🕉️ 24 November 2026, Tuesday · 08:07:50 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← निर्णयसिन्धु — परिच्छेद-सूची

📖 निर्णयसिन्धु · तृतीय परिच्छेद (पूर्वार्ध) — संस्कार, विवाह, प्रतिष्ठा आदि प्रकीर्ण · पृष्ठ 49/87

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

पुनःप्रतिष्ठा

अथ पुनःप्रतिष्ठा। तामधिकृत्य हयशीर्षपञ्चरात्रे- 'चाण्डालमद्यसंस्पर्शदूषिता वह्निनाऽथवा। अपुण्यजनसंस्पृष्टा विप्रक्षतजदूषिता॥' संस्कार्येति शेषः। पदार्थादर्शे ब्राह्मे- 'खण्डिते स्फुटिते दग्धे भ्रष्टे मानविवर्जिते। यागहीने पशुस्पृष्टे पतिते दुष्टभूमिषु॥ अन्यमन्त्रार्चिते चैव पतितस्पर्शदूषिते। दशस्वेतेषु नो चक्रुः सन्निधानं दिवौकसः॥' यागः=पूजा, पशुः=गर्दभादिः। पञ्चरात्रे - 'खण्डिता स्फुटिता दग्धा यस्मादर्चा भयावहा। तस्मात्समुद्धरेत्तां तु पूर्वोक्तविधिना नरः॥' अर्चाभङ्गादावुपवासः कार्यः; 'न राज्ञो विप्लवेऽश्नीयात्सुरार्चाविप्लवे तथा।' इति विष्णुधर्मोक्तेः। सिद्धान्तशेखरे– 'चौरचण्डालपतितश्वोदक्यास्परीने सति। शवाद्युपहतौ चैव प्रतिष्ठां पुनराचरेत्॥' पञ्चरात्रे- ‘अङ्गादङ्गादिसन्धाने प्रतिष्ठां पुनराचरेत्। जलाधिवासरहितां नेत्रोन्मीलनवर्जिताम्॥' शुद्धिविवेके विष्णुः- 'द्रव्यवत्कृतशौचानां देवतार्चानां भूयः प्रतिष्ठापनेन शुद्धिः' इति। अर्चाः=प्रतिमाः तद्द्रव्यस्य ताम्रादेरुक्तशौचं कृत्वा पुनःप्रतिष्ठां कुर्यादित्यर्थः। स्मृत्यर्थसारेऽप्येवम्।

तद्विधिर्बौधायनसूत्रे- 'पूर्वप्रतिष्ठितस्याबुद्धिपूर्वमेकरात्रं द्विरात्रमेकमासं द्विमासं वाऽर्चनादि-पुनःप्रतिष्ठाविच्छेदे शूद्ररजस्वलाद्युपस्पर्शने पूर्वोक्ते काले पुण्याहं वाचयित्वा युग्मान्ब्राह्मणान्भो-विधिः। जयित्वा निशायां जलाधिवासं कृत्वा श्वोभूते कलशपूर्णेन पञ्चगव्येन तत्तन्मन्त्रैः स्नापयित्वाऽन्यं कलशं शुद्धोदकेनापूर्य तस्मिन्नवरत्नानि प्रक्षिप्य तं कलशं तत्तद्गायत्र्याष्टसहस्रमष्टशतमष्टाविशतिवारं वाऽभिमन्त्र्य तेनोदकेन देवं स्नापयेत्, ततः शुद्धोदकेन स्नापयेदष्टसहस्रमष्टशतमष्टाविशतिं वा पुरुषसूक्तेन मूलमन्त्रेण च। ततः पुष्पाणि दत्त्वा यथासम्भवमर्चयित्वा गुडौदनं निवेदयेत्, इति। बुद्धिपूर्वं तु विच्छेदे पूर्वोक्तां प्रतिष्ठां पुनः कुर्यात् पूर्वोक्तविष्णुवचनात्। इदं मलमासशुक्रास्तादावपि कार्यमिति मदनरत्ने हेमाद्रौ च। देवार्चाप्रासादभेदने तु शूलपाणौ काश्यपः- 'वापीकूपारामसेतुसभातडागवप्रदेवतायतनभेदने प्रायश्चित्तं चतस्र आज्याहुतीर्जुहुयात्। 'इदं विष्णुः', 'मानस्तोके’, ‘विष्णोः कर्माणि’, ‘पादोऽस्य' इति, 'यां देवतामुत्सादयति तस्यै देवतायै ब्राह्मणान्भोजयेत्' इति। शङ्खलिखितौ- 'प्रतिमारामकूपसङ्क्रम-ध्वजसेतुनिपातभङ्गेषु तत्समुत्थानं प्रतिसंस्कारोऽष्टशतं च निपातितानाम्' इति। समुत्थानं=प्रतिक्रिया, प्रतिसंस्कारः=पुनःप्रतिष्ठा, अष्टशतं पणा दण्डश्चेत्यर्थः॥

जीर्णोद्वारः

अथ जीर्णोद्वारः। स च लिङ्गादौ दग्धे भग्ने चलिते वा कार्यः। अयं चानादिसिद्धप्रतिष्ठितलिङ्गादौ भङ्गादिदुष्टेऽपि न कार्यः। तत्र तु महाभिषेकं कुर्यादिति त्रिविक्रमः। कर्ता 'अमुकदेवस्य जीर्णोद्धारं करिष्ये' इत्युक्त्वा पुण्याहं वाचयित्वा नान्दीश्राद्धान्तं कृत्वा आचार्यमृत्विजश्च वृत्वा पीठे मण्डलदेवता आवाह्य, लिङ्गे ॐ व्यापकेश्वर हृदयाय नमः।

ॐ व्यापकेश्वर शिरसे स्वाहा, इत्येवं षडङ्गं कृत्वा देवतान्तरे मूलमन्त्रेण षडङ्गं कृत्वा अर्चयेत्।अघोरमन्त्रम् अष्टोत्तरशतं जप्त्वाऽग्नि प्रतिष्ठाप्याघोरेण घृतसर्षपैः सहस्रं हुत्वा इन्द्रादिभ्यो नाम्ना बलिं दत्त्वा जीर्णदेवं प्रणवेन सम्पूज्य साज्यतिलैर्ब्रह्मादिमण्डलदेवतानां होमं पूर्वोक्तं कृत्वा देवं प्रार्थयेत्। 'जीर्ण-भग्नमिदं देव सर्वदोपावहं नृणाम्। अस्योद्धारे कृते शान्तिः शास्त्रेऽस्मिन्कथिता त्वया॥ जीर्णोद्धारविधानं च नृपराष्ट्रहितावहम्। तदधस्तिष्ठतां देव प्रहरामि तवाज्ञया॥' इति। ततः क्षीराज्यमधुदूर्वाभिः समिद्भिश्चाष्टोत्तरसहस्रम् अष्टोत्तरशतं वा देवमन्त्रेण हुत्वाऽङ्गानां दशांशेन लिङ्ग-चालनार्थ सहस्रं शतं वा पायसेन हुत्वा लिङ्गं प्रार्थयेत्। 'लिङ्गरूपं समागत्य येनेदं समधिष्ठितम्।यायास्त्वं सम्मितं स्थानं सन्त्यज्यैव शिवाज्ञया॥ अत्र स्थाने च या विद्या सर्वविद्येश्वरैर्युता। शिवेन सह सन्तिष्ठ ' इति मन्त्रितजलेनाभिषिच्य विसर्जयेत्। ततोऽस्त्रमन्त्रितेन खनित्रेण खात्वा लिङ्गमादाय नद्यादौ वामदेवेन लिङ्गं, प्रणवेन मूर्ति क्षिपेत्। दारुजं तु मधुनाऽभ्यज्याघोरेण दहेत्। हेमरत्नादिमयं तु दग्धं चलितं वा पुनस्तत्रैव स्थापयेत्। ततः शान्त्यै अघोरेण तिलैः सहस्रं हुत्वा प्रार्थयेत्। 'भगवन्भूतभव्येश लोकनाथ जगत्पते। जीर्णलिङ्गसमुद्धारः कृतस्तवाज्ञया मया॥ अग्निना दारुजं दग्धं क्षिप्तं शैलादिकं जले। प्रायश्चित्ताय देवेश अघोरास्त्रेण तर्पितम्॥ ज्ञानतोऽज्ञानतो वापि यथोक्तं न कृत यदि। तत्सर्वं पूर्णमेवास्तु त्वत्प्रसादान्महेश्वर॥' ततो यजमानः प्रार्थयेत्। 'गोविप्रशिल्पिभूतानामाचार्यस्य च यज्वनः। शान्तिर्भवतु देवेश अच्छिद्रं जायतामिदम्॥' मूर्तौ तु विशेषः- 'त्वत्प्रसादेन निर्विघ्नं देहं निर्माययत्यसौ। वासं कुरु सुरश्रेष्ठ तावत्त्वं चाल्पके गृहे॥ वसन्क्लेशं सहित्वेह मूर्ति वै तव पूर्ववत्॥ यावत्कारयते भक्तः कुरु तस्य च वाञ्छितम्॥' इति। ततो नवां मूर्ति लिङ्गं वा कृत्वोक्तविधिना स्थापयेत्। मूलं त्वग्निपुराणे स्पष्टम्।

इति जीर्णोद्धारः॥

तुलसीग्रहणम्

अथ तुलसीग्रहणम्। देवयाज्ञिककृतं स्मृतिसारे-- 'वैधृतौ च व्यतीपाते भौमभार्गवभानुषु। पर्वद्वये च सङ्क्रान्तौ द्वादश्यां सूतकद्वये॥ तुलसीं ये विचिन्वन्ति ते छिन्दन्ति हरेः शिरः॥' विष्णुधर्मोत्तरे- 'रविवारं विना दूर्वां तुलसी द्वादशी विना। जीवितस्याविनाशाय प्रविचिन्वीत धर्मवित्॥' तथा- 'सङ्क्रान्तावर्कपक्षान्ते द्वादश्यां निशि सन्ध्ययोः। यैश्छिन्नं तुलसीपत्रं तैश्छिन्नं हरिमस्तकम्॥' पाद्मे- 'द्वादश्यां तुलसीपत्रं धात्रीपत्रं च कार्तिके। लुनाति स नरो गच्छेन्निरयानतिगर्हितान्॥' रुद्रयामले- 'द्वादश्यां च दिवा स्वापस्तुलस्यवचयस्तथा। विष्णोश्चैव दिवा स्नानं वर्जनीयं सदा बुधैः॥' विष्णुधर्मे- 'न छिन्द्यात्तुलसीं विप्रो द्वादश्यां वैष्णवः क्वचित्। देवार्थे तुलसीच्छेदो होमार्थे समिधां तथा॥ इन्दुक्ष्ये न दुष्येत गवार्थे तु तृणस्य च॥' ग्रहणमन्त्रस्तु पाद्मे- 'तुलस्यमृतजन्मासि सदा त्वं केशवप्रिये। केशवार्थं विचिन्वामि वरदा भव शोभने॥' इति। पारिजाते दक्षः- 'समित्पुष्पकुशादीनां द्वितीयः प्रहरो मतः’॥

पुष्पादेः पर्युषितत्वम्

अथ पुष्पादेः पर्युषितत्वम्। भार्गवार्चने भविष्ये- 'प्रहरं तिष्ठते जाती करवीरमहर्निशम्। तुलस्यां बिल्वपत्रेषु सर्वेषु जलजेषु च॥ न पर्युषितदोषोऽस्ति मालाकारगृहेऽपि च॥' बृहन्नारदीये- 'वर्ज्यं पर्युषितं पुष्पं वर्ज्य पर्युषितं जलम्। न वर्ज्यं विप्लुसीपत्रं न वर्ज्यं जाह्नवीजलम्॥' तत्रैव पाद्मे- 'तुलसी पर्युषिता नैव बिल्वं तु त्रिदिनावधि। पद्मं पञ्चदिनात्त्याज्यं शेषं पर्युषितं विदुः॥' स्कान्दे- 'पालाशं दिनमेकं तु पङ्कजं च दिनत्रयम्। पञ्चाहं बिल्वपत्रं च दशाहं तुलसीदलम्॥' पदार्थादर्शे बोपदेवस्त्वन्यथाह- 'बिल्वापामार्गजातीतुलसिशमिशताकेतकीभृङ्गदूर्वामन्दाम्भोजाहिदर्भा मुनितिलत-सरब्रह्मकह्लारमल्लयः। चम्पाश्वारातिकुम्भीदमनमरुबका बिल्वतोऽहानि शस्तास्त्रिंश ३० त्र्ये ३ का १ र्य ६ री ६ शो ११ दधि ४ निधि ९ वसु ८ भू १ भू १ यमा २ भूय एवम्॥' अस्यार्थःशता=शतावरी, मन्दः=मन्दारः, अहिः=नागकेशरः, मुनिः=अगस्त्यः, अश्वारातिः=करवीरः, कुम्भी=पाटलेति कैदेवनिघण्टुः, अरयः=षट्, ईशाः=एकादश, उदधयः=चत्वारः, निधयः=नव, वसवः=अष्टौ, भू=एकः, यमौ=द्वौ, बिल्वमारभ्याऽहिपर्यन्तं गणयित्वा दर्भमारभ्य पुनस्त्रिंशदादि गणयेदित्यर्थः। एतद्दिनोत्तरं पर्युषितानीत्यर्थः। टोडरानन्दे स्कान्दे दमनमुपक्रम्य- 'तस्य माला भगवतः परमप्रीतिकारिणी। शुष्का पर्युषिता वापि न दुष्टा भवति क्वचित्॥' तिथितत्त्वे मात्स्ये- 'बिल्वपत्रं च माध्यं च तमालामलकीदले। कह्लारं तुलसी चैव पद्मं च मुनिपुष्पकम्॥ एतत्पर्युषितं न स्यात्कुशाश्च कलिकास्तथा॥' स्मृतिसारावल्याम्- 'जलजानां च सर्वेषां पत्राणामहतस्य च। कुशपुष्पस्य रजतसुवर्णकृतयोरपि॥ न पर्युषितदोषोऽस्ति तीर्थतोयस्य चैव हि। मुकुलैर्नार्चयेद्देवं पङ्कजैर्जलजैर्विना॥'

शिवनिर्माल्यनिर्णयः

अथ शिवनिर्माल्यनिर्णयः। सिद्धान्तशेखरे– 'धराहिरण्यगोरत्नताम्ररौप्यांशुकादिकान्। विहाय शेषं निर्माल्यं चण्डेशाय निवेदयेत्॥ अन्यदन्नादि पानीयं ताम्बूलं गन्धपुष्पकम्। दद्याच्चण्डाय निर्माल्यं शिवभुक्तं तु सर्वशः॥ आचार्यशिवचण्डानामाज्ञाभङ्गे तु लक्षकम्। धनस्य भक्षणे तेषां पादोनं लक्षमीरितम्॥ निर्माल्ये भक्षिते लक्षपादतः शुद्धिरीरिता। दानं च भक्षणसमं तदर्धं तदुपेक्षणे॥ अकामाद्भक्षणे यद्वा निर्माल्यस्य जपेत्सुधीः। ब्रह्मपञ्चकसाहस्रं धर्मेण सहितं ततः। कामतो भक्षणे दीक्षा प्रायश्चित्तं न चान्यतः। निर्माल्यलङ्घनेऽघोरं प्रजपेदयुतं ततः॥ स्पर्शश्च लङ्घनसमो विक्रयो भक्षणेन च॥' स्मृत्यर्थसारेऽपि- 'शैवसौरनिर्माल्यनैवेद्यभक्षणे चान्द्रम्, अभ्यासे द्विगुणम्, मत्याभ्यासे प्रतपनम्। अन्यनिर्माल्येऽप्यनपद्येवम्' इति। - इदं च ज्योतिर्लिङ्गाद्यतिरिक्तविषयम्। तथा च पुरुषार्थप्रबोधे भविष्ये- 'ज्योतिर्लिङ्गं विना लिङ्गं यः पूजयति सत्तमः। तस्य नैवेद्यनिर्माल्यभक्षणात्तप्तकृच्छ्रकम्॥ शालग्रामोद्भवे लिङ्गे बाणलिङ्गे स्वयम्भुवि। रसलिङ्गे तथार्षे च सुरसिद्धप्रतिष्ठिते॥ हृदये चन्द्रकान्ते च स्वर्णरौप्यादिनिर्मिते॥ शिवदीक्षावता भक्तेनेदं भक्ष्यमितीर्यते॥' तथा- 'बाणलिङ्गे स्वयम्भूते चन्द्रकान्ते हृदि स्थिते। चान्द्रायणसमं ज्ञेयं शम्भोर्नैवेद्यभक्षणम्॥ लिङ्गे स्वयम्भुवे बाणे रत्नजे रसनिर्मिते। सिद्धप्रतिष्ठिते चैव न चण्डाधिकृतिर्भवेत्॥ यत्र चण्डाधिकारोऽस्ति तद्भोक्तव्यं न मानवैः। चण्डाधिकारो नो यत्र भोक्तव्यं तत्र भक्तितः॥' त्रैविक्रम्याम्- 'बाणलिङ्गे च लौहे च सिद्धलिङ्गे स्वयम्भुवि। प्रतिमासु च सर्वासु न चण्डोऽधिकृतो भवेत्॥' अत्र 'ब्रह्महापि शुचिर्भूत्वा निर्माल्य यस्तु धारयेत्। तस्य पापं महच्छीघ्रं नाशयिष्ये महाव्रते॥' इति स्कान्दादशुचिना न ग्राह्यं शिवनिर्माल्यं, किन्तु स्नात्वेति स्मार्ताः। अनुपनीतेन न ग्राह्यमिति श्रीदत्ताः। शिवदीक्षाहीनैर्न ग्राह्यमिति शैवाः। तिथितत्त्वे हेमाद्रौ परिशिष्टे- 'अग्राह्यं शिवनैवेद्यं पत्रं पुष्पं फलं जलम्। शालग्रामशिलासङ्गात्सर्वं याति पवित्रताम्॥' पञ्चायतनपूजायां तन्त्रेण च निवेदितमित्यर्थः॥ शिवपुराणे- 'ये वीरभद्रशपिताः शिवभक्तिपराङ्मुखाः। शम्भोरन्यत्र देवेषु ये भक्ता ये न दीक्षिताः॥ तेषामनर्हमीशस्य तत्प्रसादचतुष्टयम्॥' काशीखण्डे- 'जलस्य धारणं मूर्ध्नि विश्वेशस्नानजन्मनः। एष जालन्धरो बन्धः समस्तसुरवल्लभः॥' तथा- 'स्नापयित्वा विधानेन यो लिङ्गस्नपनोदकम्। त्रिः पिबेन्त्रिविधं पापं तस्येहाशु विनश्यति॥ लिङ्गस्नपनवार्भिर्यः कुर्यान्मूर्ध्न्यभिषेचनम्। गङ्गास्नानफलं तस्य जायतेऽत्र विपाप्मनः॥' इदं पूर्ववाक्यवशाद्विश्वेश्वरविषयमिति केचित्। काशीस्थपुराणप्रसिद्धसर्वलिङ्ग-विषयं, काशीखण्डे रत्नेश्वराख्याने तथैव दर्शनादित्यन्ये॥

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬