🕉️ 24 November 2026, Tuesday · 08:10:12 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← धर्मसिन्धु — परिच्छेद-सूची

📖 धर्मसिन्धु · तृतीय परिच्छेद (उत्तरार्ध) — श्राद्ध, आशौच, अन्त्येष्टि, संन्यास · पृष्ठ 78/81

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

रजस्वलादिसहगमनविचारः

काग्निभिरमन्त्रकन्तन्दग्ध्वापञ्चमेह्निअस्थिभःसहान्वारोहणं यदिरजस्वलादेशकालवशादिनातदैवानुगन्तुमिच्छतिनशुद्धिं-प्रतीक्षतेतदासैकद्रोणमितव्रीहीन्मुसलैरवहत्यतदाघातैःसर्वरजोनिवृत्तौपञ्चमृत्तिकाभिःशौचङ्कृत्वादिनक्रमेणत्रिंशद्विंशतिर्दशवाधेनूर्दत्त्वाविप्रवचनाच्छुद्धिंलब्ध्वासहगमनकुर्यात् अत्रावहननेनरजोनिवृत्तिरतीन्द्रियेतीदंयुगान्तरपरंयोज्यमितिभाति जननमृताशौचयोस्तुसहगमनन्नेतिकेचित् कालतत्वविवेचनेतुपूर्वप्रवृत्ताशौचमध्येभर्तृमरणेआशौचवतीनामपि-भार्याणांसहगमनम्भवतिसूतिकोदक्ययोस्तुनेत्युक्तम् इदमेवयुक्तम्भाति इदञ्चसहगमनङ्गर्भिणीबालापत्यासूतिकाभि-रदृष्टरजोभिःपतिताभिर्व्यभिचारिणीभिर्भर्तृदुष्टभावाभिश्चनकार्यं केचिदत्रपतिव्रता-नामेवाधिकारः वर्तन्तेयाश्चसततम्भर्तृणाम्प्रतिकूलतः । कामात्क्रोधाद्भयान्मोहात्सर्वाःपूताभवन्तिताः १ इत्यादितुवाक्यमर्थवाद्गइत्याहुः तत्रपृथक्चित्यारोहणेभर्त्राशौचमध्येतदूर्ध्वंवाकृतेत्रिरात्रमाशौचम्पिण्डाश्च सहगमनेतु तस्याःपिण्डादिकंशौचम्पतिपिण्डादितःक्रमात् ।

सहगमनेपिण्डादिविचार

अन्वारोहेतुनारीणाम्पत्युश्चैकोदकक्रिया १ पिण्डदानक्रियातद्वच्छ्राद्धम्प्रत्याब्दिकं तथा । अन्वारोहेकृतेपत्न्याःपृथकपिण्डांस्तिलाञ्जलीन् २ पृथक्शिलेनकुर्वीतदद्यादेकशिलेतथा । तत्रावयवपिण्डार्थपाकैक्यम्भिन्नपिण्डता ३' नवश्राद्धानिभिन्नानिसपिण्डीकरणम्पृथक् । एकएववृपोत्सर्गोगौरेकातत्रदीयते ४ सपिण्डीकरणन्तुनकार्यम् अथवाभर्त्रैवसहकार्यं यद्वाभर्त्रादिभिस्त्रिभिःसहकार्यमित्यादिपक्षाउक्ताः मासिकसांवत्सरिकादौपाकैक्यकालैक्यादिव्यवस्थापिश्राद्धप्रकरणेउक्ता इतिसहगमननिर्णयः काशीनाथउपाध्यायइत्थमन्त्यक्रियाविधिम् ।निर्णीयभगवत्पादेचार्पयत्तद्विशुद्धये १ इत्यन्त्येष्टिनिर्णयः ॥

63. विधवाधर्माः

अथविधवाधर्माः पत्यौमृतेतुभार्याणांविधिद्वयमुदीरितम् । वैधव्यम्पालयेत्सम्यक्सहाग्निगमनन्तुवा १ पत्यौमृतेचयायोषिद्वैधव्यम्पालयेत्सदा । सापुनःप्राप्यभर्तारंस्वर्गलोकंसमश्नुते २ विधवापालयेच्छीलंशीलभङ्गात्पतत्यधः । तद्वैगुण्यादपिस्वर्गात्पतिःपततिसर्वथा ३ तस्याःपिताचमाताचभ्रातृवर्गस्तथैवच । विधवाकबरीवन्धोभर्तृवन्धायजायते ४ शिरसोवपनन्तस्मात्कार्यंविधवयासदा । एकवारंसदाभुक्तिरुपवासव्रतानिच ५ पर्यङ्कशयनानारीविधवापातयेत्पतिम् । नैवाङ्गोद्वर्तनङ्कार्यङ्गन्धद्रव्यस्यसेवनम् ६ नाधिरोहेदनड्वाहम्प्राणैःकण्ठगतैरपि । कञ्जुकन्नपरीदध्याद्वासोनविकृतंवसेत् ७ वैशाखेकार्तिकेमाघेविशेषनियमञ्चरेत् । ताम्बूलाभ्यञ्जनेचैवकांस्यपात्रेचभोजनम् ८ यतिश्चविधवाचैववर्जयेच्चन्दनादिकम् । अपुत्राविधवाभर्त्रादित्रयमुद्दिश्यप्रत्यहन्तिलकुशोदकैस्तर्पणङ्कुर्यात् श्राद्धादौतुप्रागुक्तम् ॥

64. सन्न्यासः

अथसन्न्यासः तत्रब्रह्मचर्यङ्कृत्वासमावर्तनान्तेकृतदारःपुत्रानुत्पाद्ययज्ञैरिष्टा

वानप्रस्थाश्रमञ्चकृत्वासन्न्यसेदित्याश्रमसमुच्चयपक्षः ब्रह्मचर्यादेवप्रव्रजेत्गृहाद्वावनाद्वाअथपुनरव्रतीवाव्रतीवास्नातको-वास्नातकोवोत्सन्नाग्निरनग्निकोवायदहरेवविरजेत्तदहरेवप्रव्रजेदित्याश्रमविकल्पपक्षः प्रव्रजेद्ब्रह्मचर्याद्वाप्रव्रजेच्चगृहादपि ।वनाद्वाप्रव्रजेद्विद्वानातुरोबाथदुःखितः १ इतिवाक्येआतुरोमुमूर्षुः दुःखितचोरव्याघ्रादिभीतइत्यर्थः आतुराणाञ्चसन्न्यासेनविधिर्नैवचक्रिया । प्रेषमात्रंसमुच्चार्यसन्न्यासन्तत्रकारयेत् १ सन्न्यासेदण्डग्रहणादिरूपेविविदिषाख्येविप्रस्यैवाधिकारः विद्वत्सन्न्यासेतुक्षत्रियवैश्ययोरपि कलियुगेसन्न्यासनषेधस्त्रिदण्डिसन्न्यासपरइतिप्राच्चः सचसन्न्यासचतुर्धा कुटीचकोबहूदकोहंसःपरमहंसश्चेति अत्रोत्तरोत्तरःश्रेष्ठः बहिःकुठ्याङ्गृहेवावसन्काषायवासास्त्रिदण्डीशिखायज्ञोपवीत-वान्वन्धुषुगृहेवाभुञ्जान-आत्मनिष्ठोभवेत्सकुटीचकः पुत्रादीन्हित्वासप्तागाराणिभैक्षञ्चरन्पूर्वोक्तकापायवस्त्रादिवेषवान्बहूदकः हंसस्तुपूर्वोक्तवेषोप्येकदण्डः परमहंसस्तुशिखायज्ञोपवीतहीनएकदण्डीस्यात् काषायवस्त्रञ्चतुर्णामपि हंसपरमहंसयोःशिखायज्ञोपवीतसस्वासत्वाभ्याम्भेदः एकदण्डस्तु द्वयोरपि परमहंसस्यदण्डधारणंविविदिषादशायान्नित्यं विद्वत्ताद्शायान्तुकृताकृतं नद्दण्डन्नशिखान्नाच्छादनञ्चरतिपरमहंसइतिश्रवणात् वैराग्यंविनाजीवनाद्यर्थ सन्न्यासेतुनरकाः एकदण्डंसमाश्रित्यजीवन्तिबहवोनराः । नरकेरौरवेघोरेकर्मत्यागात्पतन्तिते १ काष्ठदण्डोधृतोयेनसर्वाशीज्ञानवर्जितः । सयातिनरकान्घोरानित्यादिस्मरणात् ॥

अष्टाश्राद्धानि

65. सन्न्यासग्रहणविधिः

अथसन्न्यासग्रहणविधिः तत्रोत्तरायणम्प्रशस्तम् आतुरस्यतुदक्षिणायनमपितत्रादौगृह्याग्निमन्तन्तादृशवधुरम्प्रतिचप्रयोगः तत्रशान्त्यादिलक्षणङ्गुरूंसंशोध्यतन्निकटेत्रिमासंयतिधर्मान्संवीक्ष्यगायत्रीजपरुद्रजपकूष्माण्डहोमादिभिःशुद्धिंलब्ध्वारिक्तातिथौदेशकालौस्मृत्वामुकस्यममकरिष्यमाणसन्न्यासेधिकारार्थचतुःकृच्छ्रात्मकम्प्रायश्चित्तम्प्रतिकृच्छ्रन्त्प्रत्याम्नायैकैकगोनिष्क्रयद्वाराहमाचरिष्ये कृच्छ्रप्रत्याम्नायगोनिष्क्रयद्रव्यंविषेभ्योदातुमहमुत्सृजेइतिसङ्कल्पपूर्वकं-रजतनिष्कतदर्घतदर्धान्य-तमम्प्रतिधेनुन्दद्यात् एकादश्यान्द्वादश्यांवायथाब्रह्मरात्रिःस्यात्तथाश्राद्धान्यारभेत् अत्रानाश्रमिणश्चतुःकृच्छ्रमन्यस्यतप्तकृच्छ्रमितिसिन्धुः स्वस्यनवश्राद्धषोडशश्राद्धसपिण्डीकरणानिसाग्निःपार्वणविधिनानिरग्नि-रेकोद्दिष्टविधिनाकुर्यादितिकेचित् नेत्यन्ये अथाष्टौश्राद्धानि तत्रापस्तम्बहिरण्यकेशीयादीनाम-ग्नौकरणपिण्डादिरहितःसाङ्कल्पिकः प्रयोगः आश्वलायनादीनांसपिण्डकःपार्वणप्रयोगः तत्रादौसव्येन सयवजलेनश्राद्धाङ्गतर्पणम् ब्रह्माणन्तर्पयामि विष्णुन्त॰ महेश्वरन्त॰ देवर्षीन्॰ ब्रह्मर्षीन्॰ क्षत्रर्षीन॰ वसून॰ रुद्रान्॰ आदित्यान्॰ सनकं॰ सनन्दनं॰ सनातनं॰ पञ्चमहाभूतानि॰ चक्षुरादिकरणानि॰ भूतग्रामं॰ पितरं॰ पितामहं॰ प्रपितामहं॰

मातरं॰ पितामहीं॰ प्रपितामहीं॰ आत्मानं॰ पितरं॰ पितामहं॰ इतिनद्यादौकृत्वा गृहमागत्यदेशकालौस्मृत्वाकरिष्यमाणसन्न्यासाङ्गत्वेनाष्टौश्राद्धानिपार्वणविधिनान्नेनामेनवाकरिष्येइतिसङ्कल्प्यक्षणन्दद्यात् अत्रसर्वन्नान्दीश्राद्धवत् तेननापसव्यं तिलस्थानेयवाः युग्माविप्राः तथाचदेवस्थानेविप्रौद्वौश्राद्धाष्टकेषोडशेत्यष्टादशविप्राः तत्रसत्यवसुमसञ्ज्ञकाविश्वेदेवानान्दीमुखाःस्थानेक्षणःकर्त्तव्यःइत्येकंवृत्त्वाद्वितीयंवृणुयात् एवमग्रेषि प्रथमेदेवश्राद्धेब्रह्मविष्णुमहेश्वरानान्दीमुखाःस्थानेक्षणः ० १ द्वितीयेऋषिश्राद्धेदेवर्षिब्रह्यर्षिक्षत्रर्षयःनान्दी॰ २ दिव्यश्राद्धेवसुरुद्रादित्यानान्दी॰ ३ मनुष्यश्राद्धेसनकसनन्दनसनातनानान्दी॰ ४ पञ्चमेभूतश्राद्धेपृथिव्यादिपञ्चमहाभूतान्येकादशचक्षुरादिकरणानिचतुर्विधभूतग्रामानां ० ५ षष्ठेपितृश्राद्धेपितृपितामहप्रपितामहानान्दी॰ ६ मातृश्राद्धेमातृपितामहीप्रपितामह्योनां॰ ७ अष्टमेआत्मश्राद्धेआत्मपितृपितामहानान्दी॰ ८ आत्मान्तरात्मापरमात्मेतिकेचित् इतिद्वौद्वौविप्रौवृणुयात् सर्वत्रनान्दीमुखत्वंविशेषणं युग्माविप्राः सत्यवसूदक्षक्रतूवादेवौ ततःसर्वेषाम्पाद्यन्दत्त्वा प्राङ्मुखानुदकसंस्थानुपवेश्यप्रार्थयेत् सन्न्यामार्थमहंश्राद्धङ्कुर्वेब्रूतद्विजोत्तमाः । अनुज्ञां प्राप्ययुष्माकंसिद्धिप्राप्स्यामिशाश्वतीम् १ कुरुइतिप्रत्युक्तःसयवऋजुदूर्वादियुग्मेनाब्दानपूर्वकंसम्बुध्यन्तेइदमासनमित्यष्टादशस्वासनन्दद्यात् ततआश्वलायनानामर्घ्यापात्रासादनम् आपस्तम्वादीनांसाङ्कल्पिकत्वान्नार्घ्यं देवार्थमेकम्पार्वणाष्टकार्यमष्टावित्येवन्नवपात्राणि सर्वत्रपवित्रयान्तर्हितेषुशन्नोदेवीरित्यपआसिच्यविश्वदेवपात्रेयवोसीतियवाः अष्टपात्रेषुतिलोसीतिमन्त्रस्योहेनयवानोप्यगन्धादिपूजनम् ऊहस्तुयवोसिसोमदेवत्योगोसवेदेवनिर्मितः । प्रत्नवद्भःप्रत्तःपुष्ट्यानान्दीमुखान्देवान्प्रीणयाहिनःस्वाहानमः इतिप्रथमपात्रे द्वितीयेनान्दीमुखानृषीन्॰ तृतीयेनान्दीमुखान्दिव्यान्प्री॰ चतुर्थेनान्दीमुखान्मनुष्यान्प्रीण॰ पञ्चमेनान्दीमुखानिभूतानिप्री॰ षष्ठसप्तमाष्टमेषुनान्दी॰ पितृृन्प्रीणयेत्यादि॰ एकैकम्पात्रन्द्विधाविभज्यसर्वत्रयादिव्याइतिमन्त्रान्तेविश्वेदेवानान्दीमुखाइदंवोर्घ्यमितिदत्त्वाब्रह्मविष्णुमहेश्वरानान्दीमुखाइदंवोर्घ्यस्वाहानमइत्यादिनायथायथंषोडशविप्रहस्तेषुदद्यात् यादिव्याइतिस्रवदनुमन्त्रणम् पात्रन्न्युब्जीकृत्यगन्धाद्याच्छादनान्तपूजा तत्रसर्वत्रसम्बुध्यन्तोनान्दीमुखविशेषणयुक्तउच्चारः भोजनपात्राण्यासाद्यब्रह्मादिषोडशविप्रकरेष्वग्नयेकव्यवाहनायस्वाहासोमायपितृमतेस्वाहेतिमन्त्राभ्यामाहुतिद्वयन्द्वयन्दद्यात् नेदमापस्तम्बादीनाम् उपस्तीर्यान्नम्परिविष्यान्नाभावेआमन्तन्निष्क्रयंवाप्रोक्ष्यपृथ्वीतेपात्रमित्यादिनायथादैवतमन्नस्यामादेर्वात्यागः येदेवास॰ प्रजापतेन॰ ब्रह्मार्पणम्ब्रह्म॰ अनेनाष्टश्राद्धेननान्दीमुखा देवादयःप्रीयन्ताम् आपोशनदानान्तेबलिदानवर्ज्यम्भुञ्जीयुः तृप्तेषूपास्मै॰ अक्षन्नमी॰ सम्पन्नमितिपृष्टेरुचिरमितिसर्वेब्रूयुः नेदमामान्ने आचान्तेषुयवलाजदधिबदरियुत्तान्ने-

सन्यासग्रहणप्रयोगः

नाष्टचत्वारिंशत्पिण्डान्कृत्वाप्रागायताउदक्संस्थाअष्टौरेखाःकृत्वाभ्युक्ष्यकुशान्दूर्वावास्तीर्यपिण्डस्थानेषुचतुर्विंशतौजलंसिञ्चेत् तद्यथा शुन्धन्ताम्ब्रह्माणोनान्दीमुखाः शुन्धन्तांविष्णवोनान्दी॰ शुद्धन्ताम्महेश्वरानां॰ इतिप्रथमरेखायां तदुत्तररेखासुशुन्धन्तान्देवर्षयोनां॰ शुन्धताम्ब्रह्मर्षयोनां॰ इत्याद्यूहोज्ञेयः ततोब्रह्मणेनान्दीमुखायस्वाहेत्येकम्पिण्डन्दत्वाद्वितीयएवमेवदेयस्तूष्णींवेतिप्रतिदैवतम्पिण्डद्वयम् एवमग्रेपिविष्णवेनान्दीमुखायस्वाहेत्यादयःस्वाहान्ताःपिण्डदानमन्त्राऊह्याः अत्रपितरोमादयध्वमित्यादिपुनःशुन्धनान्तन्तन्त्रमञ्जनमभ्यञ्जनञ्चकृताकृतम् पिण्डान्गन्धादिनासम्पूज्यनत्वोपसम्पन्नमितिविसृज्यविप्रेभ्योदक्षिणादितन्त्रं नेदम्पिण्डदानाद्यापस्तम्बादीनां कात्यायनानामाश्वलायनवत् अष्टश्राद्धोत्तरन्तद्दिनेद्वितीयेवाषटशिखाकेशान्स्थापयित्वा कक्षोपस्थवर्जङ्केशश्मश्रुनखादिवापयित्वास्नात्वाकौपीनाच्छादनादिहोमद्रव्यञ्चविनान्यद्धनादिविप्रादिभ्यःपुत्रादिभ्यश्चत्यजेत् कौपीनादिकङ्गैरिकरञ्जितङ्कृत्वावैणवन्दण्डंसत्वचंशिरोभ्रूललाटान्यतमप्रमाणंसमूलमङ्गुलिस्थूलंविप्रानीतमेकादशनवचतुःसप्तान्यतमपर्वकम्पर्वग्रन्थियुतम्मुद्रायुतंसम्पाद्यशङ्खोदकेनप्रणवपुरुषसूक्तकेशवादिनामभिरभिषिच्यस्थापयेत् ततःकमण्डलुकौपीनाच्छादनकन्थापादुकाःस्थापयेत् शिक्यपात्रादिकमपिकेचित् देशकालौसङ्कीर्त्याशेषदुःखनिवृत्तिनिरतिशयानन्दप्राप्तिपरमपुरुषार्थप्राप्तयेपरमहंसाव्यसन्न्यासग्रहणकरिष्ये तदङ्गतयागणपतिपूजनपुण्याहवाचनमातृकापूजननान्दीश्राद्धानिकरिष्ये तानिकृत्वाजपेत् ब्रह्मणेनमः विष्णवे॰ रुद्राय॰ सूर्याय॰ सोमाय॰ आत्मने॰ अन्तरात्मने॰ परमात्मने॰ अग्निमीळेॠक् इपेत्वोर्जेत्वा॰ अग्नआयाहिऋक् शन्नोदेवीऋक् जपित्वासक्तुपिष्टम्मुष्टित्रयन्त्रणवेनत्रिःप्राश्यनाभिमालभेत् आत्मनेस्वाहा अन्तरात्मने॰ परमात्मनेस्वा॰ प्रजापतयेस्वाहेतिमन्त्रैः ततःपयोदधिमिश्रमाज्यञ्जलमेववात्रिवृदसीतिप्रथमम्प्राश्यप्रवृदसीतिद्वितीयंविवृदसीतितृतीयम्प्राश्यापःपुनन्त्वितिजलम्प्राश्याचम्योपवासङ्करिष्येइतिसङ्कुल्पयेत्

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬