निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
वत्सरारम्भनिर्णयः-चैत्रस्यमलमासत्वेवत्सरारम्भनिमित्तकन्तैलाभ्यङ्गसङ्कल्पादौनूतनवत्सरनामकीर्तनाद्यारम्भञ्चमलमासप्रतिपद्येवकुर्यात् प्रतिगृहन्ध्वजारोपर्णनिम्बपत्राशनंवत्सरादिफलश्रवणन्नवरात्रारम्भोनवरात्रोत्सवादिनिमित्ताभ्यङ्गादिश्रशुद्धमासप्रतिपदिकार्यः वत्सरारम्भनिमित्तकोपितैलाभ्यङ्गःशुद्धप्रतिपद्येवेतिमयूखे उक्तम् अस्यान्तैलाभ्यङ्गोनित्यः अकरणेप्रत्यवायोक्तेः अस्यामेवप्रतिपदिदेवीनवरात्रारम्भः अत्रपरयुतामुहूर्तमात्रापिमतिपतग्राह्या अत्रमुहूर्तपरिमाणम् मुहूर्तमह्नोरात्रे श्चप्रोचुःपञ्चदशंलवमित्युक्तंसर्वत्रज्ञेयम् पारणादिविशेषनिर्णयःशारदनवरात्रवद्धोध्यः अत्रैवपदानम् तत्रमत्रः प्रपेयंसर्वसामान्याभूतेभ्यः प्रतिपादिता। अस्याः प्रदाना- प्रपोदकुम्भदानम्. त्पितरस्तृप्यन्तुहिपितामहाः १ अनिवार्यततोदेयञ्जल॑मासचतुष्टयम्। प्रपान्दातुमशक्तेनप्रत्य हे मुदकुम्भोद्विजगृहेदेयः तत्रमन्त्रः एषधर्मघटोदत्तोब्रह्मविष्णुशिवात्मकः। अस्यमदानात्सकलाममसन्तुमनोरथाः १ इयमेवप्रतिपतकल्पादिरपि एवंवैशाखशुक्लतृतीयाफाल्गुनकृष्णतृतीयाशुक्लाचैत्रपञ्चमीमाघेत्रयो
कल्पादयः. दशीकार्तिकेसप्तमीमार्गशीर्षेनवमीइत्यपिकल्पादयोबोध्याः आसुंश्राद्धात्पितृतृप्तिः चैत्रशुक्लप्रतिपन्मत्स्यजयन्तीत्येके चैत्रेदधिक्षीरघृतमधुवर्जनदम्पतीपूजनात्मकङ्गौरीवतकार्यं चैत्रशुक्लद्वितीयायान्निशामुखेबालेन्दुपूजनात्मकञ्चन्द्रव्रतम् अस्पामेवदमनकेनगौरीशिवपूजनं चैत्रशुक्लतुतीयायाङ्गौरींशिवयुतांसम्पूज्यान्दोल-
नव्रतम्मासपर्यन्तङ्कार्यम् अत्रतृतीयामुहूर्तमात्रापिपराग्राह्या द्वितीयायुक्तानकार्या चतुर्थीयुतायांवैधृत्यादियोगेपिसैवकार्या द्वितीयायोगनिषेधस्यबलवत्त्वात् अस्यामेवतृतीयायांश्रीरामचन्द्रस्यदोलोत्सवमारभ्यमासपर्यन्तम्पूजापूर्वकमान्दोलनङ्कार्यम् एवन्देवतान्तराणामपि इयमेवतृतीयामन्वादिरपि अत्रैवसर्वमन्वादिनिर्णयउच्यते तत्रमन्वादयश्चैत्रेशुक्लतृतीयापौर्णमासीच ज्येष्ठेपौर्णिमा आषाढस्यशुक्लदशमीपौर्णमासीच मन्वादयः. श्रावणस्यकृष्णाष्टमी भाद्रपदस्यशुकृतृतीया आश्विनस्यशुक्लनवमी कार्तिकस्यशुक्लद्वादशीपौर्णमासीच पौषशुक्लैकादशी माघेशुक्लसप्तमी फाल्गुनस्य पौर्णमास्यमावास्याचेतिचतुर्दशज्ञेयाः एतास्तुमन्वादयः शुक्लपक्षस्थाः दैवेपित्र्येकर्मणि पूर्वाह्णव्यापिन्योग्राह्याः पूर्वाह्णोत्रद्वेधाविभक्तदिनपूर्वोभागस्तत्रैवश्राद्धादिविधानात् दैवान्मानुषाद्वापराधात्पूर्वाह्नश्राद्धाद्यनुष्ठानासम्भवेऽपराह्नव्यापिन्योग्राह्याः दिनपूर्वार्धेऽपराह्णेवाश्राद्धाद्यनुष्ठेयं नतुदिनोत्तरार्धगतमध्याह्नभागेइतितात्पर्यं कृष्णपक्षस्थास्तुदैवेपित्र्येचकर्मणिपञ्चधाविभक्तदिनचतुर्थभागाख्यापराह्णव्यापिन्योग्राद्याः मन्वादिषुपिण्डरहितंश्राद्धङ्कार्यम् अत्र श्राद्धैर्द्विसहस्रवर्षपितॄणान्तृप्तिः मन्वादिश्राद्धञ्च नित्यम् एतदकरणे त्वम्भुवःप्रतिमानमिति ऋम त्रस्यशतवारञ्जलेजपःप्रायश्चित्तङ्कार्यम् एवंषण्णवतश्राद्धान्यपनत्यानि तानिच। अमा १२ युग ४ मनु १४ क्रान्ति १२ धृति १२ पात १२ महालयाः १५। अष्टका ५ ऽन्वष्टका ५ पूर्वेद्युः ५ श्रा
षण्णवतिश्राद्धानि. द्धैर्नवतिश्चपट्। इतिज्ञेयानि अथदशावतारजययन्त्सः चैत्रशुक्लतृतीयायामपराह्णेमत्स्योत्पत्तिः वैशाखपूर्णिमायांसायङ्कूर्मोत्पत्तिः भाद्रपदशुक्लतृतीयायामप राह्णेवराहोत्पत्तिः वैशाखशुक्लचतुर्दश्यांसायन्नारसिंहावतार भाद्रपदशुक्लद्वादश्याम्म-
जयन्त्यः. ध्याह्नेवामनप्रादुर्भावः वैशाखशुकृतृतीयायाम्मध्याह्नेपरशुरामोद्भवः प्रदोषेइतिबहवः चैत्रशुक्लनवम्याम्मध्याहेदाशथिरामव्यक्तिः श्रावणकृष्णाष्टम्यान्नि शीथेश्रीकृष्णाविर्भावः आश्विनशुक्लदशम्यांसायम्बुद्धोऽभूत् श्रावणशुक्लषष्ठ्यांसायङ्क ल्किर्जातइतितत्तत्कालव्यापिन्योग्राह्याः अत्रमत्स्य कूर्मवराहबुद्धकल्कीनामापाढादिमासान्तराणिएकादश्यादितिथ्यन्तराणिप्रातरादिकालान्तराणिचवचनान्तरानुसारेणोक्तानिकल्पभेदे नव्यवस्थापनीयानिस्वस्वर्पारगृहीतपक्षानुसारेणतत्तदुपासकैरुपोष्याणि श्रीरामकृष्णनृसिंहजयन्त्यएवनित्याः सर्वैरुपोप्याः चैत्रशुक्लचतुर्थ्यामध्याह्नव्यापिन्यांलडुकादिभिःश्रीगणेशमर्चयित्वादमनकारोपणं कुर्यात् विघ्ननाशं सर्वान्कामान्माप्नुयात्
दमनकारोपणादि. चैत्रशुक्लपञ्चम्यामनन्तादिनागान्पूजयित्वाक्षीरसपिर्नै वेद्यन्दद्यात् अस्यामेवपञ्चम्यांलक्ष्मीपूजनम् अत्रैवचोच्चैःश्रवादिपूजनात्मकंहयव्रतमुक्तम् अत्रसर्वत्रपञ्चमीसामान्यनिर्णयानुसारेणग्राह्या एवमग्रेपि यत्रवि-
शेषनिर्णयोनोच्यतेतत्रप्रथमपरिच्छेदोक्तएवनिर्णयोऽनुसन्धेयः षष्ठ्यांस्कन्दस्पदमनकारोपणं सप्तम्याम्भास्करस्यदमनकपूजा नवम्यान्देव्याः सर्वदेवानाम्पौर्णमास्यामित्यन्यत्रविस्तरः चैत्र शुक्लाष्टम्याम्भवान्याउत्पत्तिः तत्रनवमीयुताग्राह्या अत्रपुनर्वसुयुताष्टम्यामष्टाशोककलिकाप्राशनं तत्रमन्त्रः त्वामशोकनराभीष्टमधुमाससमुद्भव। पिबामिशोकसन्तप्तोमामशोकंसदाकुरु १ इति अत्रैवयोगविशेषेकृत्यम् पुनर्वसुबुधोपेताचैत्रेमासिसिताष्टमी। प्रातस्तुविधिवत्स्नात्वावाजपेयफलंलभेत् १ इति चैत्रशुक्ल नवमीरामनवमी चैत्रशुक्लनवम्याम्पुनर्वसुयुतायाम्मध्याह्नेकर्कलग्नेमेषस्थेसूर्येउच्चस्थेग्रहनवमीप्रयोगः रामनवमीनिर्णयः पञ्चकेश्रीरामजन्मश्रवणात् अस्याम्मध्याह्नव्यापिन्यामुपोषणकार्यम् पूर्वेद्युरेवमध्याह्नेसत्वेसैवग्राह्या दिनद्वयेमध्याह्नव्याप्तावव्याप्तौवापरा अष्टमीविद्धायानिषेधात् अतःपूर्वेद्युःसकलमध्याह्नव्यापिनीमपित्यक्त्वामध्याह्रैकदेशव्यापिन्यपि परैवग्राह्या केचित्वष्टमीविद्धाम्मध्याह्नव्यापिनीम्पुनर्वसुयुतामपित्यक्त्वापरेद्युस्त्रिमुहूर्तापिनवमीसर्वैरप्युपोष्या यदितुदशम्याह्रासवशेनपारणादिनेस्मार्तानामेकादशीव्रत-प्राप्तिस्तदा स्मार्तैरष्टमीविद्धोपोष्या वैष्णवैर्मुहूर्तत्रययुतापरैवोपोष्या शुद्धायानवम्याअलाभेमुहूर्तत्रयन्यूनत्वेवासर्वैरपिअष्टमीविद्धैवोपोष्येत्याहुः इदंव्रतनित्यङ्काम्यञ्च नवमीप्रयोगः अथव्रतप्रयोगः अष्टम्यामाचार्यसम्पूज्य श्रीरामप्रतिमादानङ्करिष्येहन्द्विजोत्तम। तत्राचार्योभवप्रीतःश्रीरामोसित्वमेवमे १ इतिप्रार्थ्य नवम्याअङ्गभूतेनएकभक्तेनराघव। इक्ष्वाकुवंशतिलकप्रीतोभवभवप्रिय १ इत्येकभक्तंसङ्कल्प्यसाचार्योहविष्यम्भुञ्जीत पूजामण्डपन्तत्रवेदिञ्चकृत्वा नवम्याम्प्रातः उपोष्यनवमीत्वद्ययामेष्वष्टुसुराघव। तेनप्रीतोभवत्वम्मेसंसारात्त्राहिमांहरे १ इत्युपोषणसङ्कल्प्य इमांस्वर्णमयीरामप्रतिमांस्वाम्प्रयत्नतः। श्रीरामप्रीतयेदास्येरामभक्तायधीमते १ इतिप्रतिमादान॑सङ्कल्पयेत् श्रीरामनवमीव्रताङ्गभूतांषोडशोपचारैःश्रीरामपूजाङ्करिष्येइतिसङ्कल्प्य वेदिकायांसर्वतोभद्रेकलंशंसंस्थाप्यतत्रपूर्णपात्रेसवस्त्रेऽभ्युत्तारणादिविधिनाप्रतिमायां श्रीरामम्प्रतिष्ठाप्य पुरुषसूक्तेनषोडशोपचारैःसम्पूज्यपूजान्ते रामस्यजननीचासिरामात्मकमिदञ्जगत्। अतस्त्वाम्पूजयिष्यामिलोकमातर्नमोस्तुते १ इतिकौसल्यांसम्पूज्य ॐ नमोदशरथायइतिदशरथंसम्पूज्यसर्वपूजांसमाप्यमध्याह्नेफलपुष्पजलादिपूर्णेन शोनादद्यात् तत्रमन्त्रः दशाननवधार्थायधर्मसंस्थापनायच। दानवानांविनाशायदैत्यानान्निधनायच १ परित्राणायसाधूनाञ्जातोरामःस्वयंहरिः। गृहाणार्घ्यम्मयादत्तं भ्रातृभिःसहितोनघ २ इति। रात्रौजागरणङ्कृत्वाप्रातर्नित्यपूजांविधायमूलमन्त्रेणपायसाष्टोत्तरशताहुतीर्हुत्वापूजांविसृज्याचार्यायप्रतिमान्दद्यात्। इमांस्वर्णमयींरामप्रतिमांसमलङ्कृताम्। शुचिवस्त्रयुगच्छन्नांरामोहराघवायते १ श्रीराममीतयेदास्येतुष्टोभवतुराघवः।
इतिमन्त्रः तवप्रसादंस्वीकृत्यक्रियतेपारणामया। व्रतेनानेनसन्तुष्टःस्वामिन्भक्तिम्प्रयच्छमे १ इतिप्रार्थ्य नवम्यन्तेपारणाङ्कुर्यात् इदंव्रतम्मलमासेनकार्यम् एवञ्जन्माष्टम्यादिव्रतमपिनकार्यम् अस्यामेवनवम्यान्देवीनवरात्रसमाप्तिःकार्या एतन्निर्णयआश्विनन-वरात्रनवमीवत् चैत्रशुक्लैकादश्यांश्रीकृष्णस्यान्दोलनोत्सवः दोलारूढम्प्रपश्यन्तिकृष्णं कलिमलापहम्।अपराधसहस्रैस्तुमुक्तास्तेधूननेकृते १ तावत्तिष्ठन्तिपापानिजन्मकोटिकृतान्यपि। क्रीडन्तेविष्णुनासार्धंवैकुण्ठेदेवपूजिताः १ इत्यादिकस्तन्महिमा विष्णोर्दमनोत्सवः चैत्रशुक्लद्वादश्यांविष्णोर्दमनोत्सवः सचपारणाहे पारणाहेनलभ्येत द्वादशीघटिकापिचेत्। तदात्रयोदशीग्राह्या पवित्रदमनार्पणे १ इत्युक्तेः शिवस्यतुचतुर्दश्याङ्कार्यः अथप्रयोगः उपवासदिनेनित्यपूजाङ्कृत्वादमनकस्थानङ्गत्वाकयेणतमा तत्प्रयोगः दायचन्दनादिनासम्पूज्यश्रीकृष्णपूजार्थत्वान्नेष्येइतिप्रार्थ्यप्रणमेत् अन्यदेवतासुयथादैवतमूहः ततोदमनकङ्गृहमानीयपञ्चगव्येनशुद्धोदकेनचप्रक्षाल्यदेवाग्रेस्थापयित्वातस्मिन्दमनके अशोककालवसन्तकामान्काममात्रंवागन्धादिभिः पूजयेत्तत्र नमोस्तुपुष्पबाणायजगदाह्लादकारिणे। मन्मथायजगन्नेत्रेरतिप्रीतिप्रियायते १ इतिकामावाहनमन्त्रः कामभस्मसमुद्रुतरतिबाष्पपरिप्लुत। ऋषिगन्धर्वदेवादिविमोहकनमोस्तुते १ इतिदमनकमुपस्थाय ॐ कामायनमइतिमन्त्रेण सपरिवारायकामरूपिणेदमनकायगन्धाद्युपचारान्दद्यात् ततोरात्रौदेर्वसम्पूज्याधिवासनकुर्यात् तदित्थं देवाग्रेसर्वतोभद्रंसम्पाद्यतत्रकलशंसंस्थाप्यतत्रधौतवस्त्राच्छन्नन्दमनकंवैणवपटलेस्थापितं निधाय पूजार्थन्देवदेवस्यविष्णोर्लक्ष्मीपतेःप्रभो। दमनत्वमिहागच्छसान्निध्यङ्कुरुतेनमः १ इतिदमनकदेवता मावा ह्यामागाद्यष्टदिक्षु। क्लीङ्कामदेवायनमोह्रींरत्यैनमः १ लोभस्मशरीराय नमोह्रींरत्यै नमः २ अङ्गायनमोहरत्यै ० ३ क्लीम्मन्मथायनमोह्नींरत्यै ०४ क्लींवसन्तसखायनमोह्रींरत्यैन॰५ क्लींस्मरायनमोह्रींरत्यै॰ ६ क्लीम्इक्षुचापायनमोह्रींरत्यै॰७ क्लीम्पुष्पबाणास्त्रायनमोह्रींरत्यै ०८ इतिपूजयेत् तत्पुरुषायविद्महेकामदेवायधीमहि। तन्नोनङ्गः प्रचोदयात्। इतिगायत्र्यादमनकमष्टोत्तरशतमभिमत्र्यगन्धादिभिःसम्पूज्य ह्रीन्नमइतिपुष्पाञ्जलिन्दत्वा नमोस्तुपुष्पबाणायइतिपूर्वोक्तावाहह्नमन्त्रेणनमेत् क्षीरोदधिमहानागशय्यावस्थितविग्रह। मातस्त्वाम्पूजयिष्यामिसन्निधौभवतेनमः १ इतिदेवम्प्रार्थ्यपुष्पाञ्जलिन्दत्वा तस्यामेकादश्यांरात्रौजागरणङ्कुर्यात् प्रातर्नित्यपूजाङ्कृत्वा पुनर्देर्वसम्पूज्यदूर्वागन्धाक्षतयुतान्दमनकमञ्जरीमादायमूलमन्त्रम्पठित्वा देवदेवजगन्नाथवाञ्छितार्थप्रदायक। हृत्स्थान्पूरयमेविष्णोकामान् कामेश्वरीप्रिय १ इदं दमनकन्देवगृहाणमदनुग्रहात्। इमांसांवत्सरीपूजाम्भगवन्परिपूरय २ पुनर्मूलञ्जप्त्वादेवेदमनमर्पयेत् ततोयथाशोभन्दत्त्वाङ्गदेवताभ्योदत्त्वादेवम्प्रार्थयेत् मणिविद्रुममाला-
भिर्मन्दारकुसुमादिभिः। इयंसांवत्सरीपूजातवास्तुगरुडध्वज १ वनमालांयथादेव कौस्तुभंसततंहृदि। तद्ब्रहामनकीम्मालाम्पूजाञ्चहृदयेवह २ जानताजानतावापिनकृतं यत्तवार्चनम्। तत्सर्वम्पूर्णतांयातुत्वत्प्रसादाद्रमापते ३ जितन्तेपुण्डरीकाक्षनमस्तेविश्वभावन। हृषीकेशनमस्तेस्तुमहापुरुषपूर्वज ४ मन्त्रहीनङ्क्रियाहीनमित्यादिचसम्प्रार्थ्य पञ्चोपचारैर्देवंसम्पूज्यनीराज्यब्राह्मणेभ्योदमनन्दत्वास्वयंशेषंसन्धार्यसुहृद्युतःपारणाङ्कुर्यात् मन्त्रदीक्षारहितैर्नाम्नार्पणीयम् अस्यगौणकालः श्रावणमासावधिः नेदम्मलमासे भवति शुक्रास्तादौतुकर्तव्यम्। इतिदमनारोपणविधिः अस्यामेवभारते अहोरात्रेण द्वादश्याञ्चैत्रेविष्णुरितिस्मरन्। पौण्डरीकमवाप्नोतिदेवलोकञ्चगच्छति १ इति चैत्रशुक्लत्रयोदश्यामनङ्गपूजनव्रतं तत्रत्रयोदशीपूर्वविद्धाग्राह्या अथचतुर्दश्यान्नृसिंहस्यदोलोत्सवः अत्रैव श्रीशिवस्यैकवीरायाभैरवस्यचदमनकैः पूजनम् अत्रचचतुर्दशीपूर्वविद्धापराह्णव्यापिनीग्राह्या अपराह्णव्याप्त्यभावेऽपराहस्पशिन्न्यपिपूर्वाग्राह्या तदद्भावे पराग्राह्या चैत्रपौर्णमासीसामान्यनिर्णयात्पराग्राह्या पूर्वोक्ततत्तत्तिथौदमनकपूजनाकरणेऽस्यामेवसर्वदेवानान्दमनपूजनं चैत्र्याञ्चित्रायुतायाञ्चित्रवस्त्रदानंसौभाग्यदं रवि-गुरुमन्दवारयुतचैत्र्यांस्नानश्राद्धादिभिरश्वमेधपुण्यं चैत्रस्यशुक्लैकादश्याम्पौर्णमास्यां वैशाखस्नानं वामेषसङ्क्रान्तिमारभ्यवावैशाखस्त्रानारम्भः तत्रमन्त्रः वैशाखसकल॑मासम्मेषसङ्क्रमणेरवेः। प्रातःसनियमः स्नास्येत्रीयताम्मधुसूदनः १ मधुहन्तुःप्रसादेनब्राह्मणानामनुग्रहात्। निर्विघ्नमस्तुमेपुण्यंवैशाखस्नानमन्वहम् २ माधवेमेषगेभानौ मुरारेमधुसूदन। प्रातःस्नानेनमेनाथफलदोभवपापहन ३ इति अत्र हविष्याशनब्रह्मचर्यादयोनियमाः एवंसम्पूर्णस्नानाशक्तौत्रयोदश्यादिदिनत्रयमन्तेस्नायात् इयम्पौर्णमासीमन्वादिः पूर्वमुक्ता चैत्रकृष्णत्रयोदशीशततारकानक्षत्रयुतावारुणीसञ्ज्ञकास्त्रानादिनाग्रहणादिपर्वतुल्यफलदा शनिवारयुक्तामहावारुणीशुभयोगशनिवारशततारकायुक्तामहामहावारुणी वारुणीयोगेकृष्णादिः पौर्णमास्यन्तोमा सस्तेनामान्तमासे फाल्गुनकृष्ण त्रयोदशीग्राह्येतिबोध्यं चैत्रकृष्णचतुर्दश्यांशिवसन्निधौस्नानेन भौमवारयुतायाङ्गङ्गायांस्नानेनपिशाचत्वाभावः फलम् इतिश्रीमदनन्तोपाध्यायसूनुकाशीनाथोपाध्यायविरचितेधर्मसिन्धुसारेचैत्रमासकृसनिर्णयोद्देशः समाप्तः॥
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा