निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
← निर्णयसिन्धु — परिच्छेद-सूची
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथावसथ्याधानम्। पारस्करः- 'आवसथ्याधानं दारकाले, दायाद्यकाल एकेषाम्' इति। दायाद्यकालः=विभागकालः। मदनरत्ने व्यासः- 'अग्निर्वैवाहिको येन न गृहीतः प्रमादिना। पितर्थुपरते तेन ग्रहीतव्यः प्रयत्नतः॥ योऽगृहीत्वा विवाहाग्निं गृहस्थ इति मन्यते। अन्नं तस्य न भोक्तव्यं वृथापाको हि स स्मृतः॥' ज्येष्ठभ्रातरि पितरि वा साग्नौ कनिष्ठस्य पुत्रस्य वाग्न्यभावेऽपि न दोषः। तदाह तत्रैव गार्ग्यः- 'पितृपाकोपजीवी वा भ्रातृपाकोपजीविकः। ज्ञानाध्ययननिष्ठो वा न दुध्येताग्निना विना॥'
गृहस्थस्याप्यध्ययनमाह सत्यव्रतः- 'अनधीत्य द्विजो वेदं स्नात्वोद्वाह्य यथा तथा। अधीते ब्रह्मचर्येण साङ्गं वेदं गुरोर्गृहे॥' इदं चाधानं ज्येष्ठेऽकृताधाने न कार्यम्। 'दारा -
ज्येष्ठभ्रातर्यग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते। परिवेत्ता स विज्ञेयः, परिवित्तिस्तु पूर्वजः॥' इति परिणीते कनिष्ठ- मनुशातातपोक्तेः। स्मार्तेऽप्येवम्। 'सोदर्ये तिष्ठति ज्येष्ठे न कुर्याद्दारसङ्ग्रहम्। स्यानधिकारः। आवसथ्यं तथाधानं पतितस्तु तथा भवेत्॥' इति तत्रैव गार्ग्योक्तेः। आज्ञायां त्वदोषमाह सुमन्तुः- 'ज्येष्ठो भ्राता यदा तिष्ठेदाधानं नैव चाश्रयेत्। अनुज्ञातस्तु कुर्वीत शङ्खस्य वचनं यथा॥' अग्रजानुमतेऽ- वृद्धवसिष्ठः - 'अग्रजस्तु यदाऽनग्निरादध्यादनुजः कथम्। अग्रजानुमतः कुर्यादग्निहोत्रं नुजस्याधिकारः यथाविधि॥' हारीतः - 'सोदराणां तु सर्वेषां परिवेत्ता कथं भवेत्। दारैस्तु परिविद्यन्ते नाग्निहोत्रेण नेज्यया॥' अधिकारिणोऽपि भ्रातुरनुज्ञया कुर्यादिति मदनपारिजातः। विवाहस्त्वनुज्ञयापि नेत्यर्थः। सोदरोक्तेरसोदराणां सापत्नदत्तकादीनां न दोषः । तदाह हेमाद्रौ वसिष्ठः- 'पितृव्यपुत्रान्सापत्नान् परनारीसुतांस्तथा। दाराग्निहोत्रसंयोगे न दोषः परिवेदने॥' परनारीसुताः = दत्तकादयः। देशान्तरे विशेषमाह स एव- 'अष्टौ दश द्वादशवर्षाणि वा ज्येष्ठभ्रातरमनिविष्टमप्रतीक्षमाणः प्रायश्चित्ती भवति' इति।
क्लीबादावप्यदोषमाह कात्यायनः- 'देशान्तरस्थक्लीबैकवृषणानसहोदरान्। वेश्यानिष्ठांश्च पतितशूद्रतुल्यातिरोगिणः॥ जडमूकान्धबधिरकुब्जवामनखञ्जकान्। अतिवृद्धानभार्यांश्च कृषिसक्ता-न्नृपस्य च॥ धनवृद्धिप्रसक्तांश्च कामतोऽकारिणस्तथा। कुटिलोन्मत्तचोरांश्च परिविन्दन्न दुष्यति॥' आशार्केऽपि- 'उन्मत्तः किल्विषी कुष्ठी पतितः क्लीब एव वा। राजयक्ष्मामयावी च न न्याय्यः स्यात्प्रतीक्षितुम्॥' एवं ज्येष्ठे छिन्नहस्तादावपि न परिवेत्तृत्वम्। तदाह त्रिकाण्डमण्डनः- 'दर्शेष्टिं पौर्णमासेष्टिं सोमेज्यामग्निसङ्ग्रहम्। अग्निहोत्रं विवाहं च प्रयोगे प्रथमे स्थितम्॥ न कुर्याज्जनके ज्येष्ठे सोदरे चाप्यकुर्वति। क्षेत्रजादावनीजाने विद्यमानेऽपि सोदरे॥ नाधिकारविघातोऽस्ति भिन्नोदर्येऽपि चौरसे। षङ्ग्वन्धमूकबधिरपतितोन्माददूषणे॥ सन्न्यस्ते छिन्नहस्तादौ यद्वा षण्ढादिदूषणे। जनके सोदरे ज्येष्ठे कुर्यादेवेतरः क्रियाम्॥' इति, 'आरोहतं दशतं शक्करीर्मम' इत्याधाने मन्त्रवर्णाच्च। शक्करीः=अङ्गुलीः। तन्त्ररत्नेऽप्युक्तम्- ‘अङ्गवैकल्यात्पूर्वमाहिताग्नित्वेऽधिक्रियेतैव नित्येषु। आधानं तु न कुर्यात्तस्य नैमित्तिकत्वात्' इति। एवं चतुरङ्गुलेऽपि । षडङ्गुलकाणविवर्णादेस्त्वस्त्येवाधिकार; एकादशसु दशान्तर्गतेः। 'शरीरकार्श्यं वा विप्रतिषिद्धम्' इति हिरण्यकेशिसूत्रे कर्माशक्तिहेतोरे-वाङ्गवैकल्यस्य निषेधात्। अत एव कात्यायनसूत्रे-‘याज्यश्च प्रथमैत्रिभिर्गुणैः' इति न्यूनाङ्गस्याप्यधिकार उक्तः। अपरार्के उशनाः - 'पिता पितामहो यस्य अग्रजो वाथ कस्यचित्। तपोऽग्निहोत्रमन्त्रेषु न दोषः परिवेदने।'
पितुराज्ञायामप्यन्दोषमाह मदनरत्ने सुमन्तुः- 'पित्रा यस्य तु नाधातं कथं पुत्रस्तु कारयेत्। अग्निहोत्रेऽधिकारोऽस्ति शङ्खस्य वचनं यथा॥' इति। नाघातं=नाधानं कृतमित्यर्थः। एतदाज्ञायामे-वेति हेमाद्रिः। यत्तु- 'पितुः सत्यप्यनुज्ञाने नादधीत कदाचन।' इति, तत्सत्यधिकारे ज्ञेयम्॥
अथ शुद्धसंस्काराः । यमः- 'शूद्रोऽप्येवंविधः कार्यो विना मन्त्रेण संस्कृतः। न केनचित्सम-सृजच्छन्दसा तं प्रजापतिः॥' छन्दसा=मन्त्रेण। व्यासोऽपि- 'गर्भाधानं पुंसवनं सीमन्तो जातकर्म च। नामक्रिया निष्क्रमोन्नप्राशनं वपनक्रिया॥ कर्णवेधो व्रतादेशो वेदारम्भक्रियाविधिः। केशान्तः स्नानमुद्वाहो विवाहाग्निपरिग्रहः॥ त्रेताग्निसङ्ग्रहश्चैव संस्काराः षोडश स्मृताः॥' इत्युक्त्वाह- 'नवैताः कर्णवेधान्ता मन्त्रवर्जं स्त्रियाः क्रियाः। विवाहो मन्त्रतस्तस्याः शूद्रस्यामन्त्रतो दश॥ इति। मदनरत्नेहिरण्यगर्भदाने तु- 'गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा। कुर्युर्हिरण्यगर्भस्य ततस्ते द्विजपुङ्गवाः॥' इत्युक्त्वा - 'जातकर्मादिकाः कुर्यात्क्रियाः षोडश चापराः।' इत्यत्र 'स्त्रियाः जातकर्मनामकरण-निष्क्रमणान्नप्राशनचूडाविवाहाः षट्, शूद्राणां तु षडेते पञ्चमहायज्ञाश्चेत्येकादश' इत्युक्तम्। रूपनारायण-हरिहरभाष्ययोरप्येवम्। शार्ङ्गधरस्तु- 'द्विजानां षोडशैव स्युः शूद्राणां द्वादशैव हि। पञ्चैव मिश्रजातीनां संस्काराः कुलधर्मतः॥ वेदव्रतोपनयनमहानाम्नीमहाव्रतम्। विना द्वादश शूद्राणां संस्कारा नाममन्त्रतः॥' इत्याह। अपरार्कस्तु- 'गर्भाधानमृतौ पुंसः' इत्यत्राह- 'एतच्चातुर्वर्ण्यपरं न द्विजातिमात्रपरम्। तथा सत्युपनयनं विधाय वाच्यं स्यात्' इति। तेन तन्मतेऽष्टौ भवन्ति। ब्राह्मे तु-'विवाहमात्रसंस्कारं शूद्रोऽपि लभतां सदा।' इत्युक्तम्। अत्र सदसच्छूद्रगोचरत्वेन देशभेदाद्व्यवस्था।यत्तु मनुः- 'न शूद्रे पातकं किञ्चिन्न च संस्कारमर्हति।' इति। तदर्थमाह मेधातिथिः-'यत्सामान्यतो निषिद्धं स्तेयानृतादि न तदतिक्रमेऽस्य पापं यथा द्विजानाम्। उपनयनरूपं संस्कारं च नार्हति' इति। ते च तूष्णीं कार्याः, 'शूद्रो वर्णश्चतुर्थोऽपि वर्णत्वाद्धर्ममर्हति। वेदमन्त्रस्वधास्वाहावषट्कारादिभिर्विना॥' इति व्यासोक्तेः, 'अमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रेण गृह्यते।' इति मरीच्युक्तेश्च। इयं परिभाषा सर्वार्था, तेन शूद्रधर्मेषु सर्वत्र विप्रेण मन्त्रः पठनीयः। सोऽपि पौराण एवेति शूलपाणिः। एवं स्त्रीणामपीति दिक्।
इति रामकृष्णभट्टात्मजकमलाकरभट्टकृते निर्णयसिन्धौ तृतीयपरिच्छेदे पूर्वार्धे संस्कारनिर्णयः॥
अथ क्षुद्रकालाः। तत्र जलाशयस्य। वराहः - 'हस्ते चाम्बुपपौष्णकेशवमघामित्रोत्तरारोहिणी-देवेज्येषु च शुक्रसौम्यशशभृद्वागीशवारांशके। रिक्तां छिद्रतिथिं विहाय वृषभे नक्रे कुलीरे घण्टे मीने कूपतडागकर्म मुनयः शंसन्ति शुद्धेऽष्टमे॥ हस्तो मृगानुराधापुष्यधनिष्ठोत्तराणि रोहिण्यः। शतभिषगित्यारम्भे कूपानां शस्यते भगणः॥'
हेमाद्रौ भविष्ये- 'तस्मिन्सलिलसम्पूर्णे कार्तिके तु विशेषतः। मुनयः केचिदिच्छन्ति व्यतीते चोत्तरायणे॥ न कालनियमस्तत्र सलिलं तत्र कारणम्॥' दीपिकापि- 'मार्तण्डेन्दूडुशुद्धौ मुरजिशयने माघषट्कस्य शुक्ले मूलाषाढोत्तराश्विश्रवणगुरुकरे पौष्णशाक्राजचान्द्रे। मैत्रे ब्राह्मे च पूर्णमदन १३-७ रवि १२ तिथौ सद्वितीयतृतीये कार्या तोयप्रतिष्ठा ज्ञगुरुसितदिने कालशुद्धे सुलग्ने ॥ वराहः- आग्नेये यदि कोणे ग्रामस्य पुरस्य वा भवति कूपः। नित्यं स करोति भयं दाहं च स मानसं प्रायः॥ नैर्ऋत्ये बालभयं वनिताक्षयं च वायव्ये। दिक्त्रयमेतत्त्यक्त्वा शेषास्तु शुभावहाः कूपाः॥' वास्तुशास्त्रे- 'भूतिं पुष्टिं पुत्रहानिं पुरन्ध्रीनाशं मृत्युं सम्पदं शत्रुबाधाम्। किञ्चित्सौख्यं शम्भुकोणादि कुर्यात्कूपो मध्ये गेहमर्थक्षयं च॥'
उत्सर्गविधिश्चोक्तो बह्वृचपरिशिष्टे-'अथातो वापीकूपतडागयज्ञं व्याख्यास्यामः। पुण्येऽह्न्युदक-समीपेऽग्निं समाधाय वारुणं चरुं श्रपयित्वाज्यभागान्ते आज्याहुतीर्जुहुयात्। ‘समुद्रज्येष्ठा' इति प्रत्यूचं, ततो हविषाष्टौ, 'तत्त्वायामि' इति पञ्च, 'त्वं नो अग्ने' इति द्वे, ‘इमं मे वरुण' इति च, स्विष्टकृतं नवमम्। मार्जनान्ते धेनुं तारयेत्। अवतीर्थमाणामनुमन्त्रयेत। 'इदं सलिलं पवित्रं कुरुष्व शुद्धाः पूता अमृताः सन्तु नित्यम्। मां तारयन्ती कुरु तीर्थाभिषेकं लोकाल्लोकं तरते तीर्यते च॥' इति। पुच्छाग्रान्वारब्ध उत्तीर्य 'आपो अस्मान्मातरः शुन्धयन्तु' इति। अथापराजितायां दिश्युत्थापयेत् 'सूयवसाद्भगवती' इति। हिङ्कृतं चेत् 'हिं कृण्वती' इति, अलङ्कृतां विप्राय दद्यादितरां वा शक्त्या दक्षिणाम्। तत उत्सृजेद्देवपितृमनुष्याः प्रीयन्तामिति। ब्राह्मणान्भोजयित्वा स्वस्त्ययनं वाचयीत' इति। विस्तरस्तु मात्स्योक्तोऽस्मत्कृतजलाशयोत्सर्गविधौ ज्ञेयः। कूपादेरुत्सर्गाकरणे दोष उक्तो भविष्ये- 'सदा जलं पवित्रं स्यादपवित्रमसंस्कृतम्। कुशाग्रेणापि राजेन्द्र न स्प्रष्टव्यमसंस्कृतम्॥' तथा- 'वापीकूपतडागादौ यज्जलं स्यादसंस्कृतम्। अपेयं तद्भवेत्सर्वं पीत्वा चान्द्रायणं चरेत्॥'
अथ वृक्षारोपणम्। चण्डेश्वरः-'आदित्यचान्द्रपितृतिष्यविशाखपौष्णमूलोत्तरात्रयतुरङ्गमवारुणाश्च । एतेषु तारकगणेषु हितं नराणां वृक्षादिरोपणमिहोपदिशन्ति धीराः॥'
अथ मूर्तिप्रतिष्ठा । वसिष्ठः- 'हस्तत्रये मित्रहरित्रये च पौष्णद्वयादित्यसुरेज्यभेषु। तिस्रोत्तराधातृशशाङ्कभेषु सर्वामरस्थापनमुत्तमं स्यात्॥' मात्स्ये- 'चैत्रे वा फाल्गुने वापि ज्येष्ठे वा माधवे तथा। माघे वा सर्वदेवानां प्रतिष्ठा शुभदा भवेत्॥' नारदस्तु चैत्रं निषेधति- 'विचैत्रेष्वेव मासेषु माघादिषु च पञ्चसु।' इति। तेनात्र विकल्पः। अत्र माघमासो विष्णुप्रतिष्ठाव्यतिरिक्तविषयः; 'माघे कर्तुर्विनाशाय फाल्गुने शुभदा भवेत्।' इति विष्णुधर्मोत्तेरिति हेमाद्रिः। मात्स्ये- 'दृढा धनकरी स्फीता तथा प्रतिपदि स्मृता। द्वितीयायां धनोपेता तृतीयायां धनप्रदा॥ चतुर्थ्यां नाशमाप्नोति यमस्य स्यात्सुखावहा। विनायकस्य देवस्य तथा तत्र हितप्रदा॥ पञ्चम्यां श्रीयुता कर्तुर्वरदा च तथा भवेत्। षष्ठ्यां लक्ष्मीयुता नित्यं सप्तम्यां रोगनाशिनी॥ अष्टम्यां धान्यबहुला नवम्यां च विनश्यति। भद्रकाल्याः कृता तत्र कर्तुर्भवति तुष्टये। धर्मवृद्धिकरी ज्ञेया दशम्यां तु तथा तिथौ। एकादश्यां तथा युक्ता द्वादश्यां सर्वकामदा॥ त्रयोदश्यां तथा ज्ञेया चतुर्दश्यां विनश्यति। कृष्णपक्षे पञ्चदश्यां कर्तुः क्षयकरी भवेत्॥ पञ्चदश्यां तथा शुक्ले सर्वकामकरी भवेत्। आषाढे द्वे तथा मूलमुत्तरात्रयमेव च॥ ज्येष्ठाश्रवणरोहिण्यः पूर्वाभाद्रपदा तथा। हस्तोऽश्विनी रेवती च पुष्यो मृगशिरस्तथा॥ अनुराधा तथा स्वाती प्रतिष्ठासु प्रशस्यते॥’ श्रीपतिः–‘रोहिण्युत्तरपौष्णवैष्णवकरादित्याश्विनीवासवानूराधैन्दवजीवभेषु गदितं विष्णोः प्रतिष्ठापनम्। पुष्यश्रुत्यभिजित्सुरेश्वरकयोर्वित्ताधिपस्कन्दयोर्मैत्रे तिग्मरुचेः करे निर्ऋतिभे दुर्गादिकानां शुभम्॥ गणपरिवृढरक्षोयक्षभूतासुराणां प्रथमफणिसरस्वत्यादिकानां च पौष्णे। श्रवसि सुगतनाम्नो वासवे लोकपानां निगदितमखिलानां स्थापनं च स्थिरेषु॥ तेजस्विनी क्षेमकृदग्निदाहविधायिनी स्याद्धनदा दृढा च। आनन्दकृत्कल्पविनाशिनी च सूर्यादिवारेषु भवेत् प्रतिष्ठा॥' माधवीये वैखानसः- 'मातृभैरववाराहनरसिंहत्रिविक्रमाः। महिषासुरहन्त्र्यश्च स्थाप्या वै दक्षिणायने॥' 'वै' शब्दोऽप्यर्थे।
लिङ्गप्रतिष्ठायां विशेषो हेमाद्रौ लक्षणसमुच्चये- 'उत्तराशागते भानौ लिङ्गस्थापनमुत्तमम्। दक्षिणे लिङ्गप्रतिष्ठात्वयने पूज्य त्रिवर्षार्धे भयावहम्॥ स्वगृहे स्थापनं नेष्टं तस्माद्वै दक्षिणायने। स्थापनं तु पने कालः। प्रकर्तव्यं शिशिरादावृतुत्रये॥ प्रावृषि स्थापितं लिङ्गं भवेद्वरदयोगदम्॥ लक्ष्मीप्रदं वसन्ते च ग्रीष्मे च जय-शान्तिदम्। यतीनां सर्वकाले च लिङ्गस्यारोपणं मतम्॥' रत्नावल्याम्- 'माघफाल्गुनवैशाख-ज्येष्ठाषाढेषु पञ्चसु। मासेषु शुक्लपक्षेषु लिङ्गस्थापनमुत्तमम्॥' विष्णोरप्याह तत्रैव वैखानसः- 'मार्गशीर्षादिमासौ द्वौ निन्दितौ ब्रह्मणा पुरा। मासेषु फाल्गुनः श्रेष्ठश्चैत्रो वैशाख एव च॥ वृषे वाऽप्यश्वयुङ्मासे श्रावणे मासि वा भवेत्॥' बौधायनसूत्रे विष्णुप्रतिष्ठामुपक्रम्य- 'द्वादश्यां श्रोणायां वा यानि चान्यानि पुण्यनक्षत्राणि' इति। कृत्तिकादिविशाखान्तेष्वित्यर्थः। सर्वदेवेषु मासविशेषो हेमाद्रौ विष्णुधर्मे- 'माघे कर्तुर्विनाशाय फाल्गुने शुभदा भवेत्। लोकानन्दकरी चैत्रे वैशाखे वरसंयुता॥ आज्ञायुता सदा ज्येष्ठे आषाढे धर्मवृद्धिदा। श्रावणे धनहीना स्यात्प्रोष्ठपादे विनश्यति॥ आश्विने नाशमाप्नोति वह्निना कार्तिके तथा। सौम्ये सौभाग्यमतुलं पौषे पुष्टिरनुत्तमा॥ दोषान्विताधिमासे स्यात्कर्तुरात्मन एव च॥' इति। अत्र श्रावणाश्विनयोर्निषेधो मार्गशीर्षविधिश्च विष्णुव्यतिरिक्तविषयः, पूर्वोक्तवचनादिति हेमाद्रिः। माघश्रावणभाद्रपदनिषेधः शिवव्यतिरिक्तविषयः; तत्र तस्योक्तेः। देवीस्थापने तत्रैव विशेषो देवीपुराणे- 'देव्या माघेऽश्विने मासे उत्तमा सर्वकामदा। तथा- 'न तिथिर्न च नक्षत्रं नोपवासोऽत्र कारणम्। सर्वकालं प्रकर्तव्यं कृष्णपक्षे विशेषतः॥' अन्यश्चात्र विचारो हेमाद्रौ ज्ञेयः। नारदः- 'हन्त्यर्थहीना कर्तारं मन्त्रहीना तु ऋत्विजम्। स्त्रियं लक्षणहीना तु न प्रतिष्ठासमो रिपुः॥'
अत्राधिकारिण उक्ताः कृत्यकल्पतरौ देवीपुराणे 'वर्णाश्रमविभेदेन देवाः स्थाप्यास्तु नान्यथा। ब्रह्मा प्रतिष्ठायामतु ब्राह्मणैः स्थाप्यो गायत्रीसहितः प्रभुः॥ चतुर्वर्णैस्तथा विष्णुः प्रतिष्ठाप्यः सुखार्थिभिः। धिकारिणः। भैरवोऽपि चतुर्वर्णैरन्त्यजानां तथा मतः॥ मातरः सर्वलोकैस्तु स्थाप्याः पूज्याः सुरोत्तमाः। लिङ्गं गृही यतिर्वापि संस्थाप्य तु यजेत्सदा॥' शिवसर्वस्वे भविष्ये- 'यस्तु पूजयते लिङ्गं देवादिं मां जगत्पतिम्। ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा मत्परायणः॥ तस्य प्रीतः प्रदास्यामि शुभाल्ँ लोकाननुत्तमान्॥' तिथितत्त्वे स्कान्दे- 'शूद्रः कर्माणि यो नित्यं स्वीयानि कुरुते प्रिये। तस्याहमर्चो गृह्णामि चन्द्रखण्डविभूषिते॥ ब्रह्मचारी गृहस्थो वा वानप्रस्थश्च सुव्रते। एवं दिने दिने देवं पूजयेदम्बिकापतिम्॥ सन्न्यासी देवदेवेशं प्रणवेनैव पूजयेत्। नमोन्तेन शिवेनैव स्त्रीणां पूजा विधीयते॥' एतच्च पुराणप्रसिद्धजीर्णलिङ्ग-पूजाविषयम्। यानि तु त्रिस्थलीसेतौ नारदीये- 'यः शुद्रेणार्चितं लिङ्गं विष्णुं वा प्रणमेन्नरः। न तस्य निष्कृतिर्द्दष्टा प्रायश्चित्तायुतैरपि॥ नमेद्यः शूद्रसंस्पृष्टं लिङ्गं वा हरिमेव वा। स सर्वयातनाभोगी यावदा-चन्द्रतारकम्॥ पाखण्डपूजितं लिङ्गं नत्वा पाखण्डतां व्रजेत्। आभीरपूजितं लिङ्गं नत्वा नरकमश्नुते॥ योषिद्भिः पूजितं लिङ्गं विष्णुं वापि नमेत्तु यः। स कोटिकुलसंयुक्तमाकल्पं रौरवं वसेत्॥' इत्यादीनि, तानि नूतनस्थापितलिङ्गादिविषयाणि; 'यदा प्रतिष्ठितं लिङ्गं मन्त्रविद्भिर्यथाविधि। तदाप्रभृति शूद्रश्च योषिद्वापि न संस्पृशेत्॥' इति तत्रैवोक्तेः।
प्रतिष्ठायां तु शूद्रादीनां नाधिकारः; 'स्त्रीणामनुपनीतानां शूद्राणां च जनेश्वर। स्थापने नाधिकारोऽस्ति प्रतिष्ठायां शूद्राणाविष्णोर्वा शङ्करस्य वा॥ यः शूद्रसंस्कृतं लिङ्गं विष्णुं वापि नमेन्नरः। मनधिकारित्वम्। इहैवानन्तदुःखानि पश्यत्यामुष्मिके किमु॥ शूद्रो वाऽनुपनीतो वा स्त्रियो वा पतितोऽपि वा। केशवं वा शिवं वापि स्पृष्ट्वा नरकमश्नुते॥' इति बृहन्नारदीयस्कान्दोक्तेरिति त्रिस्थलीसेतौ पितामहचरणाः। चतुर्वर्णैरिति पूर्वोक्तवचना-द्विष्ण्वादिप्रतिष्ठायां शूद्रस्य विकल्प इति युक्तं पश्यामः। तत्रैव गौतमः- 'शिवार्चनं सदाप्येवं शुचिः कुर्यादुदङ्मुखः॥' वाचस्पतिधृतम्- 'प्राक्पश्चिमोदगास्यस्तु प्रातः सायं निशासु च।' इति प्रयोगपारिजाते । गृह्यपरिशिष्टे-'प्रतिमाः प्राङ्मुखीरुदङ्मुखो यजेताऽन्यत्र प्राङ्मुखः'। एतच्च स्थिरप्रतिमाविषयम्। अन्यत्र=चलार्चासु॥
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा