निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
← निर्णयसिन्धु — परिच्छेद-सूची
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथ कृषिः। राजमार्तण्डः-'ऋक्षेपूत्तरपौष्णवैष्णवमघामूलानुराधाश्विनीप्राजापत्यकरद्विदैवत-गुरुप्रालेयपादेषु च। निर्दोषैर्वृषभैर्हलैश्च सुमनोमालाभिरभ्यचितैर्दत्त्वा क्षेत्रपतेर्बलिं हलधरः क्षेत्रं ततः कर्षयेत्॥ प्राजेशश्रवणोत्तरादितिमघामार्तण्डतिष्याश्विनी पौष्णानुष्णमरीचयः शतभिषक् स्वाती विशाखा तथा। जीवार्केन्दुसितेन्दुनन्दनदिने लग्ने च सौम्योदये सस्यानां वपने तथैव लवने शस्तास्तथा रोपणे॥' चण्डेश्वरः- 'हस्तचित्रादितिस्वातीरेवत्यां श्रवणत्रये। स्थिरलग्ने गुरोर्वारे बीजं धार्यं ज्ञशुक्रयोः॥' 'ॐधनदाय सर्वलोकहिताय देहि मे धान्यं स्वाहा'। लेखयित्वा इमं मन्त्रं धान्यागारे निधापयेत्। सस्य-वृद्धिं परां कुर्यात्पूजितां प्रतिपूजयेत्॥ दक्षिणदिङ्खुगमनं गमनमभिनवासु नारीषु। व्ययमपि सस्यधनानां न बुधा बुधवासरे कुर्युः॥ शनिवारे च नो कार्यो धनधान्यब्ययो बुधैः॥'
अथ वस्त्रम्। श्रीपतिः - 'रोहिणीषु करपञ्चकेऽश्विभे त्र्युत्तरासु च पुनर्वसुद्वये। रैवतीषु वसुदैवते च मे नव्यवस्त्रपरिधानमिष्यते॥ जीर्णं रवौ सततमम्बुभिरार्द्रमिन्दौ भौमे शुचे बुधदिने तु भवेद्धनाय। ज्ञानाय मन्त्रिणि भृगौ प्रियसङ्गमाय मन्दे मलाय च नवाम्बरधारणं स्यात्॥ रोहिणीगुरुपुनर्वसूत्तरे या बिभर्ति नववस्त्रभूषणे। सा न योषिदवलम्बते पतिं स्नानमाचरति वारुणेऽपि या॥'
अथालङ्कारवलयादि। दैवज्ञवल्लभः- 'नासत्यपूषवसुभिः करपञ्चकेन मार्तण्डमौमगुरुदान-वमन्त्रिवारे। मुक्तासुवर्णमणिविद्रुमशङ्खदन्तरक्ताम्बराणि विधृतानि भवन्ति सिद्ध्यै॥' ज्योतिर्निबन्धे- 'हस्तानुराधमृगपूषधनिष्ठयुक्तचित्रोत्तरासु च पुनर्वसुरोहिणीषु। लग्ने स्थिरे रविसुतेन्दुजजीववारे हेमादिधारणविधिः कथितो नराणाम्॥' तत्रैव श्रीपतिः- 'पौष्णाश्विनीवसुकरादिषु पञ्चभेषु कौसुम्भहेममणिविद्रुमकाचशङ्खाः। नार्या धृताः सुतसुखार्थकरा भवन्ति ब्राह्मोत्तरादिति-गुरुष्वसुखाय भर्तुः॥' तत्रैव- 'शङ्खादिवररत्नानि पुष्यादित्युत्तरासु च। रोहिण्यां नैव गृह्णीत भर्तुर्जीवितकाङ्क्षिणी॥'
अथ सूचीकर्म। 'वासवादितिभत्वाष्ट्रमैत्रचन्द्राश्विनीषु च। सूचीकर्म तनुत्राणमेभिर्ऋक्षैः प्रशस्यते॥'
अथ शय्या। 'हस्तादितिब्रह्मगुरूत्तराणि पौष्णाश्विमूलेन्दुभचित्रभानि वारेषु जीवेन्दुसितेन्दुजानां शय्यासनारम्भणमुत्तमं स्यात्॥'
अथ शस्त्रधारणम्। 'पुष्पे चादितिचित्रपद्मतनये शक्रोत्तरारेवतीस्वातीवाजिविशाखमित्रसहिते भानौ गुरौ भार्गवे। कुम्भे कीटगृहे वृषे मृगपतौ चेन्दौ शुभैर्वीक्षिते सन्नाहः शरखड्गकुन्तछुरिका धार्या नृपाणां हिताः॥'
अथ स्वामिसेवा। चण्डेश्वरः- 'रोहिण्युत्तरपौष्णेषु वसुवारुणयोरपि। सेवेत स्वमिनं भृत्यः शुभवारोदये तथा॥' ज्योतिर्निबन्धे- 'दासीदासादिभृत्यानां कुर्यात्सङ्ग्रहणं बुधैः। स्थिरलग्ने शुभैर्दृष्टे मन्दवारे विशेषतः॥
अथ गजाश्वदोलाः। स एव- 'पौष्णप्रजेशादितिभद्वयानि हस्तादिषट्कश्रवणोत्तरराणि। दोलादि-मातङ्गतुरङ्गमाणामारोहणेऽभीष्टफलप्रदानि॥'
अथ नृत्यम्। 'हस्तः पुष्यो वासवं रोहिणी च ज्येष्ठा पौष्णं वारुणं चोत्तराश्च। पूर्वचार्यैः कीर्तितश्चक्रवर्ती नृत्यारम्भे शोभनोऽयं भवर्गः॥'
अथ राजदर्शनम्। श्रीपतिः -'मृगाश्वितिष्यश्रवणश्रविष्ठहस्तध्रुवत्वाष्ट्रभपुषभानि। मैत्रेण युक्तानि नरेश्वराणां विलोकने भानि शुभप्रदानि॥'
अथ क्रयविक्रयौ। ‘भाद्रद्वयत्रिदशमन्त्रिदिवाकरेषु मूलानिलोत्तरतुरङ्गमरेवतीषुम् । सारङ्गपाणि-रजनीकरमैत्रभेषु लाभः सदैव भवति क्रयविक्रयाभ्याम्॥' वस्त्रे तु- 'चित्रा शतभिषा स्वाती रेवती चाश्विनी शुभा। श्रवणश्च तथा प्रोक्ता वस्त्राणां क्रयणे शुभाः॥'
अथ सेतुः । 'स्वातीयुक्ते मन्दवारे वृषलग्ने शुभे दिने। सेतूनां बन्धनं कार्यं ध्रुवभे चार्कजीवयोः॥'
अथ पशुकृत्यम्। श्रीपतिः- 'चित्रोत्तरावैष्णवरोहिणीषु चतुर्दशीदर्शदिनाष्टमीषु। स्थानप्रवेशं गमनं विदध्यात् पुमान् पशूनां न कदाचिदेव॥' चण्डेश्वरः- 'हस्तमूलविशाखासु रेवत्यां श्रवणे तथा। मैत्रे च वारुणे श्रेष्ठं पशुक्रयणमुच्यते॥ पूर्वात्रयामृतमयूखहुताशनेषु इन्द्राग्निवाजिवसुवारुणशङ्करेषु। एतेषु गोमहिषदन्तितुरङ्गमादिनानाप्रकारपशुजातिगतिः प्रशस्ता॥'
अथ गजदन्तच्छेदः। ज्योतिर्निबन्धे- 'त्वाष्ट्रे वैष्णव अश्विन्यामादित्ये वसुदैवते। दन्तिनां शुभदं कर्म पुष्ये हस्ते च कर्तनम्॥'
अथ निक्षेपः। 'भरणी त्रीणि पूर्वाणि आर्द्राश्लेषा मघा तथा। चित्रा ज्येष्ठा विशाखा च मूलं मृगपुनर्वसू॥ एभिर्दत्तं प्रयुक्तं च यद्यन्निक्षिप्यते धनम्। पृष्ठतो धावमानस्य धनिनो नोपपद्यते॥'
अथ ऋणमोक्षः। श्रीधरः- 'वागीशमन्ददिवसांशकलग्नयुक्ते रिक्तासु मन्ददिवसे कुलिकोदये च। मैत्रद्वितीयपदमैत्रमुहूर्तयुक्ते राश्युद्गमे च ऋणमोक्षमुशन्ति सन्तः॥'
अथ राजमुद्रा। 'मृदुध्रुवक्षिप्रचरेषु भेषु योगे प्रशस्ते शनिचन्द्रवर्जम्। वारे तिथौ पूर्णजयाह्वये च मुद्राप्रतिष्ठा शुभदा हि राज्ञाम्॥'
अथ नौः। चण्डेश्वरः- 'पौष्णाश्विनीतुरगवारुणमित्रचित्राशीतोष्णरश्मिवसवोऽनलवन्त्यमूनि। वारे च जीवभृगुनन्दनके प्रशस्ते नौकादिसङ्घटनवाहनमेषु कुर्यात्॥
अथ भोगः। 'गुरुभरविभानुराधाविधातृपौष्णाश्विरोहिणीषु स्यात्। स्वात्युत्तरासु कुर्याच्छयनासन-भोगभोगादि॥'
अथ इमश्रुकर्म। श्रीपतिः- 'पुष्ये पौष्णे चाश्विनीष्वैन्दवे च शाक्रे हस्ताद्ये त्रिके भेऽप्यदित्याम्। क्षौरं कार्यं वैष्णवादित्रये च मुक्त्वा भौमादित्यपातङ्गिवारान्॥ न स्नातभुक्तोत्कटभूषितानामभ्यक्तयात्रा-समरोत्सुकानाम्। क्षौरं विदध्यान्निशि सन्ध्ययोर्वा जिजीविषूणां नवमे न चाह्नि॥' त्रिस्थलीसेतौ वृद्धगार्ग्यः- 'रव्यारसौरवारेषु रात्रौ पाते व्रताहनि। श्राद्धाहःप्रतिपद्रिक्ताभद्राः क्षौरेषु वर्जयेत्॥' गार्ग्यः- 'षष्ठ्यमापूर्णिमापातचतुर्दश्यष्टमी तथा। आसु सन्निहितं पापं त्रिषु तैले भगे क्षुरे॥' राजमार्तण्डः- 'देवकार्ये पितुः श्राद्धे रवेरंशपरिक्षये। क्षौरकर्म न कुर्वीत जन्ममासे च जन्मभे॥' बृहस्पतिः- 'राजकार्ये नियुक्तानां नराणां भूपजीविनाम्। श्मश्रुलोमनखच्छेदे नास्ति कालविशोधनम्॥' तथा- 'क्षौरं नैमित्तिकं कार्यं निषेधे सत्यपि ध्रुवम्। पित्रादिमृतिदीक्षासु प्रायश्चित्ते च तीर्थके॥' केचित्तूत्तरार्धमन्यथा पठन्तिमुण्डनस्य निषेधेऽपि कर्तनं तु विधीयते।' इति। नारदः- 'नृपविप्राज्ञया यज्ञे मरणे बन्धमोक्षणे। उद्वाहेऽखिलवारर्क्षे तिथिषु क्षौरमिष्टदम्॥' भारते- 'प्राङ्मुखः इमश्रुकर्माणि कारयीत समाहितः। उदङ्मुखोऽथवा भूत्वा तथायुर्विन्दते महत्॥' अपरार्के- 'उदङ्मुखः प्राङ्मुखो वा वपनं कारयेत्सुधीः। केशश्मश्रुलोमनखान्युदक्संस्थानि वापयेत्॥ दक्षिणं कर्णमारभ्य धर्मार्थे पापसङ्क्षये। शिखाद्ये नवसंस्कारे शिखाद्यन्तं शिरो वपेत्॥' यतीनां तु विशेषो निगमे- 'कक्षोपस्थशिखावर्जमृतुसन्धिषु वापयेत्।' इति। अन्येऽपि विधिप्रतिषेधाः प्रागुक्ताः।
अथेन्धनसङ्ग्रहः-'ब्रह्मानिलार्कमघमूलत्रिपूर्वरौद्रपौष्णानुराधगुरुविष्णुविशाखयुक्ते। वारे कुजार्कभृगुनन्दनसोमजानां श्रेष्ठेन्धनस्य करणं भवति प्रशस्तम्॥'
अथ नवान्नम्। श्रीपतिः- 'रेवतीश्रुतिपुनर्वसुहस्तब्राह्मतः पृथगपि द्वितये च। ञ्युत्तरेषु गदितं पृथुकानां प्राशनं नवनवान्नविधानम्॥ '
अथ नवभोजनपात्रम्। ज्योतिर्निबन्धे- 'भोज्यपात्रं सुधासिन्धौ घटयेद्वा समाहरेत्। तत्रान्नप्राशनप्रोक्ते काले भोजनमाचरेत्॥'
अथ नवपर्णफलादिभक्षणम्। चण्डेश्वरः- 'मूलाश्विमैत्रकरतिष्यहरीन्द्रभेषु पौष्णोत्तरैन्दवपुनर्वसुवासवेषु। वारेषु भूमितनयार्कजवारवर्जं ताम्बूलनूतनफलाद्यशनं हिताय॥'
अथ होमे आहुतिपातः। ज्योतिषे– 'तरणिविद्भृगुभास्करिचन्द्रमाः कुजसुरेज्यविधुन्तुदकेतवः। रविभतो दिनभं गणयेत्कमात् प्रतिखगं त्रितयं त्रितयं न्यसेत्॥ दिनकरार्कितमःकुजकेतवो हुतभुजे न शुभास्त्वितरे शुभाः। दहनचक्रमिदं प्रविलोक्यतां हवनकर्मणि सर्वसमृद्धये॥' अत्र शान्तिरुक्ता विष्णुधर्मे- 'क्रूरग्रहमुखे चैव सञ्जाते हवने शुभे। शान्तिं विधाय गां दद्याद्ब्राह्मणाय कुटुम्बिने॥ आयसीं प्रतिमां कृत्वा निक्षिपेत्तामधोमुखीम्। गोमूत्रमधुगन्धाद्यैरर्चितां प्रतिमां ततः॥ स्वस्थां निधाय सम्पूज्य तत्र होमो विधीयते॥ अत्रापवादः क्रियासारे- 'नित्ये नैमित्तिके दुर्गाहोमादौ न विचारयेत्।'
ज्वरादौ नक्षत्रवशात्फलं परिहारश्च।—
अथ ज्वरादौ फलम्। श्रीपतिः- 'खात्याश्लेषारौद्रपूर्वासु शाक्रे रोगोत्पत्तिर्जायते यस्य पुंसः। तद्भैषज्यव्यापृतो निष्प्रयत्नः स्याद्दुग्धाब्धेर्लब्धजन्मापि वैद्यः॥ व्याध्युत्पत्तिर्यस्य पौष्णे समैत्रे प्राणत्राणं जायते तस्य कृच्छ्रात्। वैश्वे सौम्ये रोगमुक्तिस्तु मासाद्विंशत्या स्याद्वासराणां मघासु॥ पक्षाद्धस्ते वासवे सद्विदैवे मूलाश्विन्योरग्निधिष्ण्ये नवाहात्। याम्ये त्वाष्ट्रे वैष्णवे वारुणे च नैरुज्यं स्यान्नूनमेकादशाहात्॥ आहिर्बुध्न्ये तिप्यसञ्ज्ञे यमाख्ये प्राजापत्यादित्ययोः सप्तरात्रात्। रोगान्मुक्तिर्जायते मानवानां निःसन्दिग्धं जल्पितं गर्गमुख्यैः॥' ज्योतिषे– 'एकाहो निधनं दशाहमनिलाद्वाणा वियत्पर्वताः सप्ताङ्का विलयश्च मासयुगुलं मासो मृतिः पक्षकः। द्वौ मासावथ विंशतिर्दश निशाः पक्षान्तपक्षा नखा मासौ पक्षदशान्तपक्षककुभः पीडादिनान्यश्विभात्॥' दैवज्ञः- 'उरगवरुणरौद्रा वासवेन्द्रत्रिपूर्वा यमदहनविशाखाः पापवारेण युक्ताः। तिथिषु नवमिषष्ठी द्वादशी वा चतुर्थी भवति मरणयोगो रोगिणां कालहेतुः॥'
अत्र शान्तिः। कुम्भे हैमीं नक्षत्रदेवताप्रतिमां सम्पूज्य द्वादशदलेषु सङ्कर्षणादिद्वादशमूर्तीर्द्वादशादित्यान् वा सम्पूज्य दूर्वासमित्तिलक्षीराज्यैर्गायत्र्या तद्देवतायै अष्टोत्तरशतं हुत्वा, दध्योदनं बलिं दत्त्वाचार्याय गां प्रतिमां च दत्त्वा, विप्रान् भोजयेदिति सङ्क्षेपः। विशेषस्तु व्रतहेमाद्रौ पदार्थादर्शे च ज्ञेयः॥
अथ भेषजम्। चण्डेश्वरः- 'मूलानुराधमृगतिष्यपुनर्वसौ च पौष्णाश्विनीश्रवणशुक्ररत्रये च। वारेषु वाक्पतिदिनेषु सितेन्दुशस्ते भैषज्यभक्षणममीपु हितं नराणाम्॥'
अथारोग्यस्नानम्। श्रीपतिः- 'इन्दोर्वारे भार्गवे च ध्रुवेषु सार्पादित्यस्वातियुक्तेषु भपु। पित्र्ये चान्ते वापि कुर्यात्कदाचिन्नैव स्नानं रोगनिर्मुक्तजन्तुः॥ चरे विलग्ने रविभौमवारे रिक्ते तिथौ स्याद्बहुले च पक्षे। धिष्ण्ये चरे रोगनिपीडितानां स्नानं नराणां निरुजत्वकारि॥'
अथ दन्तधावनम्। पृथ्वीचन्द्रोदये विष्णुः- 'प्रतिपद्दर्शषष्ठीषु चतुर्दश्यष्टमीषु च। नवम्यां भानुवारे च दन्तकाष्ठं विवर्जयेत्॥' नारदः -'चतुर्दश्यष्टमीपौर्णमासीसङ्क्रमणेषु च। नन्दासु च नवम्यां च दन्तकाष्ठं विवर्जयेत्॥ श्राद्धे यज्ञे च नियमे तथा प्रोषितभर्तृका। व्यतीपाते च सङ्क्रान्त्यां नन्दाभूताष्टपर्वसु॥ तैलं क्षौरं रतिं मांसं दन्तकाष्ठं च वर्जयेत्॥’ बसिष्ठः–‘शन्यर्कशुक्रवारेषु कुजाहे व्रतवासरे। जन्माहे श्राद्धदिवसे दन्तकाष्ठं विवर्जयेत्॥' हेमाद्रौ स्कान्दे- 'अभ्यङ्गे जलधिस्नाने दन्तधावनमैथुने। जाते च निधने चैव तत्कालव्यापिनी तिथिः॥' संवर्तः- 'रवौ विवाह आशौचे वर्जयेद्दन्तधावनम्॥' व्यासः - 'अलाभे दन्तकाष्ठानां निषिद्धायां तथा तिथौ। अपां द्वादशगण्डूषैर्विदध्याद्दन्तधावनम्॥'
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा