🕉️ 24 November 2026, Tuesday · 08:18:07 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← निर्णयसिन्धु — परिच्छेद-सूची

📖 निर्णयसिन्धु · तृतीय परिच्छेद (पूर्वार्ध) — संस्कार, विवाह, प्रतिष्ठा आदि प्रकीर्ण · पृष्ठ 41/87

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

दत्तकसापिण्ड्यविचारः

दत्तकविषये तूच्यते। तत्र गौतमः- 'ऊर्ध्वं सप्तमात्पितृबन्धुभ्यो बीजिनश्च मातृबन्धुभ्यः पञ्चमात्'- इति बन्धुग्रहणान्न दत्तकमात्रपरमिदम्, किन्तु सन्तानेऽपि। एतत्क्षेत्रजादिसर्वद्व्यामुष्यायणपरमिति हरदत्तः। अत्र स्मृतिचन्द्रिका'नियोगात् य उत्पादयति तस्माद्वीजिनोऽप्यूर्ध्वं सप्तमादित्यर्थः' इति, दत्तकस्य जनकविषयमेतदिति सापिण्ड्यमीमांसायाम्। तेन दत्तकस्य जनककुले साप्तपौरुषं, जननीकुले पाञ्चपौरुषं सापिण्ड्यम्, 'दत्तक्रीतादिपुत्राणां बीजवप्तः सपिण्डता।सप्तमी पञ्चमी चैव गोत्रित्वं पालकस्य च॥' इति बृहन्मनूक्तेः, 'बीजिनश्च' इति गौतमोक्तेश्च। पालकपितृकुले तु पञ्चपुरुषम्, पालकमातृकुले त्रिपुरुषम्। तथा चापरार्के पैठीनसि:- 'त्रीन्मातृतः पञ्च पितृतः पुरुषानतीत्योद्वहेत्' इत। एतत्स एव व्याचख्यौ- 'दत्तकादीन्पुत्रान् पितृपक्षतो निवृत्तपिण्डगोत्रार्पेयान्प्रत्येतदुच्यते पञ्च पितृत इति, नान्यान्प्रति' इति। यत्तु वृद्धगौतमः- 'स्वगोत्रेषु कृता ये स्युर्दत्तक्रीतादयः सुताः। विधिना गोत्रमायान्ति न सापिण्ड्यं विधीयते॥', यच्च वसिष्ठः- 'अन्यशाखोद्भवो दत्तः पुत्रश्चैवोपनायितः। स्वगोत्रेण स्वशाखोक्तविधिना स्यात्स्वशाखभाक्॥' इति। यच्च नारदः- 'धर्मार्थं वर्धिताः पुत्रास्तत्तद्गोत्रेण पुत्रवत्। अंशपिण्डविभागित्वं तेषु केवलमीरितम्॥' तत् पालककुले साप्तपौरुषं सापिण्ड्यं नेत्येवम्परं, न तु सर्वथा सापिण्ड्यनिषेधपरमिति सापिण्ड्यमीमांसायाम्। मदनपारिजातादपि दत्तकानुप्रवेशेऽल्पं सापिण्ड्यं प्रतिभाति। तथा हि तेन 'त्रीेनतीत्य ' इत्युदाहृत्य यस्य माता दत्तपुत्री प्रतिग्रहीत्रा पुत्रीकृता तस्याः प्रतिग्रहीतृकुले त्रीनतीत्येति, पञ्च पितृत इति यस्य दत्तपुत्रः पिता तस्य दत्तस्य यजनककुलं तद्विषयमित्युक्तम्।

वस्तुतस्तु पूर्ववचसां महानिबन्धेषु क्वाप्यनुपलम्भादपरार्कादिलिखनाभाषात् पूर्वोक्तव्यवस्थायाश्च प्रातिभज्ञानतुल्यवाद्यैरेतल्लिखितं तेषामेव शोभते।

मम तु पालककुले एकपिण्डदानक्रियान्वयित्वरूपं साप्तपौरुपमेव सापिण्ड्यम्; 'बीजिनश्च' इति गौतमोक्तेर्जनककुलेऽपि तावदेव। 'त्रीन् मातृतः' इत्यादि तु सवर्णसापत्नमातृकुलपरम्, 'यद्येकजाता बहवः' इति शाङ्खैकवाक्यत्वादिति युक्तं प्रतिभाति। अत एवास्य द्व्यामुष्यायणत्वं हेमाद्रिप्रवरमञ्जरीवृत्तिकृन्नारायणादिभिरुक्तम्। भट्टसोमेश्वरेणापि– 'पृथायाः कुन्तिभोजस्य पालककन्यात्वेऽपि ऊर्ध्वं सप्तमात् पितृबन्धुभ्यो बीजिनश्च' इति गौतमोक्तेर्दत्रिमायाः पृथाया जनकस्य शूरसेनस्य कुलेऽपि साप्तपौरुषम्, पालककुलेऽपि तावदेव सापिण्ड्यमुक्तम् 'अपि वा कारणाग्रहणे' इत्यत्र सापिण्ड्यदीपिकायां तु दत्तक्रीतादीनां जनकगोत्रेणोपनयने कृते जनककुले साप्तपौरुषं सापिण्ड्यम्, पालकमातापितृकुले त्रिपुरुषम्, पिण्डनिर्वापान्निर्वाप्यलक्षणं त्रिपुरुपं सापिण्ड्यम्, पालकगोत्रेणोपन यने तत्कुले साप्तपौरुपमित्युक्तम्। तन्न; 'चूडोपायनसंस्कारा निजगोत्रेण वै कृताः। दत्ताद्यास्तनयास्ते स्युरन्यथा दास उच्यते॥ इति कालिकापुराणादुपनयनोत्तरं दत्तकनिषेधात्। त्रिपुरुषमित्यत्रापि मूलं मृग्यमित्यलं बहुना।

मातापितृद्वारकसपिण्ड्यवतीनां कन्यानामियं सङ्ख्या रामवाजपेयिनोक्ता– 'उद्वोदुः पितरौ पितुश्च पितरौ तज्जन्मकृहम्पतिद्वन्द्वं तस्य चतुष्कमष्ट च ततोऽप्यस्य कमात्षोडश। वंशारम्भकदम्पतीप्रमितिरित्यासप्तकक्षं रदा एकैकान्वयकन्यकाः पितृकुले त्वासप्तकक्षं ब्रुवे॥ यद्यप्येकस्य बहवः सुताः स्युस्तदपीह तु। सम्बन्धसाम्यादेकैव गणितेत्यव धार्यताम्॥ एकस्मान्मिथुनात्सुतोऽथ दुहिता द्वन्द्वद्वयं तद्द्वयात्तस्माद्वन्द्वचतुष्कमष्ट च ततोऽतः षोडशाऽतो रदाः। यावत्सप्तमकक्षमग्निऋतवः कन्या इहैकान्वये ता दन्तैर्गुणिता रसैकखदृशो वंशे सपिण्डाः पितुः॥ मातुर्जन्मददम्पती च मिथुनद्वन्द्वं तयोः सागरास्तस्याः पञ्चमकक्षमश्वमितिरित्येकान्वयः पुंसुते। द्वन्द्वाद्द्वन्द्वयुगं ततोऽब्धय इतोऽष्टौ पञ्चकक्षं शरक्षोण्यः सप्तगुणाः शराभ्रविधवो मातुः सपिण्डाः कुले। कुलद्वयस्य कन्यकायुता मिथः सपिण्डकाः। हिमांशुदृग्धरादृशो विवाहकर्मवर्जिताः॥' इति। एतच्च सर्ववर्णसाधारणम्, सर्वत्र सापिण्ड्यसद्भावादिति विज्ञानेश्वरोक्तेः। 'पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतः क्रमात्। सपिण्डता निवर्तेत सर्ववर्णेष्वयं विधिः॥' इति हरनाथधृतदेवलवचनाच्च। संवन्धतत्त्वे सुमन्तुः– 'पितृष्वसृसुतां मातृष्वसृसुतां मातुलसुतां मातृसगोत्रां समानार्षेयीं विवाह्य चान्द्रायणं चरेत्परित्यज्यैनां मातृवद्विभृयात्' इति दिक् ऋषेरिदमार्षं प्रवरः, गोत्रं प्रसिद्धम्,समाने आर्षगोत्रे यस्य तस्माज्जाता या न भवति ताम्॥

सङ्क्षेपेण गोत्रप्रवरनिर्णयः

अथ सङ्क्षेपेण गोत्रप्रवरनिर्णयः। तौ च भिन्नौ निषेधे निमित्तम्; 'सगोत्राय दुहितरं न प्रयच्छेत्' इति आपस्तम्बोक्तेः 'असमानप्रवरैर्विवाहः' इति गौतमोक्तेश्च। तत्र गोत्रलक्षणमाह प्रवरमञ्जर्या बौधायनः - 'विश्वामित्रो जमदग्निर्भरद्वाजोऽथ गौतमः। अत्रिर्वसिष्ठः कश्यप इत्येते सप्त ऋषयः॥ सप्तानामृषीण मगस्त्याष्टमानां यदपत्यं तद्गोत्रम्।' इति। यद्यपि केवलभार्गवेष्वाष्र्ष्टिषेणादिषु केवलाङ्गिरसेषु हरितादिषु च नैतत्, भृग्वङ्गि्रसोरुक्तेष्वनन्तर्गतेः। तथाप्यत्रेष्टापत्तिरेवेति केचित्। अत एव स्मृत्यर्थसारे प्रवरैक्यादेवात्राविवाह उक्तः। यद्यपि वसिष्ठादीनां न गोत्रत्वं युक्तम्, तेषां सप्तर्षित्वेन तदपत्यत्वाभावात्, तथापि तत्पूर्वभाविवासिष्ठाद्यपत्यत्वेन गोत्रत्वं युक्तम्। अत एवपृर्वेषां परेषां चैतद्गोत्रम्। अत्र विशेषोऽस्मत्कृतप्रवरदर्पणे ज्ञेयः\।\।

प्रवरास्तु प्रवरणानि प्रवराः। कल्पकारा हि 'वासिष्ठेति होता', 'वसिष्ठवदित्यध्वर्युः'इत्यादिना येषां प्रवरणमामनन्ति ते प्रवराः। तच्च वरणं यद्यपि गोत्रभूतस्यापि क्वचिदृश्यते तथापि पूर्ववदृषिभेदो द्रष्टव्यः; अन्यथा तेषां त्र्यार्षेये 'एकार्षे' इत्यादिनिर्देशानुपपत्तेः।अन्ये तु तद्गोत्राणां त्र्यार्षेय इति भेदमाहुरिति दिक्। तत्त्वं तु - गोत्रभूतस्य पितृ-पितामह -प्रपितामहा एव प्रवराः, 'पितैवाग्रेऽथ पुत्रोऽथ पौत्रः' इति शतपथश्रुतेः 'परं परं प्रथमम्' इत्याश्वलायनोक्तेश्च। अत्र विशेषमाह बौधायनः- 'एक एव ऋषियवत्प्रवरेष्वनुवर्तते। तावत्समानगोत्रत्वमन्यत्र भृग्वङ्गिरसां गणात्' इति। स्मृत्यर्थसारे - 'व्रियमाणतया वापि सत्तया वानुवर्तनम्। एकस्य दृश्यते यत्र तद्गोत्रं तस्य कथ्यते॥' भृग्वङ्गिरोगणेषु तु माधवीये स्मृत्यन्तरे- 'पञ्चार्षे त्रिषु सामान्यादविवाहत्रिषु द्वयोः। भृग्वङ्गिरोगणेष्वेव शेपेष्वेकोऽपि वारयेत्॥' शेषगोत्रेषु एकोऽपि समानः प्रवरो विवाहं वारयेदित्यर्थः। बौधायनोऽपि - भृग्वङ्गिरसावधिकृत्य 'द्व्यार्षेयसन्निपातेऽविवाहस्त्र्यार्षेयाणां, त्र्यार्पेयसन्निपातेऽविवाहः पञ्चार्पेयाणाम्' इति। भृग्वङ्गिरोगणेष्वपि जमदग्निगौतमभरद्वाजेष्वे कप्रवरसाम्ये सर्वेषामप्यसाम्ये वा सगोत्रत्वा देवाविवाह इति दिक्॥

गोत्राणि प्रवराश्चोच्यन्ते

अथ गोत्राणि प्रवराश्चोच्यन्ते। तत्र बौधायनः - 'गोत्राणां तु सहस्राणि प्रयुतान्यर्बुदानि च। ऊनपञ्चाशदेवैषां प्रवरा ऋषिदर्शनात्॥' तत्र सप्त भृगवः। वत्सा विदा आर्ष्टिषेणा यास्का मित्रयुवो वैन्याः शुनका इति। वत्सानां भार्गवच्यावनाप्नवानौर्वजामदग्न्येति, भार्गवौर्वजामदम्येति वा, भार्गवच्यावनाप्नवानेति वा। विदानां पञ्चभार्गवच्यावनाप्नवानौर्ववैदेति, भार्गवौर्वजामदग्न्येति वा। एतौ द्वौ जामदग्न्यसञ्ज्ञौ। आष्टिषेणानां भार्गवच्यावनाप्नवानाष्टिषेणानूपेति, भार्गवार्ष्टिषेणानूपेति वा। एषां त्रयाणां परस्परमविवाहः। वात्स्यानां भार्गवच्यावनाप्नवानेति। वत्सपुरोधसयोः पञ्च। भार्गवच्या वनाप्नवानवात्सपौरोधसेति। बैजवनिमतिथयोः पञ्च। भार्गवच्यावनाप्नवानबैजमतिथेति। एते त्रयः क्वचित्। एषामपि पूर्वैरविवाहः। अत्र तत्तद्गणस्था ऋषयोऽन्यश्च विशेषो मत्कृते प्रवरदर्पणे ज्ञेयः। यस्कानां भार्गववैतहव्यसावेतसेति। मित्रयुवां भार्गववाध्यश्व-

३ ३ – तथा चोक्तम्- 'जामदयौ वत्स-बिदा वार्ष्टिषेणाः परस्परम्। नान्वियुः प्रवरैक्येन सगोत्रत्वेन चादिमौ॥' इति।

दैवोदासेति, भार्गवच्यावनदैवोदासेति वा, वाघ्र्यग्श्वेत्येको वा। वैन्यानां भार्गववैन्यर्थेति। एत एव श्यैताः। शुनकानां शुनकेति वा गार्त्समदेति वा भार्गवगार्त्समदेति द्वौ वा। भार्गवशौनहोत्रगार्ल्समदेति त्रयो वा। वेद विश्वज्योतिषां भार्गववेदवैश्वज्योतिषेति। शाठरमाठराणां भार्गवशाठरम ठरेति। एतौ द्वौ क्वचित्। यस्कादीनां स्वगणं त्यक्त्वा सर्वैर्विवाहः। तदुक्तं स्मृत्यर्थसारे - 'यस्का मित्रयुवो वैन्याः शुनकाः प्रवरैक्यतः। स्वं स्वं हित्वा गणं सर्वे विवहेयुः परावरैः॥' इति॥

## अथाङ्गिरसः। ते गौतमाः, भरद्वाजाः, केवलाङ्गिरसश्चेति त्रिधा। अत्र गौतमा दश - आयास्याः, शरद्वताः, कौमण्डाः, दीर्घतमसः, औशनसाः, कारेणुपालेयाः, राहूगणाः, सोमराजकाः, वामदेवाः, बृहदुक्थाश्चेति। तत्रायास्यानामाङ्गिरसायास्यगौतमेति। शरद्वतानामाङ्गिरसगौतमशारद्वतेति। कौमण्डानामाङ्गिरसौतथ्यकाक्षीवतगौतमकौमाण्डेति वा, आङ्गिरसायास्यौशिजगौतमकाक्षीवतेति वा, आङ्गिरसौतथ्यगौतमौशिजकाक्षीवतेति वा, आङ्गिरसौशिजकाक्षीवतेति त्रयो वा। दीर्घतमसामाङ्गिरसौतथ्यकाक्षीवतगौतमदैर्घतम सेति, आङ्गिरसौतथ्यदैर्घतमसेति त्रयो वा। औशनसानामाङ्गिरसगौतमौशनसेति त्रयः। कारेणुपालेयानामाङ्गिरसगौतमकारेणुपालेति त्रयः। राहूगणानामाङ्गिरसराहूगणगौतमेति। सोमराजकानामाङ्गिरससोमराजकगौतमेति। वामदेवानामाङ्गिर-सवामदेव्यगौतमेति। बृहदुक्थानामाङ्गिरसबार्हदुक्थगौतमेति, आङ्गिरसवामदेवबार्हदुक्थेति वा। उतथ्यानामाङ्गिरसौतथ्यगौतमेति। औशिजानाम्-‘आङ्गिरसौशिजकाक्षीवत' इत्यापस्तम्बः। 'आङ्गिरसायास्यौशिजगौतमकाक्षीवत' इति कात्यायनः। एतौ द्वौ क्वचित्। राघुवानामाङ्गिरसराघुवगौतमेति केचित्। तत्र मूलं चिन्त्यम्। एषां सर्वेषां गौतमानामविवाहः॥

## अथ भरद्वाजाः। ते चत्वारः। भरद्वाजाः, गर्गाः, ऋक्षाः, कपय इति। भरद्वाजानामाङ्गिरसधार्हस्पत्यभारद्वाजेति त्रयः। गर्गाणामाङ्गिरसबार्हस्पत्यभारद्वाजसैन्यगाये॑ति पञ्च, आङ्गिरससैन्यगार्गेति त्रयो वा, अन्त्ययोर्व्यत्ययो वा, भारद्वाजगार्ग्यसैन्येति वा गर्गभेदानामाङ्गिरस-तैत्तिरिका पिभुवेति। ऋक्षाणां कपिलानां चाङ्गिरसबार्हस्पत्यभरद्वाजवान्दनमातवचसेति पञ्च, आङ्गिरसवान्दनमातवचसेति त्रयो वा। कपीनामाङ्गिरसामहीयवौ रुक्षयसेति। आत्मभुवामाङ्गिरसभारद्वाजबार्हस्पत्यमन्त्रवरात्मभुवेति पञ्च। अयं क्वचित्। भरद्वाजानां सर्वेषामबिवाहः॥

## अथ केवलाङ्गिरसः। ते च षट्- हारिताः, कुत्साः, कण्वाः, रथीतराः, मुद्गलाः, विष्णुवृद्धाश्चेति। हारितानाम् आङ्गिरसाम्बरीषयौवनाश्वेति, आद्यो मान्धाता वा। कुत्सानामाङ्गिरसमान्धातृकौत्सेति, कण्वानामाङ्गिरसा जमीढकाण्वेति, आङ्गिरसघोरकाण्वेति वा।

रथीतराणामाङ्गिरसवैरूपराथीतरेति, आङ्गिरसवैरूपपार्षदश्चेति वा अष्टादंष्ट्रपार्षदश्ववैरूपेति वा, अन्त्ययोर्व्यत्ययो वा। मुद्गलानामाङ्गिरसभार्म्याश्वमौद्गल्येति, आद्यस्तार्क्ष्यो वा, आङ्गिरसतार्क्ष्यमौद्गल्येति वा विष्णुवृद्धानामाङ्गिरसपौरुकुत्स्यत्रासदस्यवेति। एषां स्वगणं विहाय सर्वैर्विवाहो भवति। हारितकुत्सयोस्तु न भवति॥

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬