🕉️ 24 November 2026, Tuesday · 08:18:01 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← निर्णयसिन्धु — परिच्छेद-सूची

📖 निर्णयसिन्धु · तृतीय परिच्छेद (पूर्वार्ध) — संस्कार, विवाह, प्रतिष्ठा आदि प्रकीर्ण · पृष्ठ 40/87

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

महानाम्न्यादिवतम्

अथ महानाम्न्यादिवतम्। श्रीधरः– 'तिथिनक्षत्रवारांशवर्गोदयनिरीक्षणम्। चौलवत् सर्वमाख्यातं सगोदानव्रतेषु च॥ एषां लोपे शौनकः– 'व्रतानि विधिना कृत्वा स्वशाखाध्ययनं चरेत्। अकृत्वाभ्यस्यते येन स पापी विधिघातकः॥ प्रत्येकं कृच्छ्रमेकैकं चरित्वाज्याहुतीः शतम्। हुत्वा चैव तु गायत्र्या स्नायादित्याह शौनकः॥' स्मृत्यर्थसारे तु — 'त्रीन्पड् द्वादश वा कृच्छ्रान्कृत्वा पुनर्व्रतं चरेत्' इत्युक्तम्॥

समावर्तनम्। —

अथ समावर्तनम्। सुरेश्वरः– 'भौमभानुजयोर्वारे नक्षत्रे च व्रतोदिते। ताराचन्द्रविशुद्धौ च स्यात्समावर्तनक्रिया॥ बौधायनसूत्रे तु– 'रोहिण्यां तिष्ये उत्तरयोः फल्गुन्योर्हस्ते चित्रायामैन्द्रे विशाखायां वा स्नायात्' इत्युक्तम्। वसिष्ठः– 'स्नानं मध्याह्नकाले तु होरायां कारयेच्छुभम्। पूर्वाह्णॆ तदभावे तु कुर्यात्स्नानं यथाविधि॥' 'सर्व ऋतवो विवाहस्य' इति सूत्रात् यदा दक्षिणायने विवाहस्तदा समावर्तनमपि तत्रैव। अन्यथोदगयने समावर्तने 'अनाश्रमी न तिष्ठेत' इति विरोधः स्यादित्युक्तं सुदर्शनभाष्ये। एतच्च ब्रह्मचारित्व्रतलोपप्रायश्चित्तं कृत्वा कार्यम्। तदाह बौधायनः— 'शौचसन्ध्यादर्भभिक्षाग्निकार्यराहित्यकौपीनोपवीतमेखलादण्डाजिनाधारणदिवास्वापच्छत्रपादुकास्रग्विधारणाङ्गोद्वर्तनानुलेपनाञ्जनद्यूतनृत्यगीतवाद्याभिरतौ ब्रह्मचारी कृच्छ्रत्रयं चरेत्, महाव्याहृतिहोमं (पाहित्रयोदशहोमं च ) कुर्यात्।' समावर्तनोत्तरं पूर्वमृतानां त्रिरात्रमाशौचं कार्यम्; 'आदिष्टी नोदकं कुर्यादा व्रतस्य समापनात्। समाप्ते तूदकं दत्त्वा त्रिररात्रमशुचिर्भवेत्॥' इति मनूक्तेः। आदिष्टी ब्रह्मचारीति विज्ञानेश्वरः। ब्रह्मचर्ये यदि कश्चिन्न मृतस्तदा त्रिरात्रमध्ये विवाहः कार्योऽन्यथा नेति सिध्यति। जनने तु सत्यपि न त्रिरात्रम्, तत्रातिक्रान्ताशौचाभावादुदकं दत्त्वेति वचनाच्चेति दिक्। तत्रापि विकल्पः, 'पितर्यपि मृते नैषां दोषो भवति कर्हिचित्। आशौचं कर्मणोऽन्ते स्यात्र्यहं वा ब्रह्मचारिणाम्॥' इति छन्दोगपरिशिष्टात्॥

स्नातकव्रतान्याह व्यासः– 'यज्ञोपवीतद्वितयं सोदकं च कमण्डलुम्। छत्रं चोष्णीषममलं पादुके चाप्युपानहौ॥ रौक्मे च कुण्डले वेदः कृत्तकेशनखः शुचिः॥' वेदः=दर्भ–बटुः। मनुः– 'उपानहौ च वासश्च धृतमन्यैर्न धारयेत्। उपवीतमलङ्कारं स्रजं करकमेव च॥' अन्यान्यपि बह्वृच्गृह्यस्मृत्यादिभ्यो ज्ञेयानि॥

छुरिकाबन्धः

अथ छुरिकाबन्धः। ज्योतिर्निबन्धे नारदः– 'छ्रुरिकाबन्धनं वक्ष्ये नृपाण प्राक् करग्रहात्। विवाहोक्तेषु मासेषु शुक्लपक्षेऽप्यनस्तगे॥ जीवे शुक्रे च भूपुत्रे चन्द्रताराबलान्विते। मौञ्जीवन्धर्क्षतिथिषु कुजवर्जितवासरे॥ सङ्ग्रहे– 'शुद्राणां राजपुत्राणां मौञ्ज्यभावेऽस्त्रबन्धनम्। मौञ्जीबन्धोक्ततिथ्यादौ कार्यं भौमदिनं विना॥'

विवाहः। —

अथ विवाहः। याज्ञवल्क्यः– 'अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेत्। अनन्यपूर्विकां कान्तामसपिण्डां यवीयसीम्॥ अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम्॥' लक्षण्यां बाह्याभ्यन्तरलक्षणैर्युक्ताम्। बाह्यानि काशीखण्डादौ प्रसिद्धानि। आन्तराण्याश्वलायनोक्तानि 'अष्टौ पिण्डान्कृत्वा' इत्यादीनि॥

सापिण्ड्यनिर्णयः ।—

मनुः– 'असपिण्डा च या मातुरसगोत्रा च या पितुः। सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने।' दत्त्रिममातुर्गृहीता असपिण्डा सगोत्रा। तस्कुलनिवृत्तये चकारान्मातुरसगोत्रा दत्तस्य पितुर्जनककुले पितुरसगोत्रापि सपिण्डत्वान्निषिद्धेत्यन्यश्चकारः। असपिण्डां=सापिण्ड्यरहिताम्। तञ्चैकशरीरावयवान्वयेन भवति। एकस्य हि पितुर्मातुर्या शरीरस्यावयवाः पुत्रपौत्रादिषु साक्षात्परम्परया वा शुक्रशोणितादिरूपेणानुस्यूताः। यद्यपि पत्न्याः पत्या सह भ्रातृपत्नीनां च परस्परं नैतत्सम्भवति, तथापि आधारत्वे नैकशरीरावयवान्वयोऽस्त्येव। 'अस्थिभिरस्थीनि' इति मन्त्रलिङ्गात्। एकस्य हि पितृशरीरस्यावयवाः पुत्रद्वारा तास्वाहिता इति मदनरत्नपारिजातविज्ञानेश्वरादयः। वाचस्पतिशुद्धि विवेकशूलपाण्यादिगौडमैथिलादयोऽप्येवम्। श्रुतावपि– 'एतत्षाट्कौ शिकं शरीरं त्रीणि पितृतस्त्रीणि मातृतोऽस्थिस्नायुमज्जानः पितृतस्त्वड्मांसरुधिराणि मातृतः ' इति, 'प्रजामनु प्रजायसे' इति च।

चन्द्रिकाऽपरार्कमेधातिथिमाधवादयस्तु एकपिण्डदानक्रियान्वयित्वं सापिण्ड्यम्; 'लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः। पिण्डदः सप्तमस्तेषां सापिण्ड्यं साप्तपौरुषम्॥ इति मात्स्योक्तेः। न च पितृव्यादिष्वेतन्नास्तीति वाच्यम्; तत्कर्तृकश्राद्धे देवतैक्येन तत्सत्त्वात्। देवदत्तकर्तृकश्राद्धे हि ये देवताभूतास्तेषां मध्ये यः कश्चिदन्य–कर्तृकश्राद्धेऽनुप्रविशति तेषां सापिण्ड्यम्; तद्भार्याणामपि भर्तृकर्तृकश्राद्धे सहाधिकारित्वेन तदन्वयात्; 'एकत्वं सा गता भर्तुः पिण्डे गोत्रे च सूतके।" इति स्मृतेश्च, श्रुतीनां च वैराग्यार्थत्वात्तस्याः सापिण्ड्यनिमित्तत्वे मानाभावात्। न च मातुलादिष्वेतन्नास्तीति वाच्यम्; मातामहरूपदैवतैक्यात्। ननु गुरुशिष्यादेरपि श्राद्धदेवतात्वात्सपिण्डत्वं स्यात्। कि बहुना, 'सर्वाभावे तु नृपतिः कारयेत्तस्य रिक्थतः।' इति मार्कण्डेयपुराणाद्राज्ञोऽपि श्राद्धकर्तृत्वात्सापिण्ड्यप्रसङ्गः। सत्यम्; 'पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथा।' इति याज्ञवल्क्यवचनेन मातापितृसम्बन्ध एव तत्सत्त्वात्। ऊर्ध्वं 'सापिण्ड्यं निवर्तत' इति शेषः। ननु पञ्चमत्वाद्यत्र नियम्यते, न मातृत इत्यादि ; वाक्यभेदात्। मैवम् ; मातृकुले पञ्चमत्वस्य पितृकुले सप्तमत्वस्य च बोधने तुल्यत्वात्। पौरुषेयत्वाददोष इति चेत् तुल्यमन्यत्रापि, अन्यकर्तृके राज्ञस्तत्पितॄणां वा देवतात्वाभावाच्च। किच अवयवान्वयपक्षे यथा योगरूढ्या परिहारस्तथेहापि तेन मातृकुले पितृकुले चैकपिण्डदानक्रियान्वयित्वं सापिण्ड्यमित्याहुः। तेनैकस्य पित्रादयः षट् पुत्रादयश्च षट् सपिण्डा भवन्ति।

अत्र केचिदुभयतः सापिण्ड्यनिवृत्तावेवोद्वाहो नान्यथेत्याहुः। शुद्धचिन्तामणि वाचस्पतिहरदत्तादयस्तु सगोत्रत्ववत् सापिण्ड्यस्य सप्रतियोगिकत्वेन संयोगवदुभयनिरूप्यत्वात् एकतो निवृत्तावन्यतो निवृत्तेरावश्यकत्वान्मूलपुरुषमारभ्याष्टमो वरो मूलपुरुषमारभ्य द्वितीयातृतीयादिकां कन्यामुद्वहेदित्याहुः। शिष्टास्तु– न वधूवरयोः स्वतः सापिण्ड्यं, किन्तु कूटस्थसन्ततित्वात्तत्सापिण्ड्येनैव। अतोऽष्टमवरं प्रति कन्याया असापिण्ड्येऽपि कन्यायाः कूटस्थेन सापिण्ड्यात्तत्सन्ततिस्थत्वाद्वरस्तां प्रति सपिण्ड एवेत्यविवाहः। सापिण्ड्यासापिण्ड्ययोः प्रतियोगिभेदेनाविरोधादित्याहुः। इदमेव च युक्तम्; आशौचेऽप्येवं सापिण्ड्यं ज्ञेयम्। यत्र तु मध्ये विच्छिन्नमपि सापिण्ड्यं मण्डूकम्प्लुतिवत्पुनरनुवर्तते। यथा कूटस्थात्पञ्चम्योः कन्ययोः पुत्रौ तत्र निवृत्तिः, तदपत्ययोस्त्वनुवृत्तिस्तत्रापि न सापिण्ड्यासापिण्ड्ययोर्दोषः; सम्बन्धिभेदात्। तेन तत्र न विवाहः।

अत्र कूटस्थमारभ्य गणना कार्या। तदुक्तम्– 'वध्वा वरस्य वा तातः कूटस्थाद्यदि सप्तमः। पञ्चमी चेत्तयोर्माता तत्सापिण्ड्यं निवर्तते॥' इति। कूटस्थः=मूलपुरुषः। विश्वरूपनिबन्धे– 'एवमुक्तप्रकारेण पितृबन्धुषु सप्तमात्। ऊर्ध्वमेव विवाह्यत्वं पञ्चमान्मातृबन्धुतः॥ सन्तानो भिद्यते यस्मात्पूर्वजादुभयत्र च। तमादाय गणेद्धीमान्वरं यावच्च कन्यकाम्॥' स्मृतितत्त्वे नारद:– 'आ सप्तमात्पञ्चमाञ्च बन्धुभ्यः पितृमातृतः। अविवाह्या सगोत्रा च समानप्रवरा तथा॥' अत्र 'बन्धुभ्यः' इति पञ्चमीनिर्देशात्पितुः पितृष्वसृपुत्रात्सप्तमीं, मातुः मातृष्वसृपुत्राच्च पञ्चमीमपि त्यजेत्। एवमन्यबन्धुषु ज्ञेयम्। तत्रापि त्रिगोत्रात्ययेऽर्वागपि विवाहं कुर्यात् ; वक्ष्यमाणवचनात्। त्रिगोत्रगणना च मातामहगोत्रापेक्षया, नतु स्वापेक्षया। अन्यथा पितुः पितामहदुहितुर्दौहित्रीपुत्री परिणेया स्यात्। वध्वाः मातामहगोत्रापेक्षया तु त्रिगोत्रान्तर्गतेन विवाहप्रसङ्ग इति सम्बन्धतत्त्वादयो गौडग्रन्थाः। सम्बन्धविवेके शूलपाणिरप्याह। पञ्चमात्सप्तमाञ्च्चार्वागपि त्रिगोत्रान्तरिता विवाह्या; 'असम्बद्धा भवेन्मातुः पिण्डेनैवोदकेन वा। सा विवाह्या द्विजातीनां त्रिगोत्रान्तरिता च या॥' इति बृहन्मनूक्तेः, 'सन्निकर्षेऽपि कर्तव्यं त्रिगोत्रात्परतो यदि।' इति देवलोक्तेश्चेति। –एतच्च दाक्षिणात्या न मन्यन्ते। यत्तु वसिष्ठः– 'पञ्चमी सप्तमीं चैव मातृतः पितृतस्तथा।' इति, यच्च विष्णुपुराणम्– 'पञ्चमीं मातृपक्षाच्च पितृपक्षाच्च सप्तमीम्। गृहस्थ उद्हेत्कन्यां न्याय्येन विधिना नृप॥” इति, तत्पञ्चमीं सप्तमीमतीत्येति व्याख्येयम्; 'पञ्चमे सप्तमे चैव येषां वैवाहिकी क्रिया। क्रियापरा अपि हि ते पतिताः शूद्रतां गताः॥' इत्यपरार्के मरीचिवचनात्। हारलतायां शङ्खलिखितौ – 'सपिण्डता तु सर्वेषां गोत्रतः साप्तपौरुषी। पिण्डश्चोदकदानं च आशौचं च तदानुगम्॥' गोत्रं सन्तानम्, आशौचं तानभिव्याप्य गच्छतीत्यर्थः।

शुद्धिविवेके शुद्धिचिन्तामणौ च ब्राह्मे– 'सर्वेषामेव वर्णानां विज्ञेया साप्तपौरुषी। सपिण्डता ततः पश्चात् समानोदकधर्मता॥ ततः कालवशात्तत्र विस्मृतौ नामगोत्रतः। समानोदकसञ्ज्ञा तु तावन्मात्रापि नश्यति॥' सप्तोर्ध्वं त्रयः सोदकाः, ततो गोत्रजाः। तत्रैव ब्राह्मे– 'अविभक्तधनास्त्वेते सपिण्डाः परिकीर्तिताः॥' तेनाविभक्तधनाभावे विभक्तः सपिण्डो धनहारी, नान्यथेत्यर्थः। तेन विवाहे आशौचे धनग्रहणे च त्रिधा सापिण्ड्यं सिद्धम्। यत्तु–‘पञ्चमी मातृतः परिहरेत् सप्तमीं पितृतस्त्रीन्मातृतः, पञ्च पितृतो वा' इति पैठीनसिस्मृतौ 'त्रीनित्यनुकल्पः' इति माधवोक्तेः, 'पञ्चमीं सप्तमीं चैव मातृतः पितृतस्तथा। दशभिः पुरुषैः ख्याताच्छॊत्रियाणां महाकुलात्॥ उद्वहेत्सप्तमादूर्ध्वं तदभावे तु सप्तमीम्। पञ्चमीं तदभावे तु पितृपक्षेऽप्ययं विधिः॥ सप्तमीं च तथा षष्ठीं पञ्चमीं च तथैव च। एवमुद्वाहयेत्कन्यां, न दोषः शाकटायनः॥ तृतीयां वा चतुर्थीं वा पक्षयोरुभयोरपि। विवाहयेन्मनुः प्राह पाराशर्योऽङ्गिरा यमः॥ यस्तु देशानुरूपेण कुलमार्गेण चोद्वहेत्। नित्यं स व्यवहार्यः स्याद्वेदाच्चैतत्प्रदृश्यते॥' इति चतुर्विंशति्मतात्, 'चतुर्थीमुद्वहेत्कन्यां चतुर्थः पञ्चमोऽपि वा। पराशरमते षष्ठी, पञ्चमो न तु पञ्चमीम्॥” इति पराशरोक्तेश्चानुकल्पत्वेनापदि पञ्चम्यादिपरिणयनं कार्यमिति प्रतीयते। अत्र हि ‘तदभावे’ इति स्पष्टमेवानुकल्पत्वमुक्तम्, तन्न यथाश्रुतं ज्ञेयम्; पूर्वोक्तमरीचिवचोविरोधात्, वस्तुनि विकल्पासम्भवात् 'पञ्चमात्सप्तमाद्धीमान् यः कन्यामुद्वहेविजः। गुरुतल्पी स विज्ञेयः सगोत्रां चैवमुद्वहन्॥' इति विष्णूक्तेः, पराशरस्य मूलाभावाच्च। तस्मान्मदनपारिजाताद्युक्तदिशा दत्तकसापत्नसम्बन्धाद्यनुप्रवेशे ब्राह्मणादीनां क्षत्रियादिसपिण्डविषये वा पूर्वोक्तानि नेयानि, न त्वनुकल्प इति भ्रमितव्यम्।

यत्तु स्मृतिचन्द्रिकामाधवादय आहुः– 'तृतीये सङ्गच्छावहै, चतुर्थे सङ्गच्छावहै' इति शतपथश्रुतेः, 'तृप्तां जुहुर्मातुलस्येव योषा भागस्ते पैतृष्वसेयी वपामिव' इति,'गर्भे नु नौ जनिता दम्पतीकः' इति च मन्त्रवर्णात्, 'मातृष्वसुतां के चित्पितृष्वसृसुतां तथा। विवहन्ति क्वचिद्देशे सङ्कोच्यापि सपिण्डताम्॥” इति शातातपोक्तेश्च मातुलकन्योद्वाहः कार्यः। यद्यपि पितृष्वसृकन्योद्वाहोऽपि प्राप्तस्तथापि 'अस्वर्ग्यं लोकविद्विष्टं धर्म्यमप्याचरेन्न तु।' इति निषेधाद्वचनान्तरेण तदुद्वाहस्याविधानाच्च न कार्यः। अयं तु दाक्षिणात्यशिष्टाचारात्कार्य इति। न च पूर्वोक्तश्रुतीनामर्थवादमात्रता; मानान्तरेणासिद्धौ 'उपरि हि देवेभ्यो धारयति' इतिवदनुवादानुपपत्त्या विधिकल्पनात्। यत्तु शातातपः– 'मातुलस्य सुतामूढ्वा मातृगोत्रां तथैव च। समानप्रवरां चैव त्यक्त्वा चान्द्रायणं चरेत्॥' यच्च मनुः– ‘पैतृष्वसेयीभगिनीं स्वस्रीयां मातुरेव च। मातुश्च भ्रातुराप्तस्य गत्वा चान्द्रायणं चरेत्॥ एतास्तिस्रस्तु भार्यार्थे नोपयच्छेत बुद्धिमान्॥' यच्च व्यासः–‘मातुः सपिण्डा यत्नेन वर्जनीया द्विजातिभिः।' इति, तद्गान्धर्वादिविवाहोढमातृविषयम् ; तत्र पितृगोत्रानिवृत्तेः। अत एव मार्कण्डेयपुराणम्— 'गान्धर्वादिविवाहेषु पितृगोत्रेण धर्मवित्।' इति। ब्राह्मादिविवाहे तु परिणेयैवेति। भट्टसोमेश्वरोऽपि तृतीयेऽध्याये वाक्यपादे मातुलकन्योद्वाहमुदाहृत्य स्मृतिविरोधेनाचारप्राप्तस्यास्य वार्तिके बाधोक्तावपि पूर्वोक्तश्रौतलिङ्गबलीयस्त्वादस्य कर्तव्यतामाह तदेतद्दत्तकस्यपालदत्रिममातृसोदरकन्याविषयत्वेनासवर्णमातुलकन्याविषयत्वेन युगान्तरपरत्वेन चोपपन्नमपि अविचारितरमणीयं यथा, तथास्तु। तथापि कलौ तावन्निषिद्धमेव; 'गोत्रान्मातुः सपिण्डाच्च विवाहो गोवधस्तथा।' इत्यादिपुराणात्। माधवीये बौधायनोऽप्यस्य निन्दामाह– 'पञ्चधा विप्रतिपत्तिर्दक्षिणतस्तथोत्तरत ऊर्णाविक्रयोऽनुपेतेन स्त्रिया च सह भोजनं पर्युषितभोजनं मातुलपितृष्वसृदुहितृपरिणयनम्' इति। 'अथोत्तरतः सीधुपानादिकमुक्त्वा इतर इतरस्मिन्कुर्वन्दुष्यति इतर इतरस्मिन्' इति, भट्टसोमेश्वरेणापि स्मृतिविरुद्धानां मातुलकन्योद्वाहादीनामस्माद्वचनादप्रामाण्य मित्युक्तम्। बृहस्पतिरपि– 'उदूह्यते दाक्षिणात्यैर्मातुलस्य सुता द्विजैः। मत्स्यादाश्च नराः पूर्वे, व्यभिचाररताः स्त्रियः॥ उत्तरे मद्यपाश्चैव स्पृश्या नॄणां रजस्वलाः॥' इत्यनाचारत्वमाह। अत एव हेमाद्रौ मात्स्ये कर्नाटकादीनां तत्कारिणां श्राद्धे निषेधः। बोपदेवेनापि लिखितं ब्राह्मम्– 'यत्र मातुलजोद्वाही यत्र वै वृषलीपतिः। श्राद्धं न गच्छेत्तद्विप्राः कृतं यच्च निरामिषम्॥” इति। तस्मान्मातृतः पञ्च, पितृतः सप्तत्यक्त्वोद्वदिति सिद्धम्

सम्बन्धविवेके सुमन्तुः- 'ब्राह्मणानामेकपिण्डस्वधानामादशमाद्धर्मविच्छित्तिर्भवति, आसप्तमाद्रिक्थविच्छित्तिर्भवति, आतृतीयात्पिण्डविच्छित्तिः, अन्यथा पिण्डशौचक्रियाविच्छेदाद्ब्रह्महतुल्यो भवति।' अस्यार्थमाह शूलपाणिः- 'जीवत्पित्रादित्रिकस्य वृद्धप्रपितामहादयस्त्रयः श्राद्धदेवतात्वात्पिण्डभाजो भवन्ति, तदूर्ध्वं त्रयो नवपुरुषपर्यन्ता लेपभाजः, श्राद्धकर्ता च दशम इति दशमादूर्ध्वं सापिण्ड्यनिवृत्तिः। 'दशमात्' इत्युपलक्षणम्। तेन पितृपितामहजीवने नवपुरुषपर्यन्तं, पितृजीवने चाष्टपुरुषपर्यन्तं सापिण्ड्यमिति ज्ञेयम्।' अपुत्रधनग्रहणे सन्निहिताभावे सप्तपुरुषपर्यन्तमधिकारः। धनग्राहिणमारभ्य तृतीयः पौत्रः, तदूर्ध्वं श्राद्धविच्छेदः। अन्यथा धनहारित्वेऽपुत्रश्राद्धाद्यकरणे ब्रह्महेत्यर्थः। आतृतीयादित्यनूढकन्याविषयम्; 'अप्रत्तानां तु स्त्रीणां त्रिपुरुषी विज्ञायते' इति वसिष्ठोक्तेः। एतच्चाशौचविषयं सापिण्ड्यं, न तु विवाहादौ। तत्र पूर्वोक्तवचनैः पञ्चमत्वसप्तमत्वनियमादिति मेधातिथिप्रमुखा दाक्षिणात्याः। वाग्दानोत्तरमेतदिति शुद्धिविवेकः। मातृकुलविषयं कानीनकन्यकाविषयं चैतत्। अन्यथा- 'अप्रत्तानां तथा स्त्रीणां सापिण्ड्यं साप्त पौरुपम्। प्रत्तानां भर्तृसापिण्ड्यं ग्राह देवः प्रजापतिः॥' इति कौर्मेण विरोधः स्यादिति रत्नाकरस्मृतितत्त्वादिगौडग्रन्थाः।- युक्तं चैतत् ; अन्यथा कन्योत्पत्तौ पुरुषत्रयपर्यन्तमेव सूतकं स्यान्नोर्ध्वम्।

सापत्नमातामहकुले त्वाह मिताक्षरायां शङ्खः-'यद्येकजाता बहवः पृथक्क्षेत्राः पृथग्जनाः। एकपिण्डाः पृथक्शौचाः पिण्डस्त्वावर्तते त्रिषु॥' पृथक्क्षेत्राः=भिन्नजातीयस्त्रीषु जाताः। पृथग्जनाः=सजातीयभिन्नमातृषु जाताः। अत्र त्रिपुरुषं सापिण्ड्यमिति विज्ञानेश्वरो व्याचख्यौ। पृथ्वीचन्द्रोदये सापिण्ड्यदीपिकायां चैवम्। मदनपारिजाते तु पृथक्क्षेत्रजाः=भिन्नमातृजाः=पृथग्जनाः भिन्नजातीयाः। एतद्विजातीयसापत्नमातृकुलविषयम्। सवर्णसापत्नमातृकुले चतुःपुरुषं सापिण्ड्यम्; 'पञ्चमीं सप्तमीं चैव मातृतः पितृतस्तथा।' इति वसिष्ठोक्तेः। सप्तमीमिति ब्राह्मणादीनां क्षत्रियादि दारोत्पन्नपितृकुलविषयं चेत्युक्तं तत्स्वकपोलकल्पितत्वात् ग्रन्थान्तरविरोधाच्च निर्मूलम् ; 'पितृपत्न्यः सर्वा मातरः' इत्युक्त्वा, सुमन्तुना 'तदपत्यानि भागिनेयानि' इति पृथङ्निषेधाच्च। अन्यथा सपिण्डत्वेन निषेधात्सापत्नमातुलत्वादिनिर्देशो व्यर्थः। अत एव तेन स्मृतिकौमुद्यां सवर्णसापत्नमातामहकुलपरत्वेन तथैव शङ्खवचनं व्याख्यातम्। तेन वासिष्ठं 'पञ्चमीं सप्तमीमतीत्य' इति व्याख्येयम्। तस्मात्प्राच्येव व्याख्या युक्ता।प्रयोगरत्ने भट्टैः स्मृतितत्त्वादिगौडग्रन्थेषु च सपनमातामहकुले यावदुक्तं वाचनिकमेव सापिण्ड्य मुक्तम्। यथाह सुमन्तुः- 'मातृपितृसम्बद्धा आ सप्तमादविवाह्या भवन्ति। आ पञ्चमादन्येषां, पितृपत्न्यः सर्वा मातरस्तद्भ्रातरो मातुलास्तद्भगिन्यो मातृष्वसारस्तदुहितरश्च भगिन्यस्तदपत्यानि भागिनेयानि। अन्यथा सङ्करकारिणः स्युस्तथाऽध्यापयितुरेतदेव' इति।

आ पञ्चमादिति मातृकुले त्रिगोत्रान्तरितविषयं वेति प्राच्याः। मात्स्ये- 'समानप्रवरा चैव शिष्यसन्ततिरेव च। ब्रह्मदातुर्गुरोश्चैव सन्ततिः प्रतिषिध्यते॥” तद्भगिन्यो मातृष्वसार इति तु आकरे न पठितम्। क्वचिद्वचनादविवाहः। यथा गृह्यपरिशिष्टे- 'अविरुद्धसम्बन्धामुपगच्छेत' इत्युक्त्वा विरुद्धसम्बन्धः स्वयमेवोक्तः। यथा- ' भार्या स्वसुर्दुहिता पितृव्यपत्नी स्वसा च' इति। बौधायनः- 'मातुः सपत्न्या भगिनीं तत्सुतां च विवर्जयेत्। पितृव्यपन्या भगिनीं तत्सुतां च विवर्जयेत्॥' अतो मातृष्वसुः सापत्नपुत्रकन्यायविवाह्या; 'सापत्नमातृकुलजाम्' इति मदनपारिजातोक्तेरिति केचित्।

केचित्तु- 'ज्येष्ठो भ्राता पितुः समः' इति मनूक्तेस्तत्तत्पत्न्यः मातृत्वात्तत्पितुर्मातामहत्वा ज्येष्ठ भ्रातृ पत्नीभगिनी विवाह्या। तथा- 'उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता।' इति मनूक्तेर्गुरुणा त्रिपुरुषं सापिण्ड्यं, सखापि निर्वाप्यः; अतस्तेषां कन्या नोद्वाह्याः 'गायत्र्या उपदेष्टुश्च कन्यां नैवोद्रहेद्द्विजः। गुरोश्च कन्यां शिष्यो वा तत्सन्तत्यापि नेष्यते॥ पुरुषत्रयपर्यन्तं भ्रात्रादेर्नैतदिष्यते। वाक्सम्बन्धकृतानां तु स्नेहसम्बन्धभागिनाम्। विवाहोऽत्र न कर्तव्यो लोकगर्हा प्रसज्यते॥' इति वचनाच्चेत्याहुः। तत्र मूलं चिन्त्यम्।

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬