🕉️ 24 November 2026, Tuesday · 08:04:21 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← धर्मसिन्धु — परिच्छेद-सूची

📖 धर्मसिन्धु · द्वितीय परिच्छेद — चैत्र से फाल्गुन तक मास-कृत्य · पृष्ठ 9/81

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

2. वैशाखमासः

अथवैशाखमासः अत्रदृषसङ्क्रमेपूर्वाः षोडशनडिकाः पुण्यकालः रात्रौचप्रागुक्तम् अत्रप्रातःस्नानन्तिलैः पितृतर्पणन्धर्मघटदानञ्चकार्यम् अत्रब्राह्मणानाङ्गन्धमाल्यपानककदलीफलादिभिर्वसन्तपूजाकार्या वैशाखेज्येष्ठेवायत्रमासेऊष्मवाहुल्यन्त

विष्णुजलाधिवासादि

विष्णुजलाधिवासादि त्रप्रातर्नित्यपूजाङ्कृत्वागन्धोदकपूर्णपात्रेविष्णुंसंस्थाप्यपञ्चोपचारैःसं-

पूज्यतत्रैवजलेसूर्यास्तपर्यन्तमधिवास्यरात्रौस्वस्थानेस्थापयित्वापञ्चोपचारैःपूजयेत्तेन तीर्थोदकेनगृहदारादियुतमात्मानम्पावयेत् एतच्चद्वादश्यान्दिवानकार्यं रात्रौकिञ्चित्कालञ्जलस्थम्पूजयित्वास्वस्थानेस्थापयेत् अत्रमासेकृष्णगौराख्यतुलसीभिर्विष्णुं त्रिकालमर्चयेन्मुक्तिःफलम् प्रातःस्नात्वाबहुतोयेनाश्वत्थमूलंसिञ्चेत्प्रदक्षिणाश्चकुर्यात् अनेककुलतारणम्फलम् एवङ्गवाङ्कण्डूयनेऽपि अत्रमासेएकभक्तन्नक्तमयाचितंवासर्वेप्सितफलदम् अत्रमासेत्रपादानन्देवेगलन्तिकाबन्धनंव्यजनच्छत्रोपानच्चन्दनादिदान॑महाफलं यदावैशाखोमलमासोभवतितदाकाम्यानान्तत्र समाप्तिनिषेधान्मासद्वर्यवैशाखस्नानहविष्याशनादिनियमाअनुष्ठेयाः चान्द्रायणादिकन्तुमलेऽपिसमापनीयं वैशाख-शुक्लतृतीयायाङ्गङ्गास्नानंयवहोमोयवदानंयवाशनञ्चसर्वपापापहं यःकरोतितृतीयायां कृष्णचन्दनभूषितम् । वैशाखस्यसितेपक्षेसयात्यच्युतमन्दिरम् १ इयमक्षय्यतृतीयासं- अक्षय्यतृतीया ज्ञिका अस्यांयत्किचिज्जपहोमपितृतर्पणदानादिक्रियतेतत्सर्वमक्षयम् इयंरोहिणीबुधयोगेमहापुण्या अस्याःजपहोमादिकृत्येपिवक्ष्यमाणयुगादिवन्निर्णयः इयङ्कृतयुगस्यादिः अत्रयुगादिश्राद्धमपिण्डकमनुष्ठेयं श्राद्धासम्भवेतिलतर्पणमप्यत्र कार्यम् अत्रशुक्लयुगादिकृत्यम्पूर्वाह्णेकार्यं तत्रासम्भवेपराह्णेऽपि कृष्णयुगादिकार्यन्त्वपराह्णेइत्यादिमन्वादिप्रकरणोक्तोनिर्णयः द्वेधाविभक्तदिनपूर्वार्धैकदेशव्यापिनी दिनद्वयेचेन्त्रिमुहूर्ताधिकव्याप्तिसत्वेपरा त्रिमुहूर्तन्यूनत्वेपूर्वा मन्वादौचयुगादौचग्रहणेचन्द्रसूर्ययोः। व्यतीपातेवैधृतौचतत्कालव्यापिनीक्रिया १ इतिवचनेनसाकल्यव्याप्तिवाक्यानामपवादात्श्राद्धादिकन्तृतीयामध्येएवकर्तव्यम् पुरुषार्थचिन्तामणौतुससमाष्टमनवममुहूर्तानाङ्गान्धर्वकुतुपरौहिणसञ्ज्ञकानांयुगादिश्राद्धकालत्वात् शुक्लेमध्यप्रदिनमानेत्रयोदश्यादिपञ्चदश्यन्तघटीत्रयव्यापिन्यांश्राद्धं कृष्णेतुषोडशीमारभ्यघटीत्रये उभयत्रतादृशघटीत्रयव्याप्तौसयामसत्यांवाशुक्लापरा यदातुपरेद्युस्त्रयोदशघटीतः पूर्वंसमाप्तापूर्वेद्युस्त्रयोदश्यादिघटीत्रयेतदेकदेशेवाविद्यतेतदाकर्मकालशास्त्रबाहुल्यात्पूर्वैवग्राह्येत्युक्तम् इदमेवयुक्तमितिभाति अत्रदेवतोद्देशेनपित्रुद्देशेनचोदकुम्भदानमु- उदकुम्भदानं क्तं तत्रश्रीपरमेश्वरप्रीतिद्वाराउद कुम्भदानकल्पोक्तफलावाप्त्यर्थब्राह्मणायोदकुम्भदानङ्करिष्ये इतिसङ्कल्प्यसूत्रवेष्टितङ्गन्धफलयवाद्युपेतङ्कलशम्पञ्चोपचारैर्ब्राह्मणञ्चसम्पूज्य एषधर्मघटोदत्तोब्रह्मविष्णुशिवात्मकः। अस्यमदानात्सकलाममसन्तुमनोरथाः १ इतिमन्त्रेणदद्यात् पित्रुद्देशेतुपितॄणामक्षय्यतृप्त्यर्थउदकुम्भदानङ्क-

रिष्येइतिसङ्कल्प्यपूर्ववत्कुम्भब्राह्मणौसम्पूज्योदकुम्भेगन्धतिलफलादिनिक्षिप्य र्मघटोदत्तोब्रह्मविष्णुशिवात्मकः। अस्यमदानात्तृप्यन्तुपितरोपिपितामहाः १ गन्धोदकतिलैमिश्रंसान्नङ्कुम्भम्फलान्वितम्। पितृभ्यः सम्प्रदास्यामिअक्षय्यमुपतिष्ठतु २ इतिमन्त्रेणदद्यात् युगादौसमुद्रस्नानम्महाफलं वैशाखस्याधिमासत्वेयुगादिश्राद्धम्मासद्वयेपिकार्यं युगादिषूपवासोमहाफलः युगादिमन्वादौरात्रिभोजनेअभिस्वदृष्टिमितिमन्त्रजपः युगादिश्राद्धलोपे युगादिश्राद्धलोपजन्यप्रत्यवातयपरिहारार्थमृग्विधानोक्तम्प्रायश्चित्तङ्करिष्येइतिसङ्कल्प्य नयस्यद्यावेतिऋचंशतवारञ्जपेत् अयन्निर्णयः सर्वयुगादौज्ञेयः इतिअक्षय्यतृतीयानिर्णयः इयमेवतृतीयापरशुरामजयन्ती इयंरात्रिप्रथम- परशुरामजयन्ती यामव्यापिनीग्राह्या पूर्वेद्युरेवप्रथमयामव्याप्सौपूर्वा दिनद्वयेरात्रिमथमयामेसाम्येनवैषम्येणवैकदेशव्याप्तौपरा अत्रप्रदोषेपरशुरामंसम्पूज्यार्घ्यदद्यात् तत्र मन्त्रः जमग्निसुतोवीरक्षत्रियान्तकरप्रभो। गृहाणार्घ्यमयादत्तङ्कृपयापरमेश्वर १ इति वैशाखशुक्लसप्तम्याङ्गङ्गोत्पत्तिस्तस्याम्मध्याह्नव्यापिन्याङ्गङ्गापूजनङ्कार्यं दिनद्वयेतद्व्याम्प्तौपूर्वा वैशाखमासेद्वादश्याम्पूजयेन्मधुसूदनम्। अग्निष्टोममवाप्नोतिसोमलोकञ्चगच्छति १ वैशाखशुक्लचतुर्दशीनृसिंहजयन्ती सा सूर्यास्तमयकालव्यापिनीग्राह्या नृसिंहजयन्ती प्रयोगः दिनद्वयेतद्व्याप्तौतदव्याप्तौवापरैव स्वातीनक्षत्रशनिवारादियोगेसातिमशस्ता अथव्रतमयोगः त्रयोदश्याङ्कृतैकभक्तश्चतुर्दश्याम्मध्याह्नेतिलामलकैःस्नात्वा उपोष्येहन्नारसिंहभुक्तिमुक्तिफलप्रद। शरणन्त्वाम्प्रपन्नोऽस्मिभक्तिमेतृहरेदिश १ इति मन्त्रेणव्रतंसङ्कल्प्याचार्यकृत्वासायङ्कालेधान्यस्थोदकुम्भेपूर्णपात्रेसौवर्णप्रतिमायांषोडशोपचारैर्देवसम्पूज्यार्घ्यन्दद्यात् तत्रमन्त्रः परित्राणायसाधूनाञ्जातोविष्णोनृकेसरी।गृहाणार्घ्यमयादत्तंसलक्ष्मीर्तृहरिःस्वयम् १ रात्रौजागरणं कृत्वाप्रातर्देवंसम्पूज्यविसृज्याचार्यायधेनुयुताम्प्रतिमान्दद्यात् तत्रमन्त्रः नृसिंहाच्युतगोविन्दलक्ष्मीकान्तजगत्पते। अनेनार्चाप्रदानेनसफलाः स्युर्मनोरथाः १ अथमार्थना मद्वंशेयेनराजातायेजनियन्ति चापरे। तांस्त्वमुद्धरदेवेशदुःसहा द्भवसागरात् १ पातकार्णवमग्नस्यव्याधिदुःखाम्बुवारिधेः। नीचैश्चपरिभूतस्यमहादुःखागतस्यमे २ करावलम्बनन्देहिशेषशायिञ्जगत्पते। श्रीनृसिंहरमाकान्तभक्तानाम्भयनाशन ३ क्षीराम्बुधिनिवासस्त्वञ्चक्रपाणेज-

नार्दन। व्रतेनानेनदेवेशभुक्तिमुक्तिप्रदोभव ४ इति ततोब्राह्मणैः सहतिथ्यन्तेपारणं कार्यं यामत्रयोर्ध्वगामिन्याञ्चतुर्दश्यान्तुपूर्वाह्णेएवपारणम् पौर्णमास्यांशृतान्नसहितोदकुम्भदानेगोदानफलं स्वर्णतिलयुक्तद्वादशोदकुम्भदानेब्रह्महत्यापापान्मुक्तिः अत्रयथाविधिकृष्णाजिनदानेपृथ्वीदानफलं स्वर्णमधुतिलसर्पिर्युतकृष्णाजिनदा- तिलाजिनादिदानं नेसर्वपापनाशः अत्रतिलस्नानन्तिलहोमस्तिलपात्रदानन्तिलतैलेन दीपदानन्तिलैः पितृतर्पणम्मधुयुक्ततिलदानञ्चमहाफलं तत्रतिलदानमन्त्रः तिलावैसोमदैवत्याः सुरैः सृष्टास्तुगोसवे। स्वर्गप्रदाःस्वतन्त्राश्चतेमांरक्षन्तुनित्यशः १ वैशाखशुलृद्वादश्याम्पौर्णमास्यांवावैशाखस्त्रानोद्यापनम् एकादश्याम्पौर्णमास्यांवोपोष्यकलशे सुवर्णप्रतिमायांसलक्ष्मीकंविष्णुंसम्पूज्यरात्रौजागरणङ्कृत्वाप्रातर्ग्रहपूजनपूर्वकम्पायसेन तिलाज्यैर्वायवैर्वाअष्टोत्तरशतंहोमः प्रतद्विष्णुरितिवा इदंविष्णुरितिवा मन्त्रेणकार्यः साङ्गतार्थगोदानम्पादुकोपानहछत्रव्यजनोदकुम्भदानंशय्यादिदानञ्चकार्यम् अशक्तेनकुसराद्यन्नैर्दशब्राह्मणभोजनङ्कार्यम् एतत्पौर्णमासीमारभ्यज्येष्ठशुक्लैकादशीपर्यन्तञ्जलस्थविष्णुपूजोत्सवःकार्यः वैशाखामावास्याभावुकाख्यदिनन्तत्परङ्करिसञ्ज्ञकदिनञ्चशुभेषुवर्ज्यम् इतिश्रीमदनन्तोपाध्यायसूनुकाशीनाथोपाध्यायविरचितेधर्मसिन्न्धुसारेवैशाखमासकृसोदेशः॥

3. ज्येष्ठकृत्यम्

अथज्येष्ठकृत्यम् मिथुनसङ्क्रान्तौपराः षोडशनाड्यः पुण्यकालः रात्रौतुप्रागुक्तं ज्येष्ठमासेपिष्टेनब्रह्ममूर्तिकृत्वावस्त्राद्यैः पूजयेत्सूर्यलोकप्राप्तिः अत्रमासेजलधेनुदानमुक्तं ज्येष्ठशुक्लप्रतिपदिकरवीरव्रतमुक्तं ज्येष्ठशुक्लतृतीयायांरम्भावतंसापूर्वविद्धाग्राह्या यत्रपूर्वविद्धाग्राह्यतयोच्यतेतत्रास्तात्पूर्वन्द्विमुहूर्ताधिकायाग्राह्यत्वञ्ज्ञेयङ्ग्यूनायाः तत्रापिर्यादपरेद्युःसूर्यास्तमयपर्यन्तम्पूर्वविद्धायास्तिथेःसत्वन्तदासत्यपिपूर्वविद्धाग्राह्यत्ववचनेपूर्वविद्धान्त्यक्त्वा अखण्डत्वाच्छुद्धत्वात्परैवग्राह्या यदातुग्राह्यायाः पूर्वविद्धायाः पूर्वेद्युर्मुहूर्तद्वयान्न्यूनत्वम्परेद्युश्चास्तमयात्प्राक्समाप्तत्वन्तदापिपरैवग्राह्या एवं सर्वत्रोह्यं रम्भाव्रतेपञ्चाग्नितपनपरास्त्री पुमान्वाभवानींस्वर्णप्रतिमायांसम्पूज्ययथोक्तविधिहोमादिकृत्वासपत्नीकायगृहंसोपस्करन्दद्यात् दाम्पत्यानेभोजयेत् विशेषविधिर्वतग्रन्थेज्ञेयः चतुर्थ्यामुमावतारस्तत्रोमापूजनत्रतम् अष्टम्यांशुक्लादेवीपूज्या नवम्यामुपोष्यदेवीम्पूजयेत् ज्येष्ठशुक्लदशम्याङ्गङ्गावतारः इयन्दशहरासञ्ज्ञिका अत्रदशयोगाउक्ताः। ज्येष्ठमासि १ सितेपक्षे २ दशम्यां ३ बुध ४ हस्तयोः ५। व्यतीपाते दशहरा ६ गरानन्दे ७७८ कन्याचन्द्रे ९ वृषेरवौ १०। इति गराख्यङ्करणं बुधवारहस्तयोगे आनन्दाख्योयोगः अत्रदशमीव्यतीपातयोर्मुख्यत्वं तेनयस्मिन्दिनेकतिपययोगवतीदशमीपूर्वाह्णेलभ्यतेतत्रदशहराव्रतङ्कार्यं दिनद्वयेपूर्वाह्णेतत्सत्वेयत्रबहूनांयोगःसाग्राह्या ज्येष्ठेमलमासेसतितत्रैवदशहराकार्यानतुशुद्धे दशहरासुनोत्क-

र्षश्चतुर्ष्वपियुगादिष्वितिहेमाद्रौऋष्यशृङ्गोक्तेः अत्रकाशीवासिभिर्दशाश्वमेधतीर्थेस्नात्वागङ्गापूजनङ्कार्यम् इतरदेशस्थैःस्वसन्निहितनद्यांस्नात्वागङ्गापूजनादिकङ्कार्यम् अथ व्रतविधिः देशकालौसङ्कीर्त्यममैतज्जन्मजन्मान्तरसमुद्भूतत्रिविधकायिकचतुर्विधवाचिकत्रिविधमानसेतिस्कान्दोक्तदशविधपापनिरासत्रयस्त्रिंशच्छतपित्रुद्धारब्रह्मलोका- व्रतविधिः वाप्त्यादिफलप्राप्त्यर्थज्येष्ठमाससितपक्षदशमीबुधवारहस्ततारकागरकरणव्यतीपातानन्दयोगकन्या स्थचन्द्रदृषस्थसूर्येतिदशयोगपर्वण्यस्याम्महानद्यां स्नानन्तीर्थपूजनम्प्रतिमायाञ्जाह्नवीपूजतिलादिदानम्मूलमन्त्रजपमाज्यहोमञ्चयथाशक्तिकरिष्येयथाविधिस्नानन्दशवारङ्कृत्वाजलेस्थितोदशवारंसकृद्वावक्ष्यमाणंस्तोत्रं पठित्वा वासःपरिधानादिपितृतर्पणान्तन्नित्यंविधायतीर्थेपूजांविधायसर्पिर्मिश्रान्दशप्रसृतिकृष्णतिलान्तीर्थेञ्जलिनाप्रक्षिप्यगुडमिश्रान्सक्कुपिण्डान्दशप्रक्षिपेत् ततोगङ्गातटेताम्रेमृन्मयेवास्थापितेकलशेसौवर्णादिप्रतिमायाङ्गङ्गामावाहयेत् तत्रमन्त्रः नमोभगवत्यैदशपापहरायैगङ्गायैनारायण्यैरेवत्यैशिवायैदक्षायैअमृतायैविश्वरूपिण्यैनन्दिन्यैतेनमोनमः अयङ्ख्यादिसाधारणः द्विजमात्रविषयोविंशसक्षरोयथा ॐनमः शिवायैनारायण्यैदशहरायैगङ्गायैस्वाहेति एवङ्गङ्गामावाह्य नारायणरुद्रब्रह्माणंसूर्यं भगीरथंहिमाचलञ्चनाममन्त्रेणतत्रैवावाह्य उक्तमूलमन्त्रमुच्चार्यश्रीगङ्गायैनारायणरुद्रब्रह्मसूर्यभगीरथहिमवत्सहितायै आसनंसमर्पयामीत्येवमासनाद्युपचारैः पूजयेत् दशविधैः पुष्पैःसम्पूज्यदशाङ्गधूपन्दत्वादशविधनैवेद्यान्तेताम्बूलन्दक्षिणान्दत्वादशफलान्यर्पयेत् दशदीपान्दत्वापूजांसमापयेत् दशविप्रेभ्यःप्रत्येकंषोडशषोडशमुष्टितिलान् सदक्षिणान्दद्यात एवंयवानपि ततोदशगाएकांवागान्दद्यात् मत्स्यकच्छपमण्डूकान्सौवर्णान् राजतान् पिष्टमयान्वासम्पूज्यतीर्थेक्षिपेत् एवन्दीपान्प्रवाहयेत् जपहोमचिकीर्षायाम्पूर्वो-क्तमूलमन्त्रस्यपञ्चसहस्रसङ्ख्योजपोदशांशेनहोमः यथाशक्तिवाजपहोमौ तत्रदशहरा-व्रताङ्गत्वेनहोमङ्करिष्येईतिसङ्कल्प्यस्थण्डिलेग्निम्प्रतिष्ठाप्यान्वाधानेचक्षुषी आज्येनेत्यन्ते श्रीगङ्गाममुकसङ्ख्ययाज्येननारायणादिषड्देवताएकैकयाज्याहुत्याशेषेणस्विष्टकृतमि-त्यादिप्रोक्षण्यादिषट्पात्राण्यासाद्याज्यंसंस्कृत्यथान्वाधानञ्जुहुयात् दशब्राह्मणान् सुवासिनीश्चभोजयेत् प्रतिपहिनमारभ्यस्नानादिपूजान्तोविधिःकार्यइतिकेचित् स्तोत्रंयथास्कान्दे ब्रह्मोवाच नमः शिवायैगङ्गायैशिवदायैनमोनमः। नमस्तेरुद्ररूपिण्यै शाङ्कर्यैतेनमोनमः १ नमस्तेविश्वरूपिण्यैब्रह्ममूर्त्यैनमोनमः। सर्वदेवस्वरूपिण्यैनमोभेषजमूर्तये २ सर्वस्यसर्वव्याधीनाम्भिषक्श्रेष्ठ्यैनमोस्तुते। स्थाणुजङ्गमसम्भूतविषह्न्त्र्यै गङ्गास्तोत्रं नमोनमः ३ भोगोपभोगदायिन्यैभोगवसैनमोनमः। मन्दाकिन्यैनमस्तेस्तुस्वर्गदायैनमः सदा ४ नमस्त्रैलोक्यभूषायैजगद्धात्र्यैनमोनमः। नमस्त्रिशुक्लसंस्थायैतेजोवत्यैनमोनमः ५ नन्दायैलिङ्गधारिण्यैनारायण्यैनमोनमः। नमस्तेविश्वसु-

ख्यायैरेवत्यैतेनमोनमः ६ बृहत्यैतेनमस्तेस्तुलोकधात्र्यैनमोनमः। नमस्तेविश्वमित्रायै नन्दिन्यैतेनमोनमः ७ पृथ्व्यैशिवामृतायैचसुदृषायैनमोनमः। शान्तायैचवरिष्ठायै वरदायैनमोनमः ८ उस्रायैसुखदोग्ध्र्यैचसञ्जीविन्यैनमोनमः। ब्रह्मिष्ठायैब्रह्मदायै दुरितभ्यैनमोनमः ९ प्रणतार्तिप्रभञ्जिन्यैजगन्मात्रेनमोस्तुते। सर्वापत्प्रतिपक्षायैमङ्गलायैनमोनमः १० शरणागतदीनार्तपरित्राणपरायणे। सर्वस्यार्तिहरेदेविनारायणि नमोस्तुते ११ निर्लेपायैदुर्गहन्त्र्यैदक्षायैतेनमोनमः। परात्परतरेतुभ्यन्नमस्तेमोक्षदे सदा १२ गङ्गेममाऽग्रतोभूयागङ्गेमेदेविपृष्ठतः। गङ्गेमेपार्श्वयोरेहित्वयिगङ्गेस्तुमे स्थितिः १२ आदौत्वमन्तेमध्येचसर्वत्वङ्गाङ्गतेशिवे। त्वमेवमूलप्रकृतिस्त्वंहिनारायणः परः १४ गङ्गेत्वम्परमात्माचशिवस्तुभ्यन्नमः शिवे। यइदम्पठतिस्तोत्रम्भत्तयानित्यं नरोपियः १५ शृणुयाच्छ्रद्धयायुक्तःकायवाञ्चित्तसम्भवैः। दशधासंस्थितैर्दोषैः सर्वैरेवप्रमुच्यते १६ सर्वान्कामानवाप्नोतिप्रेत्यब्रह्मणिलीयते। ज्येष्ठेमासिसितेपक्षे दशमीहस्तसंयुता १७ तस्यान्दशम्यामेतच्चस्तोत्रङ्गङ्गाजलेस्थितः। यः पठेहशकृत्वस्तु दरिद्रोवापिचाक्षमः १८ सोपितत्फलमानोतिगङ्गांसम्पूज्ययत्नतः। अदत्तानामुपादानंहिंसाचैवाविधानतः १९ परदारोपसेवाचकायिकन्त्रिविधंस्मृतम् पारुष्यमनृतञ्चैवपैशून्यञ्चापिसर्वशः २० असम्बद्धमलापश्चवाङ्मयस्याच्चतुर्विधम्। परद्रव्येष्वभिध्या-नम्मनसानिष्टचिन्तनम् २१ वितथाभिनिवेशश्चमानसन्त्रिविधंस्मृतम्। एतानिदशपापानिहरत्वम्ममजाह्नवि २२ दशपापहरायस्मात्तस्माद्दशहरास्मृता। त्रयस्त्रिंशच्छतम्पूर्वापितॄनथपितामहान् २३ उद्धरत्येवसंसारान्मन्त्रेणानेनपूजिता। नमो भगवत्यैदशपापहरायैगङ्गायैनारायण्यैरेवत्यैशिवायैदक्षायैअमृतायैविश्वरूपिण्यैनन्दिन्यैतेनमोनमः सितमकरनिषण्णांशुभ्रवर्णात्रिनेत्राङ्करभृतकलशोद्यत्सोत्पलामत्यभीष्टाम्। विधिहरिहर-रूपांसेन्दुकोटीरजुष्टाङ्कलितसितदुकूलाञ्जाह्नवीन्तान्नमामि १ आदावादिपितामहस्यनि गमव्यापारपात्रेजलम्पश्चात्पन्नगशायिनोभगवतःपादोदकम्पावनम्म्। भूयः शम्भुजटावि-भूषणमणिर्जह्नोर्महर्षेरियन्देवीकल्मषनाशिनीभगवतीभागीरथीदृश्यते २ गङ्गागङ्गेतियोब्रूयाद्योजनानांशतैरपि। मुच्यतेसर्वपापेभ्योविष्णुलोकंसगच्छति ३ इतिस्तोत्रेणस्तुत्वाहोमान्तेप्रतिमोत्तरपूजाङ्कृत्वाविसृज्याचार्यायमूलमन्त्रणदद्यात् इतिदशहराविधिः॥ ज्येष्ठशुक्लैकादशीनिर्जला अस्यान्नित्याचमनादिव्यतिरिक्तजलपानवर्जनेनोपवासेकृतेद्वादशैकादश्युपवासफलं द्वादश्याञ्चनिर्जलोपोषितैकादशीव्रताङ्गत्वेनसहिरण्यसशर्करोदकुम्भदानङ्करिष्येइतिसङ्कल्प्य देवदेवहृषीकेशसंसारार्णवतारक। उदकुम्भप्रदानेनयास्यामिपरमाङ्गतिम् १ इतिमन्त्रेणशर्करायुतंसहिरण्यमुदकुम्भन्दद्यात् ज्येष्ठमाससितद्वादश्यामहोरात्रन्त्रिविक्रमपूजनाद्गवामयनारूयक्रतुफलसिद्धिः ज्येष्ठपौर्णमास्यान्तिलदानादश्वमेधफलं ज्येष्ठानक्षत्रयुतायाञ्ज्यैष्ठ्याञ्छत्रोपानहदानान्नराधिप-

त्यप्राप्तिः ज्येष्ठपूर्णिमायाम्बिल्वत्रिरात्रिव्रतमुक्तम् अत्रपरविद्धाग्राह्या अस्यामेववटसावित्रीव्रतम् अत्रव्रतेत्रयोदश्यादिदिनत्रयमुपवासः अशक्तौतुत्रयोदश्यान्नक्तं चतुर्दश्यामयाचितं पौर्णमास्यामुपोषणम् अत्रपौर्णमासीनिर्णयानुसारेणयथात्रिरात्रं भवेत्तथा वटसावित्रीब्रतं. त्रयोदश्यादिदिनत्रयङ्ग्राह्यं तत्रपौर्णिमा सूर्यास्तमयात्पूर्वत्रिमुहूर्ताधिकव्यापिनीचतुर्दशीविद्धाग्राह्या त्रिमुहूर्तन्यूनत्वेपरैव भूतोऽष्टादशनाडीभिर्दूषयत्युत्तरान्तिथिमितिवचनंसावित्रीव्रतातिरिक्तेज्ञेयं सावित्री व्रतोपवासेऽष्टादशनाडीविद्धायाअपिग्राह्यत्वात् यत्तुकेवलपूजनात्मकमुपवासरहितंसावित्री व्रतंसर्वत्रस्त्रियोनुतिष्ठन्ति तत्र भूतोष्टादशेतिवेधोव्रतदानादिपरोनतूपवासपरइतिनिर्णयसिन्धुलिखितमाधवाशयानुसारेणाष्टादशनाडीचतुर्दशीसत्वेपरैवपूजावतेग्राह्या उपवासवतेतुपूर्वेति ममप्रतिभाति अत्रपारणम्पूर्णिमान्तेकर्तव्यम् अत्ररजस्वलादिदोषेपूजादिब्राह्मणद्वारा कार्यं स्वयमुपवासादिकङ्कार्त्यमियादयःस्त्रीव्रतेविशेषाः प्रथमपरिच्छेदेज्ञेयाः अत्रपू-जोद्यापनादिविधिर्व्रतग्रन्थेप्रसिद्धः अत्रज्येष्ठपौर्णिमायाञ्ज्येष्ठानक्षत्रेबृहस्पतिश्चन्द्रश्चरोहिणी नक्षत्रेतुसूर्यस्तदामहाज्यैष्ठीतियोगस्तत्रस्नानदानादिकङ्कार्यम् अस्याः पौर्णमास्या मन्वादित्वादत्रपिण्डरहितंश्राद्धमुक्तम् एतन्निर्णयश्चैत्रेउक्तः अत्रमासेविप्रेभ्यश्चन्दनव्यजनोदकुम्भादिकन्त्रिविक्रमप्रीतयेदेयम् इतिश्रीमदनन्तोपाध्यायसूनुकाशीनाथो-पाध्यायविरचितेधर्मसिन्धुसारेज्येष्ठमासनिर्णयोद्देशः॥

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬