🕉️ 24 November 2026, Tuesday · 08:04:25 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← धर्मसिन्धु — परिच्छेद-सूची

📖 धर्मसिन्धु · तृतीय परिच्छेद (उत्तरार्ध) — श्राद्ध, आशौच, अन्त्येष्टि, संन्यास · पृष्ठ 79/81

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

सावित्रीप्रवेशादिः

अथसावित्रीप्रवेशः ॐभूःसावित्रीम्प्रविशामि ॐतत्सवितुर्वरेण्यं ॐभुवःसावित्रीम्प्र॰ ॐभर्गोदेवस्य॰ ॐस्वःसावित्रीं॰ अँधियोयो॰ ॐभूर्भुवःस्वःसावित्रीम्प्र॰ ॐतत्सवितुर्वरेण्यं॰ ऋक् ततोस्तात्प्राक्गृह्याग्निंसमिध्यविच्छिन्नश्चेत्पुनःसन्धानविधिनानिरग्निर्वाविधुरादिर्वापृष्टोदिविविधानेनाग्निंसम्पादयेत् पृष्टोदिविविधानञ्चकात्यायनवैश्वदेवप्रसङ्गेपूर्वार्धेउक्तम् अथास्तात्पूर्वम्ब्रह्मान्वाधानं सन्न्यासङ्कर्तुम्ब्रह्मान्वाधानङ्करिष्येइतिसङ्कल्प्याग्निध्यानाद्याज्यंसंस्कृत्यस्रुक्स्रुवौसम्मृज्यस्रुचिचतुराज्यङ्गृहीत्वा ॐ स्वाहेतिहुत्वापरमात्मनइदं॰ परिषेचनादि इतिब्रह्मान्वाधानं ततःसायंसन्ध्याहोमवैश्वदेवान्कृत्वाग्निसमीपेजागरङ्कुर्यात् प्रातर्नित्यहोमान्तवैश्वदेवादिकङ्कृत्वाग्नेयंवैश्वानरंवास्थालीपाकङ्कुर्यात् तत्रकरिष्यमाणसं-

न्यासपूर्वाङ्गभूतमाग्नेयस्थालीपाकङ्करिष्यइतिसङ्कल्पः ध्यात्वाचक्षुषीआज्येनेत्यन्तेऽत्रप्रधानमग्निञ्चरुणाशेषेणेत्यादि अग्नयेत्वाजुष्टन्निर्वपामीत्यादिनाम्नानिर्वापादिनाम्नैवप्रधानहोमः एवंवैश्वानरपक्षेप्यूह्यं ततस्तरत्समन्दीतिजपित्वाकुशहेमरूप्यजलैःस्नात्वादेशादिस्मृत्वासन्न्यासाङ्गभूतम्प्राणादिहोमम्पुरुषसूक्तहोमंविरजाहोमञ्चतन्त्रेणकरिष्येइतिसङ्कल्प्यान्वाधानेआज्येनेत्यन्तेप्राणादिपञ्चदेवताःसमिच्चर्वाज्यैः पुरुषम्पुरुषसूक्तेनप्रत्यृचंषोडशवारंसमिच्चर्वाज्यैःप्राणाद्येकोनविंशतिदेवताविरजामन्त्रैःप्रतिद्रव्यमेकैकसङ्ख्यसमिच्चर्वाज्याहुतिभिःप्रजापतिंसकृदाज्येनशेषेणेत्यादि षष्ट्युत्तरशतवारन्तूष्णीन्निरूप्यतथैवप्रोक्ष्यश्रपयित्वाज्यभागान्तम्प्राणायस्वाहेत्यादिपञ्चमन्त्रैर्द्रव्यत्र्यंसकृत्सकृद्धुत्वायथादैवन्त्यक्त्वासहस्रशीर्षेतिषोडशर्चेनप्रत्यृचम्पृथक्पृथक्द्रव्यत्रयंहुत्वापुरुषायेदन्नममेतिसर्वत्रत्यजेत् ॥

66. अर्थावरजाहोमः

अर्थावरजाहोमः प्राणापानव्यानोदानसमानामेशुध्यन्ताञ्ज्योतिरहंविरजाविपाप्माभूयासꣳस्वाहा प्राणादिभ्यइदं॰ वाङ्मनश्चक्षुःश्रोत्रजह्वाघ्राणरेतोबुद्ध्याकूतिःसङ्कल्पामेशुद्ध्यन्ताञ्ज्योति॰ वागादिभ्यइदं॰ त्वक्चर्ममाꣳसरुधिरमेदोमज्जास्नायवोस्थीनिमेशुद्धान्तां॰ त्वगादिभ्यइदं॰ शिरःपाणिपादपार्श्वपृष्ठोरूबरजङ्घशिश्नोपस्थपायवोमेशुद्ध्यं॰ शिरआदिभ्य॰ उत्तिष्ठपुरुपहरितपिङ्गललोहिताक्षदेहिदेहिददापयितामेशुद्ध्यं॰ पुरुषादिभ्य॰ पृथिव्यापस्तेजोवाय्वाकाशामेशुद्ध्यं॰ पृथिव्यादिभ्य॰ शब्दस्पर्शरूपरसगन्धामेशुद्ध्यं॰ शब्दादिभ्य॰ मनोवाक्कायकर्माणिमेशुद्ध्यन्तां॰ मनआदिकर्मभ्य॰ अव्यक्तभावरैहङ्कारैर्ज्योतिरहं॰ अव्यक्तादिभ्य॰ आत्मामेशुद्ध्यन्ताञ्ज्यो॰ आत्मनइदं॰ अन्तरात्मामे॰ अन्तरात्मन॰ परमात्मामे॰ परमात्मन॰ क्षुधेस्वाहा क्षुधइदं॰ क्षुत्पिपासायस्वाहा क्षुत्पिपासायेदं॰ विविठ्यैस्वा॰ विविठ्या॰ ऋग्विधानाय॰ कषोत्कायस्वा॰ क्षुत्पिपासामलञ्ज्येष्ठामलक्ष्मीन्नाशयाम्यहम् । अभूतिमसमृद्धिञ्चसर्वान्निर्णुदमेपाप्मानꣳस्वाहाअग्नयइदं ० अन्नमयप्राणमवमनोमयविज्ञानमयमानन्दमयमात्मामेशुद्ध्यन्तां॰ अन्नमयादिभ्य॰ एवंसमिच्चर्वाज्यैःप्रतिद्रव्यञ्चत्वारिंशदाहुतीर्हुत्वा यदिष्टंयच्चपूर्तंयच्चापद्यनापदि प्रजापतौतन्मनसिजुहोमि विमुक्तोहन्देवकिल्विपात्स्वाहेत्याज्यंहुत्वाप्रजापतयइदमितित्यजेत् ततःपुरुषसूक्तम् अग्निमीळेइत्यादिचतुर्वेदादींश्चजपित्वास्विष्टकृदादिहोमशेषंसमाप्यब्रह्माचार्यादिभ्योगोहिरण्यवस्त्रादिदत्वासमासिञ्चन्तुमरुतइतिमन्त्रेणगृह्याग्निमुपस्थायतत्रदारुपात्राणि दहेत्तैजसानिगुरवेदद्यात् ततआत्मन्यग्निसमारोपम्अयन्तेयोनिरित्यृचायातेअग्नेयज्ञियातनूस्तयेयारोहात्मात्मानमित्यादियजुषाचत्रिरुक्तेनानेज्वलाम्प्राश्नन्कुर्यात् कृष्णाजिनमादायगृहान्निष्कम्य सर्वेभवन्तुवेदाढ्याःसर्वेभवन्तुसोमपाः । सर्वेपुत्रमुखन्दृष्टासर्वेभवन्तुभिक्षुकाः १ इतिपुत्रादिभ्यआशिषन्दत्वानमेकश्चिन्नहङ्कस्यचित्पुत्रादीनु-

सर्वत्यागविधिः

क्क्ताविसृजेत् जलाशयङ्गत्वाञ्जलिनाजलमादायाशुःशिशानइतिसूक्तेनाभिमन्त्र्यसर्वाभ्योदेवताभ्यःस्वाहेतित्यजेत् तिथ्यादिस्मृत्वाऽपरोक्षब्रह्मावाप्तयेसन्न्यासङ्करोमीतिसङ्कल्प्यजलाञ्जलिङ्गृहीत्वा ॐएषहवाअग्निःसूर्यःप्राणङ्गच्छस्वाहाॐस्वांयोनिङ्गच्छस्वाहा ॐआपोवैगच्छस्वाहेतिमन्त्रत्रयेणजलेष्वञ्जलित्रयन्दद्यात् पुत्रेषणावित्तेषणालोकेषणासर्वेषणामयापरित्यक्ताअभयंसर्वभूतेभ्योमत्तःस्वाहाइत्यञ्जलिञ्जलेक्षिपेत् पुनरेत्रमभयन्दत्त्वावदेत् यत्किञ्चिद्वन्धनकर्मकृतमज्ञानतोमया । प्रमादालस्यदोषोत्थन्तत्सर्वसंसत्यजाम्यहम् १ त्यक्तसर्वोविशुद्धात्प्रागतस्नेहशुभाशुभः । एपत्यजाम्यहंसर्वङ्कामभोगसुखादिकम् २ रोषन्तोषंविवादञ्चगन्धमाल्यानुलेपनम् । भूषणन्नर्तनङ्गेयन्दानमादानमेवच ३ नमस्कारञ्जपंहोमंयाश्चनित्याः क्रियामम । नित्यन्नैमित्तिकङ्काम्यंवर्णधर्माश्रमाश्रये । सर्वमेवपरित्यज्यददाम्यभयदक्षिणाम् ४ पद्भ्याङ्कराभ्यांविहरन्नाहंवाक्कायमानसैः । करिष्येप्राणिनाम्पीडाम्प्राणिनःसन्तुनिर्भयाः ५ सूर्यादिदेवान्विप्रांश्चसाक्षित्वेनध्यात्वानाभिमात्रेजलेप्राङ्मुखःसावित्रीप्रवेशम्पूर्ववत्कृत्वातरत्समन्दीतिसूक्तम्पठित्वापुत्रेषणायावित्तेषणायालोकेपणायाश्चव्युत्थितोहम्भिक्षाचर्यञ्चरामीतिजलेजलञ्जुहुयात् ॥

67. प्रेपोच्चारः

अथप्रेपोच्चारः ॐभूःसन्न्यस्तम्मया ॐभुवःसन्न्यस्तं॰ ॐस्वःसन्न्यस्तं॰ ॐभूर्भुवःस्वःसन्न्यस्तम्मयेतित्रिर्मन्दमध्योच्चस्वरेणोक्ताऽभयंसर्वभूतेभ्योमत्तःस्वाहेतिजलञ्जलेक्षिपेत् शिखामुत्पाठ्ययज्ञोपवीतमुद्धृत्यकरेगृहीत्वाआपोवैसर्वादेवताःसर्वाभ्योदेवताभ्योजुहोमिस्वाहा ॐभूःस्वाहेतिजलेजलैःसहदुत्वाप्रार्थयेत् त्राहिमांसर्वलोकेशवासुदेवसनातन । सन्न्यस्तम्मेजगद्योनेपुण्डरीकाक्षमोक्षद १ युष्मच्छरणमापन्नन्त्राहिमाम्पुरुषोत्तम । ततोदिगम्बरःपञ्चपदान्युदङ्मुखाङ्गच्छेत् विविदिपुश्चेत्तस्मै आचार्योनत्वाकापायकौपीनाच्छादनेदत्त्वादण्डन्दद्यात् सचकौपीनंवासश्चपरिधायॐम् इन्द्रस्यवज्रोसिसखेमाङ्गोपायेतिदण्डङ्गृह्णीयात् वार्त्रघ्नःशर्ममेभवयत्पापन्तन्निवारय प्रणवेनगायत्र्यावाकमण्डलुम् इदंविष्णुरित्यासनं ततःसमित्पाणिर्गुरुन्नत्वागरुडासनोपविष्टोगुरुंवदेत् त्रायस्वभोजगन्नाथगुरोसंसारवह्निना । दग्धम्माङ्कालदष्टञ्चत्वामहंशरणागतः १ योब्रह्माणंविदधातिपूर्वंयोवैवेदांश्चप्रहिणोतितस्मै । तंहदेवमात्मबुद्धिप्रकाशम्मुमुक्षुर्वैशरणमहम्प्रपद्येइतिगुरुमुपस्थायदक्षिणञ्जान्वाच्यपादावुपसङ्गृह्यअधीहिभगवोब्रह्मेतिवदेत् गुरुरात्मानम्ब्रह्मरूपन्ध्यात्वाजलपूर्णंशङ्खन्द्वादशप्रणवैरभिमन्त्र्यतेन शिष्यमभिषिच्यशन्नोमित्रइतिशान्तिम्पठित्वातच्छिरसिहस्तन्दत्त्वापुरुषसूक्तञ्जपित्वा शिष्यहृदयेहस्तङ्कृत्वाममव्रतेहृदयन्तेदधामीत्यादिमन्त्रञ्जप्त्वादक्षिणकर्णेप्रणवमुपदिश्यतदर्थञ्चपञ्चीकरणाद्यवबोध्य प्रज्ञानम्ब्रह्म अयमात्माब्रह्म तत्त्वमसि अहम्ब्रह्मास्मीति

ऋग्वेदादिमहावाक्येष्वन्यमंशिष्यशाखानुसारेणोपदिश्यतदर्थम्बोधयेत् ततस्तीर्थाश्रमादिसम्प्रदायानुसारेणनामदद्यात् ततःपर्यङ्कशौचङ्कारयित्वायोगपट्टन्दद्यात् ॥

योगपट्टः

68. पर्यङ्कशौचप्रयोगः

अथपर्यङ्कशौचप्रयोगः कस्मिञ्चित्पुण्यदिनेकश्चिद्गृहस्थःस्वाग्रेपीठादौयतिमुपवेश्यगुर्वनुज्ञातोयतयेपर्यङ्ग-शौचङ्करिष्येइतिसङ्कल्प्यवामभागेप्रावसंस्थान्पञ्चमृद्भागान्दक्षिणभागेपितथैवपञ्चसंस्थाप्योभयत्रशुद्धोदकञ्चसंस्थाप्यवामप्रथममृद्भागेनपञ्चवारम्मृज्जलाभ्यांयतिजानुद्वयङ्कराभ्यांयुगपत्क्षालयेत् चरमक्षालनेमद्भागसमाप्तिः एवमग्रेपि ततोदक्षिणभागस्थप्रथमभागार्धेनस्ववामकरम्मृज्जलाभ्यान्दशवारम्प्रक्षाल्यापरार्धेनतेनैवजलेनोभौकरौसप्तवारङ्क्षालयेत् एवमग्रेपियोज्यं सङ्ख्यायांविशेषस्तूच्यते वामद्वितीयभागेनचतुर्वारंयतिजङ्घाद्वयंयुगपत्प्रक्षाल्यदक्षिणद्वितीयभागार्धेनसप्तवारंवामकरमर्धान्तरेणचतुर्वारमुभौचकरौक्षालयेत् वामतृतीयेनयतिगुल्फौत्रिवारन्दक्षिणभागार्धेनवामकरंषड्वारमुभौकरौचतुर्वारं वामचतुर्थेनयतिपादपृष्ठौद्विवारन्दक्षिणार्धेनस्ववामकरञ्चतुर्वारमुभौद्विवारमवशिष्टार्धेन वामपञ्चमेनयतिपादतलेसकृद्दक्षिणपञ्चमार्धेनवामस्पद्विवारमुभयोश्चापरार्धेनसकृत्क्षालनमिति अथयोगपट्टः कारितपर्यङ्कशौचायतिःकटिशौचङ्कृत्वाकटिसूत्रकौपीनेधृत्वावस्त्रेणावगुण्ठ्यगुर्वनुज्ञयोच्चामनेउपविश्यसभ्यैःसहवेदान्तेकिञ्चिदुपन्यमेत् गुरुर्यतिःशिष्यंयतिंशिरसिशनपुरुषसूक्तेनाभिषिच्यवस्त्रगन्धपुष्पधृप-दीपनैवेद्यैःसम्पूज्यवस्त्रमुपरिधृत्वायतिभिःसहविश्वरूपाध्यायम्पश्यामिदेवानित्यारभ्यभुङ्क्ष्वराज्यंसमृद्धमित्यन्तम्पठित्वापूर्वकल्पितन्नामदद्यात् ततःशिष्यंवदेत् इतःपरन्त्वयासन्न्यामाधिकारिणेसन्न्यासोदेयोदीक्षायोगपट्टादिकञ्चकार्यं ज्येष्ठयतयोनमस्कार्याः ततोगुरुःकटिसूत्रम्पञ्चमुद्रालङ्कृतम्पूर्वदण्डञ्चशिष्यायदत्त्वाशिष्यंयथासम्प्रदायन्नमस्कुर्यात् अन्येयतयोगृहिणश्चनमस्कुर्युः शिष्योनारायणेत्युत्कोच्चासनादुत्थायतत्रगुरुमुपवेश्ययथाविधिनत्वान्ययतीन्नमेत् इतिगृह्याग्निमतोविधुरादेश्वविविदिषासन्न्यासप्रयोगः ॥

69. आग्निहोत्रिणोविशेषः

अथाग्निहोत्रिणोविशेषः तत्रश्रौताग्रयोविच्छिन्नात्पुनराधानम्पावमानेष्ट्यन्तम्पूर्णाहुत्यन्तंवाकृत्वाप्रायश्चित्तादि-सावित्रीप्रवेशान्तम्पूर्ववत्कुर्यात् अथब्रह्मान्वाधानम् अग्नित्रयंसमिध्यसंस्कृतमाज्यंस्रुचिचतुर्वारङ्गृहीत्वाहवनीये-पूर्णाहुतिंॐम्स्वाहापरमात्मनम्इदमितिकुर्यात् सायंसन्ध्याग्निहोत्रहोमान्तेउत्तरेणगार्हपत्यन्द्वन्द्वशः-पात्राण्यासाद्याहवनीयदक्षिणतःकौपीनदण्डाद्यासादयेत् रात्रिजागरान्तेप्रातर्होमादिकृत्वापौर्णमास्याम्ब्रह्मान्वाधानं-चेत्पौर्णमासेष्टिङ्कृत्वादर्शेष्टिमपिपक्षहोमापकर्षपूर्वकमपकृष्यतदैवकुर्यात् दर्शेचेद्दर्शेष्टिरेव अथपौर्णमास्यान्दर्शवादेशकालौस्मृत्वासन्न्यास-पूर्वाङ्गभूतयाप्राजापत्येष्ट्यावैश्वानर्येष्ट्याचसमानतन्त्रयायक्ष्ये इतिसङ्कल्प्यसमुच्चयेनेष्टिद्वयम् अत्रवैश्वानरोद्वादशकपालःपुरोडाशः प्राजापत्यश्चरुर्वैष्णवो-नघकपालःपुरोडाशःअथवाकेवलप्राजा-

पत्येष्टिः अत्रप्रयोगःस्वस्वसूत्रानुसारेणोह्यः बौधायनसूत्रानुसारेणकिञ्चिदुच्यते पवानपावनपुण्याहवाचनादिपूर्वाङ्गान्तेकेवलवैश्वानरेष्ट्याःकेवलप्राजापत्यायावासङ्कल्पःव्रीहिमयः पुरोडाशोद्रव्यम् पञ्चप्रयाजाः अग्निर्वैश्वानरःप्रजापतिर्वादेवता पञ्चदश सामिधेन्यः व्रतग्रहणान्तेध्वर्युराज्यंसंस्कृत्यस्रुचिचतुर्गृहीतङ्गृहीत्वापृथिवीहोतेत्यादिचतुर्होतोमङ्कूश्माण्डहोमसारस्वतहोमौचकृत्वानिर्वापादि वैश्वानरोद्वादशकपालःपुरोडाशः प्राजापत्यश्चरुः वैश्वानरायप्रतिवेदयामइतिपुरोनुवाक्या वैश्वानरःपवमानःपवित्रैरितियाज्या प्राजापत्यायाम्प्रधानमुपांशुधर्मकं सुभूःस्वयम्भूरित्याद्यनुवाक्या प्रजापतेनत्वदेतामितियाज्या अथस्रुवेणाष्टावुपहोमावुभयत्र वैश्वानरोनऊतयआप्रयातुपरावतः । अग्निरुक्थेनवाहसास्वाहा १ वैश्वानरायेदमितित्यागःसर्वत्र ऋतावानंवैश्वानरमृतस्यज्योतिषस्पतिम् । अजस्रङ्घर्ममीमहेस्वाहा २ वैश्वानरस्यदस॰ ३ पृष्टोदिविपृष्टोअग्निः ० ४ जातोयदग्ने॰ ५ त्वमग्नेशोचिषा॰ ६ अस्माकमग्ने॰ ७ वैश्वानरस्पसुमतौ ० ८ अथैनमुपतिष्ठेतसहस्रशीर्षेतिसूक्तेन ततःस्विष्टकृदादिशेषंसमापयेत् सर्वोवेरुद्रः ० विश्वम्भूतमितिद्वाभ्यामग्न्युत्सर्गः आयुर्दाअग्नेतिमन्त्रेणदर्भस्तम्बस्थयजमानभाग्प्रत्किञ्चिदादायसहस्रशीर्षेत्यनुवाकेनप्राश्य ओमितिब्रह्म ओमितीदंसर्वमित्यनुवाकेनहुतशेषभाहवनीयेप्रक्षिपेत एवंवैश्वानर्याद्यन्यतरामिष्टिङ्कृत्वौपासनाग्नौसर्वाधानेदक्षिणाग्नौप्राणादिहोमादिविरजाहोमान्तङ्कार्यमन्यत्प्राग्वत् आहवनीये अरणीमुसलोलूखलातिरिक्तदारुपात्राणान्दाहः ततआत्मन्याहवनीयाग्निसमारोपः पूर्ववत् अरणीद्वयङ्गार्हपसत्येप्रक्षिप्यतत्समारोपङ्कृत्वादक्षिणाग्नौमुमलोलूखलेहुत्वादक्षिणाग्नेरपिसमारोपः ततऔपासनाग्नेःसमारोपः इतिक्रमः अत्रविशेषोन्यत्रज्ञातव्यः इतिसाग्निकप्रयोगः स्नातकम्प्रतिब्रह्मान्वाधानविरजाहोमादिरहितोवाप्रयोगोग्न्यभावान्

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬