निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथातुरसन्न्यासः आतुरसन्न्यासेसङ्कल्पप्रेषोच्चाराभयदानेतित्रयम्प्रधानमवश्यङ्कार्यम् अष्टश्राद्धादिदण्डग्रहणान्तमङ्गभूतंयथासम्भवकार्यं तत्प्रयोगः मन्त्रस्नानङ्कृत्वा शुद्धवस्त्रन्धृत्वाज्ञानप्राप्तिद्वारामोक्षसद्ध्यर्थमातुरविधिनासन्न्यासमहङ्करिष्ये पञ्चशिखाकेशानवशेष्यवपनङ्कृत्वास्नात्वासन्ध्याद्यौपासनहोमान्तंयथासम्भवंसम्पाद्यात्मनिसमारोपङ्कुर्यात् अग्निहोत्रीतुप्राजापत्यादिस्थानेपूर्णाहुतिङ्कृत्वाश्रौताग्निमात्मनिसमारोपयेत् उच्छिन्नाग्नीनाम्पुनराधानसम्भवेसमारोपोन्यथातुनसमारोपः विधुरादीनामग्न्यभावादेवसमारोपोनावश्यकः ततस्तोयमादायाप्सुजुहोति एषहवाअग्नेर्योनिर्यःप्राणःप्राणङ्गच्छस्वाहा १ आपोवैसर्वादेवताःसर्वाभ्योदेवताभ्योजुहोमि स्वाहा २ भूःस्वाहेतिजलेजलैर्हुत्वाहुतशेषञ्जलमाशुःशिशानइत्यनुवाकेनाभिमन्त्र्य पुत्रेषणावित्तेषणालोकेषणामयात्यक्ताःस्वाहेतिकिञ्चित्पिबेत् अभयंसर्वभूतेभ्योमत्तः स्वाहेतिद्वितीयम्पिबेत् सन्न्यस्तम्मयेतिनिःशेषतृतीयं ततःपूर्ववत्सावित्रीप्रवेशः ततः प्राङ्मुखऊर्ध्व-
बाहुःप्रेषोच्चारम्पूर्ववत्कुर्यात् अभयंसर्वभूतेभ्योमत्तःस्वाहेतिप्राच्याञ्जलङ्क्षिपेत् शिखामुत्पाठ्ययज्ञोपवीतञ्छित्त्वाभूःस्वाहेत्यप्सुहुत्वापुत्रगृहेनतिष्ठेत् अत्यन्तमातुरश्चेत्प्रेषमात्रंवावदेत् जीवतिचेत्स्वस्थःसन्महावाक्योपदेशदण्डग्रहणादिसर्वङ्कुर्यात् एवमातुरविधिनासन्न्यासेमृतस्ययतिवत्संस्कारः ॥
अथमृतयतिसंस्कारः पुत्रःशिष्योवास्नात्वावपनङ्कृच्छ्रचाधिकारार्थङ्कुर्यात् पुत्रातिरिक्तस्यवपनङ्कृताकृतं देशकालौस्मृत्वाब्रह्मीभूतस्ययतेःशौनकोक्तविधिना संस्कारङ्करिष्ये नवङ्कलशन्तीर्थेनापूर्य गङ्गेचयमुने॰ नारायणः परम्ब्रह्म॰ यचकिञ्चिज्जगत्सर्वं॰ इतिमन्त्रैरभिमन्त्र्यरुद्रसूक्तविष्णुसूक्तापोहिष्ठादिभिर्यतेःस्नानंविधायचन्दनादिभिःकलेवरंसम्पूज्यमाल्यादिभिरलङ्कृत्यवाद्यघोषादिभिःशुद्धदेशन्नयेत् जलेस्थलेवासमाहितङ्कुर्यात् स्थलपक्षेगर्तव्याहृतिप्रोक्षितभुविदण्डप्रमाणङ्कृत्वामध्येसूक्ष्मगर्तंसार्धहस्तङ्कृत्वासप्तव्याहृतिभिःपञ्चगव्येनत्रिःप्रोक्ष्यजलपक्षेनद्याम्पञ्चगव्यम्प्रक्षिप्यकुशानास्तीर्यसावित्र्यादेहम्प्रोक्ष्यशङ्खोदकेनपुरुषसूक्तेनाष्टोत्तरशतावृत्तप्रणवैश्वसंस्नाप्याष्टाक्षरेणषोडशोपचारैःसम्पूज्यतुलसीमालाद्यैरलङ्कृत्यविष्णोहव्यंरक्षस्वेतिदेहङ्गर्तेनद्यांवाक्षिपेत् इदंविष्णुरितिदण्डन्त्रेधाभग्नन्दक्षिणहस्तेस्थापयेत् हंसःशुचिषदितिपरेणनाकनिहितङ्गुहायांविभ्राजदेतद्यतयोविशन्ति । वेदान्तविज्ञानसुनिश्चितार्थासंःन्यासयोगाद्यतयःशुद्धसत्त्वाः १ इतिहृदयेजपेत् पुरुषसूक्तम्भ्रुवोर्मध्येजपेत् ब्रह्मजज्ञानमितिमूर्धनि मूर्धानम्भूर्भुवःस्वश्चेत्युक्ताशङखेनभेदयेत् अथवाभूमिभूमिमगान्मातामातरमप्यगात् भूयास्मपुत्रैःपशुभिर्योनोद्वेष्टिसभिद्यतामितिमन्त्रेणपरश्वादिनाभेदयेत् शिरोभेत्तुमशक्तःशिरस्थापितङ्गुडपिण्डादिकम्भिद्यात् गर्तम्पुरुषसूक्तेनलवणेनप्रपूरयेत् सृगालश्वादिरक्षार्थंसिकतादिभिःप्रपूरयेत् नद्यादौचेच्छरोभेदनोत्तरन्दर्भैराच्छाद्यव्याहृतिभिरभिमन्त्र्यपापाणंवध्वा ॐस्वाहेतिह्वदेन्यसेत् ततोऽग्निनाग्निःस॰ त्वंह्यग्नेअग्निना॰ तम्मर्जयन्तसुक्रतुं॰ यज्ञेनयज्ञ ० इत्यृक्चतुष्टयेनचित्तिःस्रुगित्यादिभिर्दशहोत्रादिसञ्ज्ञकयजुर्मन्त्रैश्चाभिमन्त्रयेत् अतोदेवाइतिजपित्वापापैर्मुक्ताअश्वमेधादिफलभागिनोवयमितिभावयन्तोवभृथबुद्ध्यासर्वेनुगामिनःस्नात्वागन्धादिधृत्वासोत्सवागृहङ्गच्छेयुः अत्रपरमहंसस्यस्थलेसमाधिमर्मुख्यः जलेमध्यमः कुटीचकन्तुप्रदहेत्पूरयेच्चबहूदकम् । हंसोञ्जलेतुनिक्षेप्यःपरमहंसम्प्रपूरयेत् १ इतिवचनात् अत्रपरमहंसम्प्रकीरयेदितिक्वचित्पाठः एकोद्दिष्टञ्जलम्पिण्डमाशौचम्प्रेतसत्क्रियाम् । नकुर्याद्वार्षिकादन्यद्ब्रह्मीभूतायभिक्षवे १ कुटीचकातिरेकेणनदहेद्यतिनङ्क्वचित् । ततःकर्तास्नात्वाचम्यसिद्धिङ्गतस्यब्रह्मीभूतभिक्षोस्तृप्त्यर्थन्तर्पणङ्करिष्येइतिसङ्कल्प्यसव्येनदेवतीर्थेनैवात्मानमन्तरात्मानम्परमात्मानमितिचतुश्चतुस्तर्पयित्वाशुक्लपक्षेमृतस्यकेशवादिद्वादशनामभिःकृष्णपक्षेमृतस्यसङ्कर्षणादिद्वादशनामभिःकेशवन्तर्पयामीत्येवन्द्वितीयान्तैःकुर्यात् इदङ्क्षीरेणेतिकेचित् त–
तःसिद्धिङ्गतस्यभिक्षोस्तृप्त्यर्थन्नारायणपूजनम्बलिन्दानङ्घृतदीपदानञ्चकरिष्येइतिसङ्कल्प्य देवयजनोपरितीरेवामृन्मयलिङ्गङ्कृत्वा-पुरुषसूक्तेनाष्टाक्षरेणचषोडशोपचारपूजाङ्कृत्वाघृतमिश्रपायसबलिन्दत्त्वाघृतदीपञ्चसमर्प्यपायसबलिञ्जलेक्षिपेत् ततः ॐब्रह्मणेनमइतिशङ्खेनाष्टार्घ्यान्दवागृहंव्रजेदितिप्रथमदिनकृत्यम् एवन्दशदिनान्तम्प्रत्यहन्तर्पणंलिङ्ग-पूजनम्पायसबलिदीपदानानिकुर्यात् ॥
अथैकादशेहनिपार्वणश्राद्धं तत्रमध्याह्नेनद्यादौश्राद्धाङ्गतिलतर्पणङ्कृत्वादेशकालौस्मृत्वाप्राचीनावीती-अमुकगोत्रस्यामुकशर्मणोब्रह्मीभूतस्यास्मत्पितुःकरिष्यमाणदर्शादिसर्वश्राद्धाधिकारार्थमद्यपार्वणश्राद्धङ्करिष्येइतिपुत्रादिःसङ्कल्पयेत् शिष्यस्तुब्रह्मीभूतगुरोःप्रत्यब्दादिश्राद्धाधिकारार्थन्तत्पितृसम्बन्धिनामगोत्रोद्देश्यतासिद्ध्यर्थञ्चपार्वणश्राद्धमितिसङ्कल्पयेत् अन्यत्समानम् पुरूरवार्द्रवसञ्ज्ञकाविश्वेदेवाः पितृपितामहप्रपितामहानान्नामगोत्रादिसहितानामुच्चारः सर्वत्रपितुर्ब्रह्मीभूतइतिविशेषणमात्रमधिकं शेषम्प्रत्यब्दश्राद्धवत् केचिच्छिष्यःकर्ताचेदात्मान्तरा-त्मपरमात्मनउद्दिश्यसाधुरुरुसञ्ज्ञकदेवयुतंसव्येनदेवधर्मकन्नान्दीश्राद्धवदेकादशाहेपार्वणश्राद्धङ्कुर्यादित्याहुः अत्रसर्वत्रविस्तरस्तोरोकृतसन्न्यासपद्धतौद्रष्टव्यः ॥
अथद्वादशाहेनारायणवलिः देशादिस्मृत्वासिद्धिङ्गतस्यभिक्षोःसम्भावितसर्वपापक्षयपूर्वकं-विष्णुलोकावाप्तिद्वाराश्रीनारायणप्रीत्यर्थन्नारायणबलिङ्करिष्येइतिसङ्कल्प्यत्रयोदशयतीन्विप्रान्वानिमन्त्र्यशुक्लपक्षेकेशवरूपिगुर्वर्थेत्वयाक्षणःकर्तव्यइत्येवं दामोदरान्तकेशवादिद्वादशनामभिःक्षणोदेयः कृष्णेतुसङ्कर्षणादिद्वादशनामभिः त्रयोदशंविप्रंविष्ण्वर्थन्त्वयाक्षणःकर्तव्यइतिनिमन्त्र्य पादान्प्रक्षाल्यप्राङ्मुखानुपवेशयेत् विप्राग्रेस्थण्डिलेग्निप्रतिष्ठापनादि अन्वाधानेचक्षुषीआज्येनेत्यन्तेऽग्निंवायुंसूर्यप्रजापतिञ्चव्यस्तसमस्तव्याहृतिभिरेकैकपायसाहुत्याविष्णुमतोदेवाइतिषड्भिःप्रत्यृचमेकैकपायसाहुत्यानारायणम्पुरुषमुक्तेनप्रत्यृचमेकैकपायसाहुत्याशुक्लेकेशवादिद्वादशदेवताः कृष्णेसङ्कर्षणा-दिद्वादशदेवताःएकैकपायसाहुत्याशेषेणेत्यादि द्विपञ्चाशदधिकशतमुष्टीन्निरूप्यबलिपर्याप्त-तण्डुलानोप्याष्टत्रिंशदाहुतिपर्याप्तम्पुरुषाहारमितविष्णुनैवेद्यपर्याप्तञ्चक्षीरेश्रपयित्वाज्यभागान्तेग्निपूर्वतःशालग्रामेविष्णुम्पुरुषसूक्तेनाष्टाक्षरेणचषोडशोपचारैः सम्पूज्यस्रुचाहस्तेनवान्वाधानानुसारेणहोमत्यागौविदध्यात् एवंशुक्लकृष्णभेदेनकेशवादिद्वादशान्ताःसङ्कर्षणाद्यन्तावाऽष्टत्रिंशदाहुतीर्हुत्वास्विष्टकृदादिशेषंसमाप्यपुनःशालग्रामंसम्पूज्यविष्णुगायत्र्याविष्णवेऽर्घ्यन्दत्त्वा हुतशेषपायसेनविष्णवेबलिन्दत्त्वानिमन्त्रितत्रयोदशविप्रान्केशवादि-क्रमेणकेशवरूपिगुरवेनमइदमासनमित्यादिनासनगन्धपुष्पधूपदीपाच्छादनानिदत्त्वात्रयोदशेविशेपुरुषसूक्तेनप्रत्यृचान्तेविष्णवेनमइत्येवमादिनाविष्णुन्दीपान्तोपचारैःपूजयेत् चतुरस्रमण्डलेषुत्रयोदशभोजनपा-
त्राण्यासाद्योपस्तीर्यान्नम्परिषिच्यपृथिवीतेपात्रमित्यादिनाकेशवादिद्वादशोद्देशेनविप्णूद्देशेनचानन्त्यक्त्वाअतोदेवा॰ ॐतद्ब्रह्मॐतद्वायुर्ब्रह्मार्पणमित्याद्यापोशनादिप्राणाहुत्यन्तेनारायणाद्युपनिषद्भागान्पठेत् तृप्तिमश्नान्तेआचान्तेषुप्रागग्रान्दर्भानास्तीर्याष्टाक्षरेणाक्षतोदकन्दत्त्वाकेशवरूपिणेगुरवेऽयम्पिण्डःस्वाहानमइत्येवन्द्वादशपिण्डान्दद्यात् कृष्णेतुसङ्कर्षणादिनामभिरितिसर्वत्र पिण्डेषुविष्णुंसम्पूज्यपुरुषसूक्तेस्तुत्वा विसर्जयेत् विप्रेभ्यस्ताम्बूलदक्षिणादिदत्वात्रयोदशायविप्रायनाभ्याआसीदित्याद्यृक्त्रयेणफलताम्बूलदक्षिणान्दत्त्वानमस्कृत्यतांशालग्राममूर्तिमाचार्यायदद्यात् इति नारायणबलिविधिः
अथद्वादशाहेत्रयोदशाहेवायथाचारमाराधनं तत्रप्रयोगः देशकालौस्मृत्वा श्रीनारायणप्रीत्यर्थमाराधनङ्करिष्यइतिसङ्कल्प्य गुर्वर्थेक्षणःकर्तव्यः एवम्परमगुर्वर्थेपरमेष्ठिगुर्वर्थेपरात्परगुर्वर्थे एवंविप्रचतुष्टयन्निमन्त्र्य शुक्लेकेशवादिनामभिःकृष्णेसङ्कर्षणादिनामभिःद्वादशविप्रान्निमन्त्रयेत् एवंषोडशविप्राःयतयोवा अशक्तोयथाशक्तिविप्रान्निमन्त्र्ययथायथंषोडशक्षणादेयाः षोडशानाम्पादक्षालनङ्कृत्वाचम्यपादक्षालनोदकं पात्रान्तरेगृहीत्वागन्धपुष्पादिभिःपूजयेत् विप्रान्प्राङ्मुखानुदङ्मुखान्वोपवेश्यषोडशो पचारैर्गन्धादिपञ्चोपचारैर्वासम्पूज्यसपरिकरमन्नम्परिविष्यगायत्र्याप्रोक्ष्यगुरवेइदमन्नम्परिविष्टम्परिवेक्ष्यमाणञ्चातृप्तेःस्वाहाहव्यन्नमम एवम्परमगुर्वादिभ्यःपञ्चदशभ्योन्नत्यागङ्कृत्वाब्रह्मार्पणमित्यादि भुक्तेष्वाचान्तेषुतेषुताम्बूलदक्षिणावस्त्रादिभिःपूजयेत् अत्रकेचित्पूर्वस्थापितपादोदकतीर्थपूजाङ्कुर्वन्ति तद्यथा तीर्थपात्रन्तण्डुलादिकृतमण्डले संस्थाप्यपुरुषसूक्तेनतीर्थराजायनमइतिषोडशोपचारैःसम्पूज्यतत्पात्रंशिरसिधृत्वाबन्धुभिःसहविप्रान्प्रदक्षिणीकृत्यगुरुर्ब्रह्मागुरुर्विष्णुरितिनत्वाप्रथमविप्रहस्तात्तत्तीर्थं पिबेत् तत्रमन्त्रःअविद्यामूलशमनंसर्वपापप्रणाशनम् । पिबामिगुरुपत्तीर्थम्पुत्रपौत्रप्रवर्धनम् १ इति कर्मेश्वरार्पणङ्कृत्वासुहृद्युतोभुञ्जीत वर्षपर्यन्तम्प्रतिमासम्मृततिथावेवमेवाराधनङ्कार्यन्नतुप्रतिमासिकश्राद्धम् प्रत्यब्दन्तुपार्वणश्राद्धङ्कृत्वाराधनमपिकार्यं ततोदर्शमहालयादिश्राद्धान्यपिसर्वसाधारण्येनकार्याणि नतत्रविशेषःइत्याराधनविधिः❋
मार्थे॰ अधोक्षजार्थे॰ नारसिंहार्थे ० अच्युतार्थे॰ जनार्दनार्थे॰ उपेन्द्रार्थे॰ हर्यर्थे॰ श्रीकृष्णार्थे॰ भवद्भिःक्षणःकर्तव्यइतिद्वादशविप्रान्निमन्त्रयेत् एवंषोडशविप्राःयतयोवा अशक्तौयथाशक्तिविप्रान्निमन्त्र्य यथायथंषोडशक्षणादेयाः विप्राः ॐतथेतिप्रतिवचनन्दद्युः ततोमध्याह्वेब्राह्मणानाडूय कर्ताशुचिराचम्यपवित्रपाणिः प्राणानायस्य श्रीमद्भगवतोमहापुरुषस्य विष्णोराज्ञयाप्रवर्तमानस्याद्येत्यादिदेशकालौसङ्कीर्त्य श्रीनारायणप्रीत्यर्थम्ब्रह्मीभूतस्यगुरोःसमाराधनङ्करिष्यइतिसङ्कल्प्यगन्धाक्षततुलसीदलकर्पूरमिश्रजलेनवरणक्रमेणतेषाम्पादप्रक्षालनङ्कृत्वातानाचमय्यस्वयञ्चद्विराचम्यपादप्रक्षालनोदकम्पात्रान्तरेगृहीत्वागन्धादिभिस्तत्पात्रमलङ्कृत्यदेवसन्निधौसंस्थाप्यकुशासनेषुप्राङ्मुखानुदङ्मुखान्वोपवेश्य तत्पादौसाक्षतगन्धतुलसीदलैरभ्यर्च्य आनन्दमानन्दकरम्प्रसन्नञ्ज्ञानस्वरूपन्निजबोधरूपम् । योगीन्द्रमीड्यम्भवरोगवैद्यं श्रीमद्गुरुन्नित्यमहन्नमामिइतिप्रत्येकन्नमस्कुर्यात् ततःपुरुषसूक्तेनप्रत्यृचं ॐनमोनारायणायेतिमन्त्रसहितेनावाहनादिषोडशोपचारैः पदार्थानुसमयेनप्रत्येकमभ्यर्चयेत यद्वापञ्चोपचारैःपूजाकार्या पूजान्तेनमोगुर्वादिभ्य एते आवाहनासनपाद्यादिषोडशोपचाराः गन्धपुष्पादिपञ्चोपचारावासर्वेपरिपूर्णाभवन्तु अर्चनविधिः परिपूर्णोस्तु न्यूनंविधिवदस्तु यस्यम्मृत्याचामोक्त्यातपःपूजाक्रियादिषु । न्यूनंसम्पूर्णतांयातिसद्योवन्देतमच्युतम १ इतिपठित्वा विप्राणां पुरतोगोमयेनचतुरस्राणिमण्डलानिकृत्वागन्धाक्षतादिभिरभ्यर्च्यतदुपरिपात्राणिसंस्थाप्यसर्वेषुपात्रेषुपायसादिविशिष्टमन्नंसाज्यंसव्यञ्जनंसशाकम्परिविष्यगुरपात्रङ्गायत्र्याप्रोक्ष्यतूष्णीप्रदक्षिणम्परिषिच्यगुरवेइदमन्नंयथाशक्तिसोपस्करम्परिविष्टम्परिवेक्ष्यमाणञ्चातृप्तेःस्वाहाहव्यन्नममेतिजलोत्सर्जनपूर्वकमन्नन्निवेदयेत् एवंसर्वत्रान्ननिवेदनङ्कृत्वा ॐत॑द्ब्र॒ह्म । ॐत॑द्वा॒युः ॐत॑दा॒त्मा । ॐत॑त्स॒त्यम् । ॐत॑त्सर्वं॑ । ॐत॑त्पुरो॒र्नमः । अन्तश्चरति॑भृते॒षुगु॒हायांवि॑श्वमू॒र्तिषु । त्वंयज्ञस्त्वंवषट्कारस्त्वमिन्द्रस्त्वꣳरुद्रस्त्वंविष्णुस्त्वम्ब्रह्मत्वं॑प्रजा॒पतिः त्वन्त॑दाप॒आपो॒ज्योती॒रसो॒मृतं॒ब्रह्म॒भूर्भुवः॒सुव॒रोम् १ इत्यनुवाकम्ब्रह्मार्पणमितिचजपित्वा एकोविष्णुर्महद्भूतम्पृथग्भूतान्यनेकशः । त्रीन्लोकान्व्याप्यभूतात्माभुङ्क्तेविश्वभुगव्ययः १ अनेब्रह्मीभूतस्यगुरोः समाराधनेन ब्रह्मीभूतगुरुरूपीश्रीनारायणःप्रीयतामितिसकुशाचतञ्जलमुत्सृजेदित्याचारः । ततः आपोशनार्थमुदकन्दत्त्वासव्याहृतिकाङ्गायत्रींसकृदुत्त्का ॐतत्सद्यथासुखञ्जुषध्वमितिवदेत् विप्राश्चबलिदानवर्जन्नित्यवत् अमृतोपस्तरणमसीत्यापोशनङ्कृत्वा कर्त्राश्रद्धायाम्प्राणेनिविष्टोमृतञ्जुहोमि शिवोमाविशाप्रदाहाय प्राणायस्वाहेत्यादिपञ्चमन्त्रेषूच्यमानेषु पञ्चप्राणाहुतीः कृत्वा ब्रह्मणिमआत्माअमृतत्वायेत्युच्यमाने ब्रह्मणेस्वाहेतिषष्ठीङ्कुर्युः ततोमौनिनःसशेषमन्नादिभुञ्जीरन दधिक्षीरघृतपायसानितुनिःशेषम् भुज्यमानेषुतेषूपनिषन्मन्त्रान्श्रावयेत् तृप्तेषु तद्ब्रह्मेत्यनुवाकञ्जप्त्वाऽऽपोशनार्थञ्जलन्दद्यात् ततोविप्राअमृतापिधानमसीत्युत्तरापोशनङ्कृत्वामुखप्रक्षालनपूर्वकहस्तप्रक्षालनादिकृत्वाशुद्धोदकेनाचम्य यथास्थानमुपविशेषुः ततःकर्ता तान्विशिष्टताम्बूलदक्षिणावस्त्रादिभिःसम्पूजयेत् ॥ अत्रकेचित्पूर्वस्था-
नाक॒रवं किमहम्पापमक॑रवमि॒ति सयएवंविद्वानेतेआत्मा॑नꣳस्पृ॒णुते उ॒भेह्ये॑वैष॒एतेआत्मा॑नꣳस्पृ॒णुते यए॒वंवेद॑ इत्यु॑प॒निष॑त् ॥इत्यनुवाकान्पठित्वाहरिकीर्तनपुरःसरंसहर्षन्नृत्यङ्कृत्वातत्पात्रम्पुनर्मण्डलेसंस्थाप्यचन्दनाक्षतपुष्पाणिपूजाशिष्टानिबन्धुभिःसहधृत्वाविप्रान्प्रदक्षिणीकृत्य आनन्दमानन्दकरम्प्रसन्नं ज्ञानवरूपन्निजबोधरूपम् । योगीन्द्रमीड्यम्भवरोगवैद्यं श्रीमद्गुरुन्नित्यमहन्नमामि १ गुरुर्ब्रह्मागुरुर्विष्णुर्गुरुर्देवोमहेश्वरः । गुरुःसाक्षात्परन्तस्मैश्रीगुरवेनमः २ इतिमन्त्राभ्यान्द्विजांस्तीर्थराजञ्चनमस्कृत्यगुर्वर्थविप्रहस्ते पादोदकपात्रन्दत्त्वातदाज्ञयातत्तीर्थम्मन्त्रेणगृह्णीयात् तत्रमन्त्रः अविद्यामूलशमनंसर्वपापप्रणाशनम् ।गुरुपादोदकन्तीर्थंसंसारद्रुमनाशनम १ पुत्रादिकामनायान्तु शोषणपापपङ्कस्यदीपनञ्ज्ञानतेजसः । गुरोःपादोदकञ्चित्रम्पुत्रपौत्रप्रवर्द्धनम् २ इतिमन्त्रेण ततस्तान्पुनःप्रणम्यदक्षिणादिभिस्तोषयित्वासम्माननपुरःसरमनुव्रज्यकर्मेश्वरार्पणङ्कुर्यात् अनेनब्रह्मीभूतस्यगुरोःसमाराधनकर्मणाकृतेन श्रीनारायणःप्रीयतामिति ततःसुहृद्युक्तोभुञ्जीत इत्थङ्करणाशक्तौयथाशक्तियतीन्ब्राह्मणान् वाहूयपादप्रक्षालनपूर्वकङ्गन्धादिभिरभ्यर्च्यभोजयेत् इत्याराधनप्रयोगः ॥
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा