🕉️ 24 November 2026, Tuesday · 08:17:57 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← निर्णयसिन्धु — परिच्छेद-सूची

📖 निर्णयसिन्धु · तृतीय परिच्छेद (पूर्वार्ध) — संस्कार, विवाह, प्रतिष्ठा आदि प्रकीर्ण · पृष्ठ 44/87

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

प्रतिकूलादि

अथ प्रतिकूलादि। ज्योतिर्निबन्धे गर्गः– 'कृते तु निश्चये पश्चान्मृत्युर्भवति कस्यचित्। तदा न मङ्गलं कुर्यात्कृते वैधव्यमानुयात्॥' ज्योतिर्मेधातिथिः– ‘वधूवरार्थे घटिते सुनिश्चिते वरस्य गेहेऽप्यथ कन्यकायाः। मृत्युर्यदि स्यान्मनुजस्य कस्यचित्तदा न कार्ये खलु मङ्गलं बुधैः॥' मङ्गलं = विवाहः। स्मृतिचन्द्रिकायाम्– 'कृते वाङ्निश्चये पश्चान्मृत्युर्भवति गोत्रिणः। तदा न मङ्गलं कार्यं नारीवैधव्यदं ध्रुवम्॥' भृगुः–' वाग्दानानन्तरं यत्र कुलयोः कस्यचिन्मृतिः। तदोद्वाहो नैन कार्यः स्ववंशक्षयदोषतः॥' शौनकः - 'वरवध्वोः पिता माता पितृव्यश्च सहोदरः। एतेषां प्रतिकूलं च महाविघ्नप्रदं भवेत्॥ पिता पितामहश्चैव माता चैव पितामही। पितृव्यः स्त्रीसुतौ भ्राता भगिनी चाविवाहिता॥ एभिरत्र विपन्नैश्च प्रतिकूलं बुधैः स्मृतम्। अन्यैरपि विपन्नैस्तु केचिदूचुर्न तद्भवेत्॥' माण्डव्यः– 'वाग्दानानन्तरं माता पिता भ्राता विपद्यते। विवाहो नैव कर्तव्यः स्ववंशस्थितिमिच्छता॥'

सङ्कटे तु मेधातिथिः– 'वाग्दानानन्तरं यत्र कुलयोः कस्यचिन्मृतिः। तदा संवत्सरादूर्ध्वं विवाहः शुभदो भवेत्॥' स्मृतिरत्नावल्याम् 'पितुरब्दमशौचं स्यात्तदर्धं मातुरेव च। मासत्रयं तु भार्यायास्तदर्धं भ्रातृपुत्रयोः॥ अन्येषां तु सपिण्डानामाशौचं मासमीरितम्। तदन्ते शान्तिकं कृत्वा ततो लग्नं विधीयते॥' ज्योतिः प्रकाशे– 'प्रतिकूलेऽपि कर्तव्यो विवाहो मासतः परम्। शान्तिं विधाय गां दत्त्वा वाग्दानादि चरेत्पुनः॥' शान्तिं= विनायकशान्तिम्। तथा च मेधातिथिः– 'सङ्कटे समनुप्राप्ते याज्ञवल्क्येन योगिना। शान्तिरुक्ता भाचाराध्याये - 'विनायकः कर्मविघ्नसिद्ध्यर्थं विनियोजितः' इत्यादिना ।") गणेशस्य कृत्वा तां शुभमाचरेत्॥' इति॥ 'प्रतिकूले न कर्तव्यो गच्छेद्यावद्दत्रयम्। प्रतिकूलेऽपि कर्तव्यमित्याहुर्बहुविप्लवे॥ प्रतिकूले सपिण्डस्य मासमेकं विवर्जयेत्॥' ज्योतिःसागरे– 'दुर्भिक्षे राष्ट्रभङ्गे च पित्रोर्वा प्राणसंशये। प्रौढायामपि कन्यायां नानुकूल्यं प्रतीक्ष्यते॥' मेधातिथिः– 'पुरुषत्रयपर्यन्तं प्रतिकूलं स्वगोत्रिणाम्।

प्रवेशान्निर्गमस्तद्वत्तथा मण्डनमुण्डने। प्रेतकर्माण्यनिर्वर्त्य चरेन्नाभ्युदयक्रियाम्। आचतुर्थं ततः पुंसि पञ्चमे शुभदं भवेत्॥'

रजोदोषे निर्णयः

अथ रजोदोषे निर्णयः। माधवीये– 'प्रारम्भात्प्राग्विवाहस्य माता यदि रजस्वला। निवृत्तिस्तस्य कर्तव्या सहत्वश्रुतिचोदनात्॥' प्रारम्भात्=नान्दीश्राद्धात्; 'नान्दीमुखं विवाहादौ' इत्यादिना तस्यैव प्रारम्भोक्तेः। मेधातिथिः– 'चौले च व्रतबन्धे च विवाहे यज्ञकर्मणि। भार्या रजस्वला यस्य प्रायस्तस्य न शोभनम्॥ वधूवरान्यतमयोर्जननी चेद्रजस्वला। तस्याः शुद्धेः परं कार्यं माङ्गल्यं मनुरब्रवीत्॥' वृद्धमनुः– 'विवाहव्रतचूडासु माता यदि रजस्वला। तदा न मङ्गलं कार्यं, शुद्धौ कार्यं शुभेप्सुभिः॥' गर्गः–'यस्योद्वाहादिमाङ्गल्ये माता यदि रजस्वला। तदा न तत्प्रकर्तव्यमायुःक्षयकरं यतः॥' नान्दीश्राद्धोत्तरं रजोदोषे तु कपर्दिकारिकासु– 'सूतिकोदक्ययोः शुद्ध्यै गां दद्याद्धोमपूर्वकम्। प्राप्ते कर्मणि शुद्धिः स्यादितरस्मिन्न शुद्ध्यति॥ 'अलाभे सुमुहूर्तस्य रजोदोषे च सङ्गते। श्रियं सम्पूज्य तत्कुर्यात् पाणिग्रहणमङ्गलम्॥ हैमीं माषमितां पद्मां श्रीसूक्त विधिनार्चयेत्॥ प्रत्यूचं पायसं हुत्वा अभिषेकं समाचरेत्॥' इति। सूतकादिसङ्कटे तु कूष्माण्डीभिर्घृतं हुत्वा पयस्विनीं गां च दत्त्वा विवाहादि कुर्यादिति च वक्ष्यते॥

एकक्रियानिर्णयः

अथैकक्रियानिर्णयः। ज्योतिर्निबन्धे वृद्धमनुः– 'एकमातृजयोरेकवासरे पुरुष-स्त्रियोः। न समानक्रियां कुर्यान्मातृभेदे विधीयते॥' एतेन एकस्य पुंसो विवाहद्वयमेकदिने निषिद्धं; मातृभेदाभावात्। नारदः– 'पुत्रोद्वाहात्परं पुत्रीविवाहो न ऋतुत्रये। न तयोव्रतमुद्वाहान्मण्डनादपि मुण्डनम्॥' वराहः–'विवाहस्त्वेकजातानां पण्मासाभ्यन्तरे यदि। असंशयं त्रिभिर्वषैस्तत्रैका विधवा भवेत्॥' मदनरत्ने वसिष्ठः- 'न पुंविवाहोर्ध्वमृतुत्रयेऽपि विवाहकार्यं दुहितुः प्रकुर्यात्। न मण्डनाच्चापि हि मुण्डनं च गोत्रैकतायां यदि नाब्दभेदः॥ एकोदरभ्रातृविवाहकृत्यं स्वसुर्न पाणिग्रहणं विधेयम्। षण्मासमध्ये मुनयः समूचुर्न मुण्डनं मण्डनतोऽपि कार्यम्॥ एतदपवादस्तत्रैव– 'ऋतुत्रयस्य मध्ये चेदन्याब्दस्य प्रवेशनम्। तदा ह्येकोदरस्यापि विवाहस्तु प्रशस्यते॥' सारावल्याम्– 'फाल्गुने चैत्रमासे तु पुत्रोद्वाहोपनायने। भेदादब्दस्य कुर्वीत नर्तुत्रयविलङ्घनम्॥' संहिता प्रदीपे– 'ऊर्ध्वं विवाहात्तनयस्य नैव कार्यो विवाहो दुहितुः समार्धम्॥ अप्राप्य कन्यां श्वशुरालयं च वधूः प्रवेश्या स्वगृहं च नादौ॥' मदनरत्ने वसिष्ठः–'द्विशोभनन्त्वेकगृहेऽपि नेष्टं, शुभं तु पश्चान्नवभिर्दिनैस्तु। आवश्यकं शोभनमुत्सवो वा द्वारेऽथ वाचार्यविभेदतो वा॥ एकोदरप्रसूतानां नाग्निकार्यत्रयं भवेत्। भिन्नोदरप्रसूतानां नेति शातातपोऽब्रवीत्॥' ज्योतिर्निबन्धे कात्यायनः– 'कुले ऋतुत्रयादर्वाङ् मण्डनान्न तु मुण्डनम्। प्रवेशान्निर्गमो नेष्टो न कुर्यान्मङ्गलत्रयम्॥ कुर्वन्ति मुनयः केचिदन्यस्मिन्वत्सरे लघु। लघु वा गुरु वा कार्यं प्राप्तं नैमित्तिकं तु यत्॥ पुत्रोद्वाहः प्रवेशाख्यः कन्योद्वाह्रस्तु निर्गमः। मुण्डनं चौलमित्युक्तं व्रतोद्वाहौ तु मङ्गलम्॥ चौलं मुण्डनमेवोक्तं वर्जयेन्मण्डनात्परम्। मौञ्जी चोभयतः कार्या यतो मौञ्जी न मुण्डनम्॥ अभिन्नवत्सरेऽपि स्यात्तदहस्तत्र भेदयेत्। अभेदे तु विनाशः स्यान्न कुर्यादेकमण्डपे॥'

सङ्कटे तु कपर्दिकारिकासु वराहमिहिरश्च– 'उद्वाह्य पुत्रीं न पिता विदध्यात् पुत्र्यन्तरस्योद्वहनं कदाचित्। यावच्चतुर्थं दिनमत्र पूर्वं समाप्य चान्योद्वहनं विदध्यात्॥ कश्यपः– 'मौञ्जीबन्धस्तथोद्वाहः षण्मासाभ्यन्तरेऽपि वा। पुत्र्युद्वाहं न कुर्वीत, विभक्तानां न दोषकृत्॥' ज्योतिर्निबन्धे– 'विवाहमारभ्य चतुर्थिमध्ये श्राद्धं दिनं दर्शदिनं यदि स्यात्। वैधव्यमाप्नोति तदाशु कन्या, जीवेत् पतिश्चेदनपत्यता स्यात्॥' तथा– 'विवाहमध्ये यदि चेत्क्षयाहस्तत्र स्वमुख्याः पितरो न यान्ति। वृत्ते विवाहे परतस्तु कुर्याच्छ्राद्धं स्वधाभिर्न तु दूषयेत्तम्॥', 'ये वा भद्रं दूषयन्ति स्वधाभिः।' इति श्रुतेश्च। मासिकविषये कालहेमाद्रौ शाट्यायनिः– 'प्रेतश्राद्धानि सर्वाणि सपिण्डीकरणं तथा। अपकृष्यापि कुर्वीत कर्तुं नान्दीमुखं द्विजः॥' वृद्धिं विनापकर्षे दोषमाह तत्रैवोशनाः– 'वृद्धिश्राद्धविहीनस्तु प्रेतश्राद्धानि यश्चरेत्। स श्राद्धी नरके घोरे पितृभिः सह मज्जति॥' इति। मेधातिथिः– 'प्रेतकर्माण्यनिर्वर्त्य चरेन्नाभ्युदयक्रियाम्। आचतुर्थं ततः पुंसि पञ्चमे शुभदं भवेत्॥' स्मृत्यन्तरे–'सपिण्डीकरणादर्वागपकृष्य कृतान्यपि। पुनरप्यपकृष्यन्ते वृद्धयुत्तरनिषेधनात्॥'

स्मृतिसारावल्याम्– 'भ्रातृयुगे स्वसृयुगे भ्रातृस्वसृयुगे तथा। एकस्मिन्मण्डपे चैव न कुर्यान्मण्डनद्वयम्'॥ - सहोदरविषयमेतत्। यमः– 'एकोदरप्रसूतानामेकस्मिन्वासरे पुनः। विवाहो नैव कुर्वीत मण्डनोपरि मुण्डनम्॥' गार्ग्यः– 'भ्रातृयुगे स्वसृयुगे भ्रातृस्वसृयु तथा। न कुर्यान्मङ्गलं किञ्चिदेकस्मिन्मण्डपेऽहनि॥ एकस्मिन्वासरे प्राप्ते कुर्याद्यमलजातयोः। क्षौरं चैव विवाहं च मौञ्जीबन्धनमेव च॥' ज्योतिर्विवरणे– 'एकोदरयोर्द्वयोरेकदिनोद्वहने भवेन्नाशः\। नद्यन्तर एकदिने केऽप्याहुः सङ्कटे च शुभम्॥ ऊर्ध्वं विवाहाच्छुभदो नरस्य नारीविवाहो न ऋतुत्र्यं स्यात्। नारीविवाहात्तदहेऽपि शस्तं नरस्य पाणिग्रहमाहुरार्याः॥' भिन्नमातृजयोस्तु एकवासरे विवाहमाह मेधातिथिः– 'पृथङमातृजयोः कार्यं विवाहस्त्वेकवासरे। एकस्मिन्मण्डपे कार्यः पृथग्वेदिकयोस्तथा॥ पुष्पपट्टिकयोः कार्यं दर्शनं न शिरःस्थयोः। भगिनीभ्यामुमाभ्यां च यावत्सप्तपदी भवेत्॥' यमयोस्तु विशेषो भट्टकारिकायाम्–'एकस्मिन्वत्सरे चैकवासरे मण्डपे तथा। कर्तव्यं मङ्गलं स्वस्रोर्भ्रात्रोर्यमलजातयोः॥' ज्योतिर्निबन्धे नारदः– 'प्रत्युद्वाहो नैव कार्यो नैकस्मै दुहितृद्वयम्। न चैकजन्ययोः पुंसोरेकजन्ये तु कन्यके॥ नैवं कदाचिदुद्वाहो नैकदा मुण्डनद्वयम्। नैकजन्ये तु कन्ये द्वे पुत्रयोरेकजन्ययोः॥ न पुत्रीद्वयमेकस्मै प्रदद्यात्तु कदाचन॥' इति।

कन्यारजोदर्शने निर्णयः

कन्याया रजोदर्शने तु अपरार्के संवर्तः– 'माता चैव पिता चैव ज्येष्ठभ्राता तथैव च। त्रयस्ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम्॥' हारीतः– 'पितुर्गेहे तु या कन्या रजः पश्यत्यसंस्कृता। सा कन्या वृषली ज्ञेया, तत्पतिर्वृषलीपतिः॥' देवलात्रिकश्यपाः– पूर्वार्धे तदेव। 'भ्रूणहत्या पितुस्तस्याः सां कन्या वृषली स्मृता॥ यस्तां समुद्वहेत्कन्यां ब्राह्मणो ज्ञानदुर्बलः। अश्राद्धेयमपाङ्क्तेयं तं विद्याद्वृषलीपतिम्॥' माधवीये बौधायनः–'त्रीणि वर्षाण्यृतुमती काङ्क्षेत पितृशासनम्॥' विष्णुः– 'ऋतुत्रयमुपास्यैव कन्या कुर्यात्स्वयंवरम्॥' अत्र वरस्य दोषाभावमाह यमः– 'कन्या द्वादश वर्षाणि याऽप्रदत्ता वसेद्गृहे। भ्रूणहत्या पितुस्तस्याः सा कन्या वरयेत्स्वयम्॥ एवं चोपनतां पत्नीं नावमन्येत्कदाचन। न तु तां बन्धकीं विद्यान्मनुः स्वायम्भुवोऽब्रवीत्॥' मनुः– 'अलङ्कारं नाददीत पितृदत्तं स्वयंवरे। पितृदत्तं मातृदत्तं स्तेयी स्याद्यदि तं हरेत्॥' वरं प्रत्याह– 'पित्रे न दद्याच्छुल्कं तु कन्यामृतुमतीं हरन्। स हि स्वाम्यादतिक्रामेहतूनां प्रतिबोधनात्॥'

अत्र प्रायश्चित्तमुक्तमाश्वलायनेन– 'कन्यामृतुमतीं शुद्धां कृत्वा निष्कृतिमात्मनः। शचिं च कारयित्वा तामुद्वहेदानृशंस्यधीः॥ पिता ऋतून्स्वपुत्र्यास्तु गणयेदादितः सुधीः। दानावधि गृहे यत्नात्पालयेच्च रजोवतीम्॥ दद्यात्ततुसङ्ख्या गाः शक्तः कन्यापिता यदि। दातव्यैकापि निःस्वेन दाने तस्या यथाविधि॥ दद्याद्वा ब्राह्मणेष्वन्नमतिनिःस्वः सदक्षिणम्। तस्यातीतर्तुसङ्ख्येषु वराय प्रतिपादयेत्॥ उपोष्य त्रिदिनं कन्या रात्रौ पीत्वा गवां पयः। अदृष्टरजसे दद्यात्कन्यायै रत्नभूषणम्॥ तामुद्वहन्वरश्चापि कूष्माण्डैर्जुहुयाद्विजः॥' इति। मदनपारिजाते यज्ञपार्श्व:– 'विवाहे वितते तत्रे होमकाल उपस्थिते। कन्यामृतुमतीं दृष्ट्वा कथं कुर्वन्ति याज्ञिकाः॥ स्त्रापयित्वा तु तां कन्यामर्चयित्वा यथाविधि। युञ्जानामाहुतिं हुत्वा ततस्तत्रं प्रवर्तयेत्॥' बौधायनसूत्रम्– 'अथ यदि कन्योपसाद्यमाना चोह्यमाना वा रजस्वला स्यात्तामनुमन्त्रयेत्। पुमांसौ मित्रावरुणौ पुमांसावश्विनावुभौ। पुमानिन्द्रश्च सूर्यश्च पुमांसं च दधात्वियम्॥' इति। अथ द्वादशरात्र - मलङ्कृत्य प्राशयेत्पञ्चगव्यमथ शुद्धां कृत्वा विवहेत्॥

गान्धर्वाद्यष्टौ विवाहाः।—

अत्र गोन्धर्वाद्यष्टौ विवाहाः, तद्वयवस्था चाकरे ज्ञेया। मनु:– 'षडानुपूर्व्या विप्रस्य क्षत्रस्य चतुरोऽवरान्। विशद्रयोस्तु तानेव विद्याद्धयिनराक्षसान्॥' चतुर आसुरगान्धर्वराक्षसपैशा चान्। तान् राक्षसवर्ज्यान्वैश्यशूद्रयोः। स एव– 'आसुरं वैश्यशूद्रयोः'। हेमाद्रौ पैठीनसिः– 'राक्षसो वैश्यस्य, पैशाचः शूद्रस्य।’ प्रचेताः– 'पैशाचोऽसंस्कृतप्रसूतानां प्रतिलोमजानां च'। मनुः– 'राज्ञस्तथासुरो वैश्ये शूद्रे चान्त्यस्तु गर्हितः।' क्षत्रियादेः सङ्कटे पैशाचमाह माधवीये वत्सः– 'सर्वोपायैरसाध्या स्यात्सुकन्या पुरुषस्य या। चौर्येणापि विवाहेन सा विवाह्या रहःस्थिता॥' गन्धर्वादिविवाहेष्वप्युदकपूर्वकं दानमाह तत्रैव यमः– 'नोदकेन न वा वाचा कन्यायाः पतिरुच्यते पाणिग्रहणसंस्कारात् पतित्वं सप्तमे पदे॥' पराशरमाधवीये देवलोऽपि– 'गन्धर्वादिविवाहेषु पुनर्वैवाहिको विधिः। कर्तव्यश्च त्रिभिर्वर्णैः समर्थेनाग्निसाक्षिकः॥' त्रैवर्णोक्तेर्गान्धर्वादौ विप्रवर्जमधिकार उक्तः। तत्रैव परिशिष्टे– 'गान्धर्वासुरपैशाचा विवाहो राक्षसश्च यः। पूर्वं परिग्रहस्तेषु पश्चाद्धोमो विधीयते॥' अतो होमादावकृते भार्यात्वाभावाद्वरान्तराय देया। तथा च तत्रैव वसिष्ठ-बौधायनौ– 'बलादपहृता कन्या मन्त्रैर्यदि न संस्कृता। अन्यस्मै विधिवद्देया, यथा कन्या तथैव सा॥' इति अत्र मत्रसंस्काराभावेऽन्यस्मै दानस्य सर्वविवाहेषु साम्याद्वलादपहारे राक्षसपैशाचयोर्विशेषवचनं व्यर्थम्। तेन तयोर्यदि न संस्कृता संस्कृता वेत्यावृत्य कन्यानुमत्यभावेऽन्यस्मै देयेति व्याख्येयम्। मदनपारिजाते नारदः– 'पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम्। तेषां च निष्ठा विज्ञेया विद्वद्भिः सप्तमे पदे॥' स्मृतिचन्द्रिकायामपरार्के चैवम्॥

आशौचे तु याज्ञवल्क्यः– 'दाने विवाहे यज्ञे च सङ्ग्रामे देशविप्लवे। आपद्यपि च कष्टायां सद्यःशौचं विधीयते॥' केषामित्यपेक्षिते ब्रह्मपुराणे उक्तम्– 'दातुः प्रतिग्रहीतुश्च कन्यादाने च नो भवेत्। विवाहयिष्णोः कन्याया लाजहोमादिकर्मणि॥' इति। 'व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्चने जपे। आरब्धे सूतकं न स्यादनारब्धे तु सूतकम्॥' इति विष्णुवचनाच्च । प्रारम्भस्तेनैवोक्तः– ‘प्रारम्भो वरणं यज्ञे सङ्कल्पो व्रतसत्रयोः। नान्दीमुखं विवाहादौ श्राद्धे पाकपरिक्रिया॥' इति। वरणमिति मधुपर्कपरम्; 'गृहीतमधुपर्कस्य यजमानाच्च ऋत्विजः। पश्चादशौचे पतिते न भवेदिति निश्चयः॥ इति ब्राह्मोक्तेः। मधुपर्कात्पूर्वं तु भवत्येवाशौच मिति शुद्धिविवेकः। रामाण्डारभाष्येऽप्येवम्। नान्दीमुखावधिश्च स्मृत्यन्तरे– 'एकविंशत्यहर्यज्ञे विवाहे दश वासराः। त्रिषट्चौलोपनयने नान्दीश्राद्धं विधीयते॥' आरम्भाभावेऽपि लग्नान्तराभावे गद्यविष्णुः– 'न देवप्रतिष्ठाविवाहयोः पूर्वसम्भृतयोरपि।' इति॥ अत्र प्रायश्चित्तमाह प्राप्तौ प्रायश्चिमाह मदनपारिजाते विष्णुः– 'अनारब्धविशुद्ध्यर्थं कूष्माण्डैर्जुहुयाद्धृतम्। तम्। गां दद्यात्पञ्चगव्याशी ततः शुद्ध्यति सूतकी॥' सङ्ग्रऽहेपि– 'सङ्कटे समनुप्राप्ते सूतके समुपागते। कूष्माण्डीभिर्घृतं हुत्वा गां च दद्यात्पयस्विनीम्॥ चूडोपनयनोद्वाहप्रतिष्ठादिकमाचरेत्। यदैव सूतकप्राप्तिस्तदैवाभ्युदयक्रिया॥' विवाहे सूतक-

अन्नादिषु विशेषः षट्त्रिंशन्मते– 'विवाहोत्सवयज्ञेषु त्वन्तरा मृतसूतके। परैरन्नं प्रदातव्यं, भोक्तव्यं च द्विजोत्तमैः॥' परैः=असगोत्रैः। ‘भुञ्जानेषु तु विप्रेषु त्वन्तरा मृतसूतके। अन्यगेहोदकाचान्ताः सर्वे ते शुचयः स्मृताः॥ एतदाशौचात्पूर्वमपृथक्कृतान्नविषयम्,तत्र शेषमन्नं त्याज्यमित्यर्थः। पृथक्कृतेषु तु बृहस्पतिराह – 'विवाहोत्सवयज्ञेषु त्वन्तरा मृतसूतके। पूर्वसङ्कल्पितान्नेषु न दोषः परिकीर्तितः॥' इति॥

धर्मार्थं विवाहकरणे फलमुक्तं महाभारते– 'ज्ञात्वा स्ववित्तसामर्थ्यमेकं चोद्वाहयेद्विजम्। तेनाप्याप्नोति तत्स्थानं शिवभक्तो नरो ध्रुवम्॥ अपरार्के दक्षः– 'मातापितृविहीनं तु संस्कारोद्वाहनादिभिः। यः स्थापयति तस्येह पुण्यसङ्ख्या न विद्यते॥ मदनरत्ने भविष्ये– 'विवाहादिक्रियाकाले तत्क्रियासिद्धिकरणम्। यः प्रयच्छति धर्मज्ञः सोऽश्वमेधफलं लभेत्॥'

कन्यागृहे भोजननिषेधोऽपि तत्रैव– 'अप्रजायां तु कन्यायां न भुञ्जीत कदाचन। दौहित्रस्य मुखं दृष्ट्वा किमर्थमनुशोचति॥' अपरार्के आदित्यपुराणे– 'विष्णुं जामातरं मन्ये तस्य कोपं न कारयेत्। अप्रजायां तु कन्यायां नाश्नीयात्तस्य वै गृहे॥ ब्रह्मदेयां न वै कन्यां दत्त्वाऽश्नीयात्कदाचन। अथ भुञ्जीत मोहाच्चेत्पूयाशे नरके वसेत्॥' तत्रैव कश्यपः– 'अहतं यत्रनिर्मुक्तं वासः प्रोक्तं स्वयम्भुवा। शस्तं तन्माङ्गलिक्येषु तावत्कालं न सर्वदा॥' यत्रनिर्मुक्तं=नूतनम्॥

विवाहमध्ये स्त्रिया सह भोजनेऽपि न दोष इत्याह हेमाद्रौ प्रायश्चित्तकाण्डेगालवः– 'विवाहकाले यात्रायां पथि चौरसमाकुले। असहायो भवेद्विप्रस्तदा कार्यं द्विजन्मभिः॥ एकयानसमारोह एकपात्रे च भोजनम्। विवाहे पथि यात्रायां कृत्वा विप्रो न दोषभाक्॥ अन्यथा दोषमाप्नोति पश्चाच्चान्द्रायणं चरेत्॥' मिताक्षरायामप्येवं रत्नमालायाम्–'मूलमैत्रमृगरोहिणीकरैः पौष्णमारुतमघोत्तरान्वितैः। भौमसौरिरविवारवर्जिते पाणिपीडनविधिर्विधीयते॥' अत्रानिष्टनक्षत्रादौ दानमुक्तं ज्योतिषे–'विपत्तारे गुडं दद्यान्निधने तिलकाञ्चनम्। प्रत्यरे लवणं दद्याच्छागं दद्यात्रिजन्मसु॥ चन्द्रे च शङ्खं लवणं च तारे तिथौ विरुद्धे त्वथ तन्दुलांश्च। धान्यं च दद्यात्करणे च वारे योगे विरुद्धे कनकं प्रदेयम्॥

विवाहमण्डपमाह वसिष्ठः– 'षोडशारत्निकं कुर्याच्चतुर्द्वारोपशोभितम्। मण्डपं तोरणैर्युक्तं तत्र वेदीं प्रकल्पयेत्॥ अष्टहस्तं तु रचयेन्मण्डपं वा त्रिषट्करम्॥' दैवज्ञमनोहरः– 'चित्रा विशाखा शततारकाश्विनी ज्येष्ठाभरण्यौ शिवभाच्चतुष्टयम्। हित्वा प्रशस्तं फलतैलवेदिकाप्रदानकं कण्डनमण्डपादिकम्॥' हेमाद्री व्यासः– 'कण्डनदलनयवारकमण्डपमृद्वेदिवर्णकाद्यखिलम्। तत्सम्बन्धिगतागतमृक्षे वैवाहिके कुर्यात्॥' यवारकं='चिकसा' इति प्रसिद्धम्। 'वैवाहिके तु दिवसे शुभे वाऽथ तिथौ शुभे। चतुर्थिकं प्रकुर्वीत विधिदृष्टेन कर्मणा॥

वेदिमाह नारदः– 'हस्तोच्छ्रितां चतुर्हस्तैश्चतुरस्त्रां समन्ततः। स्तम्भैश्चतुर्भिः सुश्लक्ष्णां वामभागे तु सद्मनि॥ समां तथा चतुर्दिक्षु सोपानैरतिशोभिताम्। प्रागुदक्प्रवणारम्भां स्तम्भैर्हंसशुकादिभिः॥ एवंविधामारुरुक्षेन्मिथुनं साग्निवेदिकाम्॥' इति। सप्तर्षिमते– 'मङ्गलेषु च सर्वेषु मण्डपो गृहमानतः। कार्यः षोडशहस्तो वा द्विषड्हस्तो दशावधि॥ स्तम्भैश्चतुर्भिरेवात्र वेदी मध्ये प्रतिष्ठिता'। हस्तो वध्वाः। सोपानं पश्चिमत उपरिभागे उक्तपरिमाणाद्भिन्नम्॥

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬