निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
← निर्णयसिन्धु — परिच्छेद-सूची
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथ गुर्वर्कबलम्। ज्योतिर्निबन्धे गर्गः 'स्त्रीणां गुरुवलं श्रेष्ठं पुरुषाणां रवेर्बलम्। तयोश्चन्द्रबलं श्रेष्ठमिति गर्गेण भाषितम्॥ जन्मत्रिदशमारिस्थः पूजया शुभदो गुरुः। विवाहेऽथ चतुर्थाष्टद्वादशस्थो मृतिप्रदः॥' देवलः– 'नष्टात्मजा धनवती विधवा कुशीला पुत्रान्विता हतधवा सुभगा विपुत्रा। स्वामिप्रिया विगत– पुत्रधवा धनाढ्या वन्ध्या भवेत्सुरगुरौ क्रमशोभिजन्मा॥' बृहस्पतिः– 'झषचापकुलीरस्थो जीवोऽप्यशुभगोचरः। अतिशोभनतां दद्याद्विवाहोपनयादिषु॥' लल्लः– 'द्वादशदशमचतुर्थे जन्मनि षष्ठाष्टमे तृतीये च। प्राप्ते पाणिग्रहणे जीवे वैधव्यमाप्नोति॥' गर्ग :– 'सर्वत्रापि शुभं दद्याहादशाब्दात्परं गुरुः। पञ्चषष्ठान्दयोरेव शुभगोचरता मता॥ सप्तमात्पञ्चवर्षेषु स्वोच्चस्वर्क्षगतो यदि। अशुभोऽपि शुभं दद्याच्छुभऋक्षेषु किं पुनः॥ रजस्वलायाः कन्याया गुरुशुद्धिं न चिन्तयेत्। अष्टमेऽपि प्रकर्तव्यो विवाहस्त्रिगुणार्चनात्॥ अर्कगुर्वोर्बलं गौर्या रोहिण्यर्कबला स्मृता। कन्या चन्द्रबला प्रोक्ता वृपली लग्नतो बला॥ अष्टवर्षा भवेद्गौरी नववर्षा च रोहिणी॥ दशवर्षा भवेत्कन्या अत ऊर्ध्वं रजस्वला॥'
अथ बृहस्पतिशान्तिः।शौनकः 'कन्यकोद्वाहकाले तु आनुकूल्यं न विद्यते। ब्राह्मणस्योपनयने गुरोर्विधिरुदाहृतः॥ सुवर्णेन गुरुं कृत्वा पीतवस्त्रेण वेष्टयेत्। ईशान्यां धवलं कुम्भं धान्योपरि निधाय च॥ दमनं मधुपुष्पं च पलाशं चैव सर्षपान्। मांसी गुडूच्यपामार्गो विडङ्गी शङ्खिनी वचा॥ सहदेवी हरिक्रान्ता सर्वौपधिशतावरी। बला च सहदेवी च निशाद्वितयमेव च॥ कृत्वाज्यभागपर्यन्तं स्वशाखोक्तविधानतः। ग्रहोक्तमण्डलेऽभ्यर्च्य पीतपुष्पाक्षतादिभिः॥ देवपूजोत्तरे काले ततः कुम्भानुमत्रणम्। अश्वत्थसमिधश्चाज्यं पायसं सर्पिषा युतम्॥ यवत्रीहितिलाः साज्या मत्रेणैव बृहस्पतेः। अष्टोत्तरशतं सर्वं होमशेपं समापयेत्॥ पुत्रदारसमेतस्य अभिषेकं समाचरेत्। कुम्भाभिमन्त्रणोक्तैश्च समुद्रज्येष्ठमन्त्रतः॥ प्रतिमां कुम्भवस्त्रं च आचार्याय निवेदयेत्॥ ब्राह्मणान्भोजयेत्पश्चाच्छुभदः स्यान्न संशयः॥' इति बृहस्पतिशान्तिः॥
शौनकः– 'गुर्वादित्ये व्यतीपाते वक्रातीचारगे गुरौ। नष्टे शशिनि शुक्रे वा बाले वृद्धेऽथवा गुरौ॥ पौपे चैत्रेऽथ वर्षासु शरद्यधिकमासके। केतूद्गमे निरंशेऽर्के सिंहस्थेऽमरमत्रिणि॥ विवाहवतयात्रादिपुरहर्म्यगृहादिकम्। क्षौरं विद्योपविद्यां च यत्नतः परिवर्जयेत्॥' मदनपारिजाते ज्योतिःसागरे– 'बाले शुक्रे वृद्धे शुक्रे वृद्धे जीवे नष्टेजीवे। बाले जीवे जीवे सिंहे सिंहादिये जीवादिये॥ तथा मलिम्लुचे मासि सुराचायेऽतिचारगे। वापीकूप विवाहादिक्रियाः प्रागुदितास्त्यजेत्॥ सिंहस्थं मकरस्थं च गुरुंयत्नेन वर्जयेत्॥' लल्लः– ‘अतिचारगतो जीवस्तं राशिं नैव चेत्पुनः। लुप्तः संवत्सरो ज्ञेयः सर्वकर्मबहिष्कृतः॥' सिंहस्थगुरोरपवादमाह पराशरः– 'गोदाभागीरथीमध्ये नोद्वाहःसिंहगे गुरौ। मघास्थे सर्वदेशेषु तथा मीनगते रवौ॥' वसिष्ठोऽपि– 'विवाहो दक्षिणे कूले गौतम्यां, नेतरत्र तु। भागीरथ्युत्तरे कूले गौतम्या दक्षिणे तथा। विवाहो व्रतबन्धश्च सिंहस्थेज्ये नं दुष्यति॥ '
कन्यादातृक्रममाह याज्ञवल्क्यः– 'पिता पितामहो भ्राता सकुल्यो जननी तथा। कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः॥ अप्रयच्छन्समाप्नोति भ्रूणहत्यामृतावृतौ। गम्यन्त्वभावे दातॄणां कन्या कुर्यात्स्वयंवरम्॥ भ्रातॄणां संस्कृताना मेवाधिकारमाह स एव याज्ञवल्क्यः–‘असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः। भगिन्यश्च निजादंशाद्दत्त्वांशं तु तुरीयकम्॥' अत्र चकारेण पूर्वसंस्कृतैरित्यस्यानुवृत्तेर्विवाहपर्याप्तद्रव्यदाने स्वांशचतुर्थभागदाने वा संस्कृतग्रहणं व्यर्थं स्यात्, अतः कर्तृनियमोऽयम्। तेनानुपनीतभ्रातृमात्रादिसत्त्वे मात्रादेरेवाधिकारो न भ्रातुरित्युक्तं सम्बन्धतत्त्वादौ। कन्यास्वयंवरे मातुर्दातृत्वे च ताभ्यामेव नान्दीश्राद्धं कार्यम्। तत्र च स्वयं प्रधानसङ्कल्पमात्रं कृत्वाऽन्यद्राह्मणद्वारा कारयेदिति प्रयोगपारिजाते। वरस्तु संस्कृत भ्रात्राद्यभावे स्वयमेवनान्दीश्राद्धं कुर्यात्, न माता; 'पुत्रेषु विद्यमानेषु नान्यं वै कारयेत्स्वधाम्।' इति निपेधात्। उपनयनेन कर्माधिकारस्य जातत्वाच्चेति पृथ्वीचन्द्रोदयः। माधवीयेऽपरार्के च नारदः– 'पिता दद्यात्स्वयं कन्यां भ्राता वाऽनुमते पितुः। मातामहो मातुलश्च सकुल्य बान्धवस्तथा॥ माता त्वभावे सर्वेषां प्रकृतौ यदि वर्तते। तस्यामप्रकृतिस्थायां कन्यां दद्युः स्वजातयः॥ सकुल्यः पितृपक्षीयो बान्धवो मातृवंशजः॥' मदनपारिजाते कात्यायनः– 'स्वयमेवौरसीं दद्यात्पित्रमावे स्वबान्धवाः। मातामहस्ततोऽन्यां हि माता वा धर्मजां सुताम्॥' ततोऽन्यामौरसी भिन्नां धर्मजां नियोगात्क्षेत्रजां मातामहो माता मातुलो वा दद्यात्। तेनौरसीदाने पितृबन्धुषु सत्सु मातामहादीनां नाधिकारः अनुमतिं विना। अस्यापवादस्तत्रैव - 'दीर्घप्रवासयुक्तेषु पौगण्डेषु च बन्धुषु॥ माता तु समये दद्यादौरसीमपि कन्यकाम्॥’ मनुः– 'यदा तु नैव कश्चित्स्यात् कन्या राजानमाव्रजेत्॥'
परकीयकन्यादाने विशेषो मदनरत्ने स्कान्दे– 'आत्मीकृत्य सुवर्णेन परकीयां तु कन्यकाम्। धर्मेण विधिना दानमसगोत्रेऽपि युज्यते॥' अत्र प्रकृतिस्थग्रहणादप्रकृतिस्थेन कृतमकृतमेव; 'स्वतत्रो यदि तत्कार्यं कुर्यादप्रकृतिं गतः। तदप्यकृतमेव स्यादस्वातव्यस्य हेतुतः॥' इत्यपरार्के नारदोक्तेः। यदि तु सप्तपदीविवाहहोमादि प्रधानम्।
जातं, तदाऽङ्गवैकल्येऽपि नावृत्तिर्विवाहस्स। गौडा अप्येवमाहुः। तत्रैव मरीचिः– 'गौरीं ददन्नाकपृष्ठं, वैकुण्ठं रोहिणीं ददत्। कन्यां ददद्ब्रह्मलोकं रौरवं तु रजस्वलाम्॥ '
अथ मासनिर्णयः। तत्र जन्ममासे विशेषः प्रागुक्तः। ज्योति प्रकाशेव्यासः– 'माघफाल्गुनवैशाखे यद्यूढा मार्गशीर्षके। ज्येष्ठे वाषाढमासे च सुभगा वित्तसंयुता॥ श्रावणे वापि पौषे वा कन्या भाद्रपदे तथा। चैत्राश्वयुक्कार्तिकेषु याति वैधव्यतां लघु॥' नारदः– 'माघफाल्गुनवैशाखज्येष्ठमासाः शुभप्रदाः। कार्तिको मार्गशीर्षश्च मध्यमौ निन्दिताः परे' इति॥ वसिष्ठः - 'पौषेऽपि कुर्यान्मकरस्थितेऽर्के चैत्रे भवेन्मेषगतो यदा स्यात्। प्रशस्तमाषाढकृतं विवाहं वदन्ति गर्गा मिथुनस्थितेऽर्के। 'आचार्यचूडामणौ ज्योतिर्गर्ग-राजमार्तण्डौ–'माङ्गल्येषु विवाहेषु कन्यावरणेषु च॥ दश मासाः प्रशस्यन्ते चैत्रपौषविवर्जिताः॥' आपस्तम्बः– 'सर्व ऋतवो विवाहस्य शैशिरौ मासौ परिहाप्योत्तमं च नैदाघम्।' 'अत्र माघफाल्गुनाषाढवर्जन्नव मासा मुख्यः कालः' इति सुदर्शनभाष्ये इडविलायां ब्रह्मविद्यातीर्थै– श्रोक्तम्। बौधायनसूत्रेऽपि– 'सर्वे मासा विवाहस्स, शुचितपस्तपस्यवर्जम्' इत्येके। तेन 'पूर्वोत्तरौ शिशिरसम्बन्धिनौ मासौ पौषचैत्रौ विहाय' इति निर्णयामृतव्याख्यानं मौर्ख्यकतमित्युपेक्ष्यम्। निशि चेत्सर्वेषु द्वादशस्खपि मासेषूद्वहेदिति कालादर्शः। ये तु ज्योतिषे माघादिविधयस्ते गृह्यसूत्राणां द्विजपरत्वेन प्राबल्याच्छूद्रादिपराः। ज्योतिषे– 'वात्स्यो वर्षमनूनमिच्छति तथा रैभ्योऽयनं चोत्तरं श्रीवासोऽन्तमृतुं विहाय मुनयो माण्डव्यशिष्या जगुः। चैत्रं प्रोज्झ्य पराशरः परिणये पौषं च दौर्भाग्यदं ह्यापाढादि चतुष्टयं न हितदं कैश्चित्प्रदिष्टं बुधैः॥' चण्डेश्वरः– 'मार्गे मासि तथा ज्येष्ठे क्षौरं परिणयं व्रतम्। ज्येष्ठपुत्रदुहित्रोस्तु यत्नेन परिवर्जयेत्॥ कृत्तिकास्थं रविन्त्यक्त्वा ज्येष्ठपुत्रस्य कारयेत्। उत्सवादिषु कार्येषु दिनानि दश वर्जयेत्॥' रत्नकोशे–'जन्मर्क्षे जन्मदिवसे जन्ममासे शुभं त्यजेत्। ज्येष्ठे मास्याद्यगर्भस्य शुभं वर्ज्यं स्त्रिया अपि॥' पराशरः– 'अज्येष्ठा कन्यका यत्र ज्येष्ठपुत्रो वरो यदि। व्यत्ययो वा तयोस्तत्र ज्येष्ठमासः शुभप्रदः॥' मिहिरः– 'ज्येष्ठस्य ज्येष्ठकन्याया विवाहो न प्रशस्यते। तयोरन्यतरे ज्येष्ठे ज्येष्ठो मासः प्रशस्यते॥ द्वौ ज्येष्ठौ मध्यमौ प्रोक्तावेकं ज्येष्ठं शुभावहम्। ज्येष्ठत्रयं न कुर्वीत विवाहे सर्वसम्मतम्॥' यत्तु– 'सार्वकालमेके विवाहम्' इति तदासुरादिविवाहविषयम्। ‘धर्म्येषु विवाहेषु कालपरीक्षणं, नाधर्म्येषु' इति गृह्यपरिशिष्टात्। रत्नमालायामध्येवम्। तेनासुरादयो माघचैत्रादिनिषिद्धकालेष्वपि भवन्ति। मासाः सौराः; 'सौरो मासो विवाहादौ' इत्युक्तेः। 'झषो न निन्द्यो यदि फाल्गुने स्यादजस्तु वैशाखगतो न निन्द्यः।' इति त्वपवादः॥
अथ दश दोषाः। व्यवहारोच्चये - 'वेधश्च लत्ता च तथैव पातः खर्जूरवेधो दशयोगचक्रम्। युतिश्च जामित्रमुपग्रहश्च बाणाख्यवज्रे च दशैव दोषाः॥' एषां लक्षणं ज्योतिषे ज्ञेयम्। अतिचारगे गुरौ तु वसिष्ठः– 'अतिचारगते जीवे वर्जयेत्तदनन्तरम्। विवाहादिषु कार्येषु अष्टाविंशतिवासरान्॥' रत्नमालायाम्– 'एकपञ्चनवयुग्मषड्दशत्रीणि सप्तचतुरष्टलाभगः। द्वादशाजवृषभादिराशितो घातचन्द्र इति कीर्तितो बुधैः॥' नारदः– 'भूबाणनन्दहस्ताश्च रसदिग्वह्निशैलजाः। वेदा वसुशिवादित्या घातचन्द्रो यथाक्रमम्॥ यात्रायां युद्धकार्येषु घातचन्द्रं विवर्जयेत्। विवाहे सर्वमाङ्गल्ये चौलादौ व्रतबन्धने ॥ घातचन्द्रो नैव चिन्त्य इति पाराशरोऽब्रवीत्॥' ज्योतिर्निबन्धे– 'विवाहचौलव्रतबन्धयज्ञे पट्टाभिषेके च तथैव राज्ञाम्। सीमन्तयात्रासु तथैव जाते नो चिन्तनीयः खलु घातचन्द्रः॥' नारदः– 'अकालजा भवेयुश्चेद्विद्युन्नीहारवृष्टयः। प्रत्यर्कपरिवेषेन्द्रचापाभ्रध्वनयो यदि॥ दोषायमङ्गले नूनं न दोषायैव कालजाः॥' अकालवृष्टिस्वरूपमाह लल्लः– 'पौषादिचतुरो मासाः प्रोक्ता वृष्टिरकालजा।' इति। शार्ङ्गधरः– 'निर्घाते क्षितिचलने ग्रहयुद्धे राहुदर्शने चैव। आ पञ्चदिनात् कन्या परिणीता नाशमुपयाति उल्कापातेन्द्रचापप्रबलघनरजोधूमनिर्घात विद्युद्वृष्टिप्रत्यर्कदोषादिषु सकलबुधैस्त्याज्यमेवैकरात्रम्। दुःस्वप्ने दुर्निमित्ते ह्यशुभफलदृशो दुर्मनोभ्रान्तबुद्धौ चौले मौञ्जीनिबन्धे परिणयनविधौ सर्वदा त्याज्यमेव॥' ज्योतिःप्रकाशे–'अर्वाक् षोडश नाड्यः सङ्क्रान्तेः पुण्यदाः परतः। उपनयनव्रतयात्रापरिणयनादौ विवर्ज्यास्ताः॥' गर्गः–‘दिग्दाहे दिनमेकं च ग्रहे सप्तदिनानि तु। भूकम्पे च समुत्पन्ने त्र्यहमेव तु वर्जयेत्॥ उल्कापाते त्रिदिवसं धूमे पञ्च दिनानि च। वज्रपाते चैकदिनं वर्जयेत्सर्वकर्मसु॥ दर्शनादर्शनाद्राहुकेत्वोः सप्तदिनं त्यजेत्। यावत्केतूद्गमस्तावदशुभः समयो भवेत्॥' अस्यापवादोऽद्भुतसागरे– 'अथ दिवसत्रयमध्ये मृदु पानीयं यदा भवति। उत्पातदोषशमनं तदैव सम्प्राहुराचार्याः॥' सम्बन्धतत्त्वे– 'भूकम्पादेर्न दोषोऽस्ति वृद्धि श्राद्धे कृते सति। '
वैधव्ययोगे सति कुम्भविवाहः।—
अथापरिहार्ये कन्यावैधव्ययोगे विशेष उच्यते। मार्कण्डेयपुराणे– 'बालवैधव्ययोगे तु कुम्भद्रुप्रतिमादिभिः। कृत्वा लग्नं रहः पश्चात्कन्योद्वाह्येति तु चापरे॥' अत्र पुनर्भूदोषाभाव उक्तो विधानखण्डे– 'स्वर्णाम्बुपिप्पलान च प्रतिमा विष्णुरूपिणी। तया सह विवाहे तु पुनर्भूत्वं न जायते॥ सूर्यारुणसंवादे–विवाहात्पूर्वकाले च चन्द्राताराबलान्विते। विवाहोक्ते च तां कन्यां कुम्भेन सह चोद्हेत्। सूत्रेण वेष्टयेत्पश्चाद्दशतन्तुविधानतः। कुङ्कुमालङ्कृतं देहं तयोरेकान्तमन्दिरे॥ ततः कुम्भं च निःसार्य प्रभज्य सलिलाशये। ततोऽभिषेचनं कुर्यत्पञ्चपल्लववारिभिः॥' कुम्भप्रार्थना–तत्रैव- 'वरुणाङ्गस्वरूपाय जीवनानां समाश्रय। पतिं जीवय कन्यायाश्चिरं पुत्रसुखं कुरु॥ देहिविष्णो वरं देव कन्यां पालय दुःखतः। ततोऽलङ्कारवस्त्राढ्यां वराय प्रतिपादयेत्॥'
इति कुम्भविवाहः॥
मूर्तिदानमपि तत्रैवोक्तम्– 'ब्राह्मणं साधुमामध्य सम्पूज्य विविधार्हणैः। तस्मै दद्याद्विधानेन विष्णोर्मूर्ति चतुर्भुजाम्॥ शुद्धवर्णसुवर्णेन वित्तशत्त्याऽथ वा पुनः। निर्मितां रुचिरां शङ्खगदाचक्राब्जसंयुताम्॥ दधानां वाससी पीते कुमुदोत्पलमालिनीम्। सदक्षिणां च तां दद्यान्मत्रमेतमुदीरयेत्॥ यन्मया प्राचि जनुषि नन्त्या पतिसमागमम्। विषोपविषशस्त्राद्यैर्हतो वाऽतिविरक्तया॥ प्राप्यमानं महाघोरं यशः सौख्यधनापहम्। वैधव्याद्यतिदुःखौघनाशाय शुभलब्धये॥ बहुसौभाग्यलब्ध्यै च महाविष्णोरिमां तनुम्। सौवर्णी निर्मितां शक्त्या तुभ्यं सम्प्रददे द्विज॥ अनघाद्याहमस्मीति त्रिवारं प्रजपेदिति। एवमस्त्विति तस्याशीगृहीत्वा स्वगृहं विशेत्। ततो वैवाहिकं कुर्याद्विधिं दाता मृगीदृशः॥' अन्येऽप्यश्वत्थविवाहवृक्षसेचनादयस्तत्रैव ज्ञेयाः। विस्तरभयान्नोच्यन्ते॥
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा