🕉️ 24 November 2026, Tuesday · 08:22:23 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← निर्णयसिन्धु — परिच्छेद-सूची

📖 निर्णयसिन्धु · तृतीय परिच्छेद (पूर्वार्ध) — संस्कार, विवाह, प्रतिष्ठा आदि प्रकीर्ण · पृष्ठ 42/87

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

अत्रयः

अथात्रयः। ते चत्वारः। अत्रयः, वाद्भुतकाः, गविष्ठिराः, मुगला इति। आद्यानामात्रेयार्चनानसश्यावाश्वेति। वाद्भुतकानाम् आत्रेयार्चनानसवाद्भुतकेति। धनञ्जयानामात्रेयार्चनानसधानञ्जयेति क्वचित्। गविष्ठिराणामात्रेयाचनानसगाविष्ठिरेति, आत्रेयगाविष्ठिर पौर्वातिथेति वा। मुद्गलानामात्रेयार्चनानसपौर्वातिथेति। वामरथ्यसुमङ्गलबैजवापानामात्रेयार्चना-नसातिथेति, आत्रेयाचनानसगाविष्ठिरेति वा। सुमङ्गलानामत्रिसुमङ्गलश्यावाश्वेति केचित्। अत्रेः पुत्रिकापुत्राणामात्रेयवामरथ्यपौत्रिकेति। अत्रीणां सर्वेषामविवाहः॥

विश्वामित्राः

अथ विश्वामित्राः। ते दश - कुशिकाः, लोहिताः, रौक्षकाः, कामकायनाः,अजाः, कताः, धनञ्जयाः, अघमर्षणाः, पूरणाः, इन्द्रकौशिका इति। कुशिकानां वैश्वामित्रदेवरातौदलेति। लोहितानां वैश्वामित्राष्ट-कलौहितेति, अन्त्ययोर्व्यत्ययो वा, वैश्वामित्रमाधुच्छन्दसाष्टकेति वा, वैश्वामित्राष्टकेति द्वौ वा। रौक्षकाणां वैश्वामित्रगाथिनरैवणेति, वैश्वामित्ररौक्षकरैवणेति वा। कामकायनानां वैश्वामित्रदेवश्रवसदैवतरसेति। अजानां वैश्वामित्रमाधुच्छन्दसाजेति, वैश्वामित्राश्मरथवाधूलेति वा। कतानां वैश्वामित्रकात्यात्कीलेति धनञ्जयानां विश्वामित्रमाधुच्छन्दसधानञ्जयेति, वैश्वामित्र माधुच्छन्दसाघमर्पणेति वा। अघमर्षणानां वैश्वामित्राघमर्षणकौशिकेति। रेणूनां वैश्वामित्रपौरणेति द्वौ, वैश्वामित्रदेवरातपौरणेति वा।इन्द्रकौशिकानां वैश्वामित्रेन्द्रकौशिकेति द्वौ। एते बौधायनोक्ताः। रौहिणानां वैश्वामित्रमाधुच्छन्दसरौहिणेति। रेणूनां वैश्वामित्रगाथिनरैणवेति। वेणूनां वैश्वामित्रगाथिनवैणवेति। जह्नूनां वैश्वामित्रशालङ्कायन कौशिकेति। आश्मरथ्यानां वैश्वामित्राश्मरथ्यवाधूलेति। उदवेणूनां वैश्वामित्रगाथिन वैणवेति। एते आश्वलायनमात्स्योक्ताः। अन्यैस्त्वन्येऽपि षङ्गणा उक्ताः। तेऽन्यत्र मत्कृतौ ज्ञेयाः। एषां विश्वामित्राणामविवाहः

##

## अथ कश्यपाः। ते पञ्च - निधुवाः, कश्यपाः, रेभाः, शण्डिलाः, लौगाक्षयश्च। निध्रुवाणां काश्यपावत्सारनैध्रुवेति। कश्यपानां काश्यपावत्सारासितेति। रेभाणां काश्यपावस्साररैभ्येति। शण्डिलानां काश्यपावत्सारशाण्डिल्येति। अन्त्यस्थाने देवलो वा, असितो वा,शाण्डिलासितदेवलेति वा, काश्यपासितदेवलेति वा, अन्त्ययोर्व्यत्ययो वा, देवलासितेति द्वौ वा। लौगाक्षीन् वक्ष्यामः। एषां कश्यपानामविवाहः

## अथ वसिष्ठाः। ते पञ्च - वसिष्ठाः, कुण्डिनाः, उपमन्यवः, पराशराः, जातूकर्ण्याश्चेति। वासिष्ठानां वासिष्ठेन्द्रप्रमदाभरद्वस्विति, वासिष्ठेत्येको वा। कुण्डिनानां वासिष्ठमैत्रावरुणकौण्डिन्येति। उपमन्यूनां वासिष्ठेन्द्रप्रमदाभरद्वस्विति, वासिष्ठाभरद्वविन्द्रप्रमदेति वा,आद्ययोर्व्यत्ययो वा। पराशराणां वासिष्ठशात्त्यपाराशर्येति। जातूकर्ण्यानां वसिष्ठात्रिजातूकर्ण्येति। वसिष्ठानां सर्वेषामविवाहः, अन्त्यस्यात्रिभिश्च॥

आगस्त्याः

अथागस्त्याः। ते चत्वारः। इध्मवाहाः, साम्भवाहाः, सोमवाहाः, यज्ञवाहाश्चेति। आद्यानामागस्त्यदार्ढ्यच्युतैध्मवाहेति, आगस्त्येत्येको वा। सोमवाहानामागस्त्यदार्ढ्यच्युतसोमवाहेति। साम्भवाहानां साम्भवाहोऽन्त्यः। यज्ञवाहानां यज्ञवाहोऽन्त्यः। आद्यौ पूर्वोक्तावेव। सारवाहानां तदन्तास्त्रयः। दर्भवाहानां तदन्तास्त्रयः। अगस्तीनामागस्त्यमाहेन्द्रमायोभुवेति। पूर्णमासानामागस्त्यपौर्णमासपारणेति। हिमोदकानामागस्त्यहैमवचिहैमोदकेति। पाणिकानामागस्त्यपैनायकपाणिकेति। एते पट् क्वचित्। अगस्तीनां सर्वेषामविवाहः॥

द्विगोत्राः

अथ द्विगोत्राः। शौङ्गशैशिरीणामाङ्गिरसबार्हस्पत्यभारद्वाजकात्याक्षीलेति पञ्च, कात्याक्षीलयोः स्थाने शौङ्गशैशिरिर्वा। आङ्गिरसकात्याक्षीलेति त्रयो वा। एषां भरद्वाजैर्विश्वामित्रैश्वाविवाहः। एवं कपिलानां कतानां च। सङ्कृतिपूतिमाषादीनाम् आङ्गिरसगौरिवीतिसाङ्कृत्येति, शाक्त्यगौरिवीतिसाङ्कृत्येति वा, ( अन्त्ययोर्व्यत्ययो वा )। एषां स्वगण स्थैर्वसिष्ठैः शौङ्गशैशिरैर्लैगाक्षिभिश्चाविवाहः\। कश्यपैरपीति प्रयोगपारिजाते। लौगाक्षीणां काश्यपावत्सारवासिष्ठेति, काश्यपावत्सारासितेति वा। एतेऽहर्वसिष्ठा नक्तङ्कश्यपाः। एषां वसिष्ठैः कश्यपैः सङ्कृतिभिश्वाविवाहः। देवरातस्य जामदग्न्यैर्विश्वामित्रैश्वाविवाह इति प्रयोगपारिजाते। तदयुक्तम् ; बह्वृश्रुतौ - 'यथैवाङ्गिरसः सन्नुपेयां तव पुत्रताम्। आङ्गिरसो जन्मनास्याजीगर्तिः श्रुतः कविः॥' इत्यङ्गिरोगणस्थत्वेन भार्गवजामदग्न्यत्वस्मृतेर्हरिवंशादिस्मृतेश्च बाधात्। तेन द्वौ देवरातौ एक आङ्गिरसः श्रुत्युक्तः, अन्यो भार्गवः। तयोः कल्पभेदेऽप्याङ्गिरसेन देवरातेन जामदग्न्यैर्भवत्येव विवाहः। भार्गवेण तु नेति तत्त्वम्। धनञ्जयानां विश्वामित्रैरत्रिभिश्चाविवाहः। जातूकर्ण्यानां वसिष्ठैरन्त्रिभिश्चाविवाहः। एवं दत्तक्रीतकृत्रिमस्वयन्दत्तपुत्रिकापुत्रादीनाम्। उत्पादकपालकयोः पित्रोर्गोत्रप्रवरा वर्ज्या इति प्रवरमञ्जरीनारायणवृत्तिप्रयोगपारिजातादयः। अत्र सर्वत्रोपपत्तयो मूलं च मत्कृते प्रवरदर्पणे ज्ञेयमिति दिक्॥

## क्षत्रियवैश्ययोस्तु पुरोहितगोत्रप्रवरावेवेति सर्वसिद्धान्तः। यद्यपि बहुचपरिशिष्टे कपिभरद्वाजयोर्विवाह उक्तस्तथापि - 'भरद्वाजाश्च कपयो गर्गा रौक्षायणा इति। चत्वारोऽपि भरद्वाजगोत्रैक्यान्नान्वयुमिथः॥ कपिगर्गभरद्वाजा मिथो रौक्षायणा द्विजाः। नोद्वहेयुः सगोत्रत्वात्प्रवरैक्याञ्च कुत्रचित्॥” इति स्मृत्यर्थसाराद्युक्तेरविवाह एव तैयोरिति॥ स्वगोत्राद्यज्ञाने तु सत्याषाढ: - 'अथाज्ञातबन्धोः स्वगोत्राज्ञाने पुरोहितप्रवरेणाचार्यप्रवरेण वेति'। आचार्यगोत्रप्रवरानभिज्ञस्तु द्विजः स्वयम्। दत्त्वात्मानं तु निर्णयः। कस्मैचित्तगोत्रनिर्णयः। प्रवरो भवेत्॥ यद्वा स्वगोत्रप्रवरविधुरो जामदग्निजः। विवाहं च न तेनैव गोत्रेण तु समाचरेत्॥' इति कश्चित्। दिवोदासीयेऽपि - 'स्वगोत्रप्रवराज्ञाने जमदग्निमुपाश्रयेत्॥' अथ मातृगोत्रवर्जननिर्णयः। शातातपः - 'मातुलस्य सुतामृदा मातृगोत्रां तथैव च। समानप्रवरां चैव गत्वा चान्द्रायणं चरेत्॥' यद्यपि - 'सगोत्रां मातुरप्येके नेच्छन्त्युद्वाहकर्मणि। जन्मनाम्नोरविज्ञानेऽप्युद्वहेदविशङ्कितः॥ इति व्यासोक्तेरज्ञातनामत्वे _____________________________

## १ — अस्याग्रे – 'प्रवरमञ्जर्या यद्यपीदमुक्तं, तथापि भृग्वाङ्गिरोगणेषु भवत्येव। तथा बहुचपरिशिष्टे बौधायनः- 'एक एव ऋषिर्यावप्रवरेध्वनुवर्तते। तावत्समानगोत्रत्वमृते भृग्वङ्गिरोगणात्॥'माधवीये स्मृत्यन्तरे – 'पञ्चानां तु त्रिसामान्यादविवाहस्त्रिपु द्वयोः। भृग्वङ्गिरोगणेष्वेवं शेषेष्वेकोऽपि वारयेत्॥ 'इति देशाचाराच। सोऽध्यामीरदेशे प्रसिद्धः। चतुर्विंशतिमते – 'यस्तु देशानुरूपेण कुलमार्गेण चोहेत्। नित्यं स व्यवहार्यः स्याद्वेदाचैतत्प्रदृश्यते॥' इति दिक्। तथा च भृगुः – 'यस्मिन् देशे पुरे ग्रामे त्रैविद्ये नगरेऽपि वा। यो यत्र विहितो धर्मस्तं धर्म न विचालयेत्॥' इति। पुनश्चतुर्विंशतिमते – 'यस्मिन् देशे य आचारः पारम्पर्यक्रमागतः। वर्णानां किल सर्वेषां सदाचारः स उच्यते॥' इतीयान्केषुचिर पुस्तकेष्वधिकः पाठः।

## २-मातुर्विवाहापूर्व महोत्रं, मातामहगोत्रमित्याशयः।

न सगोत्रत्वदोषस्तथापि नेदं कलौ प्रवर्तते; 'गोत्रान्मातुः सपिण्डाच्च विवाहो गोवधस्तथा।'इति कलिवर्ज्यत्वोक्तेः। इदं मातृगोत्रवर्जनं माध्यन्दिनीयानामेव; 'मातृगोत्रं माध्यन्दिनी यानामपुत्रायाश्च' इति सत्याषाढोक्तेरिति कश्चित्। तन्निर्मूलम्; अत एवाह प्रवरमञ्जरीकारः - 'दोषस्यातिगुरुत्वात्सर्वेषां मातृगोत्रं वर्ज्यम्' इति। यत्तु 'एकस्मिन्प्रवरेतुल्ये मातृगोत्रे वरस्य च। तमुद्राहं न कुर्वीत सा कन्या भगिनी स्मृता॥' इति मातृकुलप्रवरचिन्तनमुक्तं, तदासुरादिविवाहोढापरमिति दिक्। विस्तरस्तु सपिण्डसग्रन्थान्तरेभ्यो ज्ञेयः॥सगोत्रादिविवाहे प्रायश्चित्तं स्मृत्यर्थसारे - 'इत्थं सगोत्रसम्बन्धविवाहविषये गोत्र विवाहे स्थिते। यदि कश्चिज्ज्ञानतस्तां कन्यामूढोपगच्छति॥ गुरुतल्पव्रताच्छुद्ध्येद्गर्भस्तज्जोऽन्त्यतां प्रायश्चित्तम्। व्रजेत्।भोगतस्तां परित्यज्य पालयेज्जननीमिव। अज्ञानादैन्दवैः शुद्ध्येत्रिभिर्गर्भस्तु काश्यपः॥' एवं सापिण्ड्येऽपि - 'सपिण्डा पत्यदारेषु प्राणत्यागो विधीयते।' इति वृहद्यमोक्तेः। तिथितत्त्वे बौधायनः-‘सपिण्डां सगोत्रां चेदमत्योपयच्छेन्मातृवदेनां बिभृयात्॥'

कन्याविवाहकाल उक्तो ज्योतिर्निबन्धे- 'षडब्दमध्ये नोद्वाह्या, कन्या वर्षद्वयंयतः। सोमो भुङ्क्ते, ततस्तद्वद्गन्धर्वश्च तथाऽनलः॥' राजमार्तण्डः- 'अयुग्मे दुर्भगानारी युग्मे तु विधवा भवेत्। तस्माद्गर्भान्विते युग्मे विवाहे सा पतिव्रता॥ मासत्रयादूर्ध्वमयुग्मवर्षे युग्मेऽपि मासत्रयमेव यावत्। विवाहशुद्धिं प्रवदन्ति सन्तो वात्स्यादयः स्त्रीजनिजन्ममासात्॥' पराशरमाधवीये तु 'जन्मतो गर्भाधानाद्वा पञ्चमाब्दात्परं शुभम्। कुमारीवरणं दानं मेखलाबन्धनं तथा॥' इत्युक्तम्। सम्बन्धतत्त्वे यमः-'कन्या द्वादशवर्षाणि याऽप्रदत्ता वसेद्गृहे \। ब्रह्महत्या पितुस्तस्याः सा कन्या वरयेत्स्वयम्॥भारते–'त्रिशद्वर्षः षोडशाब्दां भार्थी विन्देत न^(२)ग्निकाम्। द्व्यष्टवर्षोऽष्टवर्षां वा धर्मे सीदति सत्वरः॥ अतोऽप्रवृत्ते रजसि कन्यां दद्यात्पिता सकृत्॥' तत्रैव - 'सप्तसंवत्सरादूर्ध्वं विवाहः सार्ववर्णिकः। कन्यायाः शस्यते राजन्नन्यथा धर्मगर्हितः॥' राजमार्तण्ड: 'राहुग्रस्ते तथा युद्धे पितॄणां प्राणसंशये। अतिप्रौढा च या कन्या चन्द्रलग्नबले न तु॥' मनुः - 'त्रिंशद्वर्षो वहेत्कन्यां हृद्यां द्वादशवार्षिकीम्। त्र्यष्टवर्षोऽष्टवर्षां वा धर्मे सीदति सत्वरः॥' यद्यपि - 'विवाहस्त्वष्टवर्षायाः कन्यायाः शस्यते बुधैः।' इति संवर्तोक्तेः 'अत ऊर्ध्वं रजस्वला' इत्यादेश्च दशवर्षादूर्ध्वं विवाहो निषिद्धः, तथापि दातुरभावे द्वादश -_____________________________

२ नग्निकालक्षणं गृह्यसङ्ग्रहे- 'नग्निकां तु वदेत् कन्यां यावन्र्तन्नर्तुमती भवेत्। ऋतुमती स्वनग्निका तां प्रयच्छेत्तु नग्निकाम् अप्राप्ता रजसो गौरी प्राप्ते रजसि रोहिणी। अव्यञ्जिता भवेत् कन्या कुचहीना च नग्निका॥' इति। अतो रजोदर्शनात्प्रागेव विवाहकारणमुक्तं तत्रैव। यथा - 'व्यञ्जनैस्तु समुत्पञ्चैः सोमो भुञ्जीत कन्यकाम्। पयोधरैस्तु गन्धर्वा रजसाऽग्निः प्रकीर्तितः॥ तस्मादव्यञ्जनोपेतामरजामपयोधराम्। अभुक्तां चैव सोमाद्यैः कन्यकां तु प्रशस्यते॥' इति।

षोडशाब्दे ज्ञेये; 'त्रीणि वर्षाण्यृतुमती काङ्क्षेत पितृशासनम्।' इति पराशरमाधवीये बौधायनोक्तेश्च। मनुः– 'स्त्रीसम्बन्धे दशैतानि कुलानि परिवर्जयेत्। हीनक्रियं निःपुरुषं निश्छन्दोरोमशार्शसम्॥ क्षय्यामयाव्यपस्मारिश्वित्रिकुष्ठिकुलानि च। नर्क्षवृक्षनदीनाम्नीं नान्त्यपर्वतनामिकाम्॥ न पक्ष्यहिप्रेष्यनाम्नीं न बिभीषणनामिकाम्॥' यमः– 'तस्मादुद्वाहयेत्कन्यां यावन्नर्तुमती भवेत्।' तथा मूलजादीनां फलं प्रागुक्तम्। तथा वर्णवश्यग्रहमैत्र्यादिघटितविचारो ज्योतिर्विद्भ्यो ज्ञेयः। विस्तरात्तु नोच्यते॥

ग्रहबलाबलं तत्फलं च। —

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬