निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथैकादशाहकृत्यम् एकादशाहेप्रातरुत्थायगृहानुलेपनङ्कृत्वास्पृष्टसर्ववस्त्रक्षालनपूर्वकंसर्वसपिण्डानां-सचैलस्नानान्तेसन्ध्यापञ्चमहायज्ञादिकर्मणिशुद्धिः एकादशाहेसङ्गवकालेस्नानाच्छुद्धिरितिकेचित् एकादशाहेपुत्रादेःकर्तुरपिपञ्चमहायज्ञाद्यधिकारः सपिण्डानान्दर्शवार्षिकश्राद्धेष्वप्यधिकारः नान्दीश्राद्धमात्रञ्चतुः-पुरुषसपिण्डैःसपिण्डीकरणात्प्राक्नकार्यं ततोदशाहकर्मकारीअमुख्यः-कर्तामुख्योवापुत्रादिःकतवृषोत्सर्गाद्येकादशाहिकंसर्वङ्कर्मकुर्यात् एकादशाहेप्रेतस्ययस्यनोत्सृज्यतेवृषः । प्रेतत्वंसुस्थिरन्तस्यदत्तैःश्राद्धशतैरपि १ अत्रस्वयमेवसर्वङ्कुर्यान्नतुकाम्यवृषोत्सर्गवदाचार्यवरणम् अयङ्गृहेनकार्यः अयन्द्वादशाहेप्युक्तः क्वचिन्मृताहेप्युक्तः विषुवद्वितयेचैवमृताहेबान्धवस्पचेति वत्सराभ्यन्तरेपित्रोर्वृषस्योत्सर्गकर्मणि । वृद्धिश्राद्धन्नकुर्वीततदन्यत्रसमारभेत् १ वृपलक्षणन्तु लोहितोयस्तुवर्णेनमुखेपुच्छेचपाण्डुरः । श्वेतःखुरविषाणाभ्यांसनीलोवृषउच्यते १ अथवाश्वेतवर्णस्यमुखपुच्छादिश्यामत्वेनीलवृषत्वं यद्वासर्वश्यामस्यमुखादिश्वेतत्वेनीलवृषत्वं केचित्वृषाभावेमृद्भिःपिष्टैर्वावृषङ्कृत्वाहोमादिविधिनावृषोत्सर्गइत्याहुः यथोक्तालाभोद्विवर्षएकवर्षोवावृषोवर्षाधिकाश्च-तस्रएकावावत्सतरीस्यात् प्रयोगस्तुस्वस्वसूत्रानुसारीग्राह्यः सव्येनपाणिनापुच्छंसमादायवृषस्यतु । दक्षिणेनापआदायसतिलाःसकुशास्ततः १ प्रेतगोत्रंस-
मुच्चार्यामुकस्मैवृषएषमयादत्तस्तन्तारयत्वितिवदन्सहेमजलम्भूमावुत्सृजेत् विधारयेन्नतं कश्चिन्नचकश्चनवाहयेत् ।नदोहयेच्चतान्धेनुनचकश्चनबन्धयेत् १ पतिपुत्रवत्याःसुवासिन्यानवृषोत्सर्गः तत्स्थानेएकापयस्विनीगौर्देया पतिपुत्रयोरन्यतराभावेतुस्त्रीणामपिवृषोत्सर्गः सहगमनेतुस्त्रीणांवृषोत्सर्गस्थानेगौरेव वृषोत्सर्गसाङ्गतार्थन्तिलोदकुम्भधेनु-वस्त्रहरण्येतिपञ्चदानानि आशौचान्तरञ्चेदेकादशाहेप्राप्नोतितदावृषोत्सर्गादिकमाद्यमासिकंशय्यादिदानानिचकुर्यादेव एवङ्कृतेवृषोत्सर्गेफलंवाजिमखोदितम् । यमुद्दिश्योत्सृजेन्नीलंसलभेतपराङ्गतिम् १ वृषोत्सर्गःपुनात्येवदशातीतान्दशापरान् । इतिवृषोत्सर्गः अथैकादशाहेमहैकोद्दिष्टम् इदञ्चमहैकोद्दिष्टंषोडशश्राद्धेभ्योभिन्नमेव अतएवेदङ्करिष्यमाणसर्वैकोद्दिष्टप्रकृतिभूतमित्युच्यते इदञ्चपाकेनैव अत्रसतिसम्भवेविप्रोभोजयितव्यः असम्भवेऽग्नौहोमः ब्राह्मणम्भोजयेदाद्येहोतव्यमनलेथवा । इत्युक्तेः श्मश्रुकर्मतकर्तव्यन्नखच्छेदस्तथैवच । स्नपनाभ्यञ्जनेदद्याद्विप्रायविधिपूर्वकम् १ ततःक्षणपाद्यार्घ्यासनगन्धपुष्पाच्छादनान्येवदद्यात् नात्रधूपदीपौ एकोद्दिष्टन्देवहीनमित्युक्तेरेकएवविप्रः दिवैवचनिमन्त्रणम् एकमर्घ्यपात्रं स्वधाशब्दनमःशब्दपितृशब्दानसन्ति तेनप्रत्तःप्रेतइमांल्लोकान्प्रीणयाहिनइतिमन्त्रोहोर्घ्यपात्रे नाभिश्रवणं सर्वम्प्राचीनावीर्तिनैवकार्यं देवकार्याभावात् अग्नीकरणविकल्पः तत्रचपाणिहोमेपिनतस्यभक्षणङ्किन्त्वग्नौप्रक्षेपः एकएवपिण्डः अनुमन्त्रणादिसर्वममन्त्रकं स्वदितमितितृप्तिप्रश्नःकात्यायनानाम् अक्षय्यस्थानेउपतिष्ठतामितिवदेत् अभिरम्यतामितिविसर्जनम् अभिरताःस्मेतिविप्रप्रतिवचनं श्राद्धशेषभोजनन्नास्ति अन्तेस्नानं नवश्राद्धैकोद्दिष्टेतुसर्वममन्त्रकमित्युक्तं विप्राभावेत्वनावेकोद्दिष्टंयथा अग्नौपायसंश्रपयित्वाज्यभागान्तेऽग्नेरग्रे-श्राद्धप्रयोगङ्कृत्वाग्नौप्रेतमावाह्यगन्धाद्यैःसम्पूज्यपृथ्वीतेपात्रमित्यादिनान्नंसङ्कल्प्योदीरतामवरइत्यष्टाभिश्चतुरावृत्ताभिर्ऋ ग्भि-र्द्वात्रिंशदाहुतीहुत्वापिण्डदानादिश्राद्धंसमापयेदिति एवमेतदेकोद्दिष्टंस्त्रीणामपि अथाद्यमासिकं तस्यमासादौमासिकङ्कार्यमितिवचनान्मृताहोमुख्यःकालः सचाशौचप्रतिबन्धादतिक्रान्तइति तदन्तेएकादशेह्नितत्कार्यम् अतएवब्राह्मणम्भोजयेदाद्येहोतव्यमनलेथवा ।
पुनश्चभोजयेद्विप्रन्द्विरावृत्तिर्भवेदिह १ इतिप्रथममासिकार्थन्द्वितीयावृत्तिरुक्ता अत्रचद्विरावृत्तिर्भवेदिहेत्युक्तिः-षोडशमासिकानांसपिण्ड्यधिकारार्थमपकृष्यकर्तव्यानान्द्वादशाहादौकरणपक्षेयोज्या तेषामेकादशाह-एवकरणपक्षेतुषोडशमासिकानांषोडशावृत्तयएकम्महैकोद्दिष्टमितिसप्तदशावृत्त्यापत्त्याद्विरावृत्तिर्भवेदिहेत्युक्तेरसङ्गतेः तयाच-सपिण्ड्यधिकारार्थापकृष्याणाम्मासिकानान्द्वादशाहेकरणेएकादशाहेमहैकोद्दिष्टोत्तरमतिक्रान्तमाद्यमासिकङ्करिष्यइतिसङ्कल्प्याद्यमासिकमात्रमन्नेनामेनवा विप्रेदर्भबटौवाप्रेतमावाह्यकार्यं नत्वाद्यमासिकस्याग्नौहोमः पुनश्चभोजयेद्विप्रमितिबि-
शेषवचनात् इत्थञ्चमहैकोद्दिष्टमेकमाद्यमासिकमेकमित्यकोद्दिष्टस्यद्विरावृत्तिःस्पष्टैव येत्वाद्यमासिकातिरेकेणमहै-कोद्दिष्टस्यैवद्विरावृत्तिंवदन्तितेभ्रान्ताः अत्रकेचिदाद्याब्दिकस्यापिमृताहएवकालइतितस्याप्यतिक्रान्तत्वादेकादशाहे-आद्यमासिकमाद्याब्दिकञ्च तन्त्रेणकरिष्यइतिसङ्कल्प्यद्वयमपितन्त्रेणकार्यमित्याहुः अन्येतुमासादौमासिकङ्कार्यमाब्दिकं-वत्सरेगते इतिवचनाद्द्वितीयवर्षारम्भेप्रथमाब्दिकमितिनाब्दिकस्यैकादशाहेऽनुष्ठानमित्याहुः एवन्त्रिपक्षेसपिण्डीकरणपक्षेएकादशाहेआद्यमासिकमूनमासेऊनमासिकन्द्वितीयमासारम्भेद्वितीयमासिकम्पक्षत्रयेत्रैपक्षिकञ्चैकोद्दिष्टविधिनाकृत्वावशिष्टद्वादशमासिकान्यपकृष्यतथैवकृत्वासपिण्डीकरणम् एवम्पक्षान्तरेषूह्यम् एकादशाहेन्त्रतेणषोडशमासिकापकर्षपक्षेमहैकोद्दिष्टोत्तरन्देशकालौसङ्कीर्त्यातिक्रान्तमाद्यमासिकंसपिण्ड्यधिकारार्थमपकृष्योनमासिकादीन्यूनाब्दिकान्तानिपञ्चदशमासिकानिचतन्त्रेणैकोद्दिष्टेनविधिनाकरिष्यइतिसङ्कल्प्यतन्त्रेणषोडशापिकुर्यात् केचिन्मतेत्वतिक्रान्तेआद्यमासिकाद्याब्दिकेऊनमासिकादीनिचेत्यादिसङ्कल्पः मासिकानितु आद्यमासिकम् १ ऊनमासिकम् २ द्वितीयमासिकम् ३ त्रैपक्षिकम् ४ तृतीयमासिकम् ५ चतुर्थमासिकम् ६ पञ्चममासिकम् ७ षष्ठम् ८ ऊनषाण्मासिकम् ९ सप्तममासिकम् १० अष्टमम् १९ नवमम् १२ दशमम् १३ एकादशम् १४ द्वादशम् १५ ऊनाब्दिकम् १६ चेतिक्रमेणज्ञेयानि अथैकादशाहेरुद्रगणश्राद्धं तच्चैकादशरुद्रोद्देशेनरुद्ररूपप्रेतोद्देशेन वा रुद्रोद्देशपक्षेसव्येन रुद्ररूपप्रेतोद्देशेपक्षेऽपसव्येन वीरभद्रः १ शम्भुः २ गिरीशः ३ अजैकपात् ४ अहिर्बुध्न्यः ५ पिनाकी ६ अपराजितः ७ भुवनाधीश्वरः ८ कपाली ९ स्थाणुः १० भगः ११ इत्येकादशरुद्राः अत्रशक्तेनैकेकरुद्रनाम्नैकोविप्रइत्येकादशविप्राभोज्याः अशक्तेनतुसर्वोद्देशेनैकएवविप्रोभोज्यः आमान्नान्येकादशैकंवामान्नन्देयम् अत्रश्राद्धेपिण्डदानार्घ्याग्नौकरणविकिराणामभावः एवमेवाष्टवसुश्राद्धम् एतच्चकृताकृतं वसुनामान्यप्यन्यत्र एतदेकादशाहकृत्यन्त्र्यहाशौचेचतुर्थदिनेकर्तव्यं द्वितीयदिनेप्रथमदिनेवास्थिसञ्चयनम् पञ्चमदिनेसपिण्डीकरणम् अत्रैकादशाहेद्वादशाहेवापददानानिकार्याणितेनमेतस्यमार्गेसुखगतिः आसनोपानहच्छत्रम्मुद्रिकाचकमण्डलुः ।
यज्ञोपवीताज्यवस्त्रम्भोजनञ्चान्नभाजनम् १ दशकम्पदमेतत्स्यात्पदान्येवन्त्रयोदश । देयानिवायथाशक्तितेनासौप्रीणितोभवेत् २ अन्नञ्चैवोदकुम्भञ्चोपानहौचकमण्डलुः । छत्र॑वस्त्रन्तथायष्टिंलोहदण्डञ्चदापयेत् ३ अग्नीष्टिकाम्प्रदीपञ्चतिलांस्ताम्बूलमेवच ।चन्दनम्पुष्पमालाञ्चोपदानानिचतुर्दश ४ वैतरणीधेनूत्क्रान्तिधेनुमोक्षधेन्वादिदानानिगोभूम्यादिदशदानानितिलपात्रदानादी-निमरणकालेनकृतानिचेदेकादशाहादौपुत्रादिभिःप्रेतोद्देशेनकार्याणि अश्वंरथङ्गजन्धेनुम्महिषींशिबिकादिकम् । शालग्रामम्पुस्तकञ्चकस्तूरीकुङ्कु-
मादिकम् १ दासींरत्नम्भूषणादिशय्याञ्छत्रञ्चचामरम् । दद्याद्वित्तानुसारेणप्रेतस्तत्तत्सुखंलभेत् २
अथशय्यादानम् एकादशाहेशय्यायादानेएषविधिःस्मृतः । तेनोपभुक्तंयत्किञ्चिद्वस्त्रवाहनभाजनम् १ यद्यदिष्टञ्चतस्यासीत्तत्सर्वम्परिकल्पयेत् । प्रेतञ्चपुरुषहैमन्तस्यांसंस्थापयेत्तदा २ पूजयित्वाप्रदातव्यामृतशय्यायथोदिता । तस्माच्छय्यांसमासाद्यसारदारूमयीन्दृढाम् ३ दन्तपत्राचितांरम्यांहेमपट्टेरलङ्कृताम् । हंसतूलिप्रतिच्छन्नांशुभगण्डोपधानिकाम् ४ प्रच्छादनपटीयुक्ताङ्गन्धधूपादिवासिताम् । उच्छीर्षकेधृतभृतङ्कलशम्परिकल्पयेत् ५ ताम्बूलकुकुङ्कुमक्षोदकर्पूरागरुचन्दनम् । दीपिकोपानहच्छत्रचामरासनभाजनम् ६ पार्श्वेषुस्थापयेद्भक्तायासप्तधान्यानिचैवहि । शयनस्थस्यभवतियदन्यदुपकारकम् ७ भृङ्गारकरकाद्यन्तत्पञ्चवर्णंवितानकम् । सम्पूज्यद्विजदाम्पत्यन्नानाभरणभूषितम् ८ उपवेश्यतुशय्यायाम्मधुपर्कन्ततोवदेत् । दानमन्त्रस्तु यथानकृष्णशयनंशून्यंसागरजातया । शय्यातस्याप्यशून्यास्तुतथाजन्मनिजन्मनि १ यस्मादशुन्यशयनङ्केशवस्यशिवस्यच । शय्यातस्याप्यशून्यास्तुतथाजन्मनिजन्मनि २ दत्त्वैवं तस्यसकलम्प्रणिपत्यविसर्जयेत् । पाद्मेतु अस्थिलालाटकङ्गृह्यसूक्ष्मङ्कृत्वासपायसम् । भोजयेद्द्विजदाम्पत्यंविधिरेषसनातनः १ इत्युक्तं नैतन्महाराष्ट्रदेशादिशिष्टैराद्रियते यद्देशेतदाचारस्तत्रास्तु स्वर्गेपुरन्दरपुरेलोकपालालयेतथा । सुखंवसत्यसौजन्तुःशय्यादानप्रभावतः । आभूतसम्प्लवंयावत्तिष्ठत्यातङ्कवर्जितः १ प्रेतशय्याप्रतिग्राहीनभूयःपुरुषोभवेत् । गृहीतायान्तुतस्यांवैपुनःसंस्कारमर्हति २
अथोदकुम्भः एकादशाहात्प्रभृतिघटस्तोयान्नसंयुतः । दिनेदिनेप्रदातव्यो यावत्संवत्सरंसुतैः १ यस्यसंवत्सरादर्वाक्सपिण्डीकरणम्भवेत् । मासिकञ्चोदकुम्भञ्च देयन्तस्यापिवत्सरम् २ अपिश्राद्धशतैर्दत्तैरुदकुम्भंविनानराः । दरिद्रादुःखिनस्तातभ्रमन्तिचभवार्णवे ३ यावदब्दञ्चयोदद्यादुदकुम्भंविमत्सरः । प्रेतायान्नसमायुक्तंसोश्वमेधफलंलभेत् ४ इदञ्चोदकुम्भश्राद्धंसपिण्डीकरणात्प्रागेकोद्दिष्टविधिना सपिण्ड्युत्तरन्तुपार्वणविधिना इदन्त्रयोदशदिनादारभ्यकर्तव्यमितिभट्टाः अत्रपिण्डदानङ्कृताकृतं देवहीनञ्चैतत् अदैवम्पार्वणश्राद्धंसोदकुम्भमधर्मकम् । कुर्यात्प्रत्याब्दिकाच्छ्राद्धात्सङ्कल्पविधिनान्वहम् १ इतिवचनात् प्रायश्चित्ताङ्गविष्णुश्राद्धवदत्रश्राद्धेसर्वे श्राद्धधर्मानसन्तिकिन्तुवाचनिकमात्राः तेनसाङ्कल्पविधिनासङ्कल्पक्षणपाद्यासनगन्धाच्छादनान्तपूजनान्नपरिवेषणान्तेपृथ्वीतेपात्रमित्याद्युक्त्वाएषउदकुम्भइदमन्नन्दत्तञ्चेत्यादित्यागविधिः अन्तेताम्बूलदक्षिणादि नात्रब्रह्मचर्यापुनर्भोजनादिनियमाः वृद्धिनिमित्तेनमासिकापकर्षेउदकुम्भश्राद्धानामप्यपकर्षः प्रेतश्राद्धत्वात् प्रत्यहंसोदकुम्भान्नदानाशक्तेनाप्येकस्मन्दिनेतावद्भिरामान्नैरुदकुम्भैश्चतावदामान्नोदकुम्भनि-
ष्क्रयेणवापकृष्योदकुम्भश्राद्धानिकार्याणि अब्दमध्येप्रत्यहमुदकुम्भश्राद्धङ्कुर्वतोमध्ये आशौचप्राप्तौतावाछ्रानांलोपएव-दर्शादिवत् आशौचोत्तरम्प्रतिबन्धादकरणेतदुत्तसेदकुम्भेनसहतन्त्रतयातिक्रान्तोदकुम्भानाम्प्रयोगः अतिक्रान्तोदकुम्भश्राद्धान्यद्यतनोदकुम्भश्राद्धञ्चतन्त्रेणकरिष्येइतिसङ्कल्पः तथाप्रथमाब्देदीपदानमुक्तम् प्रत्यहन्दीपकोदेयोमार्गेतुविषमेनरैः । यावत्संवत्सरंवापिप्रेतस्यसुखलिप्सया १ प्राङ्मुखोदङ्मुखन्दीपन्देवागारेद्विजालये । कुर्याद्याम्यमुखम्पित्र्येअद्भिःसङ्कल्प्यमुस्थिरम् २ इति ॥
अथैषाङ्काला—
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा