🕉️ 24 November 2026, Tuesday · 08:04:14 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← धर्मसिन्धु — परिच्छेद-सूची

📖 धर्मसिन्धु · तृतीय परिच्छेद (उत्तरार्ध) — श्राद्ध, आशौच, अन्त्येष्टि, संन्यास · पृष्ठ 76/81

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

59. षोडशमासिकानि

अथषोडशमासिकानि द्वादशप्रतिमास्यानिऊनमासन्त्रिपक्षकम् । ऊनषाण्मासिकञ्चोनाब्दिकञ्चापीतिषोडश १ अत्रमतान्तराणिसिन्धौ अथैषाङ्कालाः मासादौमासिकङ्कार्यमाद्यन्त्वेकादशेहनि । एकद्वित्रिदिनैरूनेत्रिभागेनोनएववा १ ऊनमासिकमूनाब्दमूनषामासिकञ्चरेत् । त्रैपक्षिकन्त्रिपक्षेचोनमास्यन्द्वादशेह्निवा २ तत्रोनमासिकोनषाण्यासिको-नाब्दि-कानामेकदिनेनोनपक्षेपञ्चम्याम्मृतस्यतृतीयायान्द्वाभ्यामूनत्वपक्षेद्वितीयायान्त्रिभिर्न्यूनेप्रतिपदायामनुष्ठानमितिकेचित् माधवस्तून-षाण्मासिकमूनाब्दिकञ्चमृताहात्पूर्वेद्युःकार्यमित्याह त्रेपक्षिकन्त्रिपक्षेतीतेमृताहेकार्यग् अत्राहिताग्नेर्विशेषः त्रैर्पाक्षकपर्यन्तानिसंस्कारतिथौततःपराणिप्रत्याब्दिकञ्चमृततिथौ तेनाद्यन्दाहादेकादशेह्नि त्रिमासादूर्ध्वंसंस्कारेत्वेवम्भाति त्रिपक्षपर्यन्तानिदाहतिथौ कृत्वापरायतिक्रान्तानिमृततिथौप्राप्तमासिकेनसहकार्याणीति ऊनश्राद्धेषुवर्ज्यानित्रिपुष्करेषु-नन्दासुसिनीवाल्याम्भृगोर्दिने । चतुर्दश्याञ्चनोनानिकृत्तिकासुद्विपुष्करे १ त्रिपुष्करद्विपुष्करयोगयोर्लक्षणम्प्रागुक्तम् आद्यमासिकमाद्याब्दिकञ्चैकादशेह्नीत्येकम्मतम् आद्यमासिकमेवैकादशेह्निप्रथमाब्दिकन्तुद्वितीयवर्षारम्भ-एवेत्यपरमतमित्युक्तम् एतानिषोडशश्राद्धानिवर्षान्तसपिण्डनपक्षेउक्तेषुस्वस्वकालेष्वेकोद्दिष्टविधिनाकार्याणि द्वादशा-हादिकालेषुसपिण्डनापकर्षपक्षेएकदिनेएवापकृष्ययुगपदेकोद्दिष्टविधिनाकार्याणि श्राद्धानिषोडशादत्त्वानतुकुर्यात्सपिण्ड-नमितिषोडशश्राद्धैर्विनासपिण्डनेधिकाराभावबोधनात् एतानिपक्वान्नेनामान्नेनवाकार्याणि पाकपक्षेयुगम्पत्करणेसर्वेषामेक-एवपाकोविप्राअर्घ्याःपिण्डाश्चषोडश एतानिद्वादशाहादौसपिण्डनात्पूर्वङ्कृतान्यपिपुनःसपिड्युत्तरं-स्वस्वकालेपार्वर्णावधिनाकार्याणि यस्यसंवत्सरादर्वाक्विहितातुसपिण्डता । विधिवत्तानिकुर्वीतपुनःश्राद्धानिषोडश १ अर्वाक्संवत्सराद्यस्यसपिण्डीकरणकृतम् । षोडशानान्द्विरावृत्तिङ्कुर्यादित्याहगौतमः २ इत्यादिवचनात् षोडशानान्द्विरावृत्तित्वञ्चकादशाहसपिण्डनपक्षेज्ञेयं तत्राद्यमासिकस्यकालसन्त्वात् द्वादशाहेसपिण्डनपक्षेतुपञ्चदशानान्द्विरावृत्तिः त्रिपक्षेसपिण्डनपक्षेआद्यमासिकोनमासिकद्वितीयमासिकानां-स्वकालेकृतत्वादपकृष्यकृतानामेवपुनरावृत्तिविधानात्तेषाङ्काला-

भावाच्चत्रयोदशानामेवपुनरावृत्तिः एवमन्यपक्षेष्वपियथासम्भवमूह्यं येतुद्वादशाहेसपिण्डनङ्कृत्वात्रयोदशाहादावाद्यमासिकसहितानांषोडशानाम्पुनरावृत्तिङ्कुर्वन्तितम्भ्रान्ताः यदामरणादारभ्यद्वादशमासमध्येकश्चिदधिकमासःपतेत्तदातन्मासस्थम्मासिकश्राद्धमधिकेशुद्धेमासेचेतिद्विवारङ्कार्यमितिसप्तदशश्राद्धानिभवन्ति मलमासेमृतस्यतु एकादशाहेआद्यमासिकङ्कृत्वाद्वितीयमासमृततिथौतत्पुनःकृत्वाकिञ्चिदूनेद्वितीयमासे ऊनमासिकन्तृतीयमासारम्भेद्वितीयमासिकंसार्धद्विमासान्तेत्रैपक्षिकं सपिण्ड्युत्तराण्यवशिष्टमासिकानिस्वस्वकालेएवकार्याणि चतुःपुरुषमध्येसपिण्डेषुनान्दीश्राद्धप्राप्तौतुतत्प्राप्तिमासेएवैकस्मिन्नेवदिनेसर्वाण्यपकृष्यकार्याणि प्रेतश्राद्धानिसर्वाणिसपिण्डीकरणन्तथा । अपकृष्यापिकुर्वीतकर्तुन्नान्दीमुखन्द्विजः १ इत्युक्तेः तत्रैकःपाकःषोडशश्राद्धपक्षेषोडशब्राह्मणाअष्टचत्वारिंशत्पिण्डाःपुरूरवार्द्रवविश्वेदेवार्थमेकोविप्रइतिसर्वेषामनुष्ठानम् एवम्पक्षान्तरेषुश्राद्धसङ्ख्यानुसारेणविप्राद्यूह्यं केचित्पाकभेदमाहुः उदकुम्भश्राद्धानामप्यनुमासिकवत्प्रेतोद्देश्यकश्राद्धत्वात्तेषामप्यपकर्षइत्युक्तं वृद्धिंविनानुमासिकापकर्षेतुदोपमाहोशनाः वृद्धिश्राद्धविहीनस्तुप्रेतश्राद्धानियश्चरेत् । सश्राद्धीनरकेघोरेपितृभिःसहमज्जति १ इति चतुःपुरुषसण्डेिष्वाधानादिप्राप्तिनिमित्तोप्यपकर्षःकार्यः अत्रविशेषः पर्वार्धेउक्तः यद्यन्मासिकंसूतकादिनातिक्रान्तम्भवेत्तत्तदुत्तरमासिकेनसहतन्त्रेणकार्यमित्युक्तम् ॥

सपिण्डनकालः

60. सपिण्डीकरणविचारः

अथसपिण्डीकरणविचारः तत्रसपिण्डनकालः नासपिण्ड्याग्निमान्पुत्रःपितृयज्ञंसमाचरेदितिवचनात् पित्रादीनाम्मात्रादीनान्त्रितयमध्येऽन्यतममरणेसाग्निकोद्वादशाहेसपिण्डनङ्कृत्वागामिदर्शेपिण्डपितृयज्ञादिकङ्कुर्यात् अत्रस्मार्ताग्निमानपिसाग्निकोग्राह्यइतिभाति तस्यापिपिण्डपितृयज्ञावश्यकत्वात् साग्नेःप्रेतस्यतुत्रिपक्षेएव प्रेतश्चेदाहिताग्निःस्यात्कर्तानग्निर्यदाभवेत् । सपिण्डीकरणन्तस्यकुर्यात्पक्षेतृतीयके १ इत्युक्तेः अत्रसाग्निःश्रौताग्निमानेव द्वयोःसाग्नित्वेद्वादशाहएव साग्निकस्तु.यदाकर्ताप्रेतोवाप्यग्निमान्भवेत् । द्वादशाहेतदाकुर्यात्सपिण्डीकरणम्पितुः १ इत्युक्तेः द्वयोरप्यनग्निवेत्वनेकेकालाः सपिण्डीकरणङ्कुर्याद्यजमानस्त्वनग्निमान् । अनाहिताग्नेःप्रेतस्यपूर्णेसंवत्सरेथवा १ एकादशेमासिषष्ठेत्रिमासेवात्रिपक्षके । मासान्तेद्वादशेवाह्निकुर्याद्वैकादशहनि २ यदहर्वृद्धिरापन्नातदहर्वेतिनिश्चितम् । अत्रवृद्धिनिमित्ताम्पकर्षोनिरग्नेरेवोक्तस्तथापिसाग्नेरपिसम्भवेयोज्यः अत्रवृद्धिपदञ्चूडोपनयनविवाहमात्रपरं सीमन्तादिसंस्कारेषुवृद्धिश्राद्धस्यलोपएवकार्योनतुतदर्थंसपिण्डनापकर्षइतिकेचित् अन्येतुगर्भाधानपुंसवनादिष्वन्नप्राशनान्तेषुसंस्कारेष्वकरणेदोषोक्तेरावश्यकेषुवृद्धिश्राद्धस्याप्याबश्यकत्वात्सपिण्डनापकर्षःकार्यएव तथाचचतुःपुरुषसपिण्डेषुसपिण्डीकरणाभावेगर्भाधानादिकमपिनकार्यमित्याहुः तेनपितामहमरणेपौत्रस्यवृद्धौमाता

यामप्यपकर्षःसपिण्डीकरणानुमासिकादीनांसिद्धः एवमावश्यकवृद्धियुतकर्मप्राप्तौकनिष्ठःपुत्रोवाभ्रातावाभ्रातृपुत्रोवान्यःसपिण्डोवाशिष्योवागौणकर्तापिकुलप्राप्तवृद्धिसिद्ध्यर्थंसपिण्डनाद्यपकर्षङ्कुर्यात् तत्रचकृतेमुख्यस्यपुत्रादेर्नपुनःकरणं वृद्धिनिमित्तापकर्षेपुनःकरणाभावात् येवाभद्रन्दूषयन्तिस्वधाभिरितिदोषश्रुतेः वृद्धिंविनागौणाधिकारिणासपिण्ड्यादिकरणेतुमुख्याधिकारिणापुत्रादिनापुनरावर्तनीयम् एकादशाहान्तकर्मणस्तुनपुनरावृत्तिरित्युक्तं तत्रावश्यकपदेनानन्यगतिकंवृद्धिकर्मग्राह्यं तेनसगतिकेष्टापूर्तादौसगतिकोपनयनविवाहादौचनापकर्षः अगतिकेचविवाहादावप्यपकर्षइतिव्यवस्थायोज्या आनन्त्यात्कुलधर्माणाम्पुंसाञ्चैवायुषःक्षयात् । अस्थिरत्वाच्छरीरस्यद्वादशाहःप्रशस्यते १ अत्रकुलधर्मपदेनवृद्धिश्राद्धयुतङ्कर्मग्राह्यं नतुपञ्चमहायज्ञदेवपूजाश्राद्धादि अस्यवर्णधर्मत्वेननित्यत्वात्सपिण्डीकरणनिमित्तकप्रतिबन्धायोगात् सपिण्डीकरणात्पूर्वम्पञ्चमहायज्ञादिधर्मोनकार्यइतिक्वापिस्मृतिवचनेनुपलम्भाच्च एतेनसपिण्डीकरणाभावेसपिण्डेषुदेवपूजाश्राद्धादिधर्मलोपंवदन्तोनिर्मूलत्वादुपेक्ष्याः अत्रद्वादशाहपदेनाशौचसमाप्त्युत्तरदिनङ्ग्राह्यं तेनत्रिदिनाशौचेपञ्चमदिनेसपिण्डीकरणं द्वादशाहादिकालेषुप्रमादादननुष्ठितम् । सपिण्डीकरणङ्कुर्यात्कालेषूत्तरभाविषु १ इदमुत्तरकालविधानंसाग्निनिरग्निसाधारणं सपिण्डीकरणश्राद्धमुक्तकालेकृतन्नचेत् ।

सपिण्डनाधिकारिविचारः

हस्तार्दारोहिणीभेवानुराधायाञ्चतच्चरेत् १ इदमपिसाधारणं स्मृत्यर्थसारेवर्षान्तसपिण्डनपक्षेवर्षान्त्यदिनेपूर्वंसंवत्सरविमोक्षश्राद्धङ्कृत्वासपिण्डनञ्च कृत्वापरेद्युर्मृताहेवार्षिकङ्कार्यमित्युक्तम् इतिकालविचारः तच्चसपिण्डनम्पुत्रेविदेशस्थेपिसतिनान्यःकुर्यात् एवञ्ज्येष्ठपुत्रेविदेशस्थेपिनकनिष्ठःकुर्यात् षोडशश्राद्धानितुज्येष्ठासन्निधानेकनिष्ठेनकार्याणि पुनर्ज्येष्ठेननकार्याणि आहिताग्निःकनिष्ठोपिसपिण्डनङ्कुर्यादेव वृद्धिनिमित्तेतुकनिष्ठादिभिरपिसपिण्डनङ्कार्यमित्युक्तं वृद्धिंविनाकनिष्ठपुत्रेणकृतेसपिण्डनेज्येष्ठपुत्रेणपुनःकार्यम् आहिताग्निनापितृयज्ञार्थङ्कृतेसपिण्डनेपिज्येष्ठनपुनःकार्यमितिभाति तत्रपुनःकरणेप्रेतशब्दोनवाच्यः देशान्तरस्थपुत्राणांश्रुत्वातुवपनम्भवेत् । दशाहंसूतकञ्चैवतदन्तेचसपिण्डनम् १ अथव्युत्क्रममृतौ मृतेपितरियस्थाथविद्यतेचपितामहः ।

व्युत्क्रममृतौ

तेनदेयास्त्रयःपिण्डाःप्रपितामहपूर्वकाः १ तेभ्यश्चपैतृकःपिण्डोनियोक्तव्यस्तुपूर्ववत् । मातर्यथमृतायान्तुविद्यतेचपितामही २ प्रपितामहीपूर्वस्तुकार्यस्तत्राप्ययविधिः । एवं प्रपितामहजीवनेतत्पित्रादिभिःकार्यः यत्तुव्युत्क्रमात्तुप्रमीतानान्नैवकार्यासपिण्डतेतितन्मातापितृभर्तृभिन्नविषयम् प्रपितामहादिभिःपितुःसपिण्डनेकृतेपश्चात्पितामहमरणेपिपुनःपितामहेनसहपितुःसपिण्डनङ्कार्यं यदातुपितुःसपिण्डनात्प्राक्पितामहोमृतस्तदापितामहसपिण्डनङ्कृत्वापितामहादिभिःसहपितृसपिण्डनङ्कार्यं यदाच

पितुर्मरणोत्तरम्पितामहःप्रपितामहोवामृतस्तयोश्चपुत्रान्तरंसपिण्डनाधिकारीदेशान्तरे तिष्ठतितदादाहाद्येकादशा-हान्तमात्रङ्कर्मकृत्वासपिण्डनहीनाभ्यामपिपितामहप्रपितामहाभ्यांसहपितुःसपिण्डनङ्कुर्यात् पितामहप्रपितामहयोः-पुत्रान्तराभावेतुपौत्रःप्रपौत्रोवातयोःसपिण्डनङ्कृत्वैवपितुःसपिण्डनङ्कुर्यात् पितामहस्यपुत्रान्तराभावे-पौत्रेणसपिण्डनषोडशानुमासिकान्तमेवकर्मकार्यम् पितामहवार्षिकादिकन्तुनावश्यकम् इच्छयापितामहवार्षिकादिकरणे-तुफलातिशयः पितृदशाहङ्कुर्वन्यदिपुत्रोमृतस्तदातत्पुत्रः स्वपितुरौर्ध्वदेहिकङ्कृत्वापितामहौर्ध्वदेहिकम्पुनःसर्वमावर्तयेत् अतीतेदशाहेतुनपुनरावृत्तिः पुत्रान्तराभावेपितामहसपिण्डनोत्तरम्पितृसपिण्डनमित्युक्तम् अशक्तिवशात्पित्रानुज्ञातेनपौत्रेण-पितामहदशाहकर्मण्यारब्धेपश्चात्पितृमृतौपित्राशौचंवहन्नेवपौत्रःपितामहौर्ध्वदेहिकङ्कुर्यात् प्रक्रान्तत्वात्पितृदशाहादि-कर्मापिकुर्यात्प्राप्तत्वात् अथस्त्रीषूच्यते पितामह्यादिभिःसार्धम्मातरन्तुसपिण्डयेत् । केचित्पितृमरणोत्तरम्मातृमरणेपित्रैवसहमातृसपिण्डनमाहुः दौहित्रःसपिण्डनकर्ताचेन्मातामहेनसहसपिण्डनमित्यपरे सहगमनेतुभर्त्रैवसहसपिण्डनं येनकेनापिसपिण्डनेप्यन्वष्टक्यप्रतिवार्षिकादिश्राद्धेषुपितामह्यादिभिःसहैवमातुःपार्वणङ्कार्यम् अत्रकेचित्स्वपुत्रसपत्नीपुत्रयोःपत्युश्चाभावेस्त्रीणांसपिण्डनन्नास्तीत्याहुः अत्रान्वारोहणेभर्त्रासहपत्नीसंयोजनमितिपक्षेमतद्वयम् पितृपिण्डस्यपितामहादिषुत्रिषुसंयोजनम्प्रथमङ्कृत्वापश्चान्मातृपिण्डम्पितामहादिषुसंयोजयेदित्येकः प्रथमम्मातृपिण्डम्पित्रै-वसंयोज्यमातृपिण्डेनैकीकृतम्पितृपिण्डम्पितामहादिषुसंयोजयेदित्यपरःपक्षः अत्रद्वितीयपक्षएवयुक्तः केचित्सहगमनेएकदिनमरणेवास्त्रियाःसपिण्डनन्नास्तिभर्तुःकृतेसपिण्डनेभार्यायाअपिकृतम्भवतीतिमतान्तरमाहुः सर्वाभावेस्वयम्पत्न्यःस्वभर्तॄणाममन्त्रकम्। सपिण्डीकरणकुर्युस्ततःपार्वणमेवच १ ब्रह्मचारिणामनपत्यानाञ्चव्युत्क्रममृतानाञ्चसपिण्डनन्नकार्यमितिमतान्तरम् अत्रसर्वत्रसपिण्डनाभावपक्षोनशिष्टाचारेदृश्यते यतीनांसपिण्डीकरणन्नास्तिकिन्तुतत्स्थानेएकादशेह्निपार्वणङ्कार्यम् इदंसपिण्डीकरणश्राद्धम्पार्वणैकोद्दिष्टरूपं तेनपितामहादित्रयार्थन्त्रयोविप्राअर्घ्याःपिण्डाश्चत्रयः प्रेतार्थमेकोविप्रःपिण्डोऽर्घ्यश्च देवार्थन्द्वौ यद्वापार्वणेएकःप्रेते एकोदेवार्थमेकोविप्रः अत्रकामकालौविश्वेदेवौ प्रेतस्यपित्रादेरर्घ्यपात्रम्पितामहाद्यर्घ्यपात्रत्रयेसंयोज्यम् एवम्प्रेतपिण्डोपिपितामहादिपिण्डत्रयेसंयोज्यः पितृविप्रकरेहोमःसाग्नेरपिभवेदिह ।

पायेयश्राद्धादिविचारः

सपिण्डीकरणश्राद्धमन्नेनैवकार्यन्नत्वामादिना अनुमासिकान्यप्यन्नेनैवकार्याणि प्रेतःसपिण्डनादूर्ध्वम्पितृलोकंसगच्छति । कुर्यात्तस्यचपाथेयन्द्वितीयेह्निसपिण्डनात् १ इतिवचनात्त्रयोदशेह्निपाथेयश्राद्धङ्कृत्वापुण्याहवाचनादिकं कृत्वावर्षपर्यन्तम्प्रत्यह-मुदकुम्भश्राद्धङ्कुर्यात् अशक्तौमासिकश्राद्धेष्वेकोदकुम्भोदेयः सपिण्डनोत्तरानुमासिकानाम्पार्वणविधिनानुष्ठानं

वृद्धिप्राप्तौतेषामप्यपकर्षः सचचतुःपुरुषसपिण्डेष्वेवेत्युक्तम् एवंवर्षपर्यन्तङ्कृत्वावर्षान्त्यदिनेसंवत्सरविमोक्षश्राद्धम्पार्वणविधिनाकार्यम् इदमेवाब्दपूर्तिश्राद्धमित्युच्यते वृद्धिश्राद्धेसपिण्ड्याञ्चप्रेतश्राद्धेऽनुमासिके । संवत्सरविमोकेचनकुर्यात्तिलतर्पणम् १ इदमूनाब्दिकान्तषोडशश्राद्धेभ्योभिन्नमेव अतएवास्यमेतश्राद्धत्वाभावाद्वृद्धिप्राप्तावपिनापकर्षः ततोवर्षान्त्यदिनेशक्त्याभूरिब्राह्मणभोजनञ्चकार्यमित्यन्त्येष्टिपद्धतौभट्टाः युक्तञ्चैतत् जीवतोवाक्यकरणात्प्रत्यब्दम्भूरिभोजनात् । गयायाम्पिण्डदानाच्चत्रिभिः पुत्रस्यपुत्रता १ इतिवाक्येनभूरिभोजनपदेनप्रत्याब्दिकश्राद्धातिरिक्तस्यैव बहुविप्रभोजनस्पविहितत्वात् श्राद्धेकुर्यान्नविस्तरमितिनिषेधाच्छ्राद्धस्यभूरिभोजनपदाभिधेयत्वासम्भवात् ॥

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬