🕉️ 24 November 2026, Tuesday · 08:07:58 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← निर्णयसिन्धु — परिच्छेद-सूची

📖 निर्णयसिन्धु · तृतीय परिच्छेद (पूर्वार्ध) — संस्कार, विवाह, प्रतिष्ठा आदि प्रकीर्ण · पृष्ठ 37/87

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

दोलारोहः

अथ दोलारोहः। पारिजाते बृहस्पतिः - दोलारोहस्तु कर्तव्यो दशमे द्वादशेऽपि वा। षोडशे दिवसे वापि द्वाविंशे दिवसेऽपि वा॥' ज्योतिर्निबन्धे- 'करत्रये वैष्णवरेवतीष्वदितिद्वये वाश्विनकध्रुवेषु। कुर्याच्छिशूनां नृपतेश्च तद्वदान्दोलनं वै सुखिनो

अन्योऽपि विशेषस्तेनोक्तः– 'द्व्यक्षरं चतुरक्षरं वा, व्यक्षरं प्रतिष्ठाकामः, चतुरक्षरं ब्रह्मवर्चसकामः। युग्मानि त्वेव पुंसामयुजानि स्त्रीणाम्' इति। अस्य नारायणीयवृत्तिस्तु-द्वे अक्षरे यस्य तत् द्व्यक्षरं व्यञ्जनमपरिमितं, चतुरक्षरं वा उक्तलक्षणं नाम कुर्युः। भद्रः देवः भवः भवनाथः नागदेवः रुद्रदत्तः देवदत्तः इत्येवंलक्षणानि नामानि भवन्ति। अक्षरं चतुरक्षरं वेति यदुक्तं तत्काम्यमपीत्याह [व्यक्षरमिति ] प्रतिष्ठाब्रह्मवर्चसे च कुमारस्थ; तत्संस्कारत्वात्, न कर्तुः। अथवा युग्मानि युग्माक्षरराणि पुंसां नामधेयानि भवन्ति। एवकारोऽवधारणार्थः। कथं युग्ममेवाद्रियेत न पूर्वाणि लक्षणानीति तेन शिवदतः, नागदत्तः, देवस्वामी, वसुशर्मा, रुद्रः, जनार्दनः, वेदघोषः, पुरन्दरः, विष्णुशर्शा इत्यादि सिद्धम्। अयुजान्ययुग्माक्षराणि स्त्रीणां नामानि भवन्ति। सुभद्रा सावित्री सत्यदा वसुदा इत्यादि' इति।

भवन्ति॥' तत्रैव-‘आन्दोलाशयने पुंसो द्वादशो दिवसः शुभः। त्रयोदशस्तु कन्याया न नक्षत्रविचारणा॥ अन्यस्मिन्दिवसे चेत्स्यात्तिर्यगास्ये प्रशस्यते॥’

दुग्धपानम्

अथ दुग्धपानम्। नृसिंहः- 'एकत्रिंशद्दिने चैव पयः शङ्खेन पाययेत्। अन्नप्राशननक्षत्रे दिवसोदयरात्रिषु।'

कर्णवेधः

अथ कर्णवेधः। मदनरत्ने वसिष्ठश्रीधरौ - 'मासे षष्ठे सप्तमे बाष्टमे वा वेध्यौ कर्णौ द्वादशे षोडशेऽह्नि। मध्येनाह्नः पूर्वभागे न रात्रौ नक्षत्रे द्वे द्वे तिथी वर्जयित्वा॥' अत्र जन्ममासो वर्ज्यः। ज्योतिर्निबन्धे गर्गः- 'मासे षष्ठे सप्तमे वाऽप्यष्टमे मासि वत्सरे। कर्णवेधं प्रशंसन्ति पुष्ट्यायुःश्रीविवृद्धये॥' मदनरत्ने- 'प्रथमे सप्तमे मासि अष्टमे दशमेऽथ वा। द्वादशे च तथा कुर्यात्कर्णवेधं शुभावहम्॥' हेमाद्रौ व्यासः- 'कार्तिके पौषमासे वा चैत्रे वा फाल्गुनेऽपि वा। कर्णवेधं प्रशंसन्ति शुक्लपक्षे शुभे दिने॥' श्रीधरः- 'हरिहयकरचित्रासौम्यपौष्णोत्तरार्यादितिवसुषु घटालीसिंह-वर्ज्ये सुलग्ने। शशिगुरुबुधकाव्यानां दिने पर्वरिक्तारहिततिथिषु शुद्धे नैधने कर्णवेधः॥' मदनरत्ने बृहस्पतिः - 'द्वितीया दशमी षष्ठी सप्तमी च त्रयोदशी। द्वादशी पञ्चमी शस्ता तृतीया कर्णवेधने॥ सौवर्णी राजपुत्रस्य राजती विप्रवैश्ययोः। शूद्रस्य चायसी सूची मध्यमाऽष्टाङ्गुलात्मिका। 'हेमाद्रौ देवलः - 'कर्णरन्ध्रे रवेश्छाया न विशेदग्रजन्मनः। तं दृष्ट्वा विलयं यान्ति पुण्यौघाश्च पुरातनाः॥' शङ्खः- 'अङ्गुष्ठमात्रसुषिरौ कर्णौ न भवतो यदि। तस्मै श्राद्धं न दातव्यं दत्तं चेदासुरं भवेत्॥'

ताम्बूलभक्षणम्

अथ ताम्बूलभक्षणम्। चण्डेश्वरः- 'सार्धमासद्वये दद्यात्ताम्बूलं प्रथमं शिशोः। कर्पूरादिकसम्मिश्रं विलासाय हिताय च॥ मूलार्कचित्रकरतिष्य हरीन्द्रभेषु पौष्णे तथा मृगशिरोदितिवासवेषु। अर्केन्दुजीव भृगुबोधनवासरेषु ताम्बूलभक्षणविधिर्मुनिभिः प्रदिष्टः॥'

निष्क्रमणम्

अथ निष्क्रमणम्। ज्योतिर्निबन्धे- 'तृतीये वा चतुर्थे वा मासि निष्क्रमणं भवेत्॥' यमः - 'ततस्तृतीये कर्तव्यं मासि सूर्यस्य दर्शनम्। चतुर्थे मासि कर्तव्यं शिशोश्चन्द्रस्य दर्शनम्॥' अत्र- 'सूर्येन्द्वोः कर्मणी ये च तयोः श्राद्धं न विद्यते।' इति छन्दोगपरिशिष्टात् 'छन्दोगानां निष्क्रमणे वृद्धिश्राद्धं नास्ति' इति कल्पतरुः। व्यासः - 'मैत्रे पुष्यपुनर्वसुप्रथमभे पौष्णेऽनुकूले विधौ हस्ते चैव सुरेश्वरे च मृगभे तारासु शस्तासु च। कुर्यान्निष्क्रमणं शिशोर्बुधगुरौ शुक्रे विरिक्ते तिथौ कन्याकुम्भतुलामृगारि - भवने सौम्यग्रहालोकिते॥' मदनरत्ने - 'अन्नप्राशनकाले वा कुर्यान्निष्क्रमणक्रियाम्॥' विष्णुधर्मे - 'दिगीशानां दिने तत्र तथा चन्द्रार्कयोर्द्विजः। पूजनं वासुदेवस्य गगनस्य

वचनमिदं परिसङ्ख्याविधया। 'शिशोर्विवर्धन कार्यं यावदाभरणक्षमम्।' इति संस्कारकौस्तुभोक्तविष्णुधर्मोक्तवाक्यतो यथेच्छाभरणानुकूल्येनाङ्गुष्ठाधिकच्छिद्रनिरासार्थम्, न तु विधेयाङ्गुष्ठमात्रच्छिद्रविध्यर्थम्। तथा सति सूर्यच्छायाप्रवेशानुकूलच्छिद्रनियामकदेवलवाक्यवैयर्थ्यापत्तिः।

च कारयेत्॥ बहिर्निष्कासयद्गहात् शङ्खपुण्याहनिखनैः॥ चन्द्रार्कयोर्दिगीशानां दिशां च गगनस्य च। निक्षेपार्थमिमं दद्मि ते मे रक्षन्तु सर्वदा॥ अप्रमत्तं प्रमत्तं वा दिवारात्रमथापि वा। रक्षन्तु सततं सर्वे देवाः शक्रपुरोगमाः॥' माधवीये मार्कण्डेयः— 'अग्रतोऽथ प्रविन्यस्य शिल्पभाण्डानि सर्वशः। शस्त्राणि चैव वस्त्राणि ततः पश्येत्तु लक्षणम्। प्रथमं यत्स्पृशेद्वालस्ततो भाण्डं स्वयं तदा। जीविका तस्य बालस्य तेनैव तु भविष्यति॥' इति।

उपवेशनम्

अथोपवेशनम्। प्रयोगपारिजाते पाद्मे विष्णुधर्मे च– पञ्चमे च तथा मासि भूमौ तमुपवेशयेत्। तत्र सर्वे ग्रहाः शस्ता भौमोऽप्यत्र विशेषतः॥ उत्तरात्रितयं सौम्यं पुष्यर्क्षं शक्रदैवतम्। प्राजापत्यं च हस्तश्च शस्तमाश्विनमित्रभम्॥ वाराहं पूजयेद्देवं पृथिवीं च तथा द्विजः। रक्षैनं वसुधे देवि सदा सर्वगतं शुभे॥ आयुःप्रमाणं सकलं निक्षिपस्व हरिप्रिये। अचिरादायुषस्त्वस्य ये केचित्परिपन्थिनः॥ जीवितारोग्यवित्तेषु निर्दहस्वाचिरेण तान्। वरेण्याशेषभूतानां माता त्वमसि कामधुक्॥ अजरा चाप्रमेया च सर्वभूतनमस्कृता॥ चराचराणां भूतानां प्रतिष्ठानाव्यया ह्यसि। कुमारं पाहि मातस्त्वं ब्रह्मा तदनुमन्यताम्॥ '

आन्नप्राशनम्

अथान्नप्राशनम्। पारिजाते नारदः– 'जन्मतो मासि षष्ठे स्यात्सौरेणान्नाशनं परम्। तदभावेऽष्टमे मासि नवमे दशमेऽपि वा॥ द्वादशे वापि कुर्वीत प्रथमान्नाशनं परम्। संवत्सरे वा सम्पूर्णे केचिदिच्छन्ति पण्डिताः॥' मदनरत्ने लौगाक्षिः– षष्ठेऽन्नप्राशनं जातेषु दन्तेषु वा' इति। शङ्खः– 'संवत्सरेऽन्नप्राशनमर्धसंवत्सरे वा' इति। ज्योतिर्निबन्धे नारदः– 'षष्ठे वाऽप्यष्टमे मासि पुंसां, स्त्रीणां तु पञ्चमे। सप्तमे मासि वा कार्यं नवान्नप्राशनं शुभम्॥ रिक्तां दिनक्षयं नन्दां द्वादशीमष्टमीममाम्। त्यक्त्वाऽन्यतिथयः प्रोक्ताः सितजीवज्ञवासराः॥ चन्द्रवारं प्रशंसन्ति कृष्णे चान्त्यत्रिकं विना॥ श्रीधरः– 'आदित्यतिष्यवसुसौम्यकरानिलाश्विचित्राजविष्णुवरुणोत्तरपौष्णमित्राः। बालान्नभोजनविधौ दशमे विशुद्धे छिद्रां विहाय नवमीं तिथयः शुभाः स्युः॥' वसिष्ठः– 'बालान्नभुक्तौ व्रतबन्धने च राजाभिषेके खलु जन्मधिष्ण्यम्। शुभं त्वनिष्टं सततं विवाहे सीमन्तयात्रादिषु मङ्गलेषु॥' मार्कण्डेयविष्णुधर्मयोः– 'ब्रह्माणं शङ्करं विष्णुं चन्द्रार्कौ च दिगीश्वरान्। भुवं दिशश्च सम्पूज्य हुत्वा वह्नौ तथा चरुम्॥ देवतापुरतस्तस्य धात्र्युत्सङ्गगतस्य च। अलङ्कृतस्य दातव्यमन्नं पात्रे सकाञ्चनम्॥ मध्वाज्यदधिसंयुक्तं प्राशयेत्पायसं [] तु वा॥' इति॥

आब्दपूर्तिः

अथाब्दपूर्तिः। व्यवहारनिर्णये– 'नवाम्बरधरो भूत्वा पूजयेच चिरायुषम्।

मार्कण्डेयं नरो भक्त्या पूजयेत्प्रयतस्तथा॥ ततो दीर्घायुषं व्यासं रामं द्रौणिं कृपं बलिम्। प्रह्रादं च हनूमन्तं बिभीषणमथार्चयेत्॥ स्वनक्षत्रं जन्मतिथिं प्राप्य सम्पूजयेन्नरः। षष्ठीं च दधिभक्तेन वर्षे वर्षे पुनः पुनः॥' तिथितत्त्वे एतन्नामभिस्तिलहोमोऽप्युक्तः। आदित्यपुराणे– 'सर्वेश्च जन्मदिवसे स्नातैर्मङ्गलवारिभिः। गुरुदेवाग्निविप्राश्च पूजनीयाः प्रयत्नतः॥ स्वनक्षत्रं च पितरौ तथा देवः प्रजापतिः। प्रतिसंवत्सरं यत्नात्कर्तव्यश्च महोत्सवः॥' कृत्यचिन्तामणौ– 'गुडदुग्धतिलान्दद्याद्धस्ते ग्रन्थौ च बन्धयेत्। गुग्गुलं निम्बसिद्धार्थदूर्वागोरोचनादिकम्॥ सम्पूज्य भानुविघ्नेशौ महर्षिं प्रार्थयेदिदम्। चिरञ्जीवी यथा त्वं भो भविष्यामि तथा मुने॥ रूपवान् वित्तवांश्चैव श्रिया युक्तश्च सर्वदा। मार्कण्डेय नमस्तेऽस्तु सप्तकल्पान्तजीवन॥ आयुरारोग्यसिद्ध्यर्थं प्रसीद भगवन्मुने। चिरञ्जीवी यथा त्वं तु मुनीनां प्रवर द्विज॥ कुरुष्व मुनिशार्दूल तथा मां चिरजीविनम्। मार्कण्डेय महाभाग सप्तकल्पान्तजीवन। आयुरारोग्यसिद्ध्यर्थमस्माकं वरदो भव। सतिलं गुडसम्मिश्रमञ्जल्यर्ध – मितं पयः॥ मार्कण्डेयाद्वरं लब्ध्वा पिबाम्यायुर्विवृद्धये॥' इति पयः पिबेत्। तिथितत्त्वे स्कान्दे– 'खण्डनं नखकेशानां मैथुनाध्वागमौ तथा। आमिषं कलहं हिंसां वर्षवृद्धौ विवर्जयेत्॥' तत्रैव दीपिकायाम्– 'कृतान्तकुजयोर्वारे यस्य जन्मतिथिर्भवेत्। अनृक्षयोगसम्प्राप्तौ विघ्नस्तस्य पदे पदे॥' कृतान्तः शनिः। 'तस्य सर्वौषधिस्त्रानं गुरुदेवाग्निपूजनम्॥' वृद्धमनुः– 'मृते जन्मनि सङ्क्रान्तौ श्राद्धे जन्मदिने तथा। अस्पृश्यस्पर्शने चैव न स्नायादुष्णवारिणा॥' अत्र जन्मतिथिरौदयिकी ग्राह्या; 'युगाद्या वर्षवृद्धिश्च सप्तमी पार्वतीप्रिया। रवेरुदयमीक्षन्ते न तत्र तिथियुग्मता॥' इति कृत्यतत्त्वार्णवे वचनात्। विशेषो मत्कृतशूद्रधर्मे ज्ञेयः॥

कटिसूत्रम्

अथ कटिसूत्रम्। प्रयोगपारिजाते ब्राह्मे– 'प्रतिसंवत्सरान्तर्क्षे वक्ष्ये नृणां विधिं परम्। दत्त्वा गोभूहिरण्यादि तथा स्वर्णादिनिर्मितम्॥ बध्नीयात्कटिसूत्रं च वासः सङ्गृह्य नूतनम्। दूर्वाङ्कुरैरथाज्येन चरुणा वा पिनाकिनम्। आयुष्यहोमं कृत्वा च तर्पयेत्पितृदेवताः॥'

चौलसंस्कारः। —

चौलम्

अथ चौलम्। प्रयोगपारिजाते षड्गुरुशिष्यः– 'जाताधिकाराज्जन्मादितृतीयेऽब्दे तु चौलकम्। आद्येऽब्दे कुर्वते केचित्पञ्च्मेऽब्दे द्वितीयके॥ उपनीत्या सहैवेति विकल्पाः कुलधर्मतः॥' बृहस्पतिः– 'तृतीयेऽब्दे शिशोर्गर्भाज्जन्मतो वा विशेषतः। पञ्चमे सप्तमे वापि स्त्रियाः पुंसोऽपि वा समम्॥' तत्रैव नारदः– 'जन्मतस्तु तृतीयेऽब्दे श्रेष्ठमिच्छन्ति पण्डिताः। पञ्चमे सप्तमे वापि जन्मतो मध्यमं भवेत्॥ अधमं गर्भतः स्यात्तु नवमैकादशेऽपि वा॥” इति। पारिजाते बृहस्पतिः– 'उत्तरायणगे सूर्ये विशेषात्सौम्यगोलके। शुक्लपक्षे शुभं प्रोक्तं कृष्णपक्षे शुभेतरत्॥ अशुभोऽन्त्यत्रिभागः स्यात्कृष्णपक्षे त्रिधाकृते।’ तत्रैव वसिष्ठः– 'द्वित्रिपञ्चमसप्तम्यामेकादश्यां तथैव च। दशम्यां च त्रयोदश्यां– कार्यं क्षौर विजानता॥' नृसिंहीये– 'पष्ट्यष्टमी चतुर्थी च नवमी च चतुर्दशी। द्वादशी दर्शपूर्णे द्वे प्रतिपञ्चैव निन्दिताः॥' वसिष्ठः– 'रवेरङ्गारकस्यैव सूर्यपुत्रस्य चैव हि। निन्दिता दिवसाः क्षौरे शेषाः कार्यकराः स्मृताः॥' ज्योतिर्निबन्धे बृहस्पतिः–'पापग्रहाणां वारादौ विप्राणां शुभदं रखौ। क्षत्रियाणां क्षमासूनौ विट्शूद्राणां शनौ शुभम्॥ हस्ताश्विविष्णुपौष्णाश्च श्रविष्ठादित्यपुष्यभम्। सौम्यचित्रे नवक्षौरे उत्तमा नव तारकाः॥ त्रीण्युत्तराणि वायव्यं रोहिणी वारुणं तथा। क्षौरे षण्मध्यमाः प्रोक्ताः शेषा द्वादश गर्हिताः॥ निधने जन्मनक्षत्रे वैनाशे चन्द्रमेऽष्टमे। विपत्करे वधे क्षौरं प्रत्यरे च विवर्जयेत्॥' अथ लग्नशुद्धिरन्ये च योगा ज्योतिर्विद्भ्यो ज्ञेयाः। अन्ये च विशेषाः श्मश्रुकर्मनिर्णये वक्ष्यन्ते।

एतच्च शिशोर्मातरि गर्भिण्यां न कार्यम्। तदाह ज्योतिर्निबन्धे मदनरत्ने च वृद्धगार्ग्यः– 'पुत्रचूडाकृतौ माता यदि सा गर्भिणी भवेत्। शस्त्रेण मृत्युमाप्नोति तस्मात्क्षौरं विवर्जयेत्॥' अस्यापवादमाह तत्रैव नारदः :– सूनोर्मातरि गर्भिण्यां चूडाकर्म न कारयेत्। पञ्चाब्दात्प्रागथोर्ध्वं तु गर्भिण्यामपि कारयेत्। यदि गर्भविपत्तिः स्याच्छिशोर्वा मरणं यदि। सहोपनीत्या कुर्याच्चेत्तदा दोषो न विद्यते॥' वृहस्पतिः– 'गर्भिण्यां मातरि शिशोः क्षौरकर्म न कारयेत्। व्रताभिषेकेऽप्येवं स्यात्कालो वेदव्रतेष्वपि॥' अभिषेकः=समावर्तनम्। ‘गर्भिण्यामपि पञ्चममासपर्यन्तं न दोषः इत्युक्तं मुहूर्तदीपिकायां गर्गेण– 'पञ्चममासादूर्ध्वं मातुर्गर्भस्य जायते मृत्युः' इति। मदनरत्ने बृहस्पतिः– 'पुत्रचूडाकृतौ माता गर्भिणी यदि वा भवेत्। विपद्यते गुरुस्तत्र दम्पती शिशुरब्दतः॥ गर्भे मातुः कुमारस्य न कुर्याच्चौलकर्म तु। पञ्चमासादधः कुर्यादत ऊर्ध्वं न कारयेत्॥' गर्गः– 'ज्वरस्योत्पादनं यस्य लग्नं तस्य न कारयेत्। दोपनिर्गमनात्पश्चात्स्वस्थो धर्मं समाचरेत्॥' लग्नमिति मङ्गलोपलक्षणम्। ज्योतिर्गर्गः– 'विवाहोत्सवयज्ञेषु माता यदि रजस्वला। तदा स मृत्युमाप्नोति पञ्चमं दिवसं विना॥' वसिष्ठः :– 'यस्य माङ्गलिकं कार्यं तस्य माता रजस्वला।' अर्धं तदेव। तत्रैव बृहस्पतिः– 'प्राप्तमभ्युदयश्राद्धं पुत्रसंस्कारकर्मणि। पत्नी रजस्वला चेत्स्यान्न कुर्यात्तत्पिता तदा॥' पितेति कर्तृमात्रोपलक्षणम्। सङ्कटे तु वाक्यसारे उक्तम्– 'अलाभे सुमुहूर्तस्य रजोदोषे ह्युपस्थिते। श्रियं सम्पूज्य विधिवत्ततो मङ्गलमाचरेत्॥'

एतच मण्डनोत्तरं न कार्यम्; 'न मण्डनाच्चापि हि मुण्डनं च गोत्रैकतायां यदि नाब्दभेदः।' इति मदनरत्ने वसिष्ठोक्तेः। तत्रैव कात्यायनः– 'कुले ऋतुत्रयादर्वाङ् मण्डनान्न तु मुण्डनम्। प्रवेशान्निर्गमो नेष्टो न कुर्यान्मङ्गलत्रयम्॥' तथा वृद्धमनुः– 'एकमातृजयोरेकवत्सरे पुरुषस्त्रियोः। न समानक्रियां कुर्यान्मातृभेदे विधीयते॥' आशौचे सङ्ग्रहे– 'सङ्कटे समनुप्राप्ते सूतके समुपागते। कूष्माण्डीभिर्घृतं हुत्वा गां च दद्यात्पयस्विनीम्॥ चूडोपनयनोद्वाहप्रतिष्ठादिकमाचरेत्।' इति। ज्योतिर्निबन्धे– 'षष्ठेऽब्दे षोडशे वर्षे विवाहाब्दे तथैव च। अन्तर्वत्न्यां च जायायां नेष्यते मुण्डनं क्वचित्॥' अन्योऽपि विशेषो विवाहप्रकरणे वक्ष्यते। दीपिकायाम्– 'न चूडा जन्मभाग्नेयदारुणेषु शनौ कुजे। प्रतिपद्भद्ररिक्तासु विद्यारम्भस्तु पञ्चमे॥'

प्रयोगरत्ने – 'मध्ये शिरसि चूडा स्याद्वासिष्ठानां तु दक्षिणे। उभयोः पार्श्वयोरत्रिकश्यपानां शिखा मता॥' माधवीयेऽप्येवम्। आपस्तम्बस्त्वाह– 'तूष्णीं केशान्विनीय यथर्षि शिखा निदधाति। यथर्षि = प्रवरसङ्ख्यया। तासां मध्यशिखावर्जमुपनयने वपनं कार्यम्, प्रतिदिशं प्रवपति' इत्युपनयने तेनैवोक्तेः। 'रिक्तो वा एषोऽनपिहितो यन्मुण्डस्तस्मै तदपिधानं यच्छिखा' इति श्रुतेः, 'विशिखो व्युपवीतश्च यत्करोति न तत्कृतम्।' इति निषेधाच्च। सत्रे तु वचनात्सशिखं वपनमिति सुदर्शनभाष्ये उक्तम्। यत्तु – 'कुमारा विशिखा इव' इति लिङ्गं तच्छन्दोगपरम्। अपरार्के मदनरत्ने च लौगाक्षिः– 'दक्षिणतः कमुञ्जा वसिष्ठानामुभयतोऽत्रिकश्यपानां मुण्डा भृगवः पञ्चचूडा आङ्गिरसो वाजिमेके मङ्गलार्थं शिखिनोऽन्ये यथाकुलधर्मं वा' इति। कमुञ्जा = शिखा। वाजिः =केशपङ्किः। स्मृतिदर्पणे– 'एका शिखा दक्षिणतो वसिष्ठगोत्रस्य पञ्चाङ्गिरसो भृगोस्तु। नैका शिखा कश्यपगोत्रजानां शिखोभयत्रापि यथाकुलं च॥' –एतच्छूद्रातिरिक्तविषयम्; 'शूद्रस्यानियताः केशवेशाः' इति वसिष्टोक्तेः। यत्तु पाद्मे– 'न शिखी नोपवीती स्यान्नोच्चरेत्संस्कृतां गिरम्।' इति शूद्रमुपक्रम्योक्तम्, तदसच्छूद्रस्येति केचित्। विकल्प इति तु युक्तम्। अत एव हारीतः– 'स्त्रीशूद्रौ तु शिखां छित्त्वा क्रोधाद्वैराग्यतोऽपि वा। प्राजापत्यं प्रकुर्यातां निष्कृतिर्नान्यथा भवेत्॥' – एतत्परिग्रहपक्षे। अत्र देशभेदाद्व्यवस्थेति दिक्।

ज्योतिर्निबन्धे– 'नर्मदोत्तरदेशे तु सिंहस्थे देवमन्त्रिणि। शुभकर्म न कुर्वीत निषेधो नास्ति दक्षिणे॥' अत्र भोजने प्रायश्चित्तमुक्तं पराशरमाधवीये– 'निवृत्ते चूडहोमे तु प्राङ् नामकरणात्तथा। चरेत्सान्तपनं भुक्त्वा जातकर्मणि चैव हि॥ अतोऽन्येषु तु संस्कारेषूपवासेन शुद्ध्यति। 'एते संस्काराः स्त्रीणाममन्त्रकाः कार्याः, होमस्तु समन्त्रक इति प्रयोगपारिजाते। आश्वलायनोऽपि– 'होमकृत्यं तु पुंवत्स्यात्स्त्रीणां चूडाकृतावपि।' इति। मनुरपि– 'अमन्त्रिका तु कार्येयं स्त्रीणामावृदशेषतः।' इति। होमोऽप्यमन्त्रक इत्येके। 'संस्काराः स्त्रीणामहोमकास्तूष्णीं स्युः' इति स्मृत्यर्थसारे। होमो नेति वृत्तिकृत्॥

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬