🕉️ 24 November 2026, Tuesday · 08:10:35 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← धर्मसिन्धु — परिच्छेद-सूची

📖 धर्मसिन्धु · तृतीय परिच्छेद (उत्तरार्ध) — श्राद्ध, आशौच, अन्त्येष्टि, संन्यास · पृष्ठ 81/81

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

नारायणचलिपार्वणश्राद्धादिदिनविचारः

अत्रनारायणबलिपार्वणश्राद्धयोरेकदिनानुष्ठानपक्षेएकादशेद्वादशे वादिनेपूर्वनारायणबलिङ्कृत्वाततःपार्वणश्राद्धङ्कार्यं दिनद्वयेकरणपक्षेत्वैकादशेपार्वणन्द्वादशेनारायणबलिः द्वादशेत्रयोदशेवादिनेआराधनम् ऊनमासिकादिकालेष्वप्याराधनमतिकेचित प्रतिमासमाराधनमित्यन्ये पार्वणश्राद्धन्त्वेकादशाहप्रत्यब्दयोरेव तच्चपुत्रादीनामेवनियतं शिष्यादीनान्तुनावश्यकम् अपुत्रयतेस्तुशिष्येणापिप्रत्यब्दपार्वणश्राद्धङ्कार्यं तदर्थञ्चनामगोत्रोल्लेखाधिकारार्थमेकादशेपिशिष्येणपार्वणश्राद्धङ्कार्यं नारायणबल्यादेर्द्वादशाहादावसम्भवेशुक्लपक्षस्थद्वादशीश्रवणपञ्चम्यःपूर्णिमामावास्याचेतिगौणकालाः अत्रपूर्वपूर्वःश्रेयान् भार्याकन्यास्नुषादेःस्त्रियाःयतिसंस्कारकर्तृत्वेतुविधवायाःवपनपूर्वकङ्कृच्छ्रत्रयाचरणं सधवायास्तुकृच्छ्राचरणमेव

यतिसस्काराधिकारादिविचारः

देशान्तरस्थपुत्रःपितुर्यतेःसिद्धिवार्तांश्रुत्वावपनपूर्वकं स्नात्वाक्षीरतर्पणपूजनादिदशाहान्तङ्कृत्वैकादशाहादौपार्वण-नारायणबल्यादिसर्वमविकृतङ्कुर्यात् सन्निहितेनज्येष्ठेनकृतञ्चेत्कनिष्ठोनकुर्यात शुक्लकृष्णादिभेदेन-केशवादिनामानिमृततिथ्यनुरोधेनैत्रग्राह्याणि नतुवार्ताश्रवणतिथ्यनुरोधेन मृततिथ्यज्ञानेतुवार्ताश्रवणानुरोधेनैव यतिसंस्कारकरणेश्वमेधसहस्रादिफलम् असंस्कृतविशीर्येतयतेर्यत्रकलेवरम् । धर्मलोपोभवेत्तत्रदुर्भिक्षम्मरणन्तथा १ दिवङ्गतेगुरौशिष्यउपवासन्तदाचरेत् । नस्नानमाचरेद्भिक्षुःपुत्रादिनिधनेश्रुते २ पितृमातृक्षयंश्रुत्वास्नानाच्छुद्ध्यतिसाम्बरात् ॥

75. प्रसङ्गाद्यतिधर्माः

अथप्रसङ्गाद्यतिधर्माः प्रातरुत्थायब्रह्मणस्पतइतिजपित्वादण्डादीनिमृदञ्चादायमूत्रपुरीष-योर्गृहस्थचतुर्गुणंशौचं-कृत्वाचम्यपर्वद्वादशीवर्ज्यम्प्रणवेनदन्तधावनङ्कृ-

त्वामृदावहिःकटिम्प्रक्षाल्यजलतर्पणवर्ज्यस्नात्वापुनर्जङ्घेप्रक्षाल्यवस्त्रादीनिगृहीत्वाप्रणवेनप्राणायाममार्जनादिकृत्वाकेशवादिनमोन्तनामभिस्तर्पयित्वाभूस्तर्पयामीत्यादिव्यस्तसमस्तव्याहृतिभिर्महर्जनस्तर्पयामीतितर्पयेत् अत्रविशेषोमाधवादौविश्वेश्वर्यादौचज्ञेयः सूर्योपस्थानादिकन्त्रिकालविष्णुपूजादिकञ्चसिन्धौज्ञेयं विधूमेसन्नमुसलेव्यङ्गारेभुक्तवज्जने । कालेपराह्नेभूयिष्ठेनित्यम्भिक्षांयतिश्चरेत् १ अत्रभिक्षाभेदाःग्रन्थान्तरेज्ञेयाः अत्रविविदिषोर्दण्डिनःमाधुकरीमुख्या दण्डवस्त्रादिपरिग्रहणरहितस्यतुकरपात्रम्मुख्यम् अन्येपक्षाःअशक्तविषयाः तत्रमाधुकरीपक्षेदण्डादिगृहीत्वापञ्चभ्यःचण्डीविनायकासप्तभ्योवागृहेभ्योभिक्षांयाचित्वान्नम्प्रोक्ष्यभूःस्वधानमइत्यादिव्यस्तसमुस्तव्याहृतिभिः सूर्यादिदेवेभ्योभूतेभ्यश्चभूमौक्षिप्त्वाशेषमन्नंविष्णुनिवेदितम्भुञ्जीत चण्डीविनायकादिनैवेद्यन्नभुञ्जीत भुक्ताचम्यषोडशप्राणायामान्कुर्यादितिसङ्क्षेपः यतिहस्तेजलन्दध्नाद्भिक्षान्दद्यात्पुनर्जलम् । भैक्ष्यम्पर्वतमात्रंस्यात्तज्जलंसागरोपमम् १ एकरात्रम्बसेद्ग्रामे नगरेपञ्चरात्रकम् । वर्षाभ्योन्यत्रवर्षासुमासांश्चचतुरोवसेत् २ अष्टौमासान्विहारः स्याद्यतीनांसंयतात्मनाम् । महाक्षेत्रमविष्टानांविहारस्तुनविद्यते ३ भिक्षाटनञ्जपःस्त्रानन्ध्यानंशौचंसुरार्चनम् । कर्तव्यानिषडेतानिसर्वथानृपदण्डवत् ४ मञ्चकंशुक्लबस्त्रञ्चस्त्रीकथालौल्यमेवच । दिवास्वापश्चयानञ्चयतीनाम्पतनानिषट् ५ वृथाजल्पम्पात्रलोभंसञ्चयंशिष्यसङ्ग्रहम् । हव्यङ्कव्यन्तथान्नञ्चवर्जयेच्चसदायतिः ६ यतिपात्राणिमृद्वेणुदार्वलावुमयानिच । नतीर्थवासीनित्यंस्यान्नोपवासपरोयतिः ७ नचाध्ययनशीलःस्यान्नव्याख्यानपरोभवेत् । एतद्वेदार्थभन्नपरम् एतेसङ्क्षेपतोयतिधर्माः अन्येपिमाधवीयमिताक्षरादोज्ञेयाः ॥

76. ग्रन्थोपसंहारः

ग्रन्थोपसंहारः । प्रथमेऽत्रपरिच्छेदेकालसामान्यनिर्णयः । द्वितीयेथपरिच्छेदेविशेषात्कालनिर्णयः १ तृतीयस्यचपूर्वार्धेगर्भाधानादिसंस्क्रियाः । आह्निकञ्चप्रकीर्णार्थाआधानाद्याःसविस्तराः २ देवप्रतिष्ठाशान्त्यादिनित्यनैमित्तिकन्तथा । तार्तीयकोत्तरार्धेस्मिञ्जीवत्पितृकनिर्णयः ३ श्राद्धाधिकारकालादेर्निर्णयःश्राद्धपद्धतिः । सूतकादेर्निर्णयश्चनिर्णयोदुर्मृतावपि ४ अन्त्येष्टिसंस्कारविधिःसन्न्यासःसंहक्स्तिरः ।प्रायश्चित्तंव्यवहृतिंसर्वदानविधिंविना ५ कृत्स्नोपिधर्मशास्त्रार्थःसक्षेपेणात्रनिर्मितः । विबुधानाञ्चवालानान्तुष्टयेकष्टहानये ६ मूलभूतानिपद्यानिविकृतानिक्वचित्क्वचित् । निर्विकाराण्यपिनवान्यप्युक्तान्यत्रकानिचित् ७ मीमांसाधर्मशास्त्रज्ञाःसुधियोनलसाबुधाः । कृतकार्याःप्राङ्गिबन्धैस्तदर्थनायमुद्यमः ८ येपुनर्मन्दमतयोलसाअज्ञाश्चनिर्णयम् । धर्मेवेदितुमिच्छन्तिरचितस्तदपेक्षया ९ निबन्धोयन्धर्मसिन्धुसारनामासुबोधनः । अमुनाप्रीयतांश्रीमद्विठ्ठलोभक्तवत्सलः १० प्रेम्णासद्भिर्ग्रन्थःसेव्यःशब्दार्थतःसदोषोपि । संशोध्यवापिहरिणासुदाममुनिसतुषपृथुकमुष्टिरिव ११ श्रीकाश्यु-

पाध्यायवरोमहात्माबभूवविद्वद्द्विजराजराजः । तस्मादुपाध्यायकुलावतंसौयज्ञेश्वरोनन्तइमावभूताम् १२ यज्ञेश्वरोयज्ञविधानदक्षोदैवज्ञवेदाङ्गसुशास्त्रशिक्षः । भक्तोत्तमोनन्तगुणैकधामानन्ताह्वयोनन्तकलावतारः १३ एषोत्यजज्जन्मभुस्वकीयान्ताङ्कौङ्कणाख्यांसुविरक्तिशाली । श्रीपाण्डुरङ्गेवसतिंविधायभीमातटेमुक्तिमगात्सुभत्तया १४ तस्यानन्ताभिधानस्योपाध्यायस्यसुतःकृती । काशीनाथाभिधोधर्मसिन्धुसारंसमातनोत् १५ इतिश्रीमत्काश्युपाध्यायसुरिसूनुयज्ञेश्वरोपाध्यायानुजानन्तोपाध्यायसूरिसुतकाशीनाथोपाध्यायविरचितेधर्मसिन्धुसारेतृतीयपरिच्छेदोत्तरार्धसमाप्तम् ॥

॥ श्रीगुरुपाण्डुरङ्गार्पणमस्तु ॥

इति धर्मसिन्धुः समाप्तः ।

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬