निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
← निर्णयसिन्धु — परिच्छेद-सूची
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथ प्रतिमाः भार्गवार्चनदीपिकायां भविष्ये- 'सौवर्णी राजती ताम्री मृन्मयी च तथा भवेत्। पाषाणधातुयुक्ता वा रीतिकांस्यमयी तथा। रीतिः=पित्तलम्। 'शुद्धदारुमयी वापि देवतार्चा प्रशस्यते। अङ्गुष्ठपर्वादारभ्य वितस्तिं यावदेव तु॥ गृहेषु प्रतिमा कार्या नाधिका शस्यते बुधैः॥' पञ्चरात्रे तु- 'मृद्दारुलाक्षागोभेदमधूच्छिष्टमयी न तु।' इति निषेध उक्तः। भागवते- 'शैली दारुमयी लौही लेप्या लेख्या च सैकती। मनोमयी मणिमयी प्रतिमाऽष्टविधा स्मृता॥' काष्ठं मधुकस्यैव; 'तत्र काष्ठेषु मधुकमानीय च वसुन्धरे। कृत्वा तत्प्रतिमां चैव प्रतिष्ठाविधिनाऽर्चयेत्॥ इति वाराहोक्तेः। देवीपुराणे- 'सप्ताङ्गुलं समारभ्य यावच्च द्वादशाङ्गुलम्। गृहेष्वर्चा समाख्याता प्रासादे वाऽधिका शुभा॥'
तिथितत्त्वे कालिकापुराणे- 'प्रतिमायाः कपोलौ द्वौ स्पृष्ट्वा दक्षिणपाणिना। प्राणप्रतिष्ठां कुर्वीत तस्य देवस्य वा हरेः॥ अन्येषामपि देवानां प्रतिमासु च पार्थिव। प्राणप्रतिष्ठा कर्तव्या तस्यां देवत्वसिद्धये॥ वासुदेवस्य बीजेन तद्विष्णोरित्यनेन च। तथैव हृदयेऽङ्गुष्ठं दत्त्वा शश्वच्च मन्त्रवित्॥एभिर्मन्त्रैः प्रतिष्ठां तु हृदयेऽपि समाचरेत्। अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च॥ अस्यै देवत्वमर्चायै मामहेति च कच्चन॥' हयशीर्षपञ्चरात्रे- 'अर्चकस्य तपोयोगादर्चनस्यातिशायनात्। आभिरूप्याच्च बिम्बानां देवः सान्निध्यमृच्छति॥' प्रयोगपारिजाते व्यासः- 'प्रतिमापट्टयन्त्राणां नित्यं स्नानं न कारयेत्। कारयेत्पर्वदिवसे यदा वा मलधारणम्॥'
लिङ्गे विशेषस्तिथितत्त्वे भविष्ये- 'मृद्भस्मगोशकृत्पिष्टताम्रकांस्यमयं तथा। कृत्वा लिङ्गं सकृत्पूज्य वसेत्कल्पायुतं दिवि॥ वार्क्षे वित्तप्रदं लिङ्गं स्फाटिकं सर्वकामदम्। कृत्वा पूजय विप्रेन्द्र लप्स्यसे वाञ्छितं फलम्॥' तत्रैव कालकौमुद्यां स्कान्दे- 'अक्षादल्पपरीमाणं न लिङ्गं कुत्रचिन्नरः। कुर्वीताङ्गुष्ठतो ह्रस्वं न कदाचित्समाचरेत्॥' अक्षः=अशीतिर्गुञ्जाः । 'गुञ्जाः पञ्चाऽऽद्यमाषकः', 'ते षोडशाक्षः कर्षोऽस्त्री' इत्यमरकोशात्। प्रयोगपारिजाते क्रियासारे- 'नवाष्टसप्ताङ्गुलिकं लिङ्गं श्रेष्ठमिहोच्यते। षट्पञ्चकचतुर्मानं मध्यमं त्रिविधं स्मृतम्॥ त्रिद्व्येकाङ्गुलिमानं यन्त्रिविधं तत्कनीयसम्। एवं नवविधं प्रोक्तं चरलिङ्गं यथाक्रमम्॥'
अथ पञ्चसूत्रीनिर्णयः। गौतमीतन्त्रे- 'लिङ्गमस्तकविस्तारो लिङ्गोच्छ्रायसमो मतः। परिधिस्तन्त्रि-गुणितस्तद्वत्पीठं व्यवस्थितम्॥ प्रणालिका तथैव स्यात्पञ्चसूत्रविनिर्णयः॥' अत्रेदं तत्त्वम्– लिङ्गमस्तकविस्तारं लिङ्गोच्चतासमं कृत्वा तन्त्रिगुणसूत्रवेष्टनार्हं लिङ्गस्थौल्यं कृत्वा तत्समं वृत्तं चतुरस्रं वा पीठविस्तारमधश्चोर्ध्वं च कुर्यात्। पीठोच्चता तु लिङ्गोच्चतातो द्विगुणा। पीठमध्ये लिङ्गाद्दिगुणस्थूलं पीठोच्चतातृतीयांशेन कण्ठं कृत्वा तस्योर्ध्वम् अधश्च समं वप्रद्वयं त्रयं वा कृत्वा लिङ्गविस्तारषष्ठांशेन पीठोपरि बाह्यमेखलां कृत्वा तदन्तःसंलग्नं तत्समं खातं कृत्वा पीठाद्बहिर्लिङ्गसमदीर्घां पीठार्धदीर्घां वा मूले दैर्ध्यसमविस्ताराम् अग्रे तदर्धविस्तारां तृतीयांशेन मध्ये खातां पीठवत्समेखलां प्रणालिकां कुर्यादिति। अत्र मूलं सिद्धान्तशेखरे शैवागमे च ज्ञेयम्॥
गृहे शङ्खशालग्रामादिपूजनम्।—
तिथितत्वे ब्राह्मे– 'सर्वत्रैव प्रशस्तोऽब्जः शिवसूर्यार्चनं विना॥' तत्रैव वाराहपाद्मयोः– 'गृहे लिङ्गद्वयं नार्च्ये शालग्रामद्वयं तथा। द्वे चक्रे द्वारकायास्तु नार्च्ये सूर्यद्वयं तथा॥ शक्तित्रयं तथा नार्च्यं गणेशत्रयमेव च। द्वौ शङ्खौ नार्चयेच्चैव भग्नां च प्रतिमां तथा॥ नार्चयेच्च तथा मत्स्यकूर्मादिदशकं तथा। गृहेऽग्निदग्धा भग्नाश्च नार्चाः पूज्या वसुन्धरे॥ एतासां पूजनान्नित्यमुद्वेगं प्राप्नुयाद्गृही। शालग्रामाः समाः पूज्याः समेषु द्वितयं नहि॥ विषमा नैव पूज्याः स्युर्विषमेष्वेक एव हि। शालग्रामशिला भग्ना पूजनीया सचक्रका खण्डिता स्फुटिता वापि शालग्रामशिला शुभा॥' वाराहे– 'दद्याद्भक्ताय यो देवि शालग्रामशिलां नरः। सुवर्णसहितां दिव्यां पृथ्वीदानफलं लभेत्॥' तत्रैव– 'यः पुनः पूजयेद्भक्त्या शालग्रामशिलाशतम्। तत्फलं नैव शक्तोऽहं वक्तुं वर्षशतैरपि॥' विष्णुपुराणे– 'ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्च पृथिवीपते। स्वधर्मतत्परो विष्णुमाराधयति नान्यथा॥'
अविभक्तानामपि पृथग्देवपूजामाह प्रयोगपारिजाते आश्वलायनः– 'पृथगप्येकपाकानां ब्रह्मयज्ञो द्विजातिनाम्। अग्निहोत्रं सुरार्चा च सन्ध्या नित्यं भवेत्पृथक्॥' तत्रैव विष्णुधर्मे– 'शालग्रामशिलां वापि चक्राङ्कितशिलां तथा। ब्राह्मणः पूजयेन्नित्यं क्षत्रियादिर्न पूजयेत्॥' इदं स्पर्शसहितपूजाविषयम्। 'शूद्रो वाऽनुपनीतो वा स्त्रियो वा पतितोऽपि वा। केशवं वा शिवं वापि स्पृष्ट्वा नरकमश्नुते॥ ब्राह्मण्यपि हरं विष्णुं न स्पृशेच्छ्रेय इच्छती। सनाथा मृतनाथा वा तस्या नास्तीह निष्कृतिः॥ स्त्रीणामनुपनीतानां शूद्राणां च जनेश्वर। स्पर्शने नाधिकारोऽस्ति विष्णोर्वा शङ्करस्य च॥ इति स्कान्दात्। स्पर्शरहिता तु तयोर्भवत्येव, 'शालग्रामं न स्पृशेत्तु हीनवर्णो वसुन्धरे। स्त्रीशूद्रकरसंस्पर्शो वज्रस्पर्शाधिको मतः॥ मोहाद्यः संस्पृशेच्छूद्रो योषिद्वापि कदाचन। स्वपते नरके घोरे यावदाभूतसम्प्लवम्॥ यदि भक्तिर्भवेत्तस्य स्त्रीणां वापि वसुन्धरे। दूरादेवास्पृशन्पूजां कारयेत्सुसमाहितः॥' इति वाराहोक्तेः ।शालग्रामशिलामात्रे निर्बन्धो न प्रतिमादौ; 'सर्वर्वैणस्तु सम्पूज्याः प्रतिमाः सर्वदेवताः। लिङ्गान्यपि तु पूज्यानि मणिभिः कल्पितानि च॥' इति तत्रैवोक्तेः। 'चत्वारो ब्राह्मणैः पूज्यास्त्रयो राजन्यजातिभिः।वैश्यैर्द्वावेव सम्पूज्यौ तथैकः शुद्रजातिभिः॥' इति स्कान्दात्। अन्ये तु दीक्षितविषयत्वेन व्यवस्थामाहुः। विष्णुधर्मे– 'तोरसम्भवेऽर्चा वै सा चेह नवधा स्मृता। रत्नजा हेमजा चैव राजती ताम्रजा तथा॥ रैतिक्यर्चा तथा लौही शैलजा द्रुमजा तथा। अधमाधमा च विज्ञेया मृन्मयी प्रतिमा च या॥' एषां फलानि तत्रैव ज्ञेयानि। \ [नार्च्या गृहेऽश्मजा मूर्तिश्चतुरङ्गुलतोऽधिका। न वितस्त्यधिका धातुसम्भवा श्रेय इच्छता॥ एवंलक्षणसम्पन्ना पारम्पर्यक्रमागता।उत्तमा सा तु विज्ञेया गुरुदत्तापि तत्समा॥ ] तत्रैव पाद्मे शालग्रामं प्रक्रम्य– 'तत्राप्यामलकीतुल्या पूज्या सूक्ष्मैव या भवेत्। यथा यथा शिला सूक्ष्मा तथा स्यात्तु महत्फलम्॥' तथा— 'यवमात्रं तु गर्तः स्याद्यवार्धं लिङ्गमुच्यते। शिवनाभिरिति ख्यातस्त्रिषु लोकेषु दुर्लभः॥' तत्रैव– 'शालग्राममयी मुद्रा संस्थिता यत्र कुत्रचित्। वाराणस्या यवाधिक्यं समन्ताद्योजनत्रयम्॥ यो मृतस्तत्समीपे तु मृतो वा नीयतेऽन्तिकम्। स वै मोक्षमवाप्नोति सत्यं सत्यं न चान्यथा ॥' तत्रैव– 'चक्राङ्कमिथुनं पूज्यं नैकं चक्राङ्कमर्चयेत्। चकाङ्कमिथुनात्सार्धं शालग्रामं प्रपूजयेत्॥' तत्रैव वाराहे– 'म्लेच्छदेशे शुचौ वापि चक्राङ्को यत्र तिष्ठति। योजनानां तथा त्रीणि मम क्षेत्र वसुन्धरे॥' तत्रैव शालग्रामं प्रक्रम्य– 'क्रयक्रीता परिज्ञेया मध्यमा याचिताऽधमा॥' प्रयोगपारिजाते वाराहे– 'एवंलक्षणसम्पन्ना पारम्पर्यक्रमागता। उत्तमा सा तु विज्ञेया गुरुदत्तापि तत्समा॥'
पार्थिवपूजा। —
अथ पार्थिवपूजा नन्दिपुराणे– 'आयुष्मान्बलवान्श्रीमान्पुत्रवान्धनवान्सुखी। वरमिष्टं लभेल्लिङ्ग पार्थिव यः समर्चयेत्॥ तस्मात्तु पार्थिवं लिङ्गं ज्ञेयं सर्वार्थसाधकम्॥' तत्रैव– 'गोभूहिरण्यवस्त्रादिबलिपुष्पनिवेदने। ज्ञेयो नमः शिवायेति मन्त्रः सर्वार्थसाधकः॥ सर्वमन्त्राधिकश्चायमोङ्काराद्यः षडक्षरः॥' भविष्ये– 'मूर्तयोऽष्टौ शिवस्यैता पूर्वादिक्रमयोगतः। आग्नेय्यन्ताः प्रपूज्यास्तु वेद्यां लिङ्गे शिवं यजेत्॥' अत्र– 'न प्राचीमग्रतः शम्भोः' इति रुद्रयामले निषेधात् नान्तरालं प्राची, कितु प्रसिद्धैव। तिथितत्त्वे देवीपुराणे– 'मृदाहरणसङ्घट्टे प्रतिष्ठाह्वानमेव च। स्नपनं पूजनं चैव विसर्जनमतः परम्॥ हरो महेश्वरश्चैव शूलपाणिः पिनाकधृक्। शिवः पशुपतिश्चैव महादेव इति क्रमः॥' स्कान्दे– 'शुष्काण्यपि च पत्राणि श्रीवृक्षस्य निवेदयेत्।' तत्रैव भविष्ये– 'धत्तूरकैश्च यो लिङ्गं सकृत्पूजयते नरः। स गोलक्षफलं प्राप्य शिवलोके महीयते॥' योगिनीतन्त्रे– 'शिवागारे झल्लक च सूर्यागारे च शङ्खकम्। दुर्गागारे वंशवाद्यं मधूरी न च वादयेत्॥' श्राद्धहेमाद्रौ स्कान्दे– 'स्पृष्ट्वा रुद्रस्य निर्माल्यं सवासा आप्लुतः शुचिः।' प्रयोगपारिजाते क्रियासारे– 'मध्यमानामिकामध्ये पुष्पं सङ्गृह्य पूजयेत्। अङ्गुष्ठतर्जन्यग्राभ्यां निर्माल्यमपनोदयेत्॥ अपनीत च निर्माल्यं चण्डेशाय निवेदयेत्। अशून्यमस्तक लिङ्गं सदा कुर्वीत पूजकः॥ शूलपाणौ लैङ्गे– 'वरं प्राणपरित्यागः शिरसो वापि कर्तनम्। न चैवापूज्य भुञ्जीत शिवलिङ्गे महेश्वरम्॥ सूतके मृतके चैव न त्याज्यं शिवपूजनम्॥' तिथितत्त्वे लैङ्गे– 'विना भस्मत्रिपुण्डेण विना रुद्राक्षमालया। पूजितोऽपि महादेवो न स्यात्तस्य फलप्रदः॥ तस्मान्मृदापि कर्तव्यं ललाटे वै त्रिपुण्ड्रकम्॥'
रुद्राक्षधारणे विशेषः शिवरहस्ये– 'एकवक्त्रः शिवः साक्षाद्ब्रह्महत्यां व्यपोहति। अवध्यत्वं प्रतिस्रोतो वह्निस्तम्भं करोति च॥ द्विवक्त्रो हरगौरी स्याद्गोवधाद्यघनाशकृत्। त्रिवक्त्रो ह्यग्निजन्माथ पापराशि प्रणाशयेत्॥ चतुर्वक्त्रः स्वयं ब्रह्मा नरहत्यां व्यपोहति। पञ्चवक्त्रस्तु कालाग्निरगम्याभक्ष्यपापनुत्॥ षड्वक्त्रस्तु गुहो ज्ञेयो भ्रूणहत्यादि नाशयेत्। सप्तवक्त्रस्त्वनन्तः स्यात्स्वर्णस्तेयादिपापहृत्॥ विनायकोऽष्टवक्त्रः स्यात्सर्वानृतविनाशकृत्। भैरवो नववक्त्रस्तु शिवसायुज्यकारकः॥ दशवक्त्रः स्मृतो विष्णुर्भूतप्रेतभयावहः॥ एकादशमुखो रुद्रो नानायज्ञफलप्रदः। द्वादशास्यस्तथादित्यः सर्वरोगनिबर्हणः॥ त्रयोदशमुखः कानः सर्वकामफलप्रदः। चतुर्दशास्यः श्रीकण्ठो वंशोद्धारकरः परः॥' इति।
तथा– 'विना मन्त्रेण यो धत्ते रुद्राक्षं भुवि मानवः। स याति नरकान्घोरान् यावदिन्द्राश्चतुर्दश॥ पञ्चामृतं पञ्चगव्यं स्नानकाले प्रयोजयेत्। रुद्राक्षस्य प्रतिष्ठायां मन्त्रं पञ्चाक्षरं तथा॥ त्र्यम्बकादिकमन्त्रं च तथा तत्र प्रयोजयेत्॥' यद्वा 'ॐ अघोर ॐ ह्रैम् अघोरतर ॐ ह्रौं ह्रां नमस्ते रुद्ररूपाय हैं स्वाहा' अनेनाभिमन्त्र्य धारयेत्। तथा– 'अष्टोत्तरशतं कार्या चतुःपञ्चाशदेव वा। सप्तविंशतिमाना वा ततो हीनाधमाः स्मृताः॥' प्रजापतिः– 'मोक्षार्थी पञ्चविशत्या धनार्थी त्रिशता जपेत्। पुष्ट्यर्थी पञ्चविशत्या पञ्चदश्याभिचारिके॥ सप्तविशतिरुद्राक्षमालया देहसंस्थया। यत्करोति नरः पुण्यं सर्वं कोटिगुणं भवेत्॥ यो ददाति द्विजेभ्यश्च रुद्राक्षं भुवि सन्मुखम्। तस्य प्रीतो भवेद्रुद्रः स्वपदं च प्रयच्छति॥' इति पदार्थादर्शे बोपदेवः– 'रुद्राक्षान्कण्ठदेशे दशनपरिमितान्मस्तके विंशती द्वे षट् षट् कर्णप्रदेशे करयुगलकृते द्वादश द्वादशैव। बाह्वोरिन्द्रोः कलाभिर्नयनयुगकृते एकमेकं शिखायां वक्षस्यष्टाधिकं यः कलयति शतकं स स्वयं नीलकण्ठः॥'
हेमाद्रौ शिवधर्मे– 'स्नानं पलशतं ज्ञेयमभ्यङ्गः पञ्चविशतिः। पलानां द्वे सहस्रे तु महास्नानं प्रकीर्तितम्॥ पञ्चविशत्पलं लिङ्गे अभ्यङ्गं कारयेदथ। शिवस्य सर्पिषा स्नानं प्रोक्तं पलशतेन च॥ तावता मधुना चैव दध्ना चैव ततः पुनः। तावतैव च क्षीरेण गव्येनैव भवेत्ततः॥ भूयः सार्धसहस्रेण पलानामैक्षवेण च। रसेन कारयेत्स्नानं भक्त्या चोष्णाम्बुना ततः॥' विष्ण्वादौ तु स्कान्दे– 'क्षीराद्दशगुणं दध्ना घृतेनैव दशोत्तरम्। घृताद्दशगुणं क्षौद्रं क्षौद्राच्चैक्षवजं तथा॥' ब्राह्मे– 'देवानां प्रतिमा यत्र घृताभ्यङ्गक्षमा भवेत्। पलानि तत्र देयानि श्रद्धया पञ्चविंशतिः॥' इदं क्रोडीकृताभिप्रायेण। तत्रैव सङ्ग्रहे– 'विष्वक्सेनाय दातव्यं नैवेद्यस्य शतांशकम्। पादोदकं प्रसादं च लिङ्गे चण्डेश्वराय तु॥'
पञ्चायतनसन्निवेशमाह बोपदेवः पदार्थादर्शश्च– 'शम्भौ मध्यगते हरीनहरभूदेव्यो हरौ शङ्करेभास्येनागसुता रवौ हरगणेशाजाम्बिकाः स्थापिताः। देव्यां विष्णुहरेभवक्ररवयो लम्बोदरेऽजेश्वरेनाम्बाः शङ्करभागतोऽतिसुखदा व्यस्तास्तु हानिप्रदाः।' शङ्करभागतः= ईशानकोणादारभ्य प्रदक्षिणमित्यर्थः। अत्र दिक्स्वरूपमुक्तं प्रयोगपारिजाते मन्त्रशास्त्रे- 'देवस्य मुखमारभ्य दिशं प्राचीं प्रकल्पयेत्। तदादि परिवाराणामङ्गाद्यावरणस्थितिः॥' तत्र क्रमः पाद्मे- 'रविर्विनायकश्चण्डी ईशो विष्णुस्तु पञ्चमः। अनुक्रमेण पूज्यन्ते व्युत्क्रमे तु महद्भयम्॥' तथा- 'पूज्यपूजकयोर्मध्ये प्राची प्रोक्ता विचक्षणैः॥'
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा