निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
← निर्णयसिन्धु — परिच्छेद-सूची
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथ केशवादिमूर्तयः। बोपदेवः-'केविगोवादापुहृपेप्रजाच्युकृममात्रिना। वाऽधोनृहसानिश्रीपा शाच्चगे वि गपे चपे॥' अत्र केविगवित्याद्यैः केशवविष्ण्वादिचतुर्विशतिमूर्तयोऽभिधीयन्ते। शात् शङ्खात् चगे चक्रगदे ज्ञेये इत्यर्थः। शिष्टे भुजे पद्मं त्वर्थतः सिद्धम्॥ अत्र दक्षिणोर्ध्वकरक्रमेण ज्ञेयम्, 'दक्षिणोर्ध्वकरक्रमात्' इति हेमाद्रौ वचनात् तेन हेमाद्रिणा संवादः। विशब्देन विपरीतं गचे इत्यर्थः। अत्रापि शादित्यनुवृत्तिः। शङ्खाद्गदाचक्रे इत्यर्थः। गपे इत्यत्रापि शादनुवर्तते। शङ्खाद्गदापद्मे इत्यर्थः। विपरीते पद्मगदे इत्यत्रापि शङ्खाज्ज्ञेये। चपे चक्रपद्मे, शङ्खाच्चक्रपद्मे इत्यर्थः। वि इत्यत्रापि, पद्मचक्रे इत्यर्थः। तेन चगे इत्यष्टौ मूर्तयः। गपे इत्यष्टौ मूर्तयः। चपे इत्यत्र च। अत्र मूलं हेमाद्रौ ज्ञेयम्॥
अथ बौधायनसूत्रं त्रैविक्रमीं चानुसृत्य लिङ्गार्चाप्रतिष्ठोच्यते। 'यजमानः पूर्वोक्तकाले पूर्वेद्युः दशद्वादशषोडशान्यतरहस्तं मण्डपं कृत्वाग्नेये हस्तमात्रं चतुरस्रं कुण्डं स्थण्डिलं वा पूर्वतो हस्तमात्रां वेदीं नैर्ऋते वास्तुमण्डपं मध्ये वेदीं तदुपरि सर्वतोभद्रं कृत्वा प्राणानायम्यास्यां मूर्तौ लिङ्गे वा देवस्य सान्निध्यसिद्ध्यर्थं दीर्घायुर्लक्ष्मीसर्वकामसमृद्ध्यक्षय्यसुखकामोऽमुकमूर्तिप्रतिष्ठां करिष्ये इति सङ्कल्प्य गणेशपूजनपुण्याहवाचनमातृकापूजननान्दीश्राद्धानि कृत्वाचार्यं चतुरो ऋत्विजश्च वृत्वा वस्त्राद्यैः पूजयेत्। अथाचार्यो यदत्र संस्थितमिति सर्षपान् विकीर्यापोहिष्ठेति कुशोदकेन भूमिं प्रोक्ष्य, देवा आयान्तु, यातुधाना अपयान्तु, विष्णो देवयजनं रक्षस्खेति भूमौ प्रादेशं कृत्वाऽस्मत्कृततुलापद्धतिमार्गेण मण्डपप्रतिष्ठां कृत्वाऽकृत्वा वा पूर्वरात्रौ हिरण्योपधानं देवं पञ्चगव्यहिरण्ययवदुर्वाश्वत्थपला-शपर्णान्युदकुम्भे प्रक्षिप्य ताभिरद्भिरापोहिष्ठेति तिसृभिर्हिरण्यवर्णा इति चतसृभिः पवमानः सुवर्जन इत्यनुवाकेनाभिषिच्य व्याहृतिभिरिदं विष्णुरिति फलयवदूर्वाः समर्प्य रक्षोहणमिति हस्ते कङ्कणं बद्ध्वा वाससाच्छाद्य अव ते हेड, उदुत्तममिति जलेऽधिवासयेत्'। इदं बौधायनोक्तम्।
ततश्चललिङ्गे अर्चायां वा अत्राग्निं प्रतिष्ठाप्य गोक्षीरे नीवारचरुं कृत्वा विष्णुश्चेत् कृसरमपि चललिङ्गार्चाश्रपयित्वाज्यभागान्ते पलाशोदुम्बराश्वत्थशम्यपामार्गसमिद्भिः आज्येन चरुणा तिलैर्वा प्रतिष्टाविधिः। प्रत्येकमष्टाविंशतिमष्टौ वाहुतीर्लोकपालमूर्तिमूर्तिपतिभ्यो हुत्वा स्थाप्य देवमन्त्रेण पूर्वोक्तसमित्तिलनैवारचर्वा-ज्यैरष्टसहस्रमष्टशतमष्टाविंशतिं वा हुत्वा 'अग्निर्यजुर्भिः' इत्यनुवाकेन दशाहुतीर्जुहुयात्। प्रतिद्रव्यहोमान्ते देवं पादनाभिशिरस्सु स्पृशेत्। आज्यहोमे चोत्तरतः सजलकुम्भे सम्पातान्नयेत्। तेषां मन्त्राः– इन्द्रायेन्दो इतीन्द्रस्य, स्योनेति पृथिवीमूर्तेः अघोरेभ्य इति तत्पतेः शर्वस्य, अग्न आयाहीत्यग्नेः, अग्निं दूतमित्यग्निमूर्तेः, नमः शर्वाय च पशुपतये चेति पशुपतेः, यमाय सोममिति यमस्य, असि हि वीरिति यजमानमूर्तेः, स्तुहि श्रुतं तत्पतेः उग्रस्य, असुन्वन्तं निर्ऋतेः, आकृष्णेन सूर्यमूर्तेः, यो रुद्रो अग्नौ इति तत्पते रुद्रस्य, इमं मे वरुणस्य, शं नो देवी जलमूर्तेः, नमो भवायेति भवस्य, आनो नियुद्भिरिति वायोः, वात आ वातु वायुमूर्तेः, तमीशानं तत्पतेरीशानस्य, आप्यायस्वेति कुबेरस्य, वयं सोमेति सोममूर्तेः, तत्पुरुषाय महादेवस्य, अभित्वा ईशानस्य, आदित्प्रत्नस्येत्याकाशस्य, नम उग्राय चेति तत्पतेर्भीमस्य, ततो देवस्य पादौ स्पृशेत्। एवं द्वितीये हुत्वा नाभिं, तृतीये मध्यं, चतुर्थे उरः, पञ्चमे शिरः स्पृष्ट्वा प्रतिपर्यायं सम्पातजलेन देवम् अभिषिञ्चेत्। ततः स्विष्टकृदादिहोमशेषं समाप्यार्चां शोधयेत्। स्थिरलिङ्गार्चादौ तु नेदानीमग्निस्थापन-होमादि कार्यम्।
ततो देवं नत्वा,—‘स्वागतं देवदेवेश विश्वरूप नमोऽस्तु ते। शुद्धेऽपि त्वदधिष्ठाने शुद्धिं कुर्मः सहस्व ताम्॥' इति सम्प्रार्थ्य 'उत्तिष्ठ ब्रह्मणस्पते' इति सर्विगुत्थाप्य पूर्वमकृतेऽग्न्युत्तारणे अधुना वा कार्यम्। 'अग्निः सप्तिम्' इति सूक्तमग्निपदहीनं पठित्वा तत्सहितं पुनः पठेत्। एवमष्टसहस्रमष्टशतमष्टाविशति वा पठन् जलं पातयेत्। ततोऽर्चां द्वादशवारं मृदा जलेन च प्रक्षाल्य मन्त्रवत्पञ्चगव्यं कृत्वा ‘पयः पृथिव्याम्', 'आवोराजानम्' इति च संस्नाप्य 'आप्यायस्व', 'दधिक्राव्णः', 'तेजोसि', 'मधुवाता', 'आयं गौः' इति पञ्चामृतैः संस्नाप्य लिङ्गं चेत् 'नमस्ते रुद्र मन्यवे' इत्यष्टाभिः संस्नाप्य घृतेनाभ्यज्योद्वर्तनेनो-द्वर्त्योष्णोदकेन प्रक्षाल्य गन्धं दत्त्वा सम्पातोदकेनाभिषिच्य सपल्लवैश्चतुर्भिः कुम्भैः 'आपोहिष्ठा' इति त्रिभिः 'आकलशेषु' इति च प्रत्येकं, 'समुद्रज्येष्ठा' इति चतुर्भिः, 'आकलशेषु' इति च मिलितैः संस्नाप्यौदुम्बरादिपीठेऽर्चामुपवेश्य परितोऽष्टदिक्षु सजलकुम्भान्संस्थाप्य तेषु गन्धपुष्पदूर्वाः क्षिप्त्वा आद्ये सप्तमृदः, द्वितीये पुष्करपर्णशमीविकङ्कताश्मन्तकत्वचः पल्लवाश्च, तृतीयादिषु सप्तधान्यं पञ्चरत्नफलपुष्पाणि कुशदूर्वागोरोचनसम्पातोदक- [ गन्धफल ] सर्वौषधीः क्षिप्त्वा क्रमेण 'आपोहिष्ठा' इति तिसृभिः, 'हिरण्यवर्णाः' इति चतसृभिः, पवमानानुवाकेन चाभिषिच्यैककुम्भे शमीपलाशवटखदिर-बिल्वाश्वत्थविकङ्कतपनसाम्रशिरीषोदुम्बराणां पल्लवान् कषायांश्च क्षित्वा 'अश्वत्थेव' इत्यभिषिच्य पञ्चरत्नोदकेन 'हिरण्यवर्णाः' इति संस्नाप्य वाससी दत्त्वा उपवीतादि दीपान्तं कृत्वा 'हिरण्यगर्भः,' ‘य आत्मदा’, ‘यः प्राणतः’, ‘यस्येमे', 'येन द्यौः' ‘यं क्रन्दसी', 'आपो ह यत्', 'यश्चिदापो' इत्यष्टौ पिष्टदीपान् दत्त्वा। सुवर्णशलाकया तैजसपात्रस्थं मधु घृतं च गृहीत्वा 'चित्रं देवानां' 'तेजोसि' इति मन्त्राभ्यां 'ॐ नमो भगवते तुभ्यं शिवाय हरये नमः। हिरण्यरेतसे विष्णो विश्वरूपाय ते नमः॥' इति च दक्षिणसव्ये देवनेत्रे मन्त्रावृत्त्या लिखेत्। 'अञ्जन्ति त्वा' इत्यञ्जनेन मधुना वाऽङ्त्वा 'देवस्य त्वा सवितुः प्रसवे' 'इन्द्रस्येन्द्रियेणानज्मि' इति मध्वाज्यशर्कराभिरङ्क्त्वा तेनैवाञ्जनेन पुनरञ्जयेत्। स्थिरलिङ्गे तु स्वर्णसूच्या गन्धेन 'ॐ नमो भगवते रुद्राय हिरण्यरेतसे पराय परमात्मने विश्वरूपायोमाप्रियाय नमः' इत्यञ्जनादिनाऽञ्जयेत्। तत आदर्शभक्ष्यादि दर्शयेत्। ततः कर्ता आचार्याय गामृत्विग्भ्यश्च दक्षिणां दद्यात्। अथाचार्यः प्रत्युचमादौ प्रणवं वदन् पुरुषसूक्तेन स्तुत्वा वंशपात्रे पञ्चवर्णौदनेन देवस्य नीराजनं कारयित्वा रुद्राय चतुष्पथादौ दद्यात्। मन्त्रस्तु- 'ॐनमो रुद्राय सर्वभूताधिपतये दीप्तशूलधरायोमादयिताय विश्वाधिपतये रुद्राय वै नमो नमः शिवमगर्हितं कर्मास्तु स्वाहा' इति॥ अश्वत्थपर्णे भृतेभ्यो नम इति। केचिदेतद्रात्रौ स्थिरप्रतिष्ठाया-मिच्छन्ति।
अथाचार्यः सर्वतोभद्रे देवानावाहयेत्। मध्ये ब्रह्माणम्। पूर्वादिदिक्षु इन्द्रादिलोकपालान्, ईशानेन्द्राद्यन्तरालेषु वसून्, रुद्रान्, आदित्यान्, अश्विनौ, विश्वान्देवान्, पितॄन्, नागान्, स्कन्दवृषौ, ब्रह्मेशानाद्यन्तरालेषु दक्षं, विष्णुं, दुर्गां, स्वधाकारं, मृत्युरोगान्, समुद्रान्, सरितः, मरुतः, गणाधिपं चेति। मध्ये एव पृथिवीं मेरुं संस्थाप्य देवं चावाह्य प्रागादि वज्रं, शक्तिं, दण्डं, खड्नं, पाशं, अङ्कुशं, गदां, शूलं तद्बाह्ये गौतमं, भरद्वाजं, विश्वामित्रं, कश्यपं, जमदग्निं, वसिष्ठं, अत्रिं, अरुन्धतीं च, तद्बाह्ये नवग्रहान, तद्बाह्ये ऐन्द्रीं, कौमारीं, ब्राह्मीं, वाराहीं, चामुण्डां, वैष्णवीं, माहेश्वरीं, वैनायकीमित्येता नामभिरावाह्य सम्पूज्य अर्चायां देवं तन्मन्त्रेणावाह्य मण्डलमध्येऽर्चां 'सुप्रतिष्ठो भव' इति निवेश्य सम्पूज्य वह्नौ मण्डलदेवतानां नामभिस्तिलाज्येन दशदशाहुतीर्हुत्वा पुष्पाञ्जलिं समर्प्य 'नमो महत्॰' इति देवं नत्वा मण्डलादुत्तरतः स्वस्तिके मञ्चकं तदुपरि शय्यां कृत्वा ‘उत्तिष्ठ' इति देवमुत्थाप्य मङ्गलघोषैः शय्यायां देवमारोप्य पुरुषसूक्तोत्तरनारायणाभ्यां स्तुत्वा देवे न्यासं कुर्यात्। तद्यथा- पुरुषात्मने नमः, प्राणात्मने॰, प्रकृतितत्त्वाय॰, बुद्धितत्त्वाय॰, अहङ्कारतत्त्वाय॰, मनस्तत्त्वाय॰ इति सर्वाङ्गे। प्रकृतितत्त्वाय॰, बुद्धितत्त्वाय॰ हृदि। शब्दतत्त्वाय॰ शिरसि। स्पर्शतत्त्वाय॰ त्वचि। रूपतत्त्वाय॰ हृदि। एवं हृद्येव रसगन्धश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणवाक्पाणिपादपायूपस्थपृथिव्यप्तेजोवाय्वाकाशसत्त्व-रजस्तमोदेहत्तत्त्वानि विन्यसेत्। ततः पुरुषसूक्तस्याद्यमृग्द्वयं करयोः, तदुत्तरं जान्वोः, तदुत्तरं कट्योः, 'तं यज्ञम्' इति तिस्रो नाभिहृत्कण्ठेषु। 'तस्मादश्वा' इति द्वयं बाह्वोः, 'ब्राह्मणोऽस्य' इति द्वयं नासयोः, 'नाभ्या' इति द्वयमक्ष्णोः, अन्त्यां शिरसि। केचित्तत्त्वन्यासमन्यथा आहुः। पुरुषप्रकृतिमहदहङ्कार-तत्त्वानि, शब्दस्पर्शरूपरसगन्धतन्मात्राणि, आकाशवायुतेजोऽप्पृथिवीश्रोत्रत्वक्चक्षूरसनाघ्राणवाक्पाणि-पादपायूपस्थमनस्तत्त्वानीति। केचिदेतानि स्थिरलिङ्गादावेवेच्छन्ति। 'ततः सुखशायी भव' इति शय्यायां देवं स्वापयित्वा मण्डलशय्ययोरन्तराले न गन्तव्यमिति प्रैषं दत्त्वा स्विष्टकृदादिहोमशेषं समाप्य मण्डल-देवताभ्यो नामभिः पायसेन चरुणा वा बलीन्दद्यात्। नीवारचरुशेपेण दिग्बलिम्। नेदं स्थिरप्रतिष्ठायाम्।
स्थिरलिङ्गार्चादौ त्वयं विशेषःअग्निस्थापनहोमवर्ज्यं सर्वं पूर्ववत्कृत्वा इदानीमग्निस्थापनं कृत्वा स्थिरलिङ्गापूर्वोक्तहोमं कुर्यात्। नात्र नैवारश्चरुः। विष्णुश्चेत्पूर्वोक्तहोमं कृत्वा पुरुषसूक्तेन र्चाविधिः। प्रत्यृचमाज्य हुत्वा 'इदं विष्णुः' इति पादौ स्पृष्ट्वा, पुनस्ता एव हुत्वा 'विष्णोर्नुकम्' इति नाभिं स्पृष्ट्वा, पुनस्ता एव हुत्वा, 'अतो देवा' इति शिरः स्पृष्ट्वा, पुनस्ता एव हुत्वा, पुरुषसूक्तेन सर्वाङ्गं स्पृशेत्। स्थिरलिङ्गं चेदग्निस्थापनादि पूर्वोक्तसमिदाज्यतिलाहुतीर्हुत्वा 'या त इषुः' इत्यनुवाकान्तेन 'द्रापे' 'सहस्राणि' इत्यनुवाकाभ्यां च प्रत्यू-चमाज्यं हुत्वा 'सर्वो वै रुद्रः' इति मूलं स्पृशेत्। पुनस्ता एव हुत्वा 'कद्रुद्राय' इति मध्यम्, पुनस्ता एव हुत्वा 'नमो हिरण्यबाहवे' इत्यग्रम्, पुनस्ता एव हुत्वा सर्वरुद्रेण सर्वाङ्गं स्पृशेत्। ततो 'धामन्त' इति पूर्णाहुतिं जुहुयान्न वा। एवमधिवासनं कृत्वा परेद्युः सद्यो वा पीठिकां स्नापयित्वा 'महीमूषु' इत्यावाह्य, 'अदितिर्द्यौः' इति स्तुत्वा 'ह्री नमः' इति सम्पूज्य तेनैव पूर्णाहुतिं हुत्वा, 'उत्तिष्ठ ब्रह्मणस्पते' इति देवमुत्थाप्य पुष्पाञ्जलि दत्त्वा, पुरुषसूक्तेन स्तुत्वा 'उदुत्यम्' इत्युत्थाप्य 'कनिक्रदत्' इति सूक्तेन विष्णुं 'सद्योजातम्' इति पञ्चानुवाकैर्लिङ्गं गृहं प्रवेश्य पीठिकायाम् इन्द्रादिनामभिरष्टरत्नानि क्षिप्त्वा सप्तधान्यरूप्यवृषमनःशिलाः क्षिप्त्वा पायसेन संलिप्य प्रणवेनाङ्गन्यासं कृत्वा सुवर्णशलाकामन्तरितां कृत्वा सुलग्ने 'ॐ प्रतितिष्ठ परमेश्वर' इत्युक्त्वा 'अतो देवा' इति विष्णुं रुद्रेण च लिङ्गं स्थापयेत्। ततः प्राणप्रतिष्ठा।
चलार्चादौ त्वधिवासनान्ते परेद्युः 'उत्तिष्ठ ब्रह्मणस्पते' इति देवमुत्थाप्य पुरुषसूक्तोत्तरनारायणाभ्यां स्तुत्वा घृते व्रीहिचरुं कृत्वा तद्देवतामन्त्रेण दशाहुतीर्हुत्वा नामभिर्जुहुयात्। अग्नये स्वाहा, सोमाय स्वाहा, धन्वन्तरये स्वाहा, कुह्वै स्वाहा, अनुमत्यै स्वाहा, प्रजापतये स्वाहा, परमेष्ठिने स्वाहा, ब्रह्मणे स्वाहा, अग्नये स्वाहा, सोमाय स्वाहा, अग्नयेऽन्नादाय स्वाहा, अग्नयेऽन्नपतये स्वाहा, प्रजापतये स्वाहा, विश्वेभ्यो देवेभ्यः स्वाहा, सर्वेभ्यो देवेभ्यः स्वाहा, भूर्भुवःस्वः स्वाहा, अग्नये स्विष्टकृते इति। ततः 'सप्त ते अग्ने', 'पुनस्त्वा' इत्याभ्यां पूर्णाहुतिः। तत आचार्यो 'या ओषधीः' इति पुष्पफलसर्वौषधीः समर्प्य सम्पातोदकं ताम्रपात्रे आदाय देवमन्त्रेण शतवारमभिमन्त्र्य तेनैवाभिपिञ्चेत्। ततः 'उत्तिष्ठ' इति देवमुत्थाप्य 'विश्वतश्चक्षुः' इत्युपस्थाय देवं ध्यात्वा जपेत्। ब्रह्मणे नमः। एव विष्णवे॰ रुद्राय॰ इन्द्रादीनष्टौ वसुभ्यो रुद्रेभ्य आदित्येभ्योऽश्विभ्यां मरुद्भ्यः कुबेराय गङ्गादिमहानदीभ्योऽग्नीषोमाभ्या-भिन्द्राग्निभ्यां द्यावापृथिवीभ्यां धन्वन्तरये सर्वेशाय विश्वेभ्यो देवेभ्यो ब्रह्मणे नम इति। ततः सम्पातोदकेन यजमानमभिषिच्य देवं ध्यात्वा 'ॐ प्रतितिष्ठ परमेश्वर' इति पुष्पाञ्जलिं निवेद्य सच्चिदानन्दं ब्रह्मैव भक्तानुग्रहाय गृहीतविग्रहं करचरणाद्यवयविनं शङ्खचक्राद्यायुधवन्तं निजवाहनाद्युपेतं निजहृत्क-मलेऽवस्थितं सर्वलोकसाक्षिणमणीयांसं 'परमेष्ठ्यसि परमां श्रियं गमय' इति मन्त्रेण पुष्पाञ्जलावागतं विभाव्याऽर्चायां विन्यस्य प्राणप्रतिष्ठां कुर्यात्।
यथा- अस्य श्रीप्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुरुद्रा ऋषयः, ऋग्यजुःसामानि छन्दांसि, क्रियामयवपुः-प्राणाख्या देवता, आं बीजम्, ॠों शक्तिः, प्राणप्रतिष्ठायां विनियोगः। ततः ऋष्यादीन् क्रमेण शिरोमुख-हृदयगुह्यपादेषु विन्यस्य, ॐ कं खं गं घं ङम् अं पृथिव्यप्तेजोवाय्वाकाशात्मने आं हृदयाय नमः। ॐ चं छं जं झं ञम् इं शब्दस्पर्शरूपरसगन्धात्मने ईं शिरसे स्वाहा। ॐ टं ठं डं ढं णम् उं श्रोत्रत्वक्चक्षुर्जिह्वा-घ्राणात्मने ऊं शिखायै वषट्। ॐ तं थं दं धं नम् एं वाक्पाणिपादपायूपस्थात्मने ऐं कवचाय हुम्। ॐ पं फं बं भं मम् ओं वचनादानविहरणोत्सर्गानन्दात्मने औं नेत्रत्रयाय वौषट्। ॐ यं रं लं वं शं षं सं हं ळं क्षम् अं मनोबुद्ध्यहङ्कारचित्तात्मने अः अस्त्राय फट्। एवम् आत्मनि देवे च कृत्वा देवं स्पृष्ट्वा जपेत्। ॐ आं ह्रीं क्रीम् अं यं रं लं वं शं षं सं हं सः देवस्य प्राणा इह प्राणाः। ॐ आं ह्रीं क्रोम् अं यं रं लं वं शं षं सं हं सः देवस्य जीव इह स्थितः। ॐ आं ह्रीं क्रोम् अं यं रं लं वं शं षं सं हं सः देवस्य सर्वेद्रियाणि। ॐ आं ह्रीं क्रोम् अं यं रं लं वं शं षं सं हं सः देवस्य वाङ्मनश्चक्षुःश्रोत्रप्राणप्राणा इहागत्य स्वस्तये सुखेन सुचिरं तिष्ठन्तु स्वाहेति। ततोऽर्चाहृद्यङ्गुष्ठं दत्त्वा जपेत्। 'अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च। अस्यै देवत्वमचयै मामहेति च कच्चन॥' इति। ततः प्रणवेन संरुध्य सजीवं ध्यात्वा 'ध्रुवा द्यौः' इति तृचं जप्त्वा कर्णे गायत्री देवमन्त्रं च जप्त्वा पुरुषसूक्तेनोपस्थाय पादनाभिशिरःसु स्पृष्ट्वा ‘इहैवैधि' इति त्रिर्जपेत्। ततः कर्ता 'स्वागतं देवदेवेश मद्भाग्यात्त्वमिहागतः। प्राकृतं त्वमदृष्ट्वा मां बालवत्परिपालय॥ धर्मार्थकामसिद्ध्यर्थं स्थिरो भव शुभाय नः। सान्निध्यं तु सदा देव स्वार्चायां परिकल्पय॥यावच्चन्द्रावनीसूर्यास्तष्ठन्त्यप्रतिघातिनः। तावत्त्वयात्र देवेश स्थेयं भक्तानुकम्पया॥ भगवन् देवदेवेश त्वं पिता सर्वदेहिनाम्। येन रूपेण भगवंस्त्वया व्याप्तं चराचरम्॥ तेन रूपेण देवेश स्वार्चायां सन्निधौ भव॥' इति नमेत्। एतदन्तं सर्वदेवानां समानम्। देवमन्त्रश्च मूलमन्त्रो वैदिको वा ग्राह्यः।
अथाचार्यः कर्ता वा लिङ्गमर्चां वा ॐ भूः पुरुषमावाहयामि, ॐ भुवः पुरुषमावाहयामि, ॐ सुवः पुरुषमावाहयामि, ॐ भूर्भुवःसुवः पुरुषमावाहयामीत्यावाह्य प्रणवेनासनं दत्त्वा तेनैव दूर्वाश्यामाक-विष्णुक्रान्तापद्ममिश्रं पाद्यम्, 'इमा आपः शिवतमाः पूताः पूततमा मेध्या मेध्यतमा अमृता अमृतरसाः पाद्यास्ता जुषतां प्रतिगृह्यतां प्रतिगृह्णातु भगवान् महाविष्णुर्विष्णवे नमः' इति पाद्यम्, 'भगवान् महादेवो रुद्राय नमः' इति लिङ्गे, एवं देवतान्तरेषूह्यम्। 'इमा आपः आचमनीयास्ता जुषताम्' इत्याचमनीयम्। अर्घ्या इत्यर्ध्यम्। ततो वेदमन्त्रैः संस्नाप्य 'इदं विष्णुः' इति विष्णौ, 'नमो अस्तु नीलग्रीवाय' इति लिङ्गे प्रतिसरं विस्रस्य वस्त्रं यज्ञोपवीतं च दत्त्वा, 'इमे गन्धाः शुभा दिव्याः सर्वगन्धैरलङ्कृताः। पूता ब्रह्मपवित्रेण पूताः सूर्यस्य रश्मिभिः॥' पूता इत्यादि पूर्ववत्। इति गन्धम्, 'इमे माल्याः शुभा दिव्याः सर्वमाल्यैरलङ्कृताः। पूता॰' इत्यादि माल्यम्, 'इमे पुष्पाः शुभा॰' इत्यादि पुष्पम्, 'वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः। आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्॥' प्रतिगृह्णात्वित्यादि धूपम्, 'ज्योतिः शुक्रं च तेजश्च देवानां सततं प्रियः। प्रज्योतिः सर्वभूतानां दीपोऽयं प्रतिगृह्यताम्॥' इति दीपं दत्त्वा, विष्णौ सङ्कर्षणवासुदेवप्रद्युम्नानिरुद्धपुरुषोत्तमाधोक्षजनृसिंहाच्युत-जनार्दनोपेन्द्रहरिश्रीकृष्णेतिद्वादशनामभिः केशवादिद्वादशनामभिर्वा पुष्पाणि समर्प्य, तैरेव तर्पणं कृत्वा, पायसगुडौदनचित्रौदनानि 'पवित्रं ते विततम्' इति निवेद्य, सङ्कर्षणादिपूर्वोक्तनामभिर्द्वादश कृसराहुतीर्हुत्वा तेनैव शार्ङ्गिणे॰ श्रियै॰ सरस्वत्यै॰ विष्णवे॰ इति हुत्वा, 'विष्णोर्नुकं वीर्याणि', 'तदस्य प्रियमभिपाथो', 'प्रतद्विष्णु स्तवते वीर्येण', 'परो मात्रया तन्वा वृधानः', विचक्रमे पृथिवीमेष एतां', 'त्रिर्देवः पृथिवीमेष एतां' इति जुहुयात्। पुनः द्वादशनामभिर्जुहुयात्।
लिङ्गे तु दीपान्तं कृत्वा, भवाय देवाय॰ शर्वाय ० ईशानाय॰ पशुपतये॰ रुद्राय॰ उग्राय॰ भीमाय॰ महते देवाय नम इति पुष्पाणि दत्त्वा तैरेव तर्पणं कृत्वा, 'पवित्रं ते ' इति पायसं गुडौदनं च निवेद्य, पूर्वोक्तनामभिः कृसरं हुत्वा, 'भवस्य देवस्य पत्न्यै स्वाहा' इत्याद्यष्टाभिर्गुडौदनं हुत्वा, ‘भवस्य देवस्य सुताय स्वाहा' इत्याद्यैर्हरिद्रौदन हुत्वा, 'त्र्यम्बकं यजामहे॰', 'मानो महान्तमुत मानो॰', 'मानस्तोके तनये॰', 'आरात्ते गोघ्नमुत पूरुषघ्ने॰', 'विकिरिदविलोहित॰', 'सहस्राणि सहस्रशो' इति द्वादश, एतैर्हुत्वा 'शिवाय शङ्कराय सहमानाय शितिकण्ठाय कपर्दिने ताम्राय अरुणाय अपगुरमाणाय हिरण्यबाहवे सस्पिञ्जराय बभ्लुशाय हिरण्याय' इति च जुहुयात्। ततः स्विष्टकृदादिहोमशेषं समाप्य, पूर्वोक्तसर्वहविर्भिर्विष्णवे लिङ्गाय वा बलिं दद्यात्। मन्त्रस्तु- 'त्वामेकमाद्यं पुरुषं पुरातनं नारायणं विश्वसृजं यजामहे। त्वमेव यज्ञो विहितो विधेयस्त्वमात्मनात्मन् प्रतिगृह्णीष्व हव्यम्॥' इति। लिङ्गे तु नारायणपदे रुद्रं शिवमिति वदेत्। ततोऽश्वत्थपर्णे 'भूर्भुवःस्वरोम्' इति हुतशेषं निधाय प्रदक्षिणीकृत्य 'विश्वभुजे सर्वभुजे आत्मने परमात्मने नमः' इति नत्वा आचार्याय शतं तदर्धं तदर्धं द्वादश तिस्र एकां वा गां दत्त्वा ऋत्विग्भ्योऽपि दक्षिणां दत्त्वा शतं द्वादश वा ब्राह्मणान् भोजयेदिति सङ्क्षेपः। प्रासादमात्रे नूतने तु मात्स्योक्तजलाशयप्रतिष्ठाविधिमेव कुर्यात्। गोरुत्तारणपात्रीप्रक्षेपादि तु न भवति द्वारलोपात्। वारुणहोमस्थाने वास्तुहोमः। अन्यत्तद्वदेव॥
इति भट्टकमलाकरकृतौ लिङ्गार्चाप्रतिष्ठाविधिः॥
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा