निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
← निर्णयसिन्धु — परिच्छेद-सूची
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथ मृदाहरणम्। ज्योतिर्निबन्धे नारदः– 'कर्तव्यं मङ्गलेष्वादौ मङ्गलायाङ्कुरार्पणम्। नवमे सप्तमे वापि पञ्चमे दिवसेऽपि वा॥ तृतीये बीजनक्षत्रे शुभवारे शुभोदये। सम्यग्गृहण्यलङ्कृत्य वितानध्वजतोरणैः॥ सह वादित्रनृत्याद्यैर्गत्वा प्रागुत्तरां दिशम्। तत्र मृत्सिकतां श्लक्ष्णां गृहीत्वा पुनरागतः॥ मृन्मयेष्वथवा वैणवेषु पात्रेषु योजयेत्। अनेकबीजसंयुक्तां तोयपुष्पोपशोभिताम्॥' शौनकः–'आधानं गर्भसंस्कारं जातकर्म च नाम च। हित्वाऽन्यत्र विधातव्यं मङ्गलेऽङ्कुरवापनम्॥' बृहस्पतिः–'आत्यन्तिकेषु कार्येषु कार्यं सद्योऽङ्कुरार्पणम्॥' तत्रैव वाग्दानं हरिद्रावन्दनं च कार्यम्। ज्योतिःप्रकाशे– 'चतुर्थो मण्डपः श्रेष्ठः सप्तमः पञ्चमस्तथा। नवमैकादशौ श्रेष्ठौ नेष्टौ षष्ठतृतीयकौ॥ विवाहमे स्वोदये वा कन्यावरणमाचरेत्॥' वरस्यापि वरणमाह चण्डेश्वरः– 'उपवीतं फलं पुष्पं वासांसि विविधानि च। देयं वराय वरणे कन्याभ्रात्रा द्विजेन वा॥” इति॥
वाग्दानोत्तरं वरमरणेऽपरार्कस्मृतिचन्द्रिकायां वसिष्ठः– 'अद्भिर्वाचा च दत्तायां म्रियेतोर्ध्वं वरो यदि। न च मन्त्रोपनीता स्यात्, कुमारी पितुरेव सा॥' यत्तु नारदः– 'उद्वाहितापि सा कन्या न चेत्सम्प्राप्तमैथुना। पुनःसंस्कारमर्हेत, यथा कन्या तथैव सा॥' इति। यच्च कात्यायनः– 'वरो यद्यन्यजातीयः पतितः क्लीब एव च। विकर्मस्थः सगोत्रो वा दासो दीर्घामयोऽपि वा॥ ऊढापि देया साऽन्यस्मै सहावरणभूषणा॥' इति। - इदं कलौ निषिद्धम् ; 'देवरेण सुतोत्पत्तिर्दत्ता कन्या न दीयते।' इत्यादिपुराणे कलौ निषेधात्। 'दत्ता' शब्द ऊढापरः; 'ऊढायाः पुनरुद्वाहम्' इति हेमाद्रावुक्तेः। अत एव सगोत्रासपिण्डादिविवाहेऽपि–'भोगतस्तां परित्यज्य पालयेज्जननीमिव।' इत्युक्तम्॥
देशान्तरगमने तु कात्यायनः- 'वरयित्वा तु यः कश्चित्प्रणश्येत्पुरुषो यदा। ऋत्वागमांस्त्रीनतीत्य कन्याऽन्यं वरयेद्वरम्॥' अपरार्के नारदोऽपि- 'प्रतिगृह्य तु यः कन्यां वरो देशान्तरं व्रजेत्। त्रीनृतून्समतिक्रम्य कन्याऽन्यं वरयेद्वरम्॥' शुल्कदाने तु मनुवसिष्ठौ- 'कन्यायां दत्तशुल्कायां म्रियते यदि शुल्कदः। देवराय प्रदातव्या यदि कन्याऽनुमन्यते॥' चन्द्रिकायां कात्यायनः -'प्रदाय शुल्कं गच्छेद्यः कन्यायाः स्त्रीधनं तथा। धार्या सा वर्षमेकं तु देयाऽन्यस्मै विधानतः॥ अनेकेभ्यो हि दत्तायामनूढायां तु तत्र वै। पूर्वागतश्च सर्वेषां लभेताद्यवरस्तु ताम्॥ पश्चाद्वरेण यद्दत्तं तस्याः प्रतिलभेत सः। अथागच्छेन्नवोढायां दत्तं पूर्ववरो हरेत्॥' याज्ञवल्क्यः - 'सकृत्प्रदीयते कन्या हरंस्तां चौरदण्डभाक्। दत्तामपि हरेत्पूर्वाच्छ्रेयांश्चेदूर आव्रजेत्॥' पूर्वस्य दोषसत्त्वे इदमिति विज्ञानेश्वरः। सम्बन्धतत्वे वसिष्ठः- 'कुलशीलविहीनस्य पश्चाद्धि पतितस्य च। अपस्मारिविधर्मस्य रोगिणां वेषधारिणाम्॥दत्तामपि हरेत्कन्यां सगोत्रोढां तथैव च॥' मनुः- 'षण्ढान्धबधिरादीनां विवाहोऽस्ति यथोचितम्। विवाहासम्भवे तेषां कनिष्ठो विवहेत्तदा। पितृव्यपुत्रे सापत्ने परदारसुतेषु च। विवाहाधानयज्ञादौ परिवेदो न दूषणम्॥' अन्यद्वक्तव्यं विस्तरभीतेर्नोच्यते इति दिक्।
अत्र नान्दीश्राद्धे विशेषं तदधिकारिविशेषं चाग्रे वक्ष्यामः। इदं चाद्यविवाहे पिता कुर्याद्द्वितीयादौ वर एव; 'नान्दीश्राद्धं पिता कुर्यादाद्ये पाणिग्रहे पुनः। अत ऊर्ध्वं प्रकुर्वीत स्वयमेव तु नान्दिकम्॥' इति स्मृतेः। त्रिकाण्डमण्डनोऽपि- 'पित्रोस्तु जीवतोः कुर्यात्पुनः पाणिग्रहं यदा। पितुर्नान्दीमुखश्राद्धं नोक्तं तस्य मनीषिभिः॥' रेणुकाकारिका- 'उक्तकाले विवाहाङ्गं कुर्यान्नान्दीमुखं पिता। देशान्तरे विवाहश्चेत्तत्र गत्वा भवेदिदम्॥'
लग्नघटीस्थापनमाह नारदः - 'षडङ्गुलमितोत्सेधं द्वादशाङ्गुलमायतम्। कुर्यात्पातालवत्ताम्रपात्रं तद्दशभिः पलैः॥ ताम्रपात्रे जलैः पूर्णे मृत्पात्रे वाऽथवा शुभे। मण्डलार्धोदयं वीक्ष्य रवेस्तत्र विनिक्षिपेत्॥' तत्र मन्त्रः- 'मुख्यं त्वमसि यत्राणां ब्रह्मणा निर्मितं पुरा। भव भावाय दम्पत्योः कालसाधनकारणम्॥' इति॥
वरस्य मधुपर्कमाह याज्ञवल्क्यः- 'प्रतिसंवत्सरं त्वर्च्याः स्नातकाचार्यपार्थिवाः। प्रियो विवाह्यश्च तथा यज्ञं प्रत्यृत्विजः पुनः॥' अत्र विशेषो गृह्यपरिशिष्टे-'वरस्य या भवेच्छाखा तच्छाखागृह्यचोदितः। मधुपर्कः प्रदातव्यो ह्यन्यशाखेऽपि दातरि॥' अत्र 'वर-दातृ' शब्दौ ऋत्विगाद्युपलक्षणम्। तदाहुः - 'अर्च्यशाखया मधुपर्कः' इति। 'अर्च्यस्य यच्छाखीयं कर्म तच्छाखया मधुपर्कः' इति याज्ञिकाः।जयन्तस्तु 'वरणवत्सर्वत्र यजमानशाखयैव मधुपर्कः' इत्याह। तत्तु नाद्रियन्ते वृद्धाः। अत्र 'पञ्चाशता भवेद्ब्रह्मा तदर्धेन तु विष्ठरः' इत्यादिगृह्यपरिशिष्टादेर्विष्टरादिलक्षणं मधुपर्कादिविधिश्च स्वगृह्यादेर्ज्ञेयः॥
दम्पत्योराशौचादिसमुद्भवे॥ तस्य दोषस्य शान्त्यर्थं पुनर्वैवाह्यमिष्यते॥' याज्ञवल्क्यः- 'सुरापी व्याधिता धूर्ता वन्ध्यार्थघ्न्यप्रियंवदा। स्त्रीप्रसूश्चाधिवेत्तव्या पुरुषद्वेषिणी तथा॥' मनुः-'वन्ध्याष्टमेऽधिवेत्तव्या दशमे तु मृतप्रजा। एकादशे स्त्रीजननी सद्यस्त्वप्रियवादिनी॥' सङ्ग्रहे तु- 'अप्रजां दशमे वर्षे स्त्रीप्रजां द्वादशे त्यजेत्। मृतप्रजां पञ्चदशे सद्यस्त्वप्रियवादिनीम्॥' याज्ञवल्क्यः- 'एकामुत्क्रम्य कामार्थमन्यां लब्धुं य इच्छति। समर्थस्तोषयित्वाऽर्थैः पूर्वोढामपरां व्रजेत्॥आज्ञासम्पादिनीं दक्षां वीरसूं प्रियवादिनीम्। त्यजन् दाप्यस्तृतीयांशमद्रव्यो भरणं स्त्रियाः॥' मनुः- 'अधिविन्ना तु या नारी निर्गच्छेद्रोषिता गृहात्।सा सद्यः सन्निरोद्धव्या त्याज्या वा कुलसन्निधौ॥' इति। बहुभार्यत्वे धर्म- हेमाद्रौ कात्यायनः- 'अग्निशिष्टादिशुश्रूषां बहुभार्यः सवर्णया। कारयेत्तद्बहुत्वं पत्नीविचारः। चेज्ज्येष्ठया गर्हिता न चेत्॥' याज्ञवल्क्यः- 'सत्यामन्यां सवर्णायां धर्मकार्यं न कारयेत्। सवर्णासु विधौ धर्म्ये ज्येष्ठया न विनेतरा॥'
द्वितीयविवाहहोमेऽग्निमाह कात्यायनः - 'सदारोऽन्यान्पुनर्दारानुद्वोढुं कारणान्तरात्। यदीच्छेदग्निमान् कर्तुं क्व होमोऽस्य विधीयते॥ स्वेऽग्नावेव भवेद्धोमो लौकिके न कदाचन॥' त्रिकाण्डमण्डनोऽपि- 'आद्यायां विद्यमानायां द्वितीयामुद्वहेद्यदि। तदा वैवाहिकं कर्म कुर्यादावसथे-ऽग्निमान्॥ सुदर्शनभाष्ये तु- 'द्वितीय विवाहहोमो लौकिक एव, न पूर्वोपासने' इत्युक्तम्। -इदं चासंभवे।
तत्र चाग्निद्वयसंसर्गः कार्यः । तदाह शौनकः- 'अथाग्न्योर्गृह्ययोर्योगं सपत्नीभेदजातयोः। सहाधिकारसिद्ध्यर्थमहं वक्ष्यामि शौनकः॥ अरोगामुद्वहेत्कन्यां धर्मलोपभयात्स्ववम्। कृते तत्र विवाहे च व्रतान्ते तु परेऽहनि॥ पृथक्स्थण्डिलयोरग्निं समाधाय यथाविधि। तन्त्रं कृत्वाज्यभागान्तमन्वाधाना-दिकं ततः॥ जुहुयात्पूर्वपत्न्यग्नौ तयान्वारब्ध आहुतीः। अग्निमीळे पुरोहितं सूक्तेन नवर्चेन तु॥ समिध्येनं समारोप्य अयं ते योनिरित्यृचा। प्रत्यवरोहेत्यनया कनिष्ठाग्नौ निधाय तम्॥आज्यभागान्ततन्त्रादि कृत्वारभ्य तदादितः। समन्वारब्ध एताभ्यां पत्नीभ्यां जुहुयाद्धृतम्॥चतुर्गृहीतमेताभिर्ऋग्भिः षड्भिर्यथाक्रमम्। अग्नावग्निश्चरतीत्यग्निनाग्निः समिध्यते॥ अस्तीदमिति तिसृभिः पाहि नो अग्न एकया। ततः स्विष्टकृदारभ्य होमशेषं समापयेत्॥ गोयुगं दक्षिणा देया श्रोत्रिया-याहिताग्नये। पत्न्योरेका यदि मृता दग्ध्वा तेनैव तां पुनः॥ आदधीतान्यया सार्धमाधानविधिना गृही॥' इति।
बौधायनसूत्रे तु- 'अथ यदि गृहस्थो द्वे भार्ये विन्देत कथं तत्र कुर्यादिति, यस्मिन् काले विन्देतोभावग्नी परिचरेदपराग्निमुपसमाधाय परिस्तीर्याज्यं विलाप्य स्रुचि चतुर्गृहीतं गृहीत्वाऽन्वारन्धायां जुहोति नमस्त ऋपेरादाव्यधायै त्वा स्वधायै त्वा मान इन्द्राभिमतस्त्वदृष्ट्वारिष्टां स एव ब्रह्मन्न वेद सुस्वाहेत्यथाऽयं ते योनिर्ऋत्विक्ते इति समिधि समारोपयेत्।पूर्वाग्निमुपसमाधायाजुह्वान उद्बुध्यस्वाग्न इति समिधमाधाय परिस्तीर्य स्रुचि चतुर्गृहीत्वा द्वयोर्भार्ययो-रन्वारब्धयोर्यजमानोऽभिमृशति यो ब्रह्मा ब्रह्मण इत्येतेन सूक्तेनैकं चतुर्गृहीतं जुहोत्यग्निमुखात्कृत्वा पक्काज्जुहोति सम्मितं सङ्कल्पेथामिति पुरोनुवाक्यामनूच्याग्ने पुरीष्ये इति याज्यया जुहोत्यथाज्या-हुतीरुपज्जुहोति पुरीष्यमस्तमित्यन्तादनुवाकस्य स्विष्टकृत्प्रभृति सिद्धमाधेनुवरदानादथाग्रेणाग्निं दर्भस्तम्बे हुतशेषं निदधाति ब्रह्मजज्ञानं पिताविराजामिति द्वाभ्यां संसर्गविधिः कार्यः।' इति।
द्वितीयादिविवाहे काल उक्तः सङ्ग्रहे- 'प्रमदामृतिवासरादितः पुनरुद्वाहविधिर्वरस्य च। विषमे परिवत्सरे शुभो युगले चापि मृतिप्रदो भवेत् ॥'
तृतीयविवाहे निषेधो मात्स्ये- 'उद्वहेद्रतिसिद्ध्यर्थं तृतीयां न कदाचन। मोहादज्ञानतो वापि यदि गच्छेत्तु मानुषीम्॥ नश्यत्येव न सन्देहो गर्गस्य वचनं यथा।' इति। सङ्ग्रहे- 'तृतीयां यदि चोद्वाहेत्तर्हि सा विधवा भवेत्। चतुर्थादिविवाहार्थं तृतीयेऽर्के समुद्वहेत्॥'
तद्विधिस्तु- 'रविशन्योर्हस्ते वा वरः सङ्कल्प्य स्वस्तिवाचनं नान्दीश्राद्धं कृत्वाचार्यं वृत्वा आकृष्णेनेति अर्कछायायुतं सूर्यमर्के सम्पूज्य गुडौदनं दत्त्वा वस्त्रेण तन्तुभिरावेष्ट्य, - 'त्रिलोकवासिन् सप्ताश्व विवाहः। छायया सहितो रवे । तृतीयोद्वाहजं दोपं निवारय सुखं कुरु॥' इति सम्प्रार्थ्य जलेन त्रिः सिञ्चेत्। 'मम प्रीतिकरा येयं मया सृष्टा पुरातनी। अर्कजा ब्रह्मणा सृष्टा अस्माकं प्रति रक्षतु॥ नमस्ते भङ्गले देवि नमः सवितुरा-त्मजे। त्राहि मां कृपया देवि पत्नीत्वं म इहागता। अर्क त्वं ब्रह्मणा सृष्टः सर्वप्राणिहिताय च। वृक्षाणामादिभूतस्त्वं देवानां प्रीतिवर्धनः॥ तृतीयोद्वाहजं पापं मृत्युं चाशु विनाशय॥' इति। तत आचार्यः–‘काश्यपगोत्रामादित्यस्य प्रपौत्रीं सवितुः पौत्रीं सवितुः पुत्रीमर्ककन्याममुकगोत्राय वराय दास्ये' इति वाग्दानं कृत्वा वरस्य मधुपर्कं कृत्वाऽन्तःपटं धृत्वा 'स्वस्तिन' इति सूक्तं जप्त्वा पूर्ववत्कन्यां दत्त्वा 'अर्ककन्यामिमां॰ ' इत्यूहेन कन्यादानमत्रमुक्त्वा दक्षिणां दद्यात्। ततो गायत्र्या वेष्टितसूत्रेण बृहत्सामेति मन्त्रेण कङ्कणं बद्ध्वऽर्कस्य चतुर्दिक्षु कुम्भेषु विष्णुं सम्पूज्याग्निं प्रतिष्ठाप्याघारान्ते सङ्गोभिरिति बृहस्पतये, यस्मै त्वा कामकामायेत्यृचाऽग्नये व्यस्तसमस्तव्याहृतिभिराज्यं हुत्वाऽऽचार्याय गोयुगं दत्त्वा, "मया कृतमिदं कर्म स्थावरेषु जरायुणा। अर्काऽपत्यानि नो देहि तत्सर्वं क्षन्तुमर्हसि॥” इति नमेत' इति दिक्॥
इति निर्णयसिन्धौ विवाहप्रकरणं समाप्तम्॥
अथाधानम्। रत्नमालायाम्- 'प्राजापत्ये पूषभे सद्विदैवे पुष्ये ज्येष्ठास्वैन्दवे कृत्तिकासु। अग्न्याधानम् अग्न्याधानम्। ह्युत्तराणां त्रयेऽपि चित्रादित्ये कीर्तितं गर्गमुख्यैः॥' आश्वलायनः- 'अग्न्याधेयं कृत्तिकासु रोहिण्यां मृगशिरसि फल्गुनीषु विशाखयोरुत्तरयोः प्रोष्ठपदयोरेतेषां कस्मिंश्चिद्वसन्ते पर्वणि ब्राह्मण आदधीत ग्रीष्मवर्षाशरत्सु क्षत्रियवैश्योपक्रुष्टा यस्मिन्कस्मिंश्चिदृतावादधीत सोमेन यक्ष्यमाणो नर्तुं पृच्छेन्न नक्षत्रम् ।
सोमाधाने ऋत्वाद्यनालोचनमार्तपरम्; 'अथो खलु यदैवैनँश्रद्धोपनमेदथादधीत सैवास्यर्द्धिः' इति। 'सोमेन यक्ष्यमाणो नर्तुं पृच्छेन्न नक्षत्रं तदेतदातस्यातिवेलं वा श्रद्धायुक्तस्य भवति' इति बौधायनोक्ते-रिति। मदनरत्ने वृद्धगार्ग्यः- पुष्याग्नेयत्र्युत्तरादित्यपौष्णज्येष्ठाचित्रार्कद्विदैवेन्दुभेषु॥कुर्युर्वह्नया-धानमाद्यं वसन्तग्रीष्मोष्मान्तेष्वेव विप्रादिवर्णाः॥' कालादर्शे- 'अग्निहोत्रं दर्शपूर्णमासावप्युत्तरायणे।उपक्रम्य यथाकालमुपासीरन्द्विजातयः॥ सोमं च पशुबन्धं च सर्वाश्च विकृतीरपि। सौम्यायने यथाकालं विदध्युर्गृहमेधिनः॥' अत्र विशेषः पूर्वमुक्तः।
अग्निहोत्रकाल उक्तश्छन्दोगपरिशिष्टे- 'उदितेऽनुदिते चैव समयाध्युषिते तथा। सर्वथा वर्तते यज्ञ इतीयं वैदिकी श्रुतिः॥' एतेषां स्वरूपं तत्रैव- 'रात्रेस्तु षोडशे भागे ग्रहनक्षत्रभूषिते। कालं त्वनुदितं ज्ञात्वा होमं कुर्याद्विचक्षणः॥ तथा प्रभातसमये नष्टे नक्षत्रमण्डले। रविर्यावन्न दृश्येत समयाध्युषितं च तत्॥ रेखामात्रं प्रदृश्येत रश्मिभिश्च समन्वितः। उदितं तद्विजानीयात्तत्र होमं प्रकल्पयेत्॥' आश्वलायनः- 'उपोदये व्युषिते उदिते वा' सायं तु स एव 'अस्तमिते होमः' इति। गौणकालमाह स एव- 'प्रदोषान्तो होमकालः, सङ्गवान्तः प्रातः' इति। छन्दोगपरिशिष्टे- 'यावत्सम्यङ्ग भाव्यन्ते नभस्यृक्षाणि सर्वतः। न च लोहितिमापैति तावत्सायं तु हूयते॥' औपासनेऽप्येवम्, 'तस्याग्निहोत्रेण प्रादुष्करणहोमकालौ व्याख्यातौ' इत्याश्वलायनोक्तेः॥
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा