निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
← निर्णयसिन्धु — परिच्छेद-सूची
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथामलकस्नानम्। व्यासः- 'श्रीकामः सर्वदा स्नानं कुर्वीतामलकैर्नरः। सप्तमीं नवमीं चैव पर्वकालं विवर्जयेत्॥ चन्द्रसूर्योपरागे च स्नानमामलकैस्त्यजेत्॥' ऋतुः-‘पष्ठी च सप्तमी चैव नवमी च त्रयोदशी। सङ्क्रान्तौ रविवारे च स्नानमामलकैस्त्यजेत्॥' यत्तु - 'नवमी दशमी चैव तृतीया च त्रयोदशी। प्रतिपद्द्वादशी कृष्णा स्नानं तासु विवर्जयेत्॥' यच्च- 'दर्शे स्नानं न कुर्वीत मातापित्रोः सुजीवतोः। पुत्रः कुर्वन्निराचष्टे पित्रोरुन्नतिजीविते॥' इति कण्वयमाद्यैः स्नानमात्रं निषिद्धं,– तद्भोगार्थनानपरं, न नित्यनैमित्तिकपरमिति हेमाद्रिः॥
अथ तैलस्नाननिषेधः। कात्यायनः- 'पक्षादौ च रवौ षठ्यां रिक्तायां च तथा तिथौ। तैलेनाभ्यज्यमानस्तु चतुर्भिः परिहीयते॥' गर्गः- 'पञ्चदश्यां चतुर्दश्यामष्टम्यां रविसङ्क्रमे। द्वादश्यां सप्तमीषष्ठ्योस्तैलस्पर्शं विवर्जयेत्॥ न च कुर्यात्तृतीयायां त्रयोदश्यां तिथौ तथा। शाश्वतीं गतिमन्विच्छन् दशम्यामपि पण्डितः॥' तत्रैवायुर्वेदे-'षष्ठ्यां दिनक्षयेऽष्टम्यामेकादश्यां च पर्वसु। द्वादश्यां च चतुर्दश्यां पञ्चम्यां प्रतिपत्तिथौ॥ व्रते श्राद्धदिने जन्मत्रितये श्रवणार्द्रयोः। ज्येष्ठोत्तराफाल्गुनीषु व्यतीपाते च वैधृतौ॥ विष्टियोगे च सङ्क्रान्तौ मन्वादिषु युगादिषु। नाभ्यङ्गं तत्र बालानां वृद्धानां तु न दोषकृत्॥' इति। व्यवहारतत्त्वे- 'सङ्क्रान्तिभद्राव्यतिपातवैधृतिषष्ठ्यष्टमीपर्वसु नार्कभूसुते। स्नाने द्वितीया दशमी च गर्हिताः षष्ठ्याद्यमाद्या रदधावनेऽधमाः॥' अस्यापवादमाह तत्रैव प्रचेताः–' सार्षपं गन्धतैलं च यत्तैलं पुष्पवासितम्। अन्यद्रव्ययुतं तैलं न दुष्यति कदाचन॥ 'आयुर्वेदे- 'निषिद्धतिथिवारर्क्षग्रहणेष्वपि रात्रिषु। किञ्चिद्गोघृतयुक्तं वा विप्रपादरजोन्वितम्॥ भानौ दूर्वान्वितं भौमे भूयुक्तं पुष्पयुग्गुरौ॥ सर्वेषां सर्वदा तैलमभ्यङ्गेषु न दुष्यति॥' मङ्गलेष्वप्यदोषः, 'माङ्गल्यं विद्यते स्नानं वृद्धिपूर्वोत्सवेषु च। स्नेहपात्रसमायुक्तं मध्याह्नात् प्राक् तदिष्यते॥” इति मदनपारिजाते कात्यायनोक्तेः। हेमाद्रौ बृहन्मनुः - 'तैलाभ्यङ्गो नार्कवारे न भौमे नो सङ्क्रान्तौ वैधृतौ विष्टिषष्ठ्यो। पर्वस्वष्टम्यां च नेष्टः स इष्टः प्रोक्तान्मुक्त्वा वासरे सूर्यसूनोः॥' तिलस्नाननिषेधस्तु षट्त्रिंशन्मते-'तथा सप्तम्यमावास्यासङ्क्रान्तिग्रहजन्मसु। धनपुत्रकलत्रार्थी तिलपिष्टं न संस्पृशेत्॥'
अथ गृहारम्भः। ज्योतिर्निबन्धे बादरायणः- 'वैशाखे फाल्गुने पौषे श्रावणे मार्गशीर्षके। सूत्रारम्भः शिलान्यासः स्तम्भारम्भः प्रशस्यते॥' नारदः- 'सौम्यफाल्गुनवैशाखमाघश्रावणकार्तिकाः। मासाः स्युर्गृहनिर्माणे पुत्रारोग्यधनप्रदाः॥' अत्र वृषसिंहवृश्चिकाः वैशाखश्रावणकार्तिकाः सौरा ज्ञेया इति कालादर्शः। तत्रैव कारणतन्त्रे-'स्थिरमासे स्थिरे राशौ स्थिरेऽंशे नववेश्मनाम्। कुर्वीत स्थापनं शङ्कोः स्तम्भस्थापनमेव वा॥' कार्तिकनिषेधस्तुलापरः, 'कुम्भे मासेऽपि सर्वेषां मन्दिराणामुपक्रमम्। महर्षयः प्रशंसन्ति धान्यागारं विहाय च॥' निषेधो धान्यगृहपरः, 'पाकभोजनशालादौ मार्गशीर्षश्च फाल्गुनः। रथ्यागेहमठादौ च सहस्यः शुचिरेव तु॥' पौपापाढनिषेधस्तु प्रधानगृहपरः, 'न प्रधानगृहारम्भं कुर्यात्पौष शुचावपि।' इति तत्रैवोक्तेः। ज्योतिस्तत्त्वे- 'पूर्वापरास्यं तु नभोऽन्त्यपौषे याम्योत्तरास्यं सहसि द्वितीये। कार्यं गृहं जीवबुधर्क्षगार्के नीचाम्तगौ जीवसितौ च हित्वा॥' रत्नमालायाम्-'कर्कनक्रहरिकुम्भगतेऽर्के पूर्वपश्चिममुखानि गृहाणि। तौलिमेपवृषवृश्चिकयाते दक्षिणोत्तरमुखानि वदन्ति॥' दैवज्ञवल्लभः– 'शोकं धान्यं पञ्चतां निःपशुत्वं स्वापं नैःस्वं सङ्गरं भृत्यनाशम्। स्वं श्रीप्राप्तिं वह्निभीतिं च लक्ष्मीं कुर्युश्चैत्राद्या गृहारम्भकाले॥'
गर्गः–‘‘त्र्यत्तरामृगरोहिण्यां पुष्ये मैत्रे करत्रये। धनिष्ठाद्वितये पौष्णे गृहारम्भः प्रशस्यते॥ रोहिण्यां श्रवणत्रयेऽदितियुगे हस्तत्रये मूलके रेवत्युत्तरफल्गुनीष्वुरगभे मैत्रोत्तरापाढयोः। शस्तं वास्तु कुजार्कवर्जितदिने गोकुम्भसिंह मुखे कन्यायां मिथुने नभःशुचिसहोराधोर्जके फाल्गुने॥ कालादर्शे सनत्कुमारः- 'आदित्यभौमवर्जं तु सर्वे वाराः शुभप्रदाः।' वास्तुशास्त्रे - 'मार्गशीर्षे तथा पौषे वैशाखे श्रावणे तथा। फाल्गुने च कृतं वेश्म सर्वसम्पत्प्रदं भवेत्॥ कार्तिके माघमासे च चैत्रे ज्येष्ठे तथाश्विने। मास्याषाढे भाद्रपदे न कुर्यात्सर्वथा गृहम्॥ द्वितीया च तृतीया च पञ्चमी सप्तमी तथा। त्रयोदशी च दशमी पूर्णा चैकादशी तथा॥ वेश्मारम्भे शुभाय स्युर्विशेषाच्छुपक्षाः॥' व्यवहारसारे-'शिलान्यासः प्रकर्तव्यो गृहाणां श्रवणे मृगे। पौष्णे हस्ते च रोहिण्यां पुष्याश्विन्युत्तरात्रये॥ वास्तुप्रदीपे- 'अधोमुखैर्मैर्विदधीत खातं शिलास्तथैवोर्ध्वमुखैश्च पट्टम्। तिर्यङ्मुखैर्द्वारकपाटयानं गृहप्रवेशो मृदुभिर्ध्रुवैश्च॥' लल्लः 'स्नानं च पाकं शयनं च भोज्यं गजालयं वाजिगृहं धनस्य। देवस्य पूर्वादिदिशि क्रमेण मध्ये सभा भूपनिवेशनाय॥' शिल्पशास्त्रे-'कन्यासिंहे तुलायां भुजगपतिमुखं शम्भुकोणेऽग्निखातं वायव्ये स्यात्तदास्यं त्वलिधनमकरे ईशखातं वदन्ति। कुम्भे मीने च मेषे निर्ऋतिदिशि मुखं खातवायव्यकोणे चाग्नेः कोणे मुखं वै वृषमिथुनगते कर्कटे रक्षखातम्॥' तत्त्वचिन्तामणौ- 'यत्र दैर्ध्यं गृहादीनां द्वात्रिंशद्धस्ततोऽधिकम्। न तत्र चिन्तयेद्धीमान् गुणानायव्ययादिकान्॥' राजमार्तण्ड:-'आयव्ययौ मासशुद्धिं तृणागारे न चिन्तयेत्। शिलान्यासादि नो कुर्यात्तथागारे पुरातने॥' व्यवहारतत्त्वे- 'निषिद्धेष्वपि कालेषु स्वानुकूले शुभे दिने। तृणकाष्ठगृहारम्भे मासदोषो न विद्यते॥' चण्डेश्वरः- 'पूर्णादि त्वष्टमीं यावत्पूर्वास्यं वर्जयेद्गृहम्। उत्तरास्यं न कुर्वीत नवम्यादिचतुर्दशीम्॥ अमावास्याष्टमीं यावत्पश्चिमास्यं विवर्जयेत्। नवम्यादौ तथा याम्यं यावत्कृष्णचतुर्दशीम्॥ ध्रुवं दृष्ट्वाऽथवा स्मृत्वा कर्तव्यं वास्तुरोपणम्। सायाह्नवर्ज्यदिवसे रात्रौ त्यक्त्वा महानिशाम्॥' वराहः-'दक्षिणपूर्वे कोणे कृत्वा पूजां शिलां न्यसेत्प्रथमाम्। शेषाः प्रदक्षिणेन स्तम्भाश्चैवं समुत्थाप्याः॥ कालादर्शे वास्तुशास्त्रे- 'खाते चैव शिलान्यासे वृषचक्रं प्रशस्यते।' तच्चोक्तं शान्तिरत्ने- 'चतुर्हस्तप्रमाणं तु खात्वा गर्तं समन्ततः। कुम्भोदकैः सेचयेयुः शान्तिपाठपुरःसरम्॥ तत ईशानदिग्भागे साक्षतं रत्नपञ्चकम्। साज्यं कुम्भं स्थिरं मुक्त्वा वास्तुपूजनपूर्वकम्। कुम्भोपरि शिलान्यासः कर्तव्यस्तदनन्तरम्॥'
अथ गृहप्रवेशः। वृहस्पतिः- 'नन्दायां दक्षिणद्वारं भद्रायां पश्चिमेन तु। जयायामुत्तरद्वारं पूर्णायां पूर्वतो विशेत्॥' वसिष्ठः- 'कृत्वा शुक्रं पृष्ठतो वामतोऽर्कं विप्रान्पूज्यानग्रतः पूर्णकुम्भम्। हर्म्यं रम्यं तोरणस्रग्वितानैः स्त्रीभिः स्रग्वी गीतवाद्यैर्विशेच्च॥' व्यवहारतत्त्वे 'सौम्यायने श्रावणमार्गपौषे जन्मर्क्षलग्नोपचयोदयेऽंशे। वामं गतेऽर्के गृहवास्तुपूजां कृत्वा विशेद्वेश्म भकूटशुद्धम्॥' वास्तुशास्त्रे- 'लग्नात्प्रागादितो दिक्षु द्वौ द्वौ राशी नियोजयेत्। एकमेकं न्यसेत्कोणे सूर्यं वामं विचिन्तयेत्॥' वसिष्ठः 'चन्द्रजार्यसितवासरेषु च श्रीकरं सुतमहार्थलाभदम्। सूर्यसूनुदिवसे स्थिरप्रदं किं तु चौरभयमत्र निर्दिशेत्॥' रत्नकोशे- 'पुष्ये धनिष्ठामृगवारुणेषु स्वायम्भुवर्क्षे त्रिषु चोत्तरासु। अक्षीणचन्द्रे शुभदो नृपस्य तिथावरिक्ते च गृहप्रवेशः॥' नारदः- 'प्रवेशो मध्यमो ज्ञेयः सौम्यकार्तिकमासयोः। माघफाल्गुनवैशाखज्येष्ठमासेषु शोभनः॥ अकपाटमनाच्छन्नमदत्तबलिभोजनम्। गृहं न प्रविशेद्धीमानापदामाकरो हि तत्॥' ज्येष्ठः क्षुद्रगृहपरः। वृद्धगार्ग्यः-'भानोश्च भौमस्य विहाय वारौ शूलादियोगानशुभान्नवाऽपि। रिक्ता तिथिश्चापि मृदुध्रुवर्क्षे सौम्यायने च प्रविशेद्गृहाणि॥' रत्नमालायाम्-‘त्वाष्ट्रमित्रशशिपूषदैवतान्यामनन्ति मुनयो मृदून्यथ। मैत्रगे हरति भूषणाम्बरोद्गीतमङ्गलविधानमेषु च॥' रोहिण्युत्तरात्रयं च ध्रुवाणि। प्रवेशश्च वास्तुपूजां कृत्वा कार्यः; ‘जीर्णोद्धारे तथोद्याने तथा गृहनिवेशने। नवप्रासादभवने प्रासादपरिवर्तने॥ द्वाराभिवर्तने तद्वत्प्रासादेषु गृहेषु च। वास्तूपशमनं कुर्यात्पूर्वमेव विचक्षणः॥' इति मात्स्योक्तेः। तत्रैव- 'कृत्वाऽग्रतो द्विजवरानथ पूर्णकुम्भं दध्यक्षताम्रदलपुष्पफलोपशोभम्। दत्त्वा हिरण्यवसनानि तथा द्विजेभ्यो माङ्गल्यशान्तिनिलयं स्वगृहं विशेच्च॥ गृह्योक्तहोमविधिना वलिकर्म कुर्यात्प्रासादवास्तुशमने च विधिर्य उक्तः। सन्तर्पयेद्द्विजवरानथ भक्ष्यभोज्यैः शुक्लाम्बरः स्वभवनं प्रविशेत्सुरुपम्॥'
अथ कलिवर्ज्यानि। वृहन्नारदीये- 'समुद्रयातुः स्वीकारः कमण्डलुविधारणम्। द्विजानामसवर्णासु कन्यासूपयमस्तथा॥ देवराच्च सुतोत्पत्तिर्मधुपर्के पशोर्वधः। मांसदानं तथा श्राद्धे वानप्रस्थाश्रमस्तथा॥ दत्ताक्षतायाः कन्यायाः पुनर्दानं परस्य च। दीर्घकालं ब्रह्मचर्यं नरमेधाश्वमेधकौ॥ महाप्रस्थानं गोमेधश्च तथा मखः। इमान्धर्मान्कलियुगे वर्ज्यानाहुर्मनीषिणः॥’ कमण्डलुः ‘सोदकं च कमण्डलुम्' इत्युक्तः, मृन्मयो वा। दत्ता = ऊढा; 'ऊढायाः पुनरुद्वाहं ज्येष्ठांशं गोवधं तथा। कलौ पञ्च न कुर्वीत भ्रातृजायां कमण्डलुम्॥' इति हेमाद्रौ वचनात्। ऊढायाः 'पुरा पुरुषसंयोगान्मृते देयेति केचन' इत्यादिभिर्विवाह्यतोक्ता। हेमाद्रौ ब्राह्मे- 'गोत्रान्मातुः सपिण्डाच्च विवाहो गोवधस्तथा। नराश्वमेधौ मद्यं च कलौ वर्ज्यं द्विजातिभिः॥' गोत्राद्गोत्रजायाः पितृष्वसुः, मातृसपिण्डान्मातुलात्तत्कन्याया विवाहः कलौ न कार्यः। तेन यानि तद्विधायकानि तानि युगान्तरविषयाणि। तथा च व्यासः- 'तृतीयां मातृतः कन्या तृतीयां पितृतस्तथा। शुल्केन चोद्वहिष्यन्ति विप्राः पापविमोहिताः॥' इति कलौ तन्निन्दामाह। मातृतस्तृतीयां= मातुलकन्यामित्यर्थः। उक्तं चैतत्प्राक्। 'मद्यं स्त्रीभ्यश्च सुरामाचामम्' इत्यादिना विहितमपि वर्ज्यम्।
हेमाद्रौ आदित्यपुराणे-'विधवायाः प्रजोत्पत्तौ देवरस्य नियोजनम्। वालायाः क्षतयोन्यास्तु वरेणान्येन संस्कृतिः॥ कन्यानामसवर्णानां विवाहश्च द्विजन्मभिः। आततायिद्विजाग्र्याणां धर्मयुद्धेन हिंसनम्॥ द्विजस्याब्धौ तु नौयातुः शोधितस्यापि सङ्ग्रहः। सत्रदीक्षा च सर्वेषां कमण्डलुविधारणम्। महाप्रस्थानगमनं गोसञ्ज्ञप्तिश्च गोसवे। सौत्रामण्यामपि सुराग्रहणस्य च सङ्ग्रहः॥ अग्निहोत्रहवन्याश्च लेहो लीढापरिग्रहः। वृत्तस्वाध्यायसापेक्ष्यमघसङ्कोचनं तथा॥ प्रायश्चित्तविधानं च विप्राणां मरणान्तिकम्। संसर्गदोषस्तेयान्यमहापातकनिष्कृतिः॥' संसर्गदोषः 'तत्संसर्गी च पञ्चमः' इत्युक्तः। स्तेयं च तदन्यानि महापातकानि ब्रह्महत्यासुरापगुरुतल्पानि त्रीणि, तेषां कामकृतानां मरणान्तिकं प्रायश्चित्तं विप्राणां कलौ नेत्यर्थः। मरणान्तिके हि जातिवधनिमित्तं द्वादशाब्दद्विगुणं ब्रह्मवधनिमित्तं च द्विगुणं भवति, तत् 'चतुर्थे नास्ति निष्कृतिः' इति निषिद्धम्। न चात्महत्याविधिना तद्वाधः; तेन ह्यात्महत्यानिमित्तस्यैव वाधो न जातिवधनिमित्तस्य भिन्नविषयत्वात्। संसर्गिणस्तु कामतोऽपि व्रतस्यैवोक्तर्न मरणान्तिकम्। नापि स्तेये; तत्र राज्ञो वधकर्तृत्वात्। तेन तयोर्मरणान्तिकाभावात् तयोरेव निष्कृतिर्नान्येपां त्रयाणाम्। युगान्तरे तु कलौ निषेधवलात्प्रवृत्तिः। एतद्विप्रपरं न क्षत्रियादेः। तदुक्तं 'विप्राणां मरणान्तिकम्' इति। विशेषोऽस्मत्कृते प्रायश्चित्तरत्ने ज्ञेयः। 'वरातिथिपितृभ्यश्च पशूपाकरणक्रिया। दत्तौरसेतरेपां तु पुत्रत्वेन परिग्रहः॥ सवर्णान्याङ्गनादुष्टैः संसर्गः शोधितैरपि। अयोनौ सङ्ग्रहे वृत्ते परित्यागो गुरुस्त्रियः॥ परोद्देशात्मसन्त्याग उद्दिष्टस्यापि वर्जनम्। प्रतिमा भ्यर्चनार्थाय सङ्कल्पश्च सधर्मकः॥अस्थिसञ्चयनादूर्ध्वमङ्गस्पर्शनमेव च। शामित्रं चैव विप्राणां सोमविक्रयणं तथा॥ पड्भक्तानशने चान्नहरणं हीनकर्मणः॥' माधवीये पृथ्वीचन्द्रोदये च– शूद्रेषु दासगोपालकुलमित्रार्धसीरिणाम्। भोज्यान्नता गृहस्थस्य तीर्थसेवातिदूरतः॥ शिष्यस्य गुरुदारेषु गुरुवद्वृत्तिशीलता। आपद्वृत्तिर्द्विजाग्र्याणामश्वस्तनिकता तथा॥' प्रजार्थं तु द्विजाग्र्याणां प्रजारणिपरिग्रहः। ब्राह्मणानां प्रवासित्वं मुखाग्निधमनक्रिया॥ बलात्कारादिदुष्टस्त्रीसङ्ग्रहो विधिचोदितः। यतेश्च सर्ववर्णेषु भिक्षाचर्याविधानतः॥ नवोदके दशाहं च दक्षिणा गुरुचोदिता। ब्राह्मणादिषु शूद्रस्य पचनादिक्रियाऽपि च॥ भृग्वग्निपतनैश्चैव वृद्धादिमरणं तथा। गोतृप्तिशिष्टे पयसि शिष्टैराचमनक्रिया॥ पितापुत्रविरोधेषु साक्षिणां दण्डकल्पनम्। यतेः सायङ्गृहत्वं च सूरिभिस्तत्त्वदर्शिभिः॥ एतानि लोकगुप्त्यर्थं कलेरादौ महात्मभिः। निवर्तितानि विद्वद्भिर्व्यवस्थापूर्वकं बुधैः॥' सुराग्रहस्य तत्कर्तुः सग्रंहो व्यवहारकः। न च 'मद्यं च ' इति सामान्येन निषिद्धस्याऽनेनोपसंहार इति वाच्यम्। निषेधस्य निवृत्तिमात्रफलत्वेन विशेषानपेक्षत्वात्, 'न हिंस्यात्' इत्यस्य 'न ब्राह्मणं हन्यात्' इत्यनेनोपसंहारे हिंसान्तरस्यादोषत्वापत्तेश्च। निरूपितं चैतद्धेमाद्रिणाऽन्यत्रेत्युपरम्यते। सुराग्रहस्योद्देश्यस्य सौत्रामणिविशेषणाविवक्षया वाजपेयेऽपि निषेधः। सौत्रामण्यां तु 'पयोग्रहा वा स्युः' इत्यापस्तम्बोक्तेर्वैकल्पिकपयोग्रहैरप्यधिकारः। वाजपेये तु तत्प्राप्तौ मानाभावात् सोमसुरयोः सहत्यागेनांशे सुराद्रव्यत्वात्तत्प्रख्यतया यागनामत्वेन तां विना सञ्ज्ञायोगात् कलौ नाधिकार इति युक्तम्प्रतीमः।त्रिकाण्डमण्डनादिलिखनं तु निर्मूलमनाकरं च। वृत्तेति 'एकाहाद्ब्राह्मणः शुद्धयेद्योऽग्निवेदसमन्वितः।' इति उक्तः। अघस्याशौचस्य सङ्कोचः। 'न तस्य निष्कृतिर्दृष्टा भृग्वग्निपतनादृते।' इत्युक्तस्य प्रायश्चित्तस्य विधानम् उपदेशः। 'कलौ कर्तैव लिप्यते' इति व्यासोक्तेः पतितसंसर्गे दोषसत्त्वेऽपि पातित्यं नेत्यर्थः, अन्यथा 'संसर्गः शोधितैरपि' इति विरोधापत्तेः। स्तेयभिन्ने महापापे रहस्यकृते प्रायश्चित्तं नेत्यर्थः। सवर्णान्या असवर्णा क्षत्रियादिस्तया दुष्टैः। अयोनौ = शिष्यादौ। 'चतस्रस्तु परित्याज्याः शिष्यगा गुरुगा च या' इत्युक्तस्त्यागः, परोद्देशेन ब्राह्मणाद्यर्थमात्मनस्त्यागः। यद्वा परोद्देशात्मत्यागो गोदानं 'मनसा पात्रमुद्दिश्य' इत्युक्तम्। उद्दिष्टस्य व्यक्तस्य वर्जनं 'प्रतिग्रहसमर्थोऽपि ' इत्युक्तम्। वेतनग्रहणेन प्रतिमापूजा। 'स्वाशौचकालाद्विज्ञेयं स्पर्शनं तु त्रिभागतः।' इत्युक्तः स्पर्शः। पडिति। 'उपोषितरूत्र्यहं स्थित्वा धान्यमब्राह्मणाद्धरेत्।' इत्युक्तमन्नचौर्यम्। आपदि क्षात्रादिवृत्तिः। ‘मुखेनैव धमेदग्निम्' इत्युक्तं धमनम्। ‘दशाहेनैव शुद्ध्येत भूमिष्ठं च नवोदकम्।' इत्युक्तो दशाहः। 'गुरवे तु वरं दत्त्वा' इत्युक्ता दक्षिणा। शूद्रेषु दासगोपालेति। 'कन्दूपक्वं स्नेहपक्वं यच्च दुग्धेन पाचितम्। एतान्यशूद्रान्नभुजो भोज्यानि मनुरब्रवीत्॥' इत्यपरार्के सुमन्तूक्ता शूद्रस्य पाकक्रिया। 'पितापुत्रविवादे तु साक्षिणां त्रिषणो दमः।' इत्युक्तः। सायङ्गृहत्वं 'विधूमे सन्नमुसले' इत्युक्तम्। पृथ्वीचन्द्रेण तु - 'अटन्ति वसुधां विप्राः पृथिवीदर्शनाय च। अनिकेता ह्यनाहारा यत्र सायङ्गृहास्तु ते॥ इति विष्णुपुराणोक्तो निषिद्धः। तेनाज्ञातशीलपान्थादेः श्राद्धादौ विनियोगो न कार्यः कलावित्यर्थ उक्तः। एतानि वर्ज्यानीत्यर्थः।
निगमः- 'अग्निहोत्रं गवालम्भं सन्न्यासं पलपैतृकम्। देवराच्च सुतोत्पत्तिः कलौ पञ्च विवर्जयेत्॥ अग्निहोत्रं = तदर्थमाधानम्। एतच्च सर्वाधानपरम्; 'अर्धाधानं स्मृतं श्रौतस्मार्ताग्न्योस्तु पृथक्कृतिः। सर्वाधानं तयोरैक्यकृतिः पूर्वयुगाश्रिता॥' इति लौगाक्षिवचनादिति स्मृतिचन्द्रिकायाम्। एतेन 'चत्वार्यन्दसहस्राणि चत्वार्यब्दशतानि च। कलेर्यदा गमिष्यन्ति तदा त्रेतापरिग्रहः॥ सन्न्यासश्च न कर्तव्यो ब्राह्मणेन विजानता॥' इति व्यासवचनं व्याख्यातम्। सर्वाधानेऽपि विशेषमाह देवलः-'यावद्वर्णविभागोऽस्ति यावद्वेदः प्रवर्तते। सन्न्यासं चाग्निहोत्रं च तावत्कुर्यात्कलौ युगे॥' इति। अत्र पूर्वयुगाश्रितेति लौगाक्षिवाक्ये पूर्वयुगानि कृतादीनीत्येकोऽर्थः। अन्ये तु युगस्य पूर्वं कलेः पूर्वभागः। स ' चत्वार्यब्दसहस्राणि' इति पूर्वोक्तवाक्याच्चतुश्चत्वारिंशच्छतवर्षावच्छिन्नः। तस्मिन्भागे सर्वाधानं कार्यम्। तदुत्तरं तु ' यावद्वर्णविभागोऽस्ति' इति वाक्यात् वर्णविभागपर्यन्तमर्धाधानमित्याहुः। सन्न्यासः = त्रिदण्डः॥
इति श्रीमन्नारायणभट्टसूरिसूनुरामकृष्णभट्टात्मजदिनकरभट्टानुजकमलाकर- भट्टकृते निर्णयसिन्धौ कलिवर्ज्यानि समाप्तानि।
तृतीयपरिच्छेदपूर्वार्धं समाप्तम्॥
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा