🕉️ 24 November 2026, Tuesday · 08:08:13 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← धर्मसिन्धु — परिच्छेद-सूची

📖 धर्मसिन्धु · तृतीय परिच्छेद (उत्तरार्ध) — श्राद्ध, आशौच, अन्त्येष्टि, संन्यास · पृष्ठ 74/81

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

आशौचेभोजनादिनियमाः

52. गृहात्स्मशानेशवनयनादिप्रकारः

अथगृहात्स्मशानेशवनयनादिप्रकारः तत्रविप्रप्रेतन्नगरपश्चिमद्वारेणशूद्रन्दक्षिणद्वारेणनिःसार्यसजातीयाःशवं-प्रच्छादितमुखम्प्राक्शिरदाहदेशन्नयेयुः पूर्वोक्तोग्निः शवाग्रेन्येननेतव्यः प्रेताग्न्योर्मध्येन्येननगन्तव्यं सर्वेसपिण्डादयोधःकृतोपवीतामुक्तकेशाज्येष्ठपुरःसराःप्रेतमनुगच्छेयुः प्रेतश्चनग्नोनदग्धव्यः निःशेषतश्चनदाह्यः शववस्त्रञ्चस्मशानवासिभ्योदेयम् प्रेतश्चकेशनखादिवापयित्वासंस्नाप्यगन्धपुष्पाद्यैरलङ्कृत्यदग्धव्यः दिनेमृतौदिवैवदाहोरात्रिमृतस्यरात्रावेव दिवावारात्रौवास्थितःशवःपर्युषितः पर्युषितशवम्पञ्चगव्येनस्नापयित्वाप्राजापत्यत्रयङ्कृत्वादहेत् मुखस्थसप्तच्छिद्राणिहिरण्यशकलैराच्छादयेत् अत्रपात्रन्यासोमन्त्रवद्दाहादिविधिश्चस्वस्वसूत्रानुसारिश्रौतस्मार्तान्त्येष्टिप्रयोगेषुज्ञेयः ततोदाहान्तेघटस्फोटादिकङ्कार्यं शिलाविपर्ययेपिघटस्फोटस्यनावृत्तिः ततश्चितामप्रदक्षिणंसर्वेपर्यावृत्यसचैलंस्नात्वाचम्यसगोत्रसपिण्डसमानोदकानां-मातामहीमातामहयोराचार्यादेश्चदुहितृभगिन्योश्चावश्यन्तिलाञ्जलिन्दद्युः तद्यथा वृद्धपूर्वादक्षिणामुखा-अमुकगोत्रनामाप्रेतस्तृप्यत्वितिमन्त्रेणाञ्जलिनासकृत्पाषाणेसिञ्चेयुः अत्रस्नानोदकदानेऽपनःशोशुचदगमितिमन्त्रेण स्नानमेवतेनमन्त्रेणेत्यन्ये स्त्रीणान्तुमन्त्रोनास्ति मातुलपितृष्वसृमातृष्वसृस्वस्त्रीयश्वशुरमित्रयाजकादीनामुदकदानङ्कृताकृतं करणपक्षेपिनाश्मन्येवेतिनियमः व्रात्यब्रह्मचारिपतितव्रतिक्लीबचोराश्चनोदकन्दद्युः तत्रव्रात्यायथाकालमुपनयनहीनाः वतिनःप्रक्रान्तप्रायश्चित्ताः चोराःसुवर्णतत्समद्रव्यापहारिणः ब्रह्मचारिभिर्मातापितृपितामहमातामहगुर्वा-चार्यादीनामुदकदानकार्यम् प्रक्रान्तप्रायश्चित्तैस्तुतदन्तेउदकदानन्त्रिरात्राशौचञ्चकार्यं व्रात्यादिभिःप्रेतस्पर्शवहनदाहपिण्डादिकमपिनकार्यम् अन्याभावेब्रह्मचार्यपिपित्रादेर्दाहमाशौचङ्कुर्यात् कर्मलोपस्तुनास्तीत्युक्तम् इदञ्चोदकदानमेकवाससापसव्येनैव उदकदानोत्तरम्पुनःस्नात्वावस्त्राणिनिष्पीड्यकुलवृद्धाः-पुत्रादीन्पूर्वेतिहासैःसमाश्वास्यविप्रानुमत्याकनिष्ठानुक्रमेणगृहङ्गत्वानिम्बपत्राणिशनैर्भक्षयित्वाचम्याग्न्युदकगोमयादीन्स्पृष्ट्वाद्वाराश्मनिपदन्निधायगृहम्प्रविशेयुः निम्बपत्रभक्षणङ्कृताकृतं ततस्तद्दिनेउपवसेयुः उपवासाशक्तावयाचितलब्धेनान्यगृहपक्वेनवैकेनैवहविष्यान्नेनवर्तेरन् तत्राशौचमध्येमाषमांसापूपमधुरलवणदुग्धाभ्यङ्गताम्बूलक्षाराणिवर्ज्यानि क्षाराणितु तिलमुद्गादृतेशैम्ब्यंसस्येगोधूमकोद्रवौ । धान्याकन्देवधान्यञ्चशमीधान्यन्तथैवच १ स्विन्नधान्यन्तथापण्यम्मूलङ्क्षारगणःस्मृतः । केचित्सैन्धवम्भक्ष्यमित्याहुः आदर्शस्त्रीसङ्गद्यूतादिहसनरोदनोच्चासनानिनित्यन्त्यजेयुः बालवृद्धार-

:अस्थिसञ्चयनम्—

वर्जन्तृणकटास्तीर्णभूमौपृथक्शयीरन् नकम्बलाद्यास्तीर्णभूमौ मार्जनादिरहितमेवस्नानम् अस्थिसञ्चयनादूर्ध्वम्भार्यापुत्रव्यतिरिक्तानांशय्यासनादिभोगोस्त्येव स्त्रीसङ्गस्तुनास्ति अस्थिसञ्चयनन्तुसमन्त्राग्निदाहदिनादारभ्यप्रथमदिनेद्वितीयेतृतीयेचतुर्थेसप्तमेनवमेवागोत्रजैःसहस्वस्वसूत्रोक्तप्रकारेणकार्यं तत्रद्विपादत्रिपादनक्षत्राणिकर्तुर्जन्मनक्षत्रञ्चवर्ज्यं सम्भवेर्कभौममन्दवारावर्ज्याः पालाशदाहास्थिदाहयोःसद्यःसञ्चयनम् अस्थनाङ्गङ्गाम्भसितीर्थान्तरेवाप्रक्षेपः तद्विधिर्वक्ष्यते अरण्येवृक्षमूलेनिखननंवा अस्थीन्यन्यकुलस्थस्यनीत्वाचान्द्रायणञ्चरेत् ।

दशाहकृत्यम्

दययान्यस्यापिनयनेमहापुण्यम् अस्थ्नांश्वस्तूकरशुद्रादिस्पर्शेपञ्चगव्यशालग्रामतुलस्युदकैःप्रोक्षणम् आशौचमध्येस्वगोत्रजैःसहभोक्तव्यन्तच्चदिवैव भोजनञ्चमृन्मयेषुपर्णपुटकेषुवाकार्यम्. नतुधातुपात्रेषु दाहदिनादारभ्यदशपिण्डादशदिनमध्येदर्भास्तीर्णभूमावमन्त्रकन्देयाः क्षत्रियादीनान्नवपिण्डानवदनान्तन्दशमपिण्डस्त्वाशौचान्त्यदिने प्रथमेऽहनियोदेशोयश्चकर्तायच्चतण्डुलादिद्रव्यंयच्चोत्तरीयशिलापाकपात्रादितदेवदशाहान्तम् एतदन्यतमव्यत्ययेयतोव्यत्ययस्ततःपुनरावृत्तिः शिलाविपर्यये पिघटस्फोटादेर्नावृत्तिरित्युक्तेर्लोकिकशिलाग्रहणं तेनपिण्डदानतिलाञ्जल्यादिकस्यैवावृत्तिर्नदाहस्य केचिदाचार्यविपर्ययेप्यावृत्तिमाहुः यत्रपुत्रादिमुख्यकर्तुरसन्निधानादमुख्याधिकारिणापिण्डदानक्रियारब्धातत्रमध्येपुत्रादिसन्निधानेप्यमुख्यकर्त्रैव दशाहान्ताक्रियासमापनीया एकादशाहादिकन्तुपुत्रादिमुख्येनैव समन्त्रकदाहमात्रेऽन्येनकृतेतुपिण्डदानादिदशाहकृत्यंसन्निकृष्टमुख्येनैवकार्यमितिमिताक्षरादयः अन्येतुसगोत्रोऽसगोत्रोवायःसमन्त्रकदाहकर्तासएवदशाहकृत्यङ्कुर्यादित्याहुः पत्न्याःकर्तृत्वेरजोदर्शनेजातेसातदन्तेकुर्यात् कर्तुरस्वास्थ्येन्येनसर्वाःक्रियाःपुनःकार्याः पिण्डद्रव्येषुतण्डुलामुख्याः तदभावेफलमूलशाकतिलमिश्रसक्तवोपि प्रेतश्राद्धेषुपितृशब्दस्वधाशब्दानुशब्दाःपुष्पधूपदीपदानादौमन्त्राश्चनवाच्याः त्र्यहाशौचेपर्णशरदाहादौप्रथमेदिनेएकःपिण्डः द्वितीयेचत्वारः तृतीयेपञ्चेतिक्रमोबोध्यः पुत्रेणपर्णशरदाहेकृतेतुतस्यदशाहाशौचात्तेनत्र्यहमध्येपिण्डसमाप्तिर्नकार्या शिरस्त्वाद्येनपिण्डेनप्रेतस्यक्रियतेसदा । द्वितीयेनतुकर्णाक्षिनासिकाः तृतीयेनकण्ठस्कन्धभुजवक्षांसि चतुर्थेननाभिलिङ्गगुदानि पञ्चमेनजानुजङ्घपादं षष्ठेनमर्माणि सप्तमेननाड्यः अष्टमेनदन्तलोमानि 'नवमेनवीर्यं दशमेनतुपूर्णत्वन्तृप्ताक्षुद्विपर्ययः । जलन्दशाहमाकाशेस्थाप्यङ्क्षीरञ्चमृन्मये १. प्रेतात्रस्नाहीत्युदकम् इदम्पिबेतिचक्षीरम् इदञ्चकृताकृतं ततःप्रेतोपकृतयेदशरात्रमखण्डितम् । कुर्यात्प्रदीपन्तैलेनवारिपात्रञ्चमार्तिकम् १ भोज्याद्भोजनकालेतुभक्तमुष्टिञ्चनिर्वपेत् । नामगोत्रेणसम्बुद्ध्याधरित्र्याम्पितृयज्ञवत् २ भूर्लोकात्प्रेतलोकन्तुगन्तुं श्राद्धंसमाचरेत् । तत्पाथेयंहिभवतिमृतस्यमनुजस्यच ३ अथदशाहमध्येदर्शपातेनिर्ण-

दशाहमध्येदर्शपाते

यः पिण्डदानादौप्रारब्धेयदिमध्येदर्शप्राप्तिस्तदामातापितृव्यतिरिक्तानांसर्वन्दशाहकृत्यमाकृष्यदर्शएवसमापनीयम् मातापितृविषयेतुत्र्यहमध्येदर्शपातेनापकर्षः त्रिरात्रात्परन्दर्शपातेतुपित्रोरपिसर्वन्दर्शेएवसमापनीयमितिकेचित् अन्येतुत्रिरात्रोर्ध्वमपिदर्शपातेऔरसपुत्रेणपित्रोस्तन्त्रसमाप्तिर्नकार्येत्याहुः अत्र देशाचाराव्द्यवस्थेतिसिन्ध्वादयः यदिदैवाद्दर्शात्पूर्वपिण्डदानादितन्त्रन्नारब्धन्तदादाहमात्रेसमन्त्रकेजातेपिनदर्शेतन्त्रसमाप्तिनियमइतिभाति दर्शोत्तरमेवतन्त्रारम्भसमाप्तिसम्भवेन द्विरैन्दवेतुकुर्वाणःपुनःशावंसमश्नुतइत्युक्तदोपाप्रसक्तेः एवन्दर्शेपकृष्यतन्त्रसमाप्तावयग्निपिण्डदातुर्दशाहमाशौचमस्त्येव पुत्रादेःसपिण्डस्यतुसुतरां दशाहप्रेतपिण्डान्प्रदायास्नात्वाभुक्तावसपिण्डस्यत्रिरात्रोपवासः सपिण्डस्योपवासएकः मत्याद्विगुणम् प्रेतकृत्यङ्कुर्वतासञ्चयनादर्वाक्स्त्रीसङ्गेकृतेचान्द्रायणम् ऊर्ध्वङ्कृच्छ्रत्रयम् अन्येषामाशौचिनांसञ्चयनादर्वाक्त्रिरात्रन्तदुत्तरमेकोपवासः ॥

53. नवश्राद्धम्

अथनवश्राद्धम् प्रथमेह्नितृतीयेचपञ्चमेसप्तमेतथा । नवमैकादशेचैवतन्नवश्राद्धमुच्यते १ नवश्राद्धानिपञ्चाहुराश्वलायनशाखिनः । आपस्तम्बाःषडित्याहुर्विभाषात्वितरेपुहि २ पञ्चपक्षेएकादशाहेनवश्राद्धन्नकार्यम् एतान्येवविप्रमश्चाद्धानीत्युच्यन्ते नवश्राद्धानिदशाहान्तर्नवमिश्रन्तुवत्सरइत्यन्यत्र अकृत्वातुनवश्राद्धम्प्रेतत्वान्नैवमुच्यते । नवश्राद्धन्त्रिपक्षञ्चषाण्मासम्मासिकानिच । नकरोतिसुतोयस्तुतस्याधःपितरोगताः १ अर्ध्यहीनमधूपञ्चगन्धमाल्यविवर्जितम् । नवश्राद्धममन्त्रंस्यादवनेजनवर्जितम् २ आशिषोद्विगुणादर्भाजयाशीःस्वस्तिवाचनम् । पितृशब्दःस्वसम्बन्धःशर्मशब्दस्तथैवच ३ पात्रालम्भोवगाहश्चउल्मुकोल्लेखनादिकम् । तृप्तिप्रश्नश्चविकिरःशेषप्रश्नस्तथैवच ४ प्रदक्षिणाविसर्गश्चसीमान्तगमनन्तथा । अष्टादशपदार्थाश्चप्रेतश्राद्धेविवर्जयेत् ५ तिलोसीतिमन्त्रेस्वधानमःपितृशब्दानवाच्याः किन्तुप्रेतशब्दोहेनतूष्णींवातिलावपनं तूष्णीमर्घ्यदानम् अमुष्मैस्वाहेतिप्रेतनाम्नापाणिहोमः बह्वृचानांसर्वैकोद्दिष्टेष्वग्नौकरणमस्त्येव अन्यशाखिनान्तुतन्निषेधः नाम्नैकःपिण्डः निनयनमन्त्रऊहः अनुमन्त्रणादिकन्त्वमन्त्रकम् अभिरम्यतामितिविसर्जनम् एवन्नवश्राद्धवर्ज्यैकोद्दिष्टेषु नवश्राद्धन्त्वमन्त्रकंसर्वमितिनारायणवृत्तिः उत्तानंस्थापयेत्पात्रमेकोद्दिष्टेसदाबुधः । न्युब्जन्तुपार्वणेकुर्यात्तस्योर्पारकुशान्न्यसेत् १ सपिण्डीकरणान्तानिप्रेतश्राद्धानिलौकिकाग्नावित्याश्वलायनमतं नवश्राद्धानिसम्भवेऽन्नेनकुर्यादन्यथामान्नेन विघ्नेतु नवश्राद्धम्मासिकञ्चयद्यदन्तरितम्भवेत्तत्तदुत्तरश्राद्धेनसहतन्त्रेणकार्यं शावेआशौचान्तरप्राप्तौनवश्राद्धानिकुर्यादेव सहगमनेतु नवश्राद्धानिभिन्नानिसपिण्डीकरणम्पृथक् । एकएववृषोत्सर्गोगौरेकातत्रदीयते १ शूद्रस्यामन्त्रकंसर्वन्द्विजवन्नाम्नैवकार्यमितिस्मृत्यर्थसारः अत्रवयोधिकमरणेतत्कनिष्ठानांसपिण्डानान्दशमेहनिमुण्डनङ्केचिदाहुः माता-

दशमेहनिमुण्डनम्

पित्राचार्येषुमृतेषुनियमेनदशमेहनिमुण्डनम् एवम्भर्तरिमृतेस्त्रियाअपिमुण्डननियमः पुत्राणांसर्वेषान्दाहकर्तुश्चदाहाङ्गभूतम्प्रथमदिनेदशमदिनेचमुण्डनम् अत्रदेशाचाराव्द्यवस्था अत्ररात्रिमृतस्यरात्रौदाहेपिप्रातरेवमुण्डनमित्युक्तं ततोदशमेहनिपूर्ववस्त्रशुद्धिङ्गृहशुद्धिञ्चकृत्वागौरसर्षपतिलकल्केनसशिरःस्नानङ्कृत्वानववस्त्रेपरिधायपरिहितवस्त्राणिप्रेतवस्त्राणिचान्त्यजेभ्यआश्रितेभ्यश्चदत्त्वासुवर्णादीनिमङ्गलवस्तूनिस्पृष्ट्वागृहम्प्रविशेत् ॥

54. आस्थिक्षेपविधिः

अथास्थिक्षेपविधिः तत्रादौसञ्चयनदिनेऽस्थिस्थापनप्रकारः प्रेतस्थानेबलिं दत्त्वाक्षरेणाभ्युक्ष्यवाग्यतः । प्रेतस्पास्थीनिगृह्णीयात्प्रधानाङ्गोद्भवानिच १ पञ्चगव्येनसंस्नाप्यक्षौमवस्त्रेणवेष्ट्यच । प्रक्षिप्यमृन्मयेभाण्डेनवेसाच्छादनेशुभे २ अरण्येवृक्षमूलेवाशुद्धेसंस्थापयेदथ । सूक्ष्मान्यस्थीनितद्भस्मनीत्वातोयेविनिक्षिपेत् ३ ततः सम्मार्जनम्भूमेःकर्तव्यङ्गोमयाम्बुभिः । पूजाञ्चपुष्पधूपाद्यैर्वलिभिःपूर्ववच्चरेत् ४ तत्स्थानाच्छनकैर्नीत्वातीर्थवाजाह्नवीजले । कश्चिच्चप्रक्षिपेत्पुत्रोदौहित्रावासहोदरः ५ मातुःकुलम्पितृकुलंवर्जयित्वानराधमः । अस्थीन्यन्यकुलस्थस्यनीत्वाचान्द्रायणञ्चरेत् ६ गङ्गातोयेपुयस्यास्थिक्षिप्यतेशुभकर्मणः । नतस्यपुनरावृत्तिर्ब्रह्मलोकात्सनातनात् ७ अस्तङ्गतेगुरौशुक्रेतथामसिमलिम्लुचे । गङ्गायामस्थिनिक्षेपन्नकुर्यादितिगौतमः ८ दशाहान्तरस्थिप्रक्षेपेतुनास्तादिदोषः दशाहाभ्यन्तरेयस्यगङ्गातोयेस्थिमज्जति । गङ्गायाम्मरणंयादृक्तादृक्फलमवाप्नुयात् ९

55. तीर्थेस्थिक्षेपकर्तुन्तत्पूर्वाङ्गविधिः

अथतीर्थेस्थिक्षेपकर्तुन्तत्पूर्वाङ्गविधिः यत्रास्थीनिनिखातानिताम्भूमिंसचैलस्नानपूर्वकम्पृथग्गोमूत्रादिभिःप्रोक्षयेत् तत्रगायत्र्यागोमूत्रेण गन्धद्वारामितिगोमयेन अप्यायस्वेतिक्षीरेण दधिक्राव्णइतिदध्ना घृतम्मिमिक्षइतिघृतेन उपसर्पेतिचतसृणामृचांशङ्खपितरस्त्रिष्टुप् भूप्रार्थनखननमृदुद्धरणास्थिग्रहणेषुक्रमेणविनियोगः ताभिरृग्भिः क्रमेणास्थिग्रहणान्तानिकर्माणिकृत्वास्वयञ्जलाशयेगृह्योक्तविधिनास्नायात् ततोस्थिशुद्धिङ्कुर्यात् सायथा अस्थीनिस्पृष्ट्वैतोन्विन्द्रमितितृचावृत्त्यापञ्चगव्यैःस्नात्वास्पृष्ट्वैदशस्नानानिकुर्यात् तत्रगायत्र्यादिपञ्चमन्त्रैर्गोमूत्रगोमयक्षीरदधिसर्पिःस्नानानिकृत्वा देवस्यत्वेतिकुशोदकेन मानस्तोकेतिभस्मना अश्वक्रान्तेरथक्रान्तेइतिमृदा मधुवाताइतिमधुना आपोहिष्ठेतिशुद्धोदकेनचस्नायात् एवन्दशस्नानानिकृत्वाऽस्थ्नाङ्कुशैर्मांर्जनङ्कुर्यात् तत्रमन्त्रः अतोदेवाइत्यृक् अथसप्तसूक्तानि एतोन्विन्द्र॰ ३ शुचीवो॰ ३ नतमंहोन॰ ८ इतिवाइति॰ १३ स्वादिष्ठयेति॰ १० ममाग्नेवर्चे॰ ९ कदुद्रायप्र॰ ९ ततोयदीयान्यस्थीनितस्यकृतसपिण्डीकरणस्यपार्वणविधिनाश्राद्धमस्थिप्रक्षेपाङ्गभूतंहिरण्येनकुर्यात् सक्तुनाचपिण्डदानं दशाहान्तरर्रास्थिक्षेपकरणेएकोद्दिष्टविधिनाश्राद्धं ततस्तलतर्पणङ्कृत्वापञ्चगव्यपञ्चामृतशुद्धोदकैरस्थी-निप्रक्षाल्ययक्षकर्दमेना-

लिप्यपुष्पैःप्रपूज्याऽजिनकम्बलदर्भभूर्जपत्रशाणपट्टवस्त्रताडपत्राणाङ्क्रमेणसप्तघासंवेष्टताम्रसम्पुटेस्थापयेत् तत्रयक्षकर्दमलक्षणं द्वादशकर्षञ्चन्दनङ्कुङ्कुमञ्चषट्कर्षःकर्पूरश्चतुःकर्षाकस्तूरीचैतेषाम्मेलनाद्यक्षकर्दमः ततोस्थिषुहेमरौप्यखण्डानिमौक्तिकप्रवालनीलमणींश्चप्रक्षिप्यस्वसूत्रोक्तविधिनास्थण्डिलाग्निप्रतिष्ठादिकृत्वाष्टोत्तरशतन्तिलाज्याहुतीर्जुहुयात् उदीरतांशङ्खःपितरस्त्रिष्टुप् अस्थिप्रक्षेपाङ्गतिलाज्यहोमेविनियोगः उदीरतामितिसूक्तस्यचतुर्दशऋग्भिःप्रत्यृचमाहुतिरित्येवंसूक्तस्यसप्तावृत्तिभिरवशिष्टदशाहुतीःप्रथमऋगावृत्त्येत्येवमष्टोत्तरशतन्तिलाहुतीरष्टोत्तरशतमाज्याहुतीश्चजुहुयात् सवेष्टनास्थिसमुच्चययुतन्ताम्रसम्पुटमादायतीर्थङ्गच्छेत् तत्रनियमाः मूत्रपुरीषोत्सर्गकाले आचमनकालेचनास्थीनिधारयेत् शूद्रयवनान्त्यजादिकांस्वहीनजातिमस्थिधारणकालेनस्पृशेदितिकाशीखण्डे ततस्तीर्थम्प्राप्यतीर्थप्राप्तिनिमित्तकंस्नानादिविधायाय्थीनिम्नापयित्वामुकगोत्रस्यामुकशर्मणोब्रह्मलोकादिप्राप्तयेऽमुकतीर्थेस्थिप्रक्षेपमहङ्करिष्येइतिसङ्कल्प्यपलाशपर्णपुटेपञ्चगव्येनास्थीन्यासिच्यहिरण्यशकलमाल्यघृततिलमिश्रितास्थीनिमृत्पिण्डेनिधायदक्षिणान्दिशमवेक्षमाणोनमोस्तुधर्मायेतिवदंस्तीर्थेप्रविश्यनाभिमात्रजलेस्थित्वासमेप्रीतोस्त्वित्युक्त्वातीर्थेक्षिपेत् ततःस्नात्वाजलाहिरागत्य सूर्यन्दृष्ट्वाहरिंस्मृत्वाविप्राययथाशक्तिरजतन्दक्षिणान्दद्यात् अमुकस्यास्थिक्षेपःकृतस्तत्साङ्गतार्थंरजतमिदन्तुभ्यंसम्प्रददेइति इत्यस्थिप्रक्षेपप्रकारः ॥

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬