🕉️ 24 November 2026, Tuesday · 08:08:26 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← धर्मसिन्धु — परिच्छेद-सूची

📖 धर्मसिन्धु · तृतीय परिच्छेद (उत्तरार्ध) — श्राद्ध, आशौच, अन्त्येष्टि, संन्यास · पृष्ठ 77/81

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

61. प्रथमाब्दनिषिद्धानि

अथप्रथमाब्दनिषिद्धानि मातापित्रोर्मरणेवर्षपर्यन्तम्परान्नङ्गन्धमाल्यादिभोगम्मैथुनमभ्यङ्गस्नानञ्चवर्जयेत् ऋतौभार्यामुपेयादेव आर्त्विज्यंलक्षहोममहादानादिकाम्यकर्माणितीर्थयात्राविवाहादिवृद्धिश्राद्धयुतङ्कर्ममात्रंशिवपूजाञ्चवर्जयेत् सन्ध्योपासनदेवपूजापञ्चमहायज्ञातिरिक्तकर्ममात्रंवर्ज्यम् प्रमीतौपितरौयस्यदेहस्तस्याशुचिर्भवेत् । नदैवन्नापिवापित्र्यंयावत्पूर्णोनवत्सरः १ इतिकेचित् महातीर्थस्यगमनमुपवसव्रतानिच । सपिण्डीश्राद्धमन्येषांवर्जयेद्वत्सरम्बुधः १ अस्यापवादः पत्नीपुत्रस्तथापौत्रोभ्रातातत्तनयःस्नुषा । मातापितृव्यश्चैतेषाम्महागुरुनिपातने १ कुर्यात्सपिण्डनश्राद्धन्नान्येषान्तुकदाचन । एकादशाहपर्यन्तम्प्रेतश्राद्धञ्चरेत्सदा २ पित्रोर्मृतौचनान्येषाङ्कुर्याच्छ्राद्धन्तुपार्वणम् । गयाश्राद्धम्मृतानान्तुपूर्णेत्वब्देशस्यते ३ गारुडे तीर्थश्राद्धङ्गयाश्राद्धंश्राद्धमन्यच्चपैतृकम् । अब्दमध्येनकुर्वीतमहागुरुविपत्तिषु १ केचिद्वर्षान्तसपिण्डनपक्षेएवैतेसर्वेनिषेधानतुद्वादशाहसपिण्डनपक्षइत्याहुः अपरेतुद्वादशाहसपिण्डनपक्षेपिसर्वएतेनिषेधाइत्याहुः अत्रैवंव्यवस्था वृद्धिप्राप्तिंविनाऽर्वाक्सपिण्डनापकर्षेषिप्रेतस्यपितृत्वप्राप्तिर्वर्षान्तएव कृतेसपिण्डीकरणेनरःसंवत्सरात्परम् । प्रेतदेहम्परित्यज्यभोगदेहम्प्रपद्यते ? इत्यादिवचनात् तेनसपिण्डीकरणसत्वेपिवृद्धिदैवपित्र्येष्वनाधिकार वृद्धिनिमित्तापकर्षेतुवृद्ध्यादावधिकारइति अतएवकालतत्वनिर्णये सङ्कटादौमृतपितृकापत्यानांसंस्काराभ्युदयिकम्मृतमातापितृकेणपुत्रेणस्वापत्यसंस्कारार्दिकञ्चप्रथमाब्देपिकार्यमित्युक्तम् दर्शमहालयादिश्राद्धस्सनित्यतर्पणस्पचाप्येवमेवव्यवस्थाज्ञेया ॥

पञ्चकमृतौ

62. विधानानि

अथविधानानि तत्रपञ्चकमृतौ पञ्चकन्नामधनिष्ठोत्तरार्धमारभ्यरेवत्यन्तंसार्धनक्षत्रचतुष्टयं तत्रदाहनिषेधाद्दर्भमयपुत्तलैर्यवपिष्टानुलिप्तैः ञ्चोर्णासूत्रवेष्टितैःसहशवन्दहेत् तत्रतिथ्यादिसङ्कीर्त्यामुकस्यनिष्ठा-पञ्चकादिमरणसूचित

वंशारिष्टविनाशार्थम्पञ्चकविधिकरिष्यइतिसङ्कल्प्योक्तविधाःप्रतिमानक्षत्रमन्त्रैरभिमन्त्र्यगन्धपुष्पैःसम्पूज्यदाहसमयेप्रेतोपरिन्यसेत् प्रथमांशिरसि द्वितीयान्नेत्रयोः तृतीयांवामकुक्षौ चतुर्थीनाभौ पञ्चमीम्पादयोः तदुपरिनाममन्त्रैर्घृताहुतीर्जुहुयात् तत्रनामानिक्रमेण प्रेतवाहःप्रेतसखःप्रेतपःप्रेतभूमिपःप्रेतहर्ताचेति ततउदकन्दत्त्वायमायसोमन्त्र्यम्बकमितिमन्त्राभ्याम्प्रत्येकम्प्रतिमास्वाज्याहुतीर्जुहुयात् ततःप्रेतमुखेपञ्चरत्नन्दत्त्वा पुत्तलैःसहप्रेतन्दहेत् सूतकान्तेतिलहेमघृतानिदत्त्वाकांस्यपात्रेतैलम्प्रक्षिप्यतत्रात्मप्रतिबिम्बंवीक्ष्यविप्रायदद्यात् शान्तिञ्चकुर्यात् अत्रायंविशेषः नक्षत्रान्तरेमृतस्यपञ्चकेदाहप्राप्तौपुत्तलविधिरेवनशान्तिकम् पञ्चकमृतस्याश्विन्यान्दाहप्राप्तौशान्तिकमेवनपुत्तलविधिः शान्तिश्चलक्षहोमरुद्रजपान्यतररूपायथाविभवङ्कार्या अथवाकुम्भेयमप्रतिमांसम्पूज्यस्वगृह्योक्तविधिनाग्निप्रतिष्ठापनान्वाधानादिचरुश्रपणान्तङ्कृत्वाज्यभागान्तेनामभिश्चतुर्दशचर्वाहुतीर्जुहुयात् यमायस्वाहा १ धर्मराजाय २ मृत्यवे ३ अन्तकाय ४ वैवस्वताय ५ कालाय ६ सर्वभूतक्षयाय ७ औदुम्बराय ८ दध्नाय ९ नीलाय १० परमेष्ठिने ११ वृकोदराय १२ चित्राय १३ चित्रगुप्ताय १४ एवंहुत्वाहोमशेषंसमाप्य कृष्णाङ्गाङ्कृष्णवस्त्राञ्चहेमनिष्कसमन्विताम् । दद्याद्विप्रायशान्ताययमोमेप्रीयतामिति १ त्रिपादृक्षेप्येतदेवशान्तिकं यदिभद्रातिथीनांस्याद्भानुभौमशनैश्वरैः ।

त्रिपादृक्षेत्रिपुष्करादौचमृतौ

त्रिपादृक्षैश्चसंयोगस्तदायोगस्त्रिपुष्करः १ द्विपुष्कराद्वयोर्योगेथवायंस्याहिपादभैः । त्रिपादनक्षत्राणितु पुनर्वसूत्तराषाढाकृत्तिकोत्तरफाल्गुनी । पूर्वभाद्राविशाखाचज्ञेयमेतत्रिपादभम् १ मृगचित्राधनिष्ठाचज्ञेयमेतद्द्विपादभम् । त्रिपुष्करयोगेद्विपुष्करयोगेचमृतौकृच्छ्रत्रयम्प्रायश्चित्तङ्कृत्वायवपिष्टमयपुरुषत्रयेणसहप्रेतदाहः पुरुषत्रयस्यप्रेतेन्यासआज्याहुतयश्चपूर्ववत् कनकहीरकनीलपद्मरागमौक्तिकेतिपञ्चरत्नस्यमुखेप्रक्षेपोपि रत्नाभावेकर्षार्धंस्वर्णं स्वर्णाभावेघृतम् एवम्पूर्वत्रापि दहनेमरणेत्रिद्विपुष्करेत्रिगुणम्फलम् । द्विगुणङ्खननेप्येवमेतद्दोषोपशान्तये १ सुवर्णदक्षिणान्दद्यात्कृष्णवस्त्रमथापिवा । शान्तिङ्कुर्यात्सूतकान्तेपूर्वोक्तान्तेनमङ्गलम् २ मृतस्यस्मशानेनयनोत्तरम्पुनर्जीवनेसतियस्यगृहेसप्रविशतितस्यमरणं तत्रसक्षीरघृताक्तौदुम्बरसमिधांसावित्र्यष्टसहस्रेणहोमः अन्तेकपिलादानन्तिलपूर्णकांस्यपात्रदानञ्च एकाशीतिपलङ्कांस्यन्तदर्धंवातदर्धकम् ।

ब्रह्मचारिमृतौ

नवषट्त्रिपलंवापिदद्याद्विप्रायशक्तितः १ अथब्रह्मचारिमृतौ ब्रह्मचारिमरणेद्वादशषट्त्रीणिवाब्दानिशक्त्याप्रायश्चित्तङ्कृत्वादेशकालौस्मृत्वामुकगोत्रामुकनाम्नोब्रह्मचारिणोमृतस्यव्रतविसर्गङ्करिष्येतदङ्गनान्दीश्राद्धङ्करिष्यइत्युक्ताहिरण्येननान्दीश्राद्धङ्कृत्वाग्निप्रतिष्ठापनाद्याघारान्तेचतसृभिर्व्याहृतिभिराज्यंहुत्वाग्रयेव्रतपतयेस्वाहा अग्नयेव्रतानुष्ठानफलसम्पादनायस्वाहा विश्वेभ्योदेवेभ्यःस्वाहेतितिस्र-आज्याहुतीर्हुत्वास्विष्टकृदादिसमाप्यपुनर्देशकालौस्मृत्वामुकस्यौ-

कुष्ठिमृतौ

र्ध्वदेहिकाधिकारार्थमर्कविवाहङ्करिष्येइत्यादिहिरण्येननान्दीश्राद्धान्तेर्कसमीपेनीत्वार्कशाखांवागृहीत्वार्कब्रह्मचारिणौहरिद्रयानुलिप्यपीतसूत्रेणसंवेष्ट्यवस्त्रयुग्मेनाच्छाद्याग्निप्रतिष्ठाद्याघारान्तेआज्यहोमः अग्नयेस्वाहा १ बृहस्पतये ० २ विवाहविधियोजकाय॰ ३ यस्मैत्वाकामकामायवयंसम्राड्यजामहे । तमस्मभ्यङ्कामन्दत्वाथेदन्त्वङ्घृतम्पिबस्वाहा कामायेदं ० ४ ततोव्यस्तसमस्तव्याहृतिहोमः एवमष्टाहुत्यन्तेस्विष्टकृदादिकृत्वार्कशाखाम्ब्रह्मचारिशवञ्चतुषाग्निनाविधिवद्दहेत् स्नातकमरणेप्येवमितिकेचित् एतन्निर्मूलमित्यन्ये सूतकान्तेत्रिंशद्ब्रह्मचारिभ्यःकौपीनकृष्णाजिनकर्णभूषणादिपादुकाछत्रगोपीचन्दनमाल्यमणिविद्रुममालायज्ञोपवीतादियथासम्भवन्दद्यात् अथकुष्टिमृतौ मृतस्यकुष्ठिनोदेहन्तीर्थेवाभुविवाक्षिपेत् । नदाहन्नोदकम्पिण्डनञ्चदानङ्क्रियाञ्चरेत् १ यदिस्नेहाच्चरेहाहंयतिचान्द्रायणञ्चरेत् । तथाचशक्त्यनुसारेणषडब्दादिमायश्चित्तङ्कृत्वाकुष्ठादिमहारोगमृतस्पदाहादिक्रियाङ्कुर्यान्नान्यथेति अथरजस्वलादिमरणे रजस्वलायाःप्रेतायाःसंस्कारादीनिनाचरेत् ।

रजस्वलादिमरणे

ऊर्ध्वन्त्रिरात्रात्स्नातान्तांशकधर्मेणदाहयेत् १ अथवारजस्वलांसूतिकाञ्चमलम्प्रक्षाल्यस्नापयित्वाकाष्ठ-वदमन्त्रकन्दग्ध्वास्थीनिमन्त्राग्निनादहेत् उभयत्रचान्द्रायणत्रयम्प्रायश्चित्तमस्त्येयतदैवमन्त्रवद्दाहकरणेच्छायान्तु अद्यत्याद्यमुकगोत्रायारजस्वलावस्थामरणनिमित्तप्रत्यवायपरिहारार्थमोर्ध्वदेहिकयोग्यत्वार्थञ्चचान्द्रायणत्रयप्रायश्चित्तपूर्वकंशूर्पेणाष्टोत्तरशतस्नानानिकारयिष्येइतिसङ्कल्प्यञ्चान्द्रायणत्रयम्प्रत्याम्नायेनकृत्वायवपिष्टेनप्रेतमनुलिप्यस्वयंस्नात्वाशूर्पोदकैदष्टोत्तरशतवारंस्नापयेत् ततोभस्मगोमयमृत्तिकाकुशोदकैःपञ्चगव्यैः-शुद्धोदकैश्चसंस्नाप्ययदतियच्चदूरकइत्यादिपावमानीभिरापो-हिष्ठेतितृचेनकयानइत्यादिभिश्चसंस्नाप्यपूर्ववस्त्रपरिव्ययान्यवस्त्रेणसंवेष्ट्यदहेत् सूतिकायामप्येवं सूतिकायाआद्यत्र्यहमरणेत्र्यब्दम्प्रायश्चित्तं द्वितीयत्र्यहेद्व्यब्दं तृतीयत्र्यहेएकाब्दं शमदिनेतुकृच्छ्रत्रयमितिविशेषःक्वचिदुक्तः मासपर्यन्तमपिकृच्छ्रत्रयमित्यन्ये मिताक्षरायान्तुकुम्भेजलमादायपञ्चगव्यङ्क्षिप्त्वापुण्यमन्त्रैरापोहिष्ठावामदेव्यवारुणा-दिभिरभिमन्त्र्यपूर्वोक्तमन्त्रैःसंस्नाप्यविधिनासूतिकान्दहेदितिविशेषउक्तः इतिरजस्वलासूतिकयोर्विधिः अथगर्भिणीमरणे गर्भिण्यामृतायाःशुद्ध्यर्थन्त्रयस्त्रिंशत्कृच्छ्राणिकृत्वागां भूमिंसुवर्णञ्चदत्त्वागर्भम्पृथक्कृत्यतान्दहेत् सगर्भदहनेतत्त-द्वधप्रायश्चित्तं सगर्भायादाहेकर्त्तुरब्दत्रयम्प्रायश्चित्तम् अथान्वारोहणंस्त्रीणामात्मनोभर्तुरेवच ।

गर्भिणीमरणे

सर्वपापक्षयकरन्निरयोत्तारणायच १ अनेकस्वर्गफलदम्मुक्तिदञ्चतथैवच । जन्मान्तरेचसौभाग्यन्धनपुत्रादिवृद्धिदम् २ तिस्रःकोठ्योर्धकोटीचयावन्त्यङ्गरुहाणिवै ।

स्त्रीणांसहगमनम्

तावन्त्यब्दसहस्राणिस्वर्गेलोकेमहीयते ३ मातृकम्पैतृकञ्चैवयत्रकन्याप्रदीयते । कुलत्रयम्पुनात्येषाभर्त्तारंयानुगच्छति ४ इत्यादिमहिमा विस्तरोमिताक्षरादौज्ञेयः अत्रनि-

प्रयोगः

ष्कामत्वेमुक्तिःसकामत्वेवर्गादिफलानीतिव्यवस्था अथप्रयोगः देशकालौस्मृत्वामातृपितृश्वशुरादिकुलपूतत्वब्रह्महत्यादि-दोषदूषितपतिपूतत्वपत्यवियोगारुन्धतीसमाचारत्वसार्धकोटित्रयंसहस्रसंवत्सरस्वर्महीयमानत्वादिपुराणोक्तानेकफलः प्राप्तयेश्रीलक्ष्मीनारायणप्रीतिद्वाराविमुक्तिप्राप्तयेवापतिचितान्वारोहणङ्करिष्येइतिसङ्कल्प्यहरिद्राकुङ्कुमवस्त्रफलादियुतानिशूर्पाणिसुवासिनीभ्योदद्यात् तत्रमन्त्रः लक्ष्मीनारायणोदेवोवलसत्वगुणाश्रयः । गाढंसत्ञ्चमेदेयाद्वायनैःपरितोषितः १ सोपस्कराणिशूर्पाणिवायनैःसंयुतानिच । लक्ष्मीनारायणप्रीत्यैसत्वकामाददाम्यहम् २ अनेनसोपस्करशूर्पदानेनलक्ष्मीनारायणौप्रीयेतां ततोञ्चलेपञ्चरत्नन्नीलाञ्जनञ्चवध्वामुखेमौक्तिकन्न्यस्याग्निसमी-पङ्गत्वाग्निप्रार्थनाङ्कुर्यात् स्वाहासंश्लेषनिर्विण्णशर्वगोत्रहुताशन । सत्वमार्गप्रदानेननयमाम्पत्युरन्तिकम् १ इति अथाग्नावाज्येनजुहुयात् अग्नयेतेजोधिपतयेस्वाहा १ विष्णवेसत्वाधिपतयेस्वाहा २ कालायधर्माधिपतये॰ ३ पृथिव्यैलोकाधिष्ठात्र्यै॰ ४ अभ्द्योरसाधिष्ठात्रीभ्यः॰५ वायवेवलाधिपतये॰ ६ आकाशायसर्वाधिपतये ० ७ कालायधर्माधिष्ठात्रे ० ८ अभ्द्यःसर्वसाक्षणीभ्यः॰९ ब्रह्मणेवेदाधिपतये॰ १० रुद्रायस्मशानाधिपतयेस्वाहा ११ इत्येकादशाहुतीर्हुत्वाग्निन्दक्षिणीकृत्यदृषदमुपलांसम्पूज्यपुष्पाञ्जलिङ्गृहीत्वाग्निम्प्रार्थयेत् त्वमग्नेसर्वभूतानामन्तश्चरसिसाक्षिवत् । त्वमेवदेवजानीषैनवदुर्यानिमानुषाः १ अनुगच्छामिभर्तारंवैधव्यभयपीडिता । सत्त्वमार्गप्रदानेननयमाम्भर्तुरन्तिकम् २ मन्त्रमुच्चार्यशनकैःप्रविशेच्चहुताशनम् । विप्राश्चइमानारीरविधवाइत्यृचम् इमाःपतिव्रताःपुण्याःस्त्रियोयायाःसुशोभनाः । सहभर्तुशरीरेणसंविशन्तुविभावसुम् १ इतिचपठेत् कातराम्प्रेतोत्तरतःसुप्तान्देवरः शिष्योवाउदीर्ष्वोतिमन्त्राभ्यामुत्थापयेत् अनुवर्जातभर्तारंस्मशानंयागृहान्मुदा । पदेपदेश्वमेधस्यफलम्प्राप्नोतिसाध्रुवम् १ यत्तु यास्त्रीब्राह्मणजातीयामृतम्पतिमनुव्रजेत् । सास्वर्गमात्मघातेननात्मानन्नपतिन्नयेत् १ इत्यादिब्राह्मण्यानिषेधवचनजातन्तत्पृथकचितिपरम् भर्तुर्मन्त्राग्निदाहोत्तरमनुगमनम्पृथक्चितिः मन्त्राग्निदाहात्पूर्वमस्थिभिःपर्णशरेणवासहगमनमेकचितिरेव अस्थ्यादेःपतिस्थानापच्यापतिशरीरतुल्यत्वात् इयमेकचितिःसर्ववर्णानाम् पृथक्चिस्तुक्षत्रियवैश्यशूद्रादेरेव नतुब्राह्मणीनाम् पृथक्चितिविधिस्तु देशान्तरमृतेपत्यौसाध्वीतत्पादुकाद्वयम् । निधायोरसिसंशुद्धाप्रविशेज्जातवेदसम् १ इति पतितेनप्रायश्चित्तार्थम्मृतेनवाभर्त्रासहान्वारोहणन्नभवति यत्तु ब्रह्मघ्नोवाकृतघ्नोवामित्रघ्नोवाभवेत्पतिः । पुनात्यविधवानारीइत्यादिवाक्यन्तज्जन्मान्तरीयब्रह्महत्यादिपापशोधनपरं दिनैकगम्यदेशस्थासाध्वीचेत्कृतनिश्चया । नदहेत्स्वामिनन्तस्यायावदागमनम्भवेत् १ तृतीयेह्निउदक्यायामृतेभर्तरिवैद्विजाः । तस्याःसहगमार्थन्तंस्थापयेदेकरात्रकम् १ रजस्वलायाःप्रथमद्वितीयदिनेपतिमृतौलौकि-

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬