसंस्थितम् । देवानामाज्यमाहारमतःशान्तिम्प्रयच्छमे १ इत्याज्यस्य शरणंसर्वलोकानांलज्जायार-

तिलपात्रादिदानानि

क्षणम्परम् । सुवेषधारिवस्त्रत्वमतः॰ इतिवदेयं सर्वदेवमयन्धान्यंसर्वोत्पत्तिकरम्महत् । प्राणिनाञ्जीवनोपायमतःशान्तिम्मयच्छमे १ इतिधान्यं तथारसानाम्प्रबरःसदैवेक्षुरसोमतः । ममतस्मात्परांलक्ष्मीन्ददस्वगुडसर्वदा १ इतिगुडः प्रीतिर्यतःपितृृणाञ्चविष्णुशङ्करयोःसदा । शिवनेत्रोद्भवंरूप्यमतः ० १ इतिरजतं यस्मादन्नरसाः सर्वेनोत्कृष्टालवणंविना । शम्भोःप्रीतिकरन्नित्यमतः ० १ इतिलवणम् भूम्यादिप्रमाणानितुजननशान्तिप्रकरणेउक्तानि प्रायश्चित्तादिकर्मसुविष्ण्वादिनामकीर्तनात्साङ्गता प्रायश्चित्ताद्यसम्भवेपिमरणकालेविष्णुशिवनामकीर्तनमात्रात्सर्वपापक्षयो-मुक्तिश्चेतिसर्वपुराणादिसिद्धान्तः तथाचश्रीभागवते यस्यावतारगुणकर्मविडम्बनानिनामानियेऽसुविगमेविवशागृणन्ति । तेनेकजन्मशमलंसहसैवहित्वासंयान्त्यपावृतमृतन्तमजम्प्रपद्ये १ इत्यादि मुमूर्षुपितरम्पुत्रोयदिदानम्प्रदापयेत् । तद्विशिष्टङ्गयाश्राद्धादश्वमेधश्तादपि १ तानिच तिलपात्रदानम्ऋणधेनुमोक्षधेनुपापधेनुवैतरणीधेनूत्क्रान्तिधेनुदानादीनि व्यतीपातोथसङ्क्रान्न्तिस्तथैवग्रहणंरवेः । पुण्यकालास्तथासर्वेदामृत्युरुपस्थितः १ आसन्नमृत्युनादेयागौःसवत्सातुपूर्ववत् । तदभावेतुगौरेवनरकोत्तारणायवै २ शुक्लपक्षेदिवाभूमौगङ्गायाञ्चोत्तरायणे । धन्यास्नातमरिष्यन्तिहृदयस्थेजनार्दने १ इत्यादिवचनात् मुमूर्षोर्दानादौशत्तयभावे पुत्रादिर्दद्यात् तत्रतिलपात्रदानविधिः यथाशक्तिकांस्यपात्रेताम्रपात्रेवातिलान्क्षिप्त्वासुवर्णञ्चप्रक्षिप्यममजन्मप्रभृतिमरणान्तङ्कृतनानाविधपापप्रणाशार्थन्तिलपात्रदानङ्करिष्ये विप्रंसम्पूज्यममजन्मप्रभृतिमरणान्तङ्कृतनानाविधपापनाशार्थमिदन्तिलपात्रंससुवर्णंसदक्षिणम्अमुकशर्मणेतुभ्यंसम्प्रददे तिलाःपुण्याःपवित्राश्चतिलाःसर्वकराःस्मृताः । शुक्लावायदिवाकृष्णाऋषिगोत्रसमुद्भवाः १ यानिकानिचपापानिब्रह्महत्यासमानिच । नतिलपात्रप्रदानेनममपापंव्यपोहतु २ नममेतिविप्रहस्तेजलङ्क्षिपेत् पुत्रादिस्त्वस्यजन्मप्रभृत्यादिसङ्कल्पमस्यपापंव्यपोत्वितिमन्त्रञ्चवदेत् ऐहिकामुष्मिकंयच्चसप्तजन्मार्जितम्ऋणम् । तत्सर्वंशुद्धिमायातुगामेकान्ददतोमम १ इतिऋणधेनुदानमन्त्रः अन्यत्सर्वंसामान्यगोदानवत् तद्विधिस्तुद्वितीयपरिच्छेदेउक्तः मोक्षन्देहिहृषीकेशमोक्षन्देहिजनार्दन । मोक्षधेनुप्रदानेनमुकुन्दःप्रीयताम्मम १ इतिमोक्षधेनुमन्त्रः आजन्मोपार्जितम्पापम्मनोवाक्कायकर्मभिः ।

वैतरणीविधिः

तत्सर्वन्नाशमायातुगोप्रदानेनकेशव १ इतिपापधेनुदानमन्त्रः अथवैतरणीविधिः अद्येत्याद्यमुकस्यममयमद्वारस्थितवैतरण्याख्यनद्युत्तारणार्थङ्गोदानङ्करिष्ये विप्रम्पादप्रक्षालनवस्त्रगन्धमाल्यादिभिरभ्यर्च्यतद्धस्तेशिवाआपःसन्तु सौमनस्यमस्तु अक्षतञ्चारिष्टञ्चास्तु यच्छ्रेयस्तदस्तु यत्पापन्तत्प्रतिहतमस्त्वितिकृत्वा धेनुकेत्वम्प्रतीक्षस्वयमद्वारेमहापथे । उत्तितीर्षुरहन्देविवैतरण्यैनमोस्तुते १ इति धेनुम्प्रार्थ्य विष्णुरूपद्विजश्रेष्ठभूदेवद्विजपावन । तर्तुंवैतरणीमेताङ्कृष्णाङ्गाम्प्रददाम्यहम्

उत्क्रान्तिधेनुः

अथोत्क्रान्तिधेनुः—.

१ इतिविप्रम्प्रार्थ्य वैतरणीसन्तारणार्थमिमाङ्गाङ्कृष्णवस्त्ररक्तमाल्याद्यलङ्कृतांयथाशक्तिदक्षिणायुतान्तुभ्यमहंसम्प्रददे यमद्वारेपथेघोरेघोरावैतरणीनदी । तान्तर्तुकामोयच्छामिकृष्णांवैतरणीन्तुगाम् १ नममेतिविप्रहस्तेजलङ्क्षिपेत् कृष्णायाअभावेऽन्यवर्णादेयागौरभावेद्रव्यन्देयम् पुत्रादिर्दाताचेत्प्रथमेमन्त्रेउत्तितीर्षुरयमितिपठेत् द्वितीयेतर्तुंवैतरणीमस्येति तृतीयेतान्तर्तुमस्येति अथोत्क्रान्तिधेनुः अद्येत्याद्यमुकस्य सुखेनप्राणोत्क्रमणप्रतिबन्धकसकलपापक्षयद्वारासुखेनप्राणोत्क्रमणाययथाशक्तयलङ्कृतामिमामुत्क्रान्तिधेनुंरुद्रदैवत्याममुकशर्मणेतुभ्यंसम्प्रददे गवामङ्गेष्वितिमन्त्रान्तेनममेतिवदेत् धेन्वभावेद्रव्यन्देयम् उक्तप्रायश्चित्तादिदानान्तविधिमकृत्वापित्रादिमरणेपुत्रादिनाप्रायश्चित्तङ्कृत्वादाहादिकर्तव्यं दानान्येकादशाहेकार्याणि पितुःपापाभावनिश्चयेप्रायश्चित्तन्नावश्यकं केचिदुत्क्रान्तिवैतरण्यौचदशदानानिचैवहिमृतेपिकृत्वातम्प्रेतन्दहेदित्याहुः तुलसींसन्निधौकुर्याच्छालग्रामशिलान्तथा ।

क्षौरनिर्णयः

केचित्तिललोहहेमकार्पासलवणभूमिधेनुसप्तधान्येत्यष्टदानान्याहुः क्वचिन्मुमूर्षोर्मधुपर्कदानमुक्तम् पुत्रादिःकर्तान्त्यकर्माधिकारार्थङ्कृच्छ्रत्रयादिकंवपनञ्चकुर्यात् तत्रमातापित्रोःसापत्नमातुःपितृव्यस्यज्येष्ठभ्रात्रादेश्चान्त्यकर्मकरणेक्षौरमावश्यकम् पुत्राणां कर्तृभिन्नानामपिक्षौरन्नित्यम् एवम्पत्न्याअपिप्रथमेदशमेह्निवाक्षौरन्नित्यं तथादत्तकस्यपूर्वापरयोर्मात्रोःपित्रोर्मृतीक्षौरं रात्रौतुदग्ध्वापिण्डान्तङ्कृत्वावपनवर्जितम् । वपनंवर्जितंरात्रौश्वस्तनीवपनक्रिया १ पत्नीपुत्रकनिष्ठभ्रात्रादेरन्त्यकर्मणिक्षौरन्नकार्यम् अन्यत्रकृताकृतं स्मशानेनीयमानशवस्यशुद्रस्पर्शेशुद्रेणवहनेवा कुम्भेसलिलमादायपञ्चगव्यन्तथैवच ।

शवस्यास्पृश्यस्पर्शादौप्रायश्चित्तादि

सुमन्त्रैरभिमन्त्र्यापस्तेनसंस्नाप्यदाहयेत् १ कृच्छ्रत्रयञ्चकुर्यात् सूतिकारजस्वलयोःस्पर्शेप्येवमेवप्रायश्चित्तन्तुपञ्चदशकृच्छ्राः शूद्रेणद्विजदाहेतुचान्द्रायणपराकप्राजापत्यानिसमुच्चयेनपुत्रादिःकृत्वास्थीनिपुनर्दहेत अस्थ्यभावेपालाशविधिः ऊर्ध्वेच्छिष्टाधरोच्छिष्टोभयोच्छिष्टेषुकृच्छ्रत्रयम् अस्पृश्यस्पर्शनेषट्कृच्छ्राः अन्तरालमृतौनवखट्वामरणेद्वादश निगडमृतौपञ्चदश रजकादिसप्तविधान्त्यजादिस्पृष्टमरणेत्वेकत्रिंशत्कृच्छ्राणि देशान्तरमरणेपराकद्वयमष्टौकृच्छ्रावा कृच्छ्रत्रयम्प्रकुर्वीतआशौचमरणेपिच ।

उभयोरेककालेदहनेप्राप्ते

अर्धदग्धेशवेचितेरस्पृश्यस्पर्शेकृच्छ्रत्रयम् एवम्पुत्रादयःपित्रादेःपापिनःपापानुसारेणप्रायश्चित्तकाण्डोक्तम्प्रायश्चित्तन्दुर्मरणात्मघातादिनिमित्तेपूर्वोक्तप्रायश्चित्तन्नारायणवल्यादिकञ्चकृत्वैवान्त्यकर्मकुर्युः एवमुक्तप्रायश्चित्तंविनादाहादिकृतंव्यर्थम्भवेत् उभयोश्वनरकः पतिपत्न्योरेककालेदहनेप्राप्तेभार्यायाःपत्यासहतद्द्विवचनान्त्रोहेनदाहङ्कृत्वापिण्डादिकम्पतिपूर्वकम्पृथक्कार्यम् एवंसपत्नीनामेककालमृतौसहैवदाहः पिण्डादिकन्तुज्येष्ठक्रमेणपृथगेव एवम्पितापुत्रयोर्भ्रात्रोच

मुमूर्षोःपुण्यसूक्तादिश्रवणम्

लौकिकाग्निदाह्ययोर्दाहःसहैव पिण्डादिपितृपूर्वञ्ज्येष्ठपूर्वञ्चपृथक् पुम्बालानास्त्रीबालानाञ्चदहनेखननेचैवमेवेतिनागोजीभट्टीये रजस्वलागर्भिण्यादिमरणेसहगमनेचवक्ष्यते अथगोमयोपलिप्तभूमौकुशेषूपविष्टोदक्षिणशिराःशयितोवागोपीचन्दनादिमृदाकृततिलकःश्रीविष्णुंस्मरन्पुण्यसूक्तङ्गीतांसहस्रनामादिस्तोत्राणिपठेच्छृणुयाद्वा अमृतत्वप्राप्त्यर्थम्पुण्यसूक्तस्तोत्रादीनाम्पाठंश्रवणंवाकरिष्येइतिसङ्कल्पः श्रोतुःसङ्कल्पाशक्तौश्रावयितास्यामुककुर्मणोमृतत्वप्राप्तयेऽमुकंश्रावयिष्यइतिसङ्कल्पयेत् नानानमितिसूक्तम्पुरुषसूक्तंविष्णुसूक्तमुपनिषद्भागाइत्यादिषुण्यसूक्तानि रामकृष्णादिनामस्मरणेजातिमात्रस्याधिकारः ॥

51. साग्नेर्विशेषः

अथसाग्नेर्विशेषः गृह्याग्निमतोगृह्णाग्निनाश्रौताग्निमतस्त्रेताग्निभिर्दाहःकार्यः तत्रगृह्याग्निमतःश्रौताग्निमतश्चकृष्णपक्षेमरणेतदैवसायङ्कालाहुतीदर्शसायङ्कालपर्यन्ताः पक्षहोमवत्सद्ग्रहणेनैवहुत्वापुनःसङ्कल्पपूर्वकम्प्रातराहुतीश्चप्रतिपत्प्रातर्होमान्तास्तद्वदेवहुत्वादर्शयागङ्कुर्यात् यागासम्भवेआज्यंसंस्कृत्यस्रुचिचतुर्वारङ्गृहीत्वापुरोनुवाक्यायाज्याभ्यामेकैकाम्प्रधानाहुतिञ्जुहुयात् स्मार्तेतुचतुर्गृहीताज्येनाग्नयेस्वाहेन्द्राग्निभ्यां स्वाहेतिनाम्नैवप्रधानाहुतिद्वयं शुक्लपक्षेरात्रौमरणेसायंहोमस्यकृतत्वात्प्रातममात्रमाकृप्यतदैवकुर्यात् नात्रपौर्णिमान्तानान्दर्शान्तानांवाहोमानमिष्टिप्रधानपूर्णाहुतीनांवाकरणं शुक्लपक्षेदिवामरणेतुनकस्यापिहोमस्याकर्पणम् एवङ्कृष्णपक्षमरणेपिदैवात्पूर्णमासेष्ट्यतिक्रमेहोमापकर्षप्रधानपूर्णाहुत्यादिकञ्चकृताकृतमनारब्धत्वादितिभाति करणपक्षेऽतिक्रान्तपूर्णमासपूर्णाहुतीर्हुत्वापक्षहोमान्कृत्वादर्शपूर्णाहुतयःकार्याः अग्नावरण्योरारूढेप्रमीयेतपतिर्यदि । प्रेतंस्पृष्ट्रामथित्वाग्निञ्जप्त्वाचोपावरोहणम् १ घृतञ्चद्वादशोपात्तन्तूष्णींहुत्वाशवक्रिया । विच्छिन्नश्रौताग्नेर्मृतौतुप्रेताधानङ्कार्यं तद्यथा प्रेतंस्वाग्न्यालयेक्षिप्त्वारणीसन्निधाप्य यस्याग्नयोजुव्हतोमांसकामाःसङ्कल्पयन्तेयजमानमांसं जायन्तुतेहविपेसादितायस्वर्गंलोकमिमम्प्रेतनयन्त्वितियजर्मन्त्रेणमथित्वाग्निमायतनेप्रणीयद्वादशगृहीताज्येनतूष्णींहुत्वातेनदाहादिकार्यं नष्टेष्वग्निप्वथारण्योर्नाशेस्वामीम्रियेतचेत् । आहरेदरणीद्वन्द्वम्मनोज्योतिर्ऋचाततः १ शेषम्प्राग्वत् स्मार्ताग्निमतःस्मार्ताग्निर्यदिविच्छिन्नस्ततोयतोविच्छेदस्तावत्कालगणनयापूर्वार्धोक्तरीत्याप्रायश्चित्तन्तदैवकुर्यात्सङ्कल्पयेद्वा प्रायश्चित्तान्तेहोमद्रव्यंस्थालीपाकद्रव्यञ्चतावत्कालगणनयादेयं ततोरणिपक्षेपूर्ववदरणीमन्थनम् पक्षान्तरेमुकशर्मणोग्निविच्छेदनिमित्तकन्दाहायाग्निसिद्ध्यर्थम्प्रेताधानङ्करिष्येइतिसङ्कल्प्यायतनेसम्भारान्निक्षिप्यलौकिकाग्निम्प्रतिष्ठाप्याज्यंसंस्कृत्यायाश्चेतिमन्त्रेणयस्याग्नयइतिपूर्वोक्तमन्त्रेणचहुत्वाव्याहृतिचतुष्टयञ्जुहुयात् एवमौपासनःसिद्धोभवति पत्नीमरणेप्येवमेवेतिभट्टाः एवंविधुरस्यापिश्रौताग्निगृह्याग्निपरिग्रहसत्वेयथायथन्तत्तदग्निभ्यान्दाहः विधुरस्याग्निपरिग्रहोत्तरन्द्विच्छेदेपूर्वो-

क्तरीतिभ्यान्तत्तदग्न्योराधानम् अगृहीतगृह्याग्निकयोःसभार्यविधुरयोर्ब्रह्मचारिसमातृत्तयोवानुपनीताविवाहितपुत्रकन्ययोश्चनिरग्निकभार्याविधवयोश्चकपालाग्निनालौकिकाग्निनावादाहः अग्निवर्णकपालेकरीषादिनोत्पादितोभूर्भुवःस्वःस्वाहेत्याज्याहुत्यासंस्कृतोग्निःकपालाग्निः लौकिकाग्निश्चान्त्यजाग्निपतिताग्निसूतिकाग्निचिताश्यमेध्याग्निभिन्नोग्राह्यः यस्यानयतिशूद्रोग्निन्तृणकाष्ठहवींषिवा । प्रेतत्वञ्चसदातस्यशूद्रःपापेनलिप्यते १ आहिताग्निदम्पत्योःपूर्वम्पतमरणेपत्युःसर्वाग्निभिर्दाहः पश्चान्मृतभार्यायास्तुनिर्मथ्याग्निनाकपलाग्निनावा पूर्वम्भार्यामरणेतुतस्याअपिसर्वाग्निभिर्दाहःकार्यः सर्वपात्राण्यापितस्यैदेयानि पश्चान्मृतस्यतुपत्युःपुनराधानेनत्रेताग्निसत्वेतेनदाहः आधानाकरणेनिर्मथ्येनलौकिकाग्निनावेतिकेचित् याज्ञिकाचारोपिप्रायेणैवमेव अत्रनिर्णयसिन्धुः साग्नेःपत्नीमृतौद्वौपक्षौ पुनर्विवाहेच्छायाम्पूर्वाग्निभिर्यान्दग्ध्वापुनर्दारक्रियां कुर्यात्पुनराधानमेवचेत्येकःपक्षः दाहयित्वाग्निहोत्रेणस्त्रियंवृत्तवतीम्पतिः । इत्यादिवचनजातानिपुनर्विवाहेच्छुपराण्येव पुनर्विवाहाशक्तौनिर्मथ्याग्निनातान्दग्ध्वापूर्वाग्निष्येवाग्निहोत्रहोमेष्ट्यादिचातुर्मास्यादिकार्यं सोमयागोनकार्यः पूर्वाग्न्येकदेशेनदहेदितियज्ञपार्श्वदेवयाज्ञिकादयः यानितुतस्मादपत्नीकोप्यग्निहोत्रमाहरेदितिश्रुतिस्मृत्यादिवचनानितानिपूर्वाग्निष्वेवाग्निहोत्रपराणिनत्वपत्नीकस्याधानार्थानि अपत्नीकस्याधानविधायकमूलवचनाभावात् दारकर्मणियद्यशक्तआत्मार्थमग्न्याधयमित्यापस्तम्बसूत्रन्तुपुनर्विवाहाशक्तौपूर्वकृतमग्न्याधेयमात्मार्थमेवस्थाप्यन्नपत्न्यैदद्यादित्येवम्परम् ब्राह्मणभाष्यापरार्काशार्करामाण्डारादिमतमप्येवमेव येत्वपत्नीकस्याधानमाहुस्तदाशयन्नविद्मइति इदन्निर्णयसिन्धुमतमेवयुक्तम्भाति याज्ञिकानामाचारस्त्वन्तर्गूढविवाहेच्छामूलकोनप्रामाण्यापादकः पुनर्विवाहाशयासर्वाग्निदानेपश्चाद्ववाहासम्भवेसिन्धुमतेआधानाभावान्निर्मथ्याग्निरेवशरणं केषाञ्चिन्मतेपुनराधानम् अत्रनिर्मथ्यादिनापूर्वमृतभार्यादाहपक्षेपूर्वाग्नीनामुत्सर्गेष्ट्यात्यागङ्कृत्वापुनराधानङ्कृत्वाग्निहोत्रङ्कार्यमितिकेचिदाहुः एवंस्मार्ताग्निमतःपूर्वम्भार्यामरणेपिगृह्याग्न्येकदेशेनतान्दहेदवशिष्टाग्नौनित्यहोमस्थालीपाकाग्रयणानिकार्याणि अत्रसर्वत्रश्रौतस्मार्तेचकुशपत्नीविधानेनैवाधानादिकर्माधिकारः अनेकभार्यस्यज्येष्ठायाञ्जीवत्याङ्कनिष्ठभार्यामरणेनिर्मथ्यादिनातान्दहेत् नश्रौतस्मार्ताग्निभिः केचित्पूर्वंसर्वाग्निभिःकनिष्ठान्दग्ध्वाज्येष्ठयासहपुनराधानङ्कार्यमित्याहुस्तदग्निद्वयसंसर्गपरम्मतान्तरपरंवाबोध्यं दाहकालेग्निनाशेतु यजमा-

नेचितारूढेपात्रन्यासेकृतेसति । वर्षाद्यभिहतेवह्नौचितादिस्थेकथञ्चन १ तदार्धदग्धकाष्ठानितानिनिर्मथ्यतन्दहेत् ॥

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬