निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
← निर्णयसिन्धु — परिच्छेद-सूची
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथ षण्ढमूकादीनां विशेषः। प्रयोगपारिजाते ब्राह्मे– 'ब्राह्मण्यां ब्राह्मणाजातो ब्राह्मणः स इति श्रुतिः। तस्माच्च पण्ढबधिरकुब्जवामनपङ्गुषु॥ जडगद्गदरोगार्तशुष्काङ्गविकलाङ्गिषु। मत्तोन्मत्तेषु मूकेषु शयनस्थे निरिन्द्रिये॥ ध्वस्तपुंस्त्वेषु चैतेषु संस्काराः स्युर्यथोचितम्। मत्तोन्मत्तौ न संस्कार्याविति केचित्प्रचक्षते॥ कर्मस्वनाधिकाराच्च पातिव्यं नास्ति चैतयोः। तदपत्यं च संस्कार्यमपरे त्वाहुरन्यथा॥ संस्कारमन्त्रहोमादीन्करोत्याचार्य एव तु। उपनेयांश्च विधिवदाचार्यस्य समीपतः॥ आनीयाग्निसमीपं वा सावित्रीं स्पृश्य वा जपेत्। कन्यास्वीकरणादन्यत्सर्वं विप्रेण कारयेत्॥ एवमेव द्विजैर्जातौ संस्कार्यौ कुण्डगोलकौ॥” इति। स्मृत्यर्थसारेऽप्येवम्। कुण्डगोलकयोः संस्कार्यत्वं श्राद्धं निषेधश्च क्षेत्रजपुत्रविषयः। अन्यस्य 'विन्नास्वेष विधिः स्मृतः' इति वचनात् अब्राह्मण्येनोपनयनाद्यप्राप्तेरित्यपरार्कः।
उपनयनं च कुमारं भोजयित्वा कार्यम्; 'प्रागेवैनं तदहर्भोजयन्ति' इति मदनपारिजाते गोभिलोक्तेः। गायत्र्युपदेशश्चोत्तरतोऽग्नेः कार्यः; 'उत्तरेणाग्निमुपविशतः प्राङ्मुख आचार्यः प्रत्यङ्मुख इतरोऽधीहि भोः' इति शाङ्खायनसूत्रोक्तेः। यद्यपि कात्यायनेन– 'अथास्मै सावित्रीमन्वाहोत्तरतोऽग्नेः प्रत्यङ्मुखाय' इत्युक्त्वा– 'दक्षिणतस्तिष्ठत आसीनाय वैके' इति विकल्प उक्तः, तथापि कातीयानामेव सः। बह्रचानां तूत्तर एव; वेदैक्यात्। भिक्षायां विशेषमाह कात्यायनः– 'मातरमेवाग्रे भिक्षेत'। पराशरमाधवीये– 'मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम्। भिक्षेत भिक्षां प्रथमं या चैनं न विमानयेत्॥'
अथ संस्कारलोपे शौनकः– 'आरभ्याधानमाचौलात्कालेऽतीते तु कर्मणाम्। व्याहत्याग्निं तु संस्कृत्य हुत्वा कर्म यथाक्रमम्॥ एतेष्वेकैकलोपे तु पादकृच्छ्रं समाचरेत्। चूडायामर्धकृच्छ्रं स्यादापदि त्वेवमीरितम्॥ अनापदि तु सर्वत्र द्विगुणं द्विगुणं चरेत्॥' पारिजाते कात्यायनः– 'लुप्ते कर्मणि सर्वत्र प्रायश्चित्तं विधीयते। प्रायश्चित्ते कृते पश्चाल्लुप्तं कर्म समाचरेत्॥' स्मृत्यर्थसारे चैवम्। कारिकायां तु– 'प्रायश्चित्ते कृतेऽतीतं लुप्तं कर्म कृताकृतम्' इत्युक्तम्। 'प्रायश्चित्ते कृते पश्चादतीतमपि कर्म वै। कार्यमित्येक आचार्या नेत्यन्ये तु विपश्चितः॥” इति। त्रिकाण्डमण्डने तु– 'कालातीतेषु कार्येषु प्राप्तवत्स्वपरेषु च। कालातीतानि कृत्वैव विदध्यादुत्तराणि तु॥' तत्र सर्वेषां तत्रेण नान्दीश्राद्धं कुर्यात् ; देशकालकर्त्रैक्यात्। 'गणशः क्रियमाणानां मातृणां पूजनं सकृत्। सकृदेव भवेच्छ्राद्धमादौ न पृथगादिपु॥' इति छन्दोगपरिशिष्टात्। एतद्बहूनामपत्यानां युगपत्संस्कारकरणविषयमिति वोपदेवः। अतीतसंस्काराणां युगपत्करण इत्यन्ये। तत्रापि चौलस्योपनीत्या सहेति पक्षे उपनीतिदिन एवानुष्ठानं न पूर्वदिने, सहत्वस्य दिवसैक्ये सन्निकृष्टतरत्वात्। वृद्धाचारोऽप्येवम्॥
उपनीतिदिने मध्याह्नसन्ध्यामाह पारिजाते जैमिनिः– ' यावद्ब्रह्मोपदेशस्तु तावत्सन्ध्यादिकं च न। ततो मध्याह्नसन्ध्यादि सर्व कर्मं समाचरेत्॥' इति। ब्रह्म= गायत्री। यत्तु वचनम् – 'उपायने तु कर्तव्यं सायंसन्ध्ये उपासनम्। आरभेद्ब्रह्मयज्ञं तु मध्याह्ने तु परेऽहनि॥” इति, तच्छाखान्तरविषयमिति पारिजातः। विकल्प इति युक्तं पश्यामः। उपनयनाग्निस्त्रिरात्रं धार्यः; 'त्र्यहमेतमग्निं धारयन्ति' इत्यापस्तम्बोक्तेः। बौधायनसूत्रे तु सदा धारणमप्युक्तम्– 'उपनयनादिरग्निस्तमौपासनमित्याक्षते, पाणिग्रहणादित्येके, नित्यो धार्योऽनुगतो निर्मन्थ्यः' इति। इदं जातारणिपक्षे; अन्यथा मन्थनासम्भवात्॥
ब्रह्मयज्ञे विशेषमाह तत्रैव जैमिनिः– 'अनुपाकृतवेदस्य कर्तव्यो ब्रह्मयज्ञकः। वेदस्थाने तु सावित्री गृह्यते तत्समा यतः॥' इति। येषां तद्दिन एव वेदारम्भस्तेषां नेदमिति दिकू॥
अथ ब्रह्मचारिधर्माः। याज्ञवल्क्यः– 'मधुमांसाञ्जनोच्छिष्टशुक्तस्त्रीप्राणिहिंसनम्। भास्करालोकनाश्लीलपरिवादादि वर्जयेत्॥' मनुः– 'अभ्यङ्गमञ्जनं चाक्ष्णोरुपानच्छत्रधारणम्।' वर्जयेदिति प्रकृतम्। पारिजाते कौर्मे– 'नादर्शं चैव वीक्षेत नाचरेद्दन्तधावनम्। गुरूच्छिष्टं भेषजार्थं प्रयुञ्जीत, न कामतः॥ एतन्निषिद्धमध्वादिविषयम्, अन्यस्य गुरूच्छिष्टस्य सर्वदा प्राप्तेः, 'स चेद्व्याधीयीत कामं गुरोरुच्छिष्टं भेषजार्थं सर्व प्राश्नीयात्।' इति वसिष्ठोक्तेः। ज्येष्ठभ्रातुरित्यपि ज्ञेयम्; 'पितृर्ज्येष्ठस्य च भ्रातुरुच्छिष्टं भोज्यम्' इत्यापस्तम्बोक्तेः। गुरुपुत्रे तु स्मृत्यन्तरे उक्तम्– 'गुरुवद्गुरुपुत्रः स्यादन्यत्रोच्छिष्टभोजनात्॥' प्रचेताः– 'ताम्बूलाभ्यञ्जनं चैव कांस्यपात्रे च भोजनम्। यतिश्च ब्रह्मचारी च विधवा च विवर्जयेत्॥'
यमः– 'मेखलामजिनं दण्डमुपवीतं च नित्यशः। कौपीनं कटिसूत्रं च ब्रह्मचारी तु धारयेत्॥ अग्नीन्धनं भैक्ष्यचर्यामधःशय्यां गुरोर्हितम्॥' कुर्यादिति शेषः॥
मेखलामाहाश्वलायनः 'तेषां मेखला मौञ्जी ब्राह्मणस्य धनुर्ज्या क्षत्रियस्यावी वैश्यस्य' इति। आचार्यः :– 'त्रिवृता मेखला कार्या त्रिवारं स्यात्समावृता। तद्ग्रन्थयस्त्रयः कार्याः पञ्च वा सप्त वा पुनः॥' मनुः – 'मौञ्जी विवृत्समा श्लक्ष्णा कार्या विप्रस्य मेखला। त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा॥ मौञ्ज्यभावे तु कर्तव्याः कुशाश्मन्तकबल्वजैः॥' अत्र प्रवरसङ्ख्यानियम इति वृद्धाः।
अथ दण्डाः। मनुः– 'ब्राह्मणो बैल्वपालाशौ क्षत्रियो वाटखादिरौ। पैप्पलौदुम्बरौ वैश्यो दण्डानर्हन्ति धर्मतः॥' एषामभावे गौतमः– 'यज्ञियो वा सर्वेषां मूर्धललाटनासाग्रप्रमाणः' इति॥
अजिनमाहाश्वलायन:– 'अहतेन वाससा संवीतमैणेयेन वाऽजिनेन ब्राह्मणं रौरवेण क्षत्रियमाजेन वैश्यम्' इति। यद्यप्यैणेयशब्देन मृगीचर्मैवोच्यते; 'एण्या ढञ्' इति पाणिनिस्मृतेः, 'ऐणेयमेण्याश्चर्माद्यमेणस्यैणमुभे त्रिषु।' इति अमरकोशाच्च । तथापि 'कृष्णरुरुवस्तान्यजिनानि' इति शङ्खोक्तेः, 'सर्वेषां वा रौरवम्' इति यमोक्तेश्च। मृगचर्मणा सह विकल्पो ज्ञेयः। वस्त्राजिनयोस्तु विकल्पः, 'कार्पासं वाऽविकृतम्' इति गौतमोक्तेः॥
अथ यज्ञोपवीतम्। मनुः– 'कार्पासमुपवीतं स्याद्विप्रस्योर्ध्ववृतं त्रिवृत्॥' पारिजाते देवलः– 'कार्पासक्षौमगोवालशणवल्वतृणोद्भवम्। यथासम्भवतो धार्यमुपवीतं द्विजातिभिः॥ शुचौ देशे शुचिः सूत्रं संहताङ्गुलिमलके। आवर्त्य षण्णवत्या तत्त्रिगुणीकृत्य यत्नतः॥ अब्लिङ्गकैस्त्रिभिः सम्यक् प्रक्षाल्योर्ध्ववृतं त्रिवृत्। अप्रदक्षिणमावृत्य सावित्र्या त्रिगुणीकृतम्॥ ततः प्रदक्षिणावर्तं समं स्यान्नवसूत्रकम्। त्रिरावेष्ट्य दृढं बद्ध्वा ब्रह्मविष्णवीश्वरान्नमेत्॥' तन्नवतन्तु कार्यम्; 'सावित्र्या त्रिगुणं कुर्यान्नवसूत्रं तु तद्भवेत्।' इति तेनैवोक्तेः। छन्दोगपरिशिष्टे– 'त्रिवृदूर्ध्ववृतं कार्यं तन्तुत्रयमधोवृतम्। त्रिवृतं चोपवीतं स्यात्तस्यैको ग्रन्थिरिष्यते॥' ऊर्ध्ववृतं दक्षिणं करमूर्ध्वं कृत्वा वलितम्। भृगुः– 'वामावर्तवलितं त्रिगुणं कृत्वा दक्षिणावर्तवलितं त्रिगुणं कार्यम्।' स एकस्तन्तुरेवं त्रितन्तुकमित्यर्थः। कात्यायनः– 'पृष्ठदेशे च नाभ्यां च धृतं यद्विन्दते कटिम्। तद्धार्यमुपवीतं स्यान्नातिलम्बं न चोच्छ्रितम्॥' वसिष्ठः– 'नाभेरूर्ध्वमनायुष्यमधो नाभेस्तपःक्षयः। तस्मान्नाभिसमं कुर्यादुपवीतं विचक्षणः॥' पारिजाते देवलः– 'उपवीतं वटोरेकं द्वे तथेतरयोः स्मृते। एकमेव यतीनां स्यादिति शास्त्रस्य निश्चयः॥' स एव– 'बहूनि वाऽऽयुष्कामस्य'। तत्र मन्त्रमाह स एव – 'यज्ञोपवीतमिति वा व्याहृत्या वापि धारयेत्॥' हेमाद्रौ 'यज्ञोपवीते द्वे धार्ये श्रौते स्मार्ते च कर्मणि। तृतीयमुत्तरीयार्थे वस्त्राभावे तर्दिष्यते॥' देवलः– 'सावित्र्या दशकृत्वोऽद्भिर्मन्त्रिताभिस्तदुक्षयेत्। विच्छिन्नं चाप्यधो यातं भुक्त्वा निर्मितमुत्सृजेत्॥' मनुः–‘मेखलामजिनं दण्डमुपवीतं कमण्डलुम्। अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रतः॥'
अथैतल्लोपे प्रायश्चित्तम्। मनुः– 'अकृत्वा भैक्ष्यचरणमसमिध्य च पावकम्। अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत्॥' अमत्या आपदि त्यागे तु याज्ञवल्क्यः– 'भैक्ष्याग्निकार्ये त्यक्त्वा तु सप्तरात्रमनातुरः। कामावकीर्ण इत्याभ्यां जुहुयादाहुतिद्वयम्॥ उपस्थानं ततः कुर्यात्समासिञ्चन्त्वनेन तु।' मन्त्रास्तु मिताक्षरायां ज्ञेयाः। सकृल्लोपे तु ऋग्विधाने– 'मानस्तोके जपेन्मत्रं शतसङ्ख्यं शिवालये। अग्निकार्यं विना भुक्तौ न पापं ब्रह्मचारिणः॥' स्मृत्यर्थसारे तु सन्ध्याग्निकार्यलोपे स्नात्वाष्टसहस्रं जपः। भिक्षालोपेऽष्टशतम्। अभ्यासे द्विगुणं पुनःसंस्कारश्चेत्युक्तम्॥ अपरार्के संवर्त:– 'यः सन्ध्यां चैव नोपास्ते अग्निकार्यं यथाविधि। गायत्र्यष्टसहस्रं तु जपेत्स्नात्वा समाहितः॥'
अग्निकार्यं सन्ध्याद्वये कार्यम्। 'अग्निकार्यं ततः कुर्यात्सन्ध्ययोरुभयोरपि ' इति याज्ञवल्क्योक्तेः, सायमेव वा, 'सायमेव वाग्निमिन्धीतेत्येके' इति लौगाक्षिणोक्तेः। पारिजाते वृद्धशातातपः– 'ब्रह्मचारी तु योऽश्नीयान्मधु मांसं तथैव च। प्राजापत्यं चरेत्कृच्छ्रं व्रतशेषं समापयेत्॥' ऋग्विधाने–'तं वो धिया जपेन्मत्रं लक्षं चैव शिवालये। ब्रह्मचारी स्वधर्मेषु न्यूनं चेत्पूर्णमेति तत्॥'
स्त्रीसङ्गे तु मनुः– 'अवकीर्णी तु काणेन गर्दभेन चतुष्पथे। स्थालीपाकविधानेन यजेद्वै निरृतिं निशि॥' विस्तरस्तु मिताक्षरादौ ज्ञेयः। उपवीतनाशे तु हारीतः–
'मनोव्रतपतीभिश्चतस्र आज्याहुतीहुत्वा पुनः प्रतीयात्।' तत्रैव मरीचिः– 'ब्रह्मसूत्रं विना भुङ्क्ते विण्मूत्रे कुरुतेऽथ वा। गायत्र्यष्टसहस्रेण प्राणायामेन शुद्ध्यति॥'
मनुः– 'भोःशब्द कीर्तदन्ते स्वस्य नाम्नोऽभिवादने। आयुष्मान् भव सौम्येति वाच्यो विप्रोऽभिवादने। अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः॥' शर्मन्निति नकारात्पूर्व इत्यर्थः। अभिवादनप्रत्यभिवादनादौ विशेषः स्मृत्यर्थसारे पारिजातादौ ज्ञेयः। यमः– 'ज्यायानपि कनीयांसं सन्ध्यायामभिवादयेत्। विना शिष्यं च पुत्रं च दौहित्रं दुहितुः पतिम्॥'
अथ पुनरुपनयनम्। पारिजाते शातातपः– 'लशुनं गृञ्जनं जग्ध्वा पलाण्डुं च तथा शुनः। उष्ट्रमानुषकेभाश्वरासभीक्षीरभोजनात्॥ उपायनं पुनः कुर्यात्तप्तकृच्छ्रं चरेन्मुहुः॥' इति। हेमाद्रौ वृद्धमनुः– 'जीवन्यदि समागच्छेद्धृतकुम्भे निमज्य च। उद्धृत्य स्नापयित्वास्य जातकर्मादि कारयेत्॥' तत्रैव पाद्मे– 'प्रेतशय्याप्रतिग्राही पुनः संस्कारमर्हति।' चन्द्रिकायां बौधायनः– 'सिन्धुसौवीरसौराष्ट्रांस्तथा प्रत्यन्तवासिनः। अङ्गवङ्गकलिङ्गान्ध्रान् गत्वा संस्कारमर्हति॥' हेमाद्रौ प्रायश्चित्तकाण्डे वृद्धगौतमः– 'खरमुष्ट्रं च महिषमनवाहमजं तथा। बस्तमारुह्य मुखजः क्रोशे चान्द्रं विनिर्दिशेत्॥' मार्कण्डेयः– ‘खरमारुह्य विप्रस्तु योजनं यदि गच्छति। तप्तकृच्छ्रत्रयं प्रोक्तं शरीरस्य विशोधनम्॥ पुनर्जन्म प्रकुर्वीत घृतगर्भविधानतः॥ मदनरत्ने मिताक्षरायां च स्नानमात्रमुक्तम्। मनुः – 'अज्ञानात्प्राश्य विण्मूत्रं सुरासंसृष्टमेव च। पुनःसंस्कारमर्हन्ति त्रयो वर्णा द्विजातयः॥' मिताक्षरायां पराशरः– 'यः प्रत्यवसितो विप्रः प्रव्रज्यातो विनिर्गतः। अनाशकनिवृत्तश्च गार्हस्थ्यं चेच्चिकीर्षति॥ स चरेत्त्रीणि कृच्छ्राणि त्रीणि चान्द्रायणानि च। जातकर्मादिभिः सर्वैः संस्कृतः शुद्धिमाप्नुयात्॥ '
बौधायनसूत्रे– 'अथोपनीतस्य व्रतानि भवन्ति,– नान्यस्योच्छिष्टं भुञ्जीतान्यत्र पितृज्येष्ठाभ्यां, न स्त्रिया सह भुञ्जीत, मधुमांसश्राद्धसूतकान्नानि, दशाहसन्धिनीक्षीरं, छत्राकनिर्यासौ, विलापनं, गणान्नं, गणिकान्नमिति। एतेषु पुनःसंस्कारः।' प्रतिषिद्धदेशगमनमित्येके। अथाप्युदाहरन्ति– 'सुराष्ट्रसिन्धुसौवीरमवन्तीं दक्षिणापथम्। एतानि ब्राह्मणो गत्वा पुनःसंस्कारमर्हति॥' अथ पुनःसंस्कारं व्याख्यास्यामो देवयजनप्रभृत्याग्निमुखात्कृत्वा पालाशीं समिधमाज्येनाङ्क्त्वाऽभ्याधाय वाचयति'– पुनस्त्वादित्या रुद्रा वसवः॰ कामाः स्वाहा' इति। अथ व्रात्यप्रायश्चित्ते जुहोति यन्म आत्मनो मिन्दाभूत्॰ पुनरग्निश्चक्षुरदादिति द्वाभ्यामथ पक्वाज्जुहोति– 'सप्त ते अग्ने समिधः सप्त जिह्वाः सप्त॰ घृतेन स्वाहा' इति। अथाज्याहुतीरुपजुहोति 'येन देवाः पवित्रेण॰' इति तिसृभिरनुच्छन्दसं स्विष्टकृत्प्रभृति सिद्धमाधेनुवरदानादथापरमा परिदानात्कृत्वा पालाशीं समिधमाधायाथ व्रात्यप्रायश्चित्ते जुहोत्यथ व्याहतीर्जुहोति। अथापरो ब्राह्मणवचनादेव सावित्र्या शतकृत्वो घृतमभिमध्य प्राश्य कृतप्रायश्चित्तो भवति।
गुरोर्वाप्युच्छिष्टं भुञ्जीत। अयाप्युदाहरन्ति– ‛वपनं दक्षिणादानं मेखलादण्डमजिनभैक्ष्यचर्याव्रतानि च निवर्तन्ते पुनः संस्कारकर्मणि' इति।
आश्वलायनगृह्येऽपि– 'अथोपेतपूर्वस्य' इत्यादिना पुनःसंस्कार उक्तः। तथा पित्रादिव्यतिरेकेण ब्रह्मचारिणः प्रेतकर्मकरणे पुनरुपनयनमित्यपरार्कादयः। त्रिस्थलीसेतौ– 'कर्मनाशाजलस्पर्शात्करतोयाविलङ्घनात्। गण्डकीबाहुतरणात्पुनः संस्कारमर्हति॥' गौडास्तु– 'करतोयाजलस्पर्शात्कर्मनाशाविलङ्घनात्।' इति पठन्ति। तन्न; दानधर्मेषु करतोयास्त्राने प्राशस्त्योक्तेः। 'करतोये सदानीरे सरिच्छ्रेष्ठेऽतिविश्रुते। आप्लावयसि पौराणां पापं हरकरोद्भवे॥' इति स्मृतिदर्पणचन्द्रिकालिखितस्नानमन्त्राच्च। पराशरः– 'अजिनं मेखला दण्डो भैक्ष्यचर्या व्रतानि च। निवर्तन्ते द्विजातीनां पुनःसंस्कारकर्मणि॥' हरदत्तस्तु – 'य एकं वेदमधीत्यान्यं वेदमध्येतुमिच्छति तस्य पुनरुपनयनम्, तेन प्रतिवेदमुपनयनं कर्तव्यम्' इत्याह। अन्ये नैतन्मन्यन्ते; 'सर्वेभ्यो वै वेदेभ्यः सावित्र्यनूच्यते' इत्यापस्तम्बोक्तेः।
तद्विधिः कारिकायाम्– 'वेदान्तरमधीत्यैव ऋग्वेदं ये त्वधीयते। उपनीतिरियं तेषामलङ्करणवर्जिता॥ यद्वैतदुपनीतस्य प्रायश्चित्तं यदा भवेत्। कृताकृतं च वपनं मेधाजननमेव च॥ मेधाजननसद्भावे व्रतचर्या भवेदिह। अनुप्रवचनीयश्च तदभावे द्वयं न हि॥ परिदानं न कार्यं स्यान्निमित्तानन्तरं त्विदम्। पूर्वस्या वाचयेत्स्थाने तत्सवितुर्वृणीमहे॥ ' इति। यत्तु हारीतः– 'द्विविधाः स्त्रियः– ब्रह्मवादिन्यः, सद्योवध्वश्च। तत्र ब्रह्मवादिनीनामुपनयनमग्नीन्धनं वेदाध्ययनं स्वगृहे च भैक्ष्यचर्या' इति, 'सद्योवधूनामुपनयनं कृत्वा विवाहः कार्यः' इति, तद्युगान्तरविषयम्; 'पुराकल्पेषु नारीणां मौञ्जीबन्धनमिष्यते। अध्यापनं च वेदानां सावित्रीवाचनं तथा॥ इति यमोक्तेः॥
अधानध्यायाः। पारिजाते वृहस्पतिः– 'प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणो द्वयोः। वोऽनध्यायेऽद्यशर्वर्यां नाधीयीत कदाचन॥' नारदः– 'अयने विषुवे चैव शयने बोधने हरेः। अनध्यायस्तु कर्तव्यो मन्वादिपु युगादिषु ॥' निर्णयामृते– 'चातुर्मास्य द्वितीयासु मन्वादिषु युगादिषु। अनध्यायस्तु कर्तव्यो या च सोपपदा तिथिः॥' गर्गः– 'शुचावूर्जे तपस्ये च या द्वितीया विधुक्षये। चातुर्मास्यद्वितीयास्ताः प्रवदन्ति मनीषिणः॥' स्मृत्यर्थसारेऽपि– 'आषाढीकार्तिकीफाल्गुनीसमीपस्थद्वितीयासु च' इति। मनुः– 'उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम्। अष्टकासु त्वहोरात्रमृत्वन्तासु च रात्रिषु॥' इति। उत्सर्गे तु 'मनूक्तपक्षिण्यहोरात्राभ्यां त्र्यहस्य विकल्पः' इति विज्ञानेश्वरः। ‘अष्टका'शब्देन सप्तम्यादित्रयं ज्ञेयम्; 'तिस्रोऽष्टकास्त्रिरात्रमन्त्यामेके' इति गौतमोक्तेः। 'ऋत्वन्तास्विति सौरऋत्वन्तासु, चान्द्रान्तस्य पर्वत्वेनैव निषेधसिद्धेः' इति सर्वज्ञनारायणः। एते नित्याः।
नैमित्तिकानप्याह याज्ञवल्क्यः– 'त्र्यहं प्रेतेष्वनध्यायः शिष्यर्त्विग्गुरुबन्धुषु उपाकर्मणि चोत्सर्गे स्वशाखाश्रोत्रिये तथा॥ सन्ध्यागर्जितनिर्घातभूकम्पोल्कानिपातने। समाप्य वेदं द्युनिशमारण्यकमधीत्य च॥ पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुस्तके। ऋतुसन्धिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य च॥ पशुमण्डूकनकुलश्वाहिमार्जारमूषकैः। कृतेऽन्तरे त्वहोरात्रं शक्रपाते तथोच्छ्रये॥' ग्रहणे द्युनिशोक्तावपि ग्रस्तास्ते त्र्यहमित्युक्तं प्राक्।
स्मृत्यर्थसारे तु 'रात्रौ तु ग्रहे तिस्रो रात्रीः, दिवा च त्र्यहम्।' इत्युक्तम्। ऋतुः= सौरः। भुक्त्वेत्युत्सवविषयम्; 'ऊर्ध्वं भोजनादुत्सवे' इति गौतमोक्तेः। श्राद्धिकं महैकोद्दिष्टभिन्नम्। तत्र तु त्र्यहमिति मनुः, स्मृत्यर्थसारे चैवम्। यत्तु– 'पश्चाद्यन्तराये त्र्यहमुपवासो विप्रवासश्च' इति गौतमोक्तं, तत् प्रथमाध्ययने।
याज्ञवल्क्यः– 'श्वक्रोष्टृगर्दभोलूकसामबाणार्तनिःस्वने। अमेध्यशवशूद्रान्त्यश्मशानपतितान्तिके। देशेऽशुचावात्मनि च विद्युत्स्तनितसम्प्लवे। भुक्त्वार्द्रपाणिरम्भोन्तरर्धरात्रेऽतिमारुते॥ पांसुप्रवर्षे दिग्दाहे सन्ध्यानीहारभीतिषु। धावतः पूतिगन्धे च शिष्टे च गृहमागते॥ खरोष्ट्रयानहस्त्यश्वनौवृक्ष गिरिरोहणे। सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान्विदुः॥' बाणः=वंशः। शततन्तुर्वीणेति हरदत्तः। अमेध्याः= सूतिकादयः। स्तनितं=गर्जः। वर्षातोऽन्यत्र गर्जवृष्टिविद्युतां यौगपद्ये आकालिकः, वर्षासु तात्कालिक इति नारायणः। सन्ध्यागर्जे तु हारीतः– 'सायंसन्ध्यास्तनिते रात्रिः, प्रातः सन्ध्यास्तनितेऽहोरात्रं, रात्रौ विद्युत्यपररात्र्यवधिः।', 'विद्युति नक्तं चापररात्रात्' इति गौतमोक्तेः। 'तृतीयदिनांशोत्तरं तु विद्युति सर्वरात्रम्' इत्याह स एव। त्रिभागादिप्रवृत्तौ सर्वमिति, अर्धरात्रे मध्ययामद्वयमिति विज्ञानेश्वरः। मध्यदण्डचतुष्टय इति निर्णयामृते। मनुः– 'न विवादे न कलहे न सेनायां न सङ्गरे। न भुक्तमात्रे नाजीर्णे न वमित्वा न सूतके॥ रुधिरे च स्रुते गात्राच्छत्रेण च परिक्षते॥' कौर्मे– 'श्लेष्मातकस्य छायायां शाल्मलेर्मधुकस्य च। कदाचिदपि नाध्येयं कोविदारकपित्थयोः॥' मनुः– 'शयानः प्रौढपादश्च कृत्वा चैवावेसक्थिकाम्। नाधीयीतामिषं जग्ध्वा सूतकान्नाद्यमेव च॥' प्रौढपादः– पादोपरि पाददाता,आसनारूढपादो वेति हरदत्तः। सोपपदास्वपि प्रागुक्तम्। स्मृत्यर्थसारे– 'श्रवणद्वादशीमहाभरण्योः प्रेतद्वितीयायां रथसप्तम्यामाकाशे शवदर्शने चाहोरात्रम्। असपिण्डे गुरौ मृते त्रिरात्रम्। आचार्ये उपाध्याये च पक्षिणी, आचार्यभार्यापुत्रशिष्येष्वहोरात्रम्। अग्न्युत्पातेन गोविप्रमृतौ त्रिरात्रम्। अयने विषुवे च पक्षिणी, अकालवृष्टौ च। आरण्यमार्जारसर्पनकुलपञ्चनखादेरन्तरागमने त्रिरात्रम्। आरण्यश्वशृगालादिवानररजकादौ द्वादशरात्रभ्। खरवराहोष्ट्रचाण्डालसूतिकोदक्याशवादौ मासम्। गोगवयाजानास्तिकादौ त्रिमासम्। शशमेषश्वपाकादौ षण्मासम्। गजगण्डसारससिंहव्याघ्रमहापापिकृतघ्नादावब्दर्मनध्यायः। शोभनदिने चानध्यायः। विवाहप्रतिष्ठोद्यापनादिष्वासमाप्तेः सगोत्राणामनध्यायः। 'उदयेऽस्तमये वापि मुहूर्तत्रयगामि यत्। तद्दिनं तदहोरात्रं चानध्यायविदो विदुः॥ केचिदाहुः क्वचिद्देशे यावत्तद्दिननाडिकाः। तावदेव त्वनध्यायो न तन्मिश्रे दिनान्तरे॥'
प्रदोषं त्वाह प्रजापतिः– 'षष्ठी च द्वादशी चैव अर्धरात्रोननाडिका। प्रदोषे नत्वधीयीत तृतीया नवनाडिका॥' निर्णयामृते गर्गः– 'रात्रौ यामद्वयादर्वाक् सप्तमी वा त्रयोदशी। प्रदोषः स तु विज्ञेयः सर्वविधाविगर्हितः॥ रात्रौ नवसु नाडीषु चतुर्थी यदि दृश्यते। प्रदोषः स तु विज्ञेयः सर्वविद्याविगर्हितः॥' कौर्मे– 'अनध्यायस्तु नाङ्गेषु नेतिहासपुराणयोः। न धर्मशास्त्रेष्वन्येषु पर्वण्येतानि वर्जयेत्॥' शौनकः– 'नित्ये जपे च काम्ये च ऋतौ पारायणेऽपि च। नानध्यायोऽस्ति वेदानां ग्रहणे ग्राहणे स्मृतः॥'
इत्यनध्यायाः॥
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा