निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
← निर्णयसिन्धु — परिच्छेद-सूची
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथ विद्यारम्भः। मदनरत्ने नृसिंहः– 'अक्षरस्वीकृतिं कुर्यात्प्राप्ते पञ्चमहायने। उत्तरायणगे सूर्ये कुम्भमासं विवर्जयेत्॥' दीपिकायाम् – 'वर्षे पर्जन्यके काले षष्ठीं रिक्तां शनिं कुजम्। अनध्यायान्विना नत्वा देवं ग्रन्थकृतं गुरुम्॥ श्रीधरः– 'हस्तादित्यसमीरमित्रपुरजित्पौष्णाश्विचित्राच्युतेष्वारार्क्यंशदिनो–दयादिरहिते राशौ स्थिरे चोभये। पक्षे पूर्णनिशाकरे प्रतिपदं रिक्तां विहायाष्टमीं षष्ठीमष्टमशुद्धभाजि भवने प्रोक्ताक्षर–स्वीकृतिः॥' विष्णुधर्मोत्तरे– 'पूजयित्वा' हरिं लक्ष्मीं तथा देवीं सरस्वतीम्। स्ववेदं सूत्रकारांश्च स्वां विद्यां च विशेषतः॥ एतेषामेव देवानां नाम्ना तु जुहुयाद्धृतम्। दक्षिणाभिर्द्विजेन्द्राणां कर्तव्यं चात्र पूजनम्॥' इति॥
अथ धनुर्विद्या। दीपिकायाम्– 'अदितिगुरुयमार्कस्वातिचित्राग्निपित्र्यध्रुवहरिवसुमूलेष्विन्दुभागान्त्यभेषु। शनिशशिबुधवारे विष्णुबोधे विपौषे सुसमयतिथियोगे चापविद्याप्रदानम्॥'
अथानुपनीतस्य विशेषः। गौतमः– 'प्रागुपनयनात्कामचारवादभक्षाः' इति। 'भक्षणं लशुनादेरपि' इति हरदत्तः। अपरार्के वृद्धशातातपः– 'शिशोरभ्युक्षणं प्रोक्तं बालस्याचमनं स्मृतम्। रजस्वलादिसंस्पर्शे स्नानमेव कुमारके॥ प्राक् चूडाकरणाद्बालः प्रागन्नप्राशनाच्छिशुः। कुमारकस्तु विज्ञेयो यावन्मौञ्जीनिबन्धनम्॥' आपस्तम्बोऽपि– 'अन्नप्राशनात्प्रयतो भवत्यासंवत्सरादित्येके' इति। गौतमोऽपि– 'न तदुपस्पर्शनादाशौचम्।' तस्यानुपनीतस्य चाण्डालादिस्पृष्टस्यापि स्पर्शान्न स्नानम्। इदं च षष्ठवर्षात्प्राक्, ऊर्ध्वं तु स्नानं भवत्येव। 'बालस्य पञ्चमाद्वर्षाद्रक्षार्थ शौचमाचरेत्।' इति स्मृतेः। कामचारदिकेऽप्येवम्। 'उनैकादशवर्षस्य पञ्चवर्षात्परस्य च। चरेद्गुरुः सुहृच्चैव प्रायश्चित्तं विशुद्धये॥ अतो बालतरस्यास्य नापराधो न पातकम्।" इति स्मृतेरिति हरदत्तः। स्मृत्यर्थ सारेऽप्येवम्॥
उपनयनसस्कारः। —
अथोपनयनम्। आश्वलायनः– 'गर्भाष्टमेऽष्टमे वाब्दे पञ्चमे सप्तमेऽपि वा। द्विजत्व प्राप्नुयाद्विप्रो वर्षे त्वेकादशे नृपः॥' मनुः– 'ब्रह्मवर्चसकामस्य कार्यं विप्रस्य पञ्चमे। राज्ञो बलार्थिनः पष्ठे वैश्यस्यार्थार्थिनोऽष्टमे॥' विष्णुः– 'षष्ठे तु धनकामस्य विद्याकामस्य सप्तमे। अष्टमे सर्वकामस्य नवमे कान्तिमिच्छतः॥' आपस्तम्बः– ‘गर्भाष्टमेषु ब्राह्मणमुपनयीत' बहुवचनं गर्भषष्ठगर्भसप्तमयोः प्राप्त्यर्थमिति सुदर्शनभाष्ये। केचित्तु विप्रस्य षष्ठं न मन्यन्ते। आपस्तम्बः– ‘अथ काम्यानि, सप्तमे ब्रह्मवर्चसकाममष्टम आयुष्कामं नवमे तेजस्कामं दशमेऽन्नाद्यकाममेकादश इन्द्रियकामं द्वादशे पशुकाममुपनयेत्।' गौणकालमाह मनुः– 'अषोडशाद्ब्राह्मणस्य सावित्री नातिवर्तते। आद्वाविशात्क्षत्रबन्धोराचतुर्विंशतेर्विशः॥' ज्योतिर्निबन्धे– 'अग्रजा बाहुजा वैश्याः स्वावधेरूर्ध्वमन्दतः। अकृतोपनयाः सर्वे वृषला एव ते स्मृताः॥'
गर्गः– 'विप्रं वसन्ते क्षितिपं निदाघे वैश्यं घनान्ते व्रतिनं विदध्यात्। माघादिशुक्रान्तिकपञ्चमासाः साधारणा वा सकलद्विजानाम्॥' हेमाद्रौ ज्योतिषे– 'माघादिषु च मासेषु मौञ्जी पञ्चसु शस्यते॥ कालादर्शॆ वृद्धगार्ग्यः– 'माघादिमासषट्के तु मेखलाबन्धनं मतम्। चूडाकरणमन्नं च श्रावणादौ विवर्जयेत्॥' मैत्रेयसूत्रेऽपि– 'वसन्तो ग्रीष्मः शरदित्यृतवो वर्णानुपूर्व्येण माघादिषण्मासा वा सर्ववर्णानामेतदुदगयनमनयोविं–कल्पः' इति। अत्रेदं तत्त्वम् - नात्र वसन्तेनोत्तरायणस्य सङ्कोचः। श्राद्धे दर्शस्यापराह्णविधिनेवाधाने वसन्तादेः कृत्तिकादिनेव सायम्प्रातर्विधिना यावज्जीवविधेरिव युक्तः। आद्ययोः परस्परव्यभिचारान्नियमः, अन्त्ये निमित्ते साङ्गकर्मोक्तेः कालापेक्षा; इह तूत्तरायणं विना वसन्तस्याभावान्न नियमः, न वा निमित्तत्वम्। न च 'एकं वृणीते' इतिवदवयुत्यानुवादः; तद्वद्वाक्यभेदापरिहारात्। उत्तरायणविधिवैयर्थ्यात्वनुकल्पोऽयमिति। माघ आदिर्येषां पञ्चानाम्, एवं षट्।
पारिजाते बृहस्पतिः - 'झषचापकुलीरस्थो जीवोऽप्यशुभगोचरः। अतिशोभनतां दद्याद्विवाहोपनयादिषु॥' वृत्तशते - 'न जन्मधिष्ण्ये न च जन्ममासे न जन्मकालीनदिने विदध्यात्। ज्येष्ठे न मासि प्रथमस्य सूनोस्तथा सुताया अपि मङ्गलानि॥' राज-मार्तण्ड : - 'जातं दिनं दूपयते वसिष्ठो, ह्यष्टौ च गर्गो, नियतं दशात्रिः। जातस्य पक्षं किल भागुरिश्च, शेषाः प्रशस्ताः खलु जन्ममासि॥ जन्ममासे तिथौ मे च विपरीतदले सति।कार्यं मङ्गलमित्याहुर्गर्गभार्गवशौनकाः॥ जन्ममासनिषेधेऽपि दिनानि दश वर्जयेत्। आरभ्य जन्मदिवसाच्छुभाः स्युस्तिथयोऽपरे॥' ग्रन्थान्तरे - 'व्रते जन्मत्रिखारिस्थो जीवोऽपीष्टोऽर्चनात्सकृत्। शुभोऽतिकाले तुर्याष्टव्ययस्थो द्विगुणार्चनात्॥ शुद्धिर्नैव गुरोर्यस्य वर्षे प्राप्तेऽष्टमे यदि। चैत्रे मीनगते भानौ तस्योपनयनं शुभम्॥ जन्मभादष्टमे सिहे नीचे वा शत्रुभे गुरौ। मौञ्जीबन्धः शुभः प्रोक्तश्चैत्रे मीनगते रवौ ॥' नारदः - 'बालस्य बलहीनोऽपि शान्त्या जीवो बलप्रदः। यथोक्तवत्सरे कार्यमनुक्ते चोपनायनम्॥' शान्तिश्चाग्रे वक्ष्यते।
ज्योतिर्निबन्धे नृसिंहः - 'तृतीया पञ्चमी षष्ठी द्वितीया चापि सप्तमी। पक्षयोरुभयोश्चैव विशेषेण सुपूजिताः॥ धर्मकामौ सिते पक्षे कृष्णे च प्रथमा तथा। शुक्लत्रयोदशीं केचिदिच्छन्ति मुनयस्तथा॥' टोडरानन्दे वसिष्ठः -- 'नैमित्तिकमनध्यायं कृष्णे च प्रतिपद्दिनम्। मेखलाबन्धने शस्तं चौले वेदव्रतेष्वपि॥ प्रशस्ता प्रतिपत् कृष्णे न पूर्वा परसंयुता॥ एतदतीतकालस्यार्तस्य बटोरुपनयनविषयम्; 'प्रशस्ता प्रतिपत्कृष्णे कदाचिच्छुभगे विधौ। चन्द्रे बलयुते लग्ने वर्षाणामपि लङ्घने॥' इति व्यासोक्तेरित्याहुः। एवं सप्तम्यपि तस्या गलग्रहत्वोक्तेः।
बृहस्पतिः - 'शुक्लपक्षः शुभः प्रोक्तः कृष्णश्चान्त्यत्रिकं विना॥' तथा 'मिथुने संस्थिते भानौ ज्येष्ठमासो न दोषकृत्।' मदनरत्ने नारदः - विनर्तुना वसन्तेन कृष्णपक्षे गलग्रहे। अपराह्णे चोपनीतः पुनःसंस्कारमर्हति॥' अपराह्णस्त्रेधाविभक्तदिनतृतीयांश इत्युक्तं तत्रैव। वसन्ते गलग्रहो न दोषायेत्यर्थः। नारदः - 'कृष्णपक्षे चतुर्थी च सप्तम्यादिदिनत्रयम्। त्रयोदशीचतुष्कं च अष्टावेते गलग्रहाः॥' वसिष्ठः - 'पापांशकगते
नि॰ सिं॰ २५
चन्द्रे अरिनीचस्थितेऽपि च। अनध्याये चोपनीतः पुनःसंस्कारमर्हति॥ अनध्यायस्य पूर्वेद्युस्तस्य चैवापरेऽहनि। व्रतबन्धं विसर्गं च विद्यारम्भं न कारयेत्॥' राजमार्तण्डः– 'आरम्भानन्तरं यत्र प्रत्यारम्भो न सिध्यति। गर्गादिमुनयः सर्वे तमेवाहुर्गलग्रहम्॥ 'ज्योतिर्निबन्धे– 'अष्टकासु च सर्वासु युगमन्वन्तरादिषु। अनध्यायं प्रकुर्वीत तथा सोपपदास्वपि॥' सोपपदास्तु स्मृत्यर्थसारे– 'सिता ज्येष्ठे द्वितीया च आश्विने दशमी सिता। चतुर्थी द्वादशी माघे एताः सोपपदाः स्मृताः॥' एवं प्रदोषदिनं वर्ज्यम्। प्रदोषस्वरूपमाह गोभिलः– 'षष्ठी च द्वादशी चैव अर्धरात्रोननाडिका। प्रदोषमिह कुर्वीत तृतीया तूनयामिका॥" ज्योतिर्निबन्धे व्यासः 'या चैत्रवैशाखसिता तृतीया माघस्य सप्तम्यथ फाल्गुनस्य। कृष्णे द्वितीयोपनये प्रशस्ता प्रोक्ता भरद्वाजमुनीन्द्रमुख्यैः॥' अत्रापि कृष्णप्रतिपद्वज्ज्ञेयम्। यत्तु बृहद्गार्ग्यः– 'अनध्याये प्रकुर्वीत यस्तु नैमित्तिको भवेत्। सप्तमी माघशुक्ले तु तृतीया चाक्षया तथा। बुधत्रयेन्दुवाराश्च शस्तानि व्रतबन्धने॥' इति, तत्प्रायश्चित्तार्थोपनयनविषयम्; 'स्वाध्यायवियुजो घस्राः कृष्णप्रतिपदादयः। प्रायश्चित्तनिमित्ते तु मेखलाबन्धने मताः॥' इति तेनैवोक्तेरिति निर्णयामृतकालादर्शॊ । यद्यपि ‘अथोपेतपूर्वस्य’ इत्युक्त्वा 'अनिरुक्तं परिदानं कालश्च इत्याश्वलायनेन पुनरुपनयने कालनियम उक्तस्तथापि निमित्तान्तरमेव सः। तदानीमकरणे तु पूर्वोक्तकालो ज्ञेयः। प्रतिवेदमुपनयने कालानियम इति तु युक्तम्। गर्गः– 'ग्रहे रवीन्द्वोरवनिप्रकम्पे केतूद्रमोल्कापतनादिदोषॆ । व्रते दशाहानि वदन्ति तज्ज्ञास्त्रयोदशाहानि वदन्ति केचित्॥' सङ्कटे तु चण्डेश्वरः– 'दाहे दिशां चैव धराप्रकम्पे वज्रप्रपातेऽथ विदारणे च। केतौ तथोकांशुकणप्रपाते त्र्यहं न कुर्याद्व्रतमङ्गलानि॥' तत्रैव– 'वेदव्रतोपनयने स्वाध्यायाध्ययने तथा। न दोषो यजुषां सोपपदास्वध्ययनेऽपि च॥'
हेमाद्रौ ज्योतिषे– 'हस्तत्रये पुष्यधनिष्ठयोश्च पौष्याश्विसौम्यादितिविष्णुभेषु। शस्ते तिथौ चन्द्रवलेन युक्ते कार्यों द्विजानां व्रतबन्धमोक्षौ॥' ज्योतिर्निबन्धे नारदः– 'श्रेष्ठान्यर्कत्रयान्त्येज्यचन्द्रादित्युत्तराणि च। विष्णुत्रयाश्विमित्राब्जयोनिभान्युपनायने।' बृहस्पतिः– 'त्रिपूत्तरेषु रोहिण्यां हस्ते मैत्रे च वासवे। त्वाष्ट्रे सौम्यपुनर्वस्वोरुत्तमं ह्युपनायनम्॥' ज्योतिर्निबन्धे– 'पूर्वाहस्तत्रये सार्पश्रुतिमूलेषु बह्र्वचाम्। यजुषां पौष्णमैत्रार्कादित्यपुष्यमृदुध्रुवैः॥ सामगानां हरीशार्कवसुपुष्योत्तराश्विभैः। धनिष्ठादितिमैत्रार्केष्विन्दुपौष्णेष्वथर्वणाम्॥' राजमार्तण्डस्तु ब्राह्मणस्य पुनर्वसुं निषेधति– 'ताराचन्द्रानुकूलेषु ग्रहाब्देषु शुभेष्वपि। पुनर्वसौ कृतो विप्रः पुनःसंस्कारमर्हति॥
ज्योतिर्निबन्धे नारदः– 'सर्वेषां जीवशुक्रज्ञवाराः प्रोक्ता व्रते शुभाः। चन्द्रार्कौ मध्यमौ ज्ञेयौ सामबाहुजयोः कुजः॥ शाखाधिपतिवारश्च शाखाधिपबलं तथा। शाखाधिपतिलग्नं च दुर्लभं त्रितयं व्रते॥' शाखाधिपाश्च रत्नसङ्ग्रहे– 'ऋगथर्वसामयजुषामधिपा गुस्सौम्यभौमसिताः। जीवसितौ विप्राणां क्षत्रस्यारोष्णगू, विशां चन्द्रः॥' इति।
पारिजाते बृहस्पतिः– 'बह्रृचानां गुरोर्वारे यजुर्वेदजुषां कवेः। सामगानां धरासूनोरथर्वविदुषां रवेः ॥' अत्र लग्नशुद्ध्यादि दैवज्ञेभ्यो ज्ञेयम्। विस्तरभयान्नोच्यते।
लल्लः– 'व्रतेऽह्नि पूर्वसन्ध्यायां वारिदो यदि गर्जति। तद्दिने स्यादनध्यायो व्रतं तत्र विवर्जयेत्॥' ज्योतिर्निबन्धे– 'नान्दीश्राद्धं कृतं चेत्स्यादनध्यायस्त्वकालिकः। तदोपनयनं कार्यं वेदारम्भं न कारयेत्॥' –एतद्ब्रहृचातिरिक्तानाम् ; तेषां तहिने वेदारम्भाभावात्। अतस्तेषामुपनयनं न भवत्येव। ऐतरेयोपनिषदि– 'मृगादिज्येष्ठान्तं वर्षर्तुः, तं विना वर्षादौ त्रिरात्रमनध्यायः' इति वेदभाष्ये उक्तम्। 'एतच्च प्रातः स्तनिते, सायं स्तनिते तु दिवैव चरुं श्रपयित्वा सायंसन्ध्योत्तरं होमं कुर्यात्।', 'न सन्ध्यागर्जिते काले न वृष्टयुत्पातदूषिते। ब्रह्मौदनं पचेदग्नौ पक्कं चेन्न निवर्तते॥ ब्रह्मौदनं पचेदग्नौ पक्वमन्नं न दुष्यति॥' इति सङ्ग्रहोक्तेः। इति प्रयोगरत्ने भट्टचरणाः॥
अनध्यायदोषशान्तिः। —
अत्र शान्तिरप्युक्ता नृसिंहप्रसादे– 'ब्रह्मौदनविधेः पूर्वं प्रदोषे गर्जितं यदि। तदा विघ्नकरं ज्ञेयं बटोरध्ययनस्य तत्॥ तस्य शान्तिप्रकारं तु वक्ष्ये शास्त्रानुसारतः। प्रधानं पायसं साज्यं द्रव्यं शान्तियजौ भवेत्॥ सूक्तं बृहस्पतेर्विद्वान् पठेत्प्रज्ञाविवृद्धये। गायत्री चैव मन्त्रः स्यात्प्रायश्चित्तं तु सर्पिषा ॥ धेनुं सवत्सकां दद्यादाचार्याय पयस्विनीम्। ब्राह्मणान्भोजयेत्पश्चात्ततो ब्रह्मौदनं चरेत्॥ '
उपनयने चाधिकारिणो माधवीये वृद्धमनुनोक्ताः– 'पिता पितामहो भ्राता ज्ञातयो गोत्रजाग्रजाः। उपायनेऽधिकारी स्यात्पूर्वाभावे परः परः॥' प्रयोगरत्ने– 'पितैवोपनयेत्पुत्रं तदभावे पितुः पिता। तदभावे पितुर्भ्राता तदभावे तु सोदरः॥' पितेति विप्रवरं, न क्षत्रियादेः। तेषां पुरोहित एव; उपनयनस्य दृष्टार्थत्वात् तेषां चाध्यापनेऽनधिकारात्। अत्र पितृव्यस्य ज्येष्ठ भ्रात्रभावेऽधिकारः; 'असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः' इति याज्ञवल्क्योक्तेः। तेनेदमविभक्तपरम्, पूर्वं तु विभक्तपरम्। मातू रजोदोषे तु प्रागुक्तम्॥
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा