🕉️ 24 November 2026, Tuesday · 08:07:35 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← निर्णयसिन्धु — परिच्छेद-सूची

📖 निर्णयसिन्धु · तृतीय परिच्छेद (उत्तरार्ध) — श्राद्ध, आशौच व अन्त्यकर्म · पृष्ठ 53/87
इस पृष्ठ में: श्राद्धाधिकारिणः

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

श्राद्धाधिकारिणः

अथ श्राद्धाधिकारिणः। चन्द्रिकायां सुमन्तुः– 'मातुः पितुः प्रकुर्वीत संस्थितस्यौरसः सुतः। पैतृमेधिकसंस्कारं मन्त्रपूर्वकमादृतः॥' तत्रैव हेमाद्रौ शङ्खः–'पितुः पुत्रेण कर्तव्या पिण्डदानोदकक्रिया। पुत्राभावे तु पत्नी स्यात्तदभावे तु सोदरः॥' अत्र यद्यपि 'पुत्र' पदं क्षेत्रजादिद्वादशविधपुत्रपरम्, ते च द्वादश पुत्रा याज्ञवल्क्येनोक्ताः–'औरसो धर्मपत्नीजस्तत्समः पुत्रिकासुतः। क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेतरेण वा॥ गृहे प्रच्छन्न उत्पन्नो गूढजस्तु सुतः स्मृतः। कानीनः कन्यकाजातो मातामहसुतः स्मृतः॥ अक्षतायां क्षतायां वा जातः पौनर्भवस्तथा। दद्यान्माता पिता वा यं स पुत्रो दत्तको भवेत्॥ क्रीतश्च ताभ्यां विक्रीतः कृत्रिमः स्यात्स्वयङ्कृतः। दत्तात्मा तु स्वयं दत्तो गर्भे विन्नः सहोढजः॥ उत्सृष्टो गृह्यते यस्तु सोऽपविद्धो भवेत्सुतः। पिण्डदोऽंशहरश्चैषां पूर्वाभावे परःपरः॥' इति तथापि 'दत्तौरसेतरेषां तु पुत्रत्वेन परिग्रहः। इति हेमाद्रावादित्यपुराणे कलावितरेषां पुत्रत्वनिषेधादौरसदत्तकपरमेव। यद्यपि 'पिण्डदोऽंशहरश्चैषां पूर्वाभावे परः परः।' इति याज्ञवल्क्योक्तरौरसाभावे दत्तकप्राप्तिः, तथाप्यौरसाभावे पौत्रः, तदभावे प्रपौत्रः, तदभावे दत्तकादयः इति ज्ञेयम्; 'पुत्रेण लोकान् जयति पौत्रेणानन्त्यमनुते। अथ पुत्रस्य पौत्रेण ब्रघ्नस्याप्नोति विष्टपम्॥' इति जीमूतवाहनधृतवसिष्ठहारीतशङ्कलिग्वितोक्तेः, 'लोकानन्त्यं दिवः प्राप्ति पुत्रपौत्रप्रपौत्रकैः।' इति याज्ञवल्क्योक्तेश्च। 'पुत्रः पौत्रश्च तत्पुत्रः पुत्रिकापुत्र एव च। पत्नी भ्राता च तज्जश्च पिता माता स्नुषा तथा॥ भगिनी भागिनेयश्च सपिण्डः सोदकस्तथा। असन्निधाने पूर्वेपामुत्तर पिण्डदाः स्मृताः॥' इति स्मृतिसङ्ग्रहे प्रपौत्रानन्तर पुत्रिकापुत्रोत्ततेस्तत्समत्वाच दत्तकस्य। यद्यपि बृहस्पतिना–'पौत्रश्च पुत्रिकापुत्रः स्वर्गप्राप्तिकरावुभौ। रिक्थे च पिण्डदाने च समौ तौ परिकीर्तितौ॥” इति पौत्रसाम्यमुक्तम्, याज्ञवल्क्येन च 'औरसो धर्मपत्नीजस्तत्समः पुत्रिकासुतः।' इति औरससाम्यम्, तथापि 'लोके राजसमो मन्त्री' इत्यादौ किचिन्यूने ‘सम' शब्दप्रयोगात्, गौणमुख्ययोः साम्यायोगाच्च स्तुत्यर्थ तत्, न तु समविकल्प इति भ्रमितव्यम्; 'पुत्रः पौत्रः प्रपोत्रो वा भ्राता वा भ्रातृसन्ततिः। सपिण्डसन्ततिर्वापि क्रियाही नृप जायते॥ तेपामभावे सर्वेषां समानोदकसन्ततिः। मातृपक्षस-पिण्डेन सम्बन्धो यो जलेन वा॥ कुलद्वयेऽपि चोच्छिन्ने स्त्रीभिः कार्या क्रिया नृप। तत्सङ्घातगतैर्वापि तद्रिक्थात्कारयेन्नृपः॥ इति विष्णुपुराणाञ्चेति। प्रपौत्रानन्तरं दत्तकादय इति पृथ्वीचन्द्र-मदनरत्न-कालादर्शादयः। मदनपारिजातेऽप्येवम्।

बोपदेवरुद्रधरादयस्तु- 'पुत्रेषु विद्यमानेषु नान्यं वै कारयेत्स्वधाम्।' इति सुमन्तूक्तौ – 'पितामहः पितुः पश्चात्पञ्चत्वं यदि गच्छति। पौत्रेणैकादशाहादि कर्तव्यं श्राद्धषोडशम्॥ नैतत्पौत्रेण कर्तव्यं पुत्रवांश्चेत्पितामहः॥' इति। छन्दोगपरिशिष्टे च 'पुत्र' शब्दस्य द्वादशविधसुतपरत्वात्, 'पूर्वाभावे परः परः' इत्यस्यानन्यपरत्वाच्च, दत्तकाद्यभावे पौत्रादीनामप्यधिकार इत्याहुः, तद्गौणमुख्ययोः साम्यायोगाद्दत्तके सति पौत्रस्यांशहरत्वस्याप्यभावापत्तेः पुत्रपदस्यौरसमात्रपरत्वाच्चिन्त्यम्। अत एव निषेधादुपनीतपौत्रसत्त्वेऽप्यनुपनीतपुत्रस्यैवाधिकारः, 'औरसश्चानुपनीतोऽपि कुर्यात्' इत्याह पृथ्वीचन्द्रोदये सुमन्तुः- 'श्राद्धं कुर्यादवश्यं तु प्रमीतपितृको द्विजः। व्रतस्थो वाऽव्रतस्थो वा एक एव भवेद्यदि॥ वृद्धमनुः-'कुर्यादनुपनीतोऽपि श्राद्धमेको हि यः सुतः। पितृयज्ञाहुतिं पाणौ जुहुयाद्ब्राह्मणस्य सः॥' एकः=मुख्य औरस इत्यर्थः। मनुः-'न ह्यस्मिन्युज्यते कर्म किचिदामौञ्जिबन्धनात्। नाभिव्याहारद्ब्रह्म स्वधानिनयनादृते ॥ ब्रह्म=वेदः। सुमन्तुरपि - 'नाभिव्याहारयेद्ब्रह्म यावन्मौञ्जी निबध्यते। मन्त्राननुपनीतोऽपि पठेदेवैक औरसः॥' अय मत्रपाठस्त्रिवर्षकृतचूडस्यैव; 'अनुपेतोऽपि कुर्वीत मन्त्रवत् पैतृमेधिकम्। यद्यसौ कृतचूडः स्याद्यदि स्याच्च त्रिवत्सरः॥' इति सुमन्तूतेः। यत्तु व्याघ्रः- 'कृतचूडस्तु कुर्वीत उदकं पिण्डमेव च। स्वधाकारं प्रयुञ्जीत वेदोच्चारं न कारयेत्॥' इति, यच्च स्मृतिसङ्ग्रहे - 'कृतचूडोऽनुपेतश्च पित्रोः श्राद्धं समाचरेत्। उदाहरेत्स्वधाकारं न तु वेदाक्षराण्यसौ॥' इति, तत्प्रथमवर्पचूडाविपयमिति माधव-मदनरत्न पृथ्वीचन्द्राः। त्रिवर्पोर्ध्व मन्त्रवत्त्वस्य विकल्प इति चन्द्रिका बोपदेवश्च। दत्तकादिपरो निषेध इति वयम्।

मदनरत्ने स्कान्दे- 'यज्ञेषु मन्त्रवत्कर्म पत्नी कुर्याद्यथा नृप। तथौर्ध्वदैहिकं कर्म कुर्यात्सा धर्मसंस्कृता॥' अशक्तौ तु कात्यायनः -'असंस्कृतेन पत्न्या च ह्यग्निदानं समन्त्रकम्। कर्तव्यमितरत्सर्वं कारयेदन्यमेव हि॥' पुत्रश्च न जन्मतोऽधिकारी किन्तु वर्षोत्तरमित्याह कालादर्श :- 'चौलादाद्याब्दिकादर्वाक् न कुर्यात्पैतृमेधिकम्।' मदनरत्ने सुमन्तुरपि - 'पुत्रश्चोत्पत्तिमात्रेण सस्कुर्यादृणमोचनात्॥ पितरं नाब्दिकाच्चौलात्पैतृमेधेन कर्मणा॥' एतच्चौरसस्यैव। दत्तकादीनां तूपनीतानामेवाधिकार इति कालादर्शः। पृथ्वीचन्द्रोदयेऽपि स्कान्दे- 'पित्रोरनुपनीतोऽपि विदध्यादौरसः सुतः। और्ध्वदेहिकमन्ये तु संस्कृताः श्राद्धकारिणः॥' इति। अन्यत्रापि दर्शमहालयादावनुपनीतस्याधिकारोऽस्माभिः पूर्वमुक्तः। प्रपौत्राभावे दत्तकादय एकादश पुत्राः। तदभावे भर्तुः पत्नी, तस्याश्च सः; 'अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता। पत्न्येव दद्यात्तत्पिण्डं कृत्स्त्रमंशं लभेत च॥” इति वृद्धमनूक्तेः। 'भार्यापिण्डं पतिर्दद्याद्भर्त्रे भार्या तथैव च। श्वश्र्वाः देश्च स्नुपा चैव तदभावे सपिण्डकाः॥' इति, 'पुत्राभावे तु पत्नी स्यात्पत्न्यभावे तु सोदरः। 'इति च हेमाद्रौ शङ्खोक्तेः। पृथ्वीचन्द्रोदयस्तु- 'कानीनगूढसहजपुनर्भूतनयाश्च ये।

पत्न्यभावेऽधिकुर्युस्ते अप्रशस्ताः स्मृता हि ते॥' इति स्मृतिसङ्ग्रहात् पत्न्यभावे कानीनादय इत्याह।

पत्युरपि सपत्नीपुत्रे सति नाधिकारः, 'पितृपत्न्य सर्वा मातरः' इति सुमन्तूक्तेः', 'विदध्यादौरसः पुत्रो जनन्या और्ध्वदेहिकम्। तदभावे सपत्नीजः क्षेत्रजाद्यास्तथा स्मृताः॥ तेषामभावे तु पतिस्तदभावे सपिण्डकाः॥' इति मदनरत्ने कात्यायनोक्तेश्च। 'बह्वीनामेकपत्नीनामेष एव विधिः स्मृतः। एका चेत्पुत्रिणी तासां सर्वासां पिण्डदस्तु सः॥' इति बृहस्पतिवचनाच्च॥ अपरार्केऽप्येवम्। तेन यच्छुद्धिविवेके उक्तं- 'सत्यपि सपत्नीपुत्रे पत्युरेवाधिकारः' इति,- तन्निरस्तम्। यच्च तत्रैव कात्यायनः- 'न भार्यायाः पतिर्दद्यादपुत्राया अपि क्वचित्' यच्च विष्णुपुराणम्- 'कुलद्वयेऽपि चोत्सन्ने स्त्रीभिः कार्या क्रिया नृप।' इति, यच्च मार्कण्डेयपुराणम्–‘सर्वाभावे स्रियः कुर्युः स्वभर्तॄणाममन्त्रकम्।' इति, तदासुरादिविवाहोढाविषयम् ; ‘धर्यैर्विवाहरूढा या सा पत्नी परिकीर्तिता। कयक्रीता तु या नारी न सा पत्न्यभिधीयते॥ न सा दैवे न सा पित्र्ये दासीं तां मुनयो विदुः॥' इति माधवीये शातातपोक्तेः। यत्तु शुद्धिरत्नाकरः शूलपाणिश्च - 'अपुत्रस्य च या पुत्री सापि पिण्डप्रदा भवेत्। तस्य पिण्डान्दशैकं वा एकाहेनैव निक्षिपेत्॥' इति जाबालोक्तेः,'भर्तुर्धनहरा पत्नी तां विना दुहिता स्मृता। अङ्गादङ्गात्सम्भवति पुत्रवद्दुहिता नृणाम्॥' इति बृहस्पतिना दुहितुर्धनहारित्वोक्तेश्च 'पुत्राभावे कन्या, तदभावे सपत्नीपुत्रः' इत्याहतुः, तत् पूर्वविरोधात्, 'मातुर्दहितरः शेषमृणात्ताभ्य ऋतेऽन्वये।' इति दुहितुर्मातृधनग्राहित्वेन पुत्रस्य तच्छ्राद्धानधिकारापत्तेश्योपेक्ष्यम्। वचनं तु भ्रातृपुत्राद्यभावविषयम्। पत्न्यभावे अविभक्तस्य सोदरः; पूर्वोक्तशङ्खवचनात्। विभक्तस्य तु दुहिता; धनहारित्वात्; पूर्वोक्तजाबालवचनाच्च। तत्राप्यूढानूढासमवाये ऊढैव, 'दुहिता पुत्रवत्कुर्यान्मातापित्रोस्तु संस्कृता। आशौचमुदकं पिण्डमेकोद्दिष्टं सदा तयोः॥' इति भरद्वाजोक्तेः। तदभावे दौहित्रः; धनहारित्वात्; 'मातापित्रोरुपाध्यायाचार्ययोरौर्ध्वदेहिकम्। कुर्वन्भातामहस्यापि व्रती न भ्रश्यते व्रतात्॥' इति चन्द्रिकायां वृद्धमनुक्तेः। 'यथा व्रतस्थोऽपि सुतः पितुः कुर्यात्क्रियां नृप। उदकाद्यां महाबाहो दौहित्रोऽपि तथार्हति॥' इत्यपरार्के भविष्योक्तेश्च। एतद्धनहारिण आवश्यकं, नान्यस्येत्याह तत्रैव स्कन्दः- 'श्राद्धं मातामहानां तु अवश्यं धनहारिणा। दौहित्रेणार्थनिष्कृत्यै कर्तव्यं पूर्वमुत्तरम्॥” इति। तेन 'दौहित्रोऽत्र पुत्रीकृतः' इति देवयाज्ञिकोक्तिः परास्ता। अत्र पत्नीदौहित्रसमवायेंऽशहरत्वात्पन्न्येव कुर्यात्।

दौहित्रभ्रातृपुत्रसत्त्वे विभक्तस्य दौहित्रः, अविभागे भ्रातृपुत्रः। भ्रातृतत्पुत्रसत्त्वे कनिष्ठश्चेत् भ्रातैव, ज्येष्ठश्चेत्तत्पुत्रः कुर्यादिति दाक्षिणात्यग्रन्थाः। हारलतादौ तु - 'भ्रातुर्भ्राता स्वयं चक्रे तद्भार्या चेन्न विद्यते। तस्य भ्रातृसुतश्चक्रे यस्य नास्ति सहोदरः॥' इति ब्राह्मोक्तेः, 'पत्नी कुर्यात्सुताभावे पत्न्यभावे सहोदरः।' इति कौर्माच्च ज्येष्ठभ्रातैव कुर्यान्न तत्पुत्रः। यत्तु 'नानुजस्य तथाग्रजः' इति, तत्कनिष्ठभ्रातृसत्त्वविषयम्। यञ्च मनुः-'सर्वेषामेकजातानामेकश्चेत्पुत्रवान्भवेत्। सर्वांस्तांस्तेन पुत्रेण पुत्रिणो मनुरब्रवीत्॥' इति, तत्सहोदराभावविषयमित्युक्तम्। एतेन पुत्रत्वातिदेशोऽयम्। अतस्तस्मिन्सति एकादश पुत्राः प्रतिनिधयो न कार्याः, स एव पिण्डदोऽंशहरश्चेति वाचस्पतिमनुटीका कल्पतरु-रत्ना-करादयः परास्ताः, द्वादशविधपुत्राभावे 'पत्नीदुहितरः' इति याज्ञवल्क्योक्तेश्च। तस्माद्दत्तपुत्रप्रशंसेयमिति विज्ञानेश्वरः, अविभक्तविषयं वा। मदनरत्ने स्मृतिसङ्ग्रहे-'पुत्रः कुर्यात्पितुः श्राद्धं पत्नी च तदसन्निधौ। धनहार्यथ दौहित्रस्ततो भ्राता च तत्सुतः॥ भ्रातुः सहोदरो भ्राता कुर्याद्दाहादि तत्सुतः। ततस्त्वसोदरो भ्राता तदभावे च तत्सुतः॥' इति। भ्रातृपुत्राभावे क्रमेण पितृमातृस्नुषास्वसृतत्पुत्रादयः; धनहारित्वात्। भगिनीतत्सुतयोर्विशेषमाह मदनरत्ने कात्यायनः- 'अनुजा अग्रजा वापि भ्रातुः कुर्वीत संस्क्रियाम्। ततः स्वसोदरात्तद्वत्क्रमेण तनयस्तयोः॥' अपरार्के कार्ष्णाजिनिः- 'पुत्रः शिष्योऽथवा पत्नी पिता भ्राता स्नुषा गुरुः। स्त्रीहारी धनहारी च कुर्यात्पिण्डोदकक्रियाम्॥' मार्कण्डेयपुराणे- 'पुत्रो भ्राता च तत्पुत्रः पत्नी माता तथा पिता। वित्ताभावेऽपि शिष्यश्च कुर्वीरन्नौर्ध्वदेहिकम्॥' तेन धनहारी एतद्भिन्न इति कालादर्शः। अत्र पाठक्रमो न विवक्षितः, पूर्ववाक्येषु 'अथ ततः'शब्दादिभिः श्रौतक्रमोक्तेः 'अथ जिह्वाया अथ वक्षसः' इतिवत्।

पृथ्वीचन्द्रोदये वृद्धमनुः- 'स्नुषास्वस्त्रीयतत्पुत्रज्ञातिसम्बन्धिबान्धवाः। पुत्राभावे तु कुर्वीरन्सपिण्डान्तं यथाविधि॥' मार्कण्डेयपुराणे- 'पुत्रद्युत्सन्नबन्धोश्च सखापि श्वशुरस्य च। जामाता स्नेहवत्कुर्यादखिलं पैतृमेधिकम्॥' चन्द्रिकायां वृद्धशातातपः- 'मातुलो भागिनेयश्च स्वत्रीयो मातुलस्य च। श्वशुरस्य गुरोश्चैव सख्युर्मातामहस्य च॥ एतेषां चैव भार्याणां स्वसुर्मातुः पितुस्तथा। श्राद्धमेषां तु कर्तव्यमिति वेदविदो विदुः॥' शुद्धिविवेके पृथ्वीचन्द्रोदये च ब्राह्मे 'दत्तानां वाऽप्यदत्तानां कन्यानां कुरुते पिता। चतुर्थेऽहनि तास्तेषां कुर्वीरन् सुसमाहिताः॥' दत्ताः = वाग्दत्ताः। 'मातामहानां दौहित्राः कुर्वन्त्यहनि चापरे। तेऽपि तेषां प्रकुर्वन्ति द्वितीयेऽहनि सर्वदा॥ जामातुः श्वशुराश्चकुस्तेषां तेऽपि च संयताः। मित्राणां तदपत्यानां श्रोत्रियाणां गुरोस्तथा॥ भागिनेयसुतानां च सर्वेषां त्वपरेऽहनि। राज्ञोऽसति सपिण्डे तु निरपत्ये पुरोहितः॥ मन्त्री वा तदशौचं तु पुरा चीर्त्वा करोति सः॥' अत्र द्वितीयाहादौ श्राद्धविधानमस्थिसञ्चयनपरम्। कालादर्शे- 'दाहादिमन्त्रवत्पित्रोर्विदध्यादौरसः सुतः। तदभावे तु पौत्रश्च प्रपौत्रः पुत्रिकासुतः॥ दौहित्रो धनहारी च भ्राता तत्पुत्र एव च। पिता माता स्रुषा चैव स्वसातत्पुत्र एव च॥ सपिण्डः सोदको मातुः सपिण्डश्च सहोदकः। स्त्री च शिष्यर्त्विगाचार्या जामाता च सखापि च॥ उत्सन्नबन्धो रिक्थेन कारयेदवनीपतिः॥' गौतमः- 'पुत्राभावे सपिण्डा मातृसपिण्डाः शिष्याश्च दद्युस्तदभावे ऋत्विगाचार्यै'। यत्तु चन्द्रिकायां वृद्धशातातपः- 'प्रीत्या श्राद्धं प्रकर्तव्यं सर्वेषां वर्णलिङ्गिनाम्।' इति, तत्सवर्णविषयम्; 'ब्राह्मणस्त्वन्यवर्णानां न कुर्यात्कर्म किचन। कामाल्लोभाद्भयान्मोहात्कृत्वा तज्जातितां व्रजेत्॥' इति ब्राह्मोक्ते’, ‘न ब्राह्मणेन कर्तव्यं शूद्रस्याप्यौर्ध्वदेहिकम्। शूद्रेण वा ब्राह्मणस्य विना पारशवात्क्वचित्॥' इति पारस्करोक्तेश्च। पारशवः = ऊढशूद्रापुत्रः।

अत्रेदं तत्त्वम्– सर्वत्र पुत्रादेः पूर्वस्याभावे पत्न्यादेरधिकार उक्तः। तत्राभावोऽसन्निधिर्नाशश्चोच्यते। अत एव पूर्वत्र 'असन्निधाने पूर्वेषाम्' इत्युक्तम्। तत्रासन्निधौ पत्न्यादेः सर्वाधिकारे प्राप्ते 'प्रोषितावसिते पुत्रः कालादपि चिरादपि। एकादशाद्याः क्रमशो ज्येष्ठस्य विधिवत्क्रियाः॥’ ‘ज्येष्ठेनैव तु यत्कृतम्' इत्याद्यैर्देशान्तरेऽपवादात्पुत्रनाश एव पत्न्यादेः सपिण्डनादावधिकारः। असन्निधौ तु तत्पूर्वमेव नोर्ध्वम्। अतोऽनधिकारिणा भ्रात्रादिना कृतमप्यकृतमेवेति पुनरावर्तनीयम्। मासिकापकर्षोऽप्यावर्तनीयः। एकादशाहमासिकानि नावर्तन्ते, 'तज्ज्यायसापि कर्तव्यं सपिण्डीकरणं पुनः।' इतिवदावृत्तिविधानाभावादिति केचित्, - तन्न; अस्य निर्मूलत्वात्। अतस्तदपि कनिष्ठकृतमावर्तते। वृद्धिश्रौतपिण्डपितृयज्ञार्थं तु कृतं नावर्तते; ‘नासपिण्ड्याऽग्निमान्पुत्रः पितृयज्ञं समाचरेत्। न पार्वणं नाभ्युदयं कुर्वन्न लभते फलम्॥' इति, 'वृद्ध्युत्तरनिषेधनात्' इति, 'भ्राता वा भ्रातृपुत्रो वा' इत्यादिहारीतादिवचोभ्यः कनिष्ठादेरप्यधिकारात्। यथाऽत्र ज्येष्ठकर्तृत्वबाधस्तथा पुत्रकर्तृत्वस्यापि बाधः। सपिण्डने तु बहु वक्तव्यं तन्निर्णये वक्ष्यामः।

अधिकारविशेषेण क्रियाव्यवस्थोक्ता विष्णुपुराणे - 'पूर्वाः क्रिया मध्यमाश्च तथा चैवोत्तराः क्रियाः। त्रिप्रकाराः क्रिया ह्येताम्तासां भेदाञ्शृणुष्व मे॥ आदाहाद्द्वादशाहाच्च मध्ये याः स्युः क्रिया नृप। ताः पूर्वा मध्यमा मासि मास्येकोद्दिष्टसञ्ज्ञिताः॥ प्रेते पितृत्वमापन्ने सपिण्डीकरणादनु। क्रियन्ते याः क्रिया पुत्रैः प्रोच्यन्ते ता नृपोत्तराः॥ पितृमातृसपिण्डैश्च समानसलिलैस्तथा। तत्सङ्घातगतैश्चैव राज्ञा वा धनहारिणा॥ पूर्वा मध्याश्च कर्तव्याः पुत्राद्यैरेव चोत्तराः। दौहित्रैर्वा नरश्रेष्ठ कार्यास्तत्तनयैस्तथा॥ मृताहनि तु कर्तव्याः स्त्रीणामप्युत्तराः क्रियाः॥' दौहित्रतत्पुत्रयोर्धनहारिणोरिदम्। एवमन्यस्य धनहर्तुः; 'यश्चार्थहरः स पिण्डदायी' इत्यापस्तम्बोक्तेः, 'प्रेतस्य प्रेतकार्याणि अकृत्वा धनहारकः। वर्णानां यद्वधे प्रोक्तं तद्व्रतं प्रयतश्चरेत्॥' इति पृथ्वीचन्द्रोदये व्याघ्रपादोक्तेः। मदनरत्ने स्कान्देऽपि - 'मलमेतन्मनुष्याणां द्रविणं यत्प्रकीर्तितम्।' इत्युक्त्वा 'ऋषिभिस्तस्य निर्दिष्टा निष्कृतिः पावनी परा। आ देहपतनात्तस्य कुर्यात्पिण्डोदकक्रियाम्॥' इत्युक्तम्। क्रियानिबन्धे कात्यायनः- 'न च माता न च पिता कुर्यात्पुत्रस्य पैतृकम्। नाग्रजश्च तथा भ्राता भ्रातॄणां तु कनीयसाम्॥' पृथ्वीचन्द्रोदये बौधायनः– 'पित्रा श्राद्धं न कर्तव्यं पुत्राणां तु कथञ्चन। भ्रात्रा चैव न कर्तव्यं भ्रातॄणां च कनीयसाम्॥ यदि स्नेहेन कुर्यातां सपिण्डीकरणं विना। गयायां तु विशेषेण ज्यायानपि समाचरेत्॥' अन्याभावे पित्रादिरपि कुर्यात्; 'उत्सन्नबान्धवं प्रेतं पिता भ्राताऽथवाऽग्रजः। जननी चापि संस्कुर्यान्महदेनोऽन्यथा भवेत्॥' इति सुमन्तूक्तेः।

ब्रह्मचारिणां तु शुद्धिविवेके पृथ्वीचन्द्रोदये च ब्राह्मे- 'असमाप्तव्रतस्यापि कर्तव्यं ब्रह्मचारिणः। श्राद्धं तु मातापितृभिर्न तु तेषां करोति सः॥' श्राद्धं मासिकाब्दिकादि सर्वं कार्यमित्यर्थः। नत्विति निषेधोऽन्यसत्त्वे। यत्तु छन्दोगपरिशिष्टे- 'न त्यजेत्सूतके कर्म ब्रह्मचारी स्वयं क्वचित्। न दीक्षणात्परं यज्ञे न कृच्छ्रादि तपश्चरन्॥ पितर्यपि मृते नैषां दोषो भवति कर्हिचित्। आशौचं कर्मणोऽन्ते स्यान्त्र्यहं वा ब्रह्मचारिणाम्॥', यच्च याज्ञवल्क्यः - 'न ब्रह्मचारिणः कुर्युरुदकं पतितास्तथा॥' इति,- तदप्यन्यसत्त्वे। अन्याभावे तु ब्रह्मचारिणापि कार्यम् ; पूर्वोक्तवृद्धमनुवचनात्। 'आचार्यपित्रुपाध्यायान्निर्हत्यापि व्रती व्रती। सङ्कटान्नं च नाश्नीयान्न च तैः सह संवसेत्॥' इति तेनैवोक्तेः; 'ब्रह्मचारिणः शवकर्मिणो व्रतान्निवृत्तिरन्यत्र मातापित्रोः' इति वसिष्ठोक्तेः। अत्राशौचमेकाहं वक्ष्यामः। ग्रागुपनयनान्मृतस्य तु पञ्चवर्षोत्तरं सपिण्डीकरणवर्ज्यं षोडशश्राद्धादि सर्वं कार्यमित्युक्तं देवजानीये, 'असंस्कृतानां भूमौ पिण्डं दद्यात्, संस्कृतानां कुशेषु' इति प्रचेतोवचनाच्च। एतच्चाग्रे वक्ष्यामः।

अविभक्तानां विशेषमाह पृथ्वीचन्द्रोदये मरीचिः - 'बहवः स्युर्यदा पुत्राः पितुरेकत्र वासिनः। सर्वेषां तु मतं कृत्वा ज्येष्ठेनैव तु यत्कृतम्॥ द्रव्येण चाविभक्तेन सर्वैरेव कृतं भवेत्॥’ ज्येष्ठस्य कर्तृत्वेऽपि सर्वे फलभागिन इत्यर्थः। तेन ये ब्रह्मचर्यपरान्नवर्जनादयः फलसंस्कारास्ते सर्वेषां भवन्तीति सिद्धम्। संसृष्टिनामप्येवं; तुल्यत्वात्। विभक्तानां विशेषमाहोशनाः- 'नवश्राद्धं सपिण्डत्वं श्राद्धान्यपि च षोडश। एकेनैव तु कार्याणि संविभक्तधनेष्वपि॥' लघुहारीतः - 'सपिण्डीकरणान्तानि यानि श्राद्धानि षोडश। पृथङ्नैव सुताः कुर्युः पृथग्द्रव्या अपि क्वचित्॥ ऊर्ध्वं सपिण्डीकरणात्सर्वे कुर्युः पृथक् पृथक्॥' मदनरत्ने- 'विभक्तास्तु पृथक्कुर्युः प्रतिसंवत्सरादिकम्। एकेनैवाविभक्तेषु कृते सर्वैस्तु तत्कृतम्॥' एतेनाब्दिकादिष्वविभक्तानामनियम इति वदन् शूलपाणिः परास्तः।

दत्तकस्तु जनकस्य पुत्राद्यभावे दद्यात्, न तत्सत्त्वे; 'गोत्ररिक्थे जनयितुर्न भजेद्दन्त्रिमः सुतः। गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधा॥' इति मनूक्तेः। - इदं जनकस्य पुत्रसत्त्वविषयम्। तच्च प्रवरमञ्जर्यां कात्यायन-लौगाक्षिभ्यां स्पष्टमुक्तम्। अथ ये दत्तक्रीतकृत्रिमपुत्रिकापुत्राः परपरिग्रहेणानार्षेया जातास्ते द्वयामुष्यायणा भवन्ति। यथा 'शौङ्गशैशिराणां यानि चान्यान्येवं समुत्पत्तीनि कुलानि भवन्ति' इत्यादिना द्वयोः पित्रोः प्रवरानुक्त्वोक्तम् – 'अथ यद्येषां स्वासु भार्यास्वपत्यं न स्याद्रिक्थं हरेयुः पिण्डं चैभ्यस्त्रिपुरुषं दद्युर्यद्युभयोर्न स्यादुभाभ्यामेव दद्युरेकस्मिञ्श्राद्धे पृथगुद्दिश्यैकपिण्डे द्वावनुकीर्तयेत्परिग्रहीतारं चोत्पादयितारं चातृतीयात्पुरुषात्' इति। हेमाद्रौ कार्ष्णाजिनिः- 'यावन्तः पितृवर्ग्याः स्युस्तावद्भिर्दत्तकादयः। प्रेतानां योजनं कुर्युः स्वकीयैः पितृभिः सह॥ द्वाभ्यां सहाथ तत्पुत्राः पौत्रास्त्वेकेन तत्समम्। चतुर्थपुरुषे छन्दस्तस्मादेषा त्रिपूरुषी॥ साधारणेषु कालेषु विशेषो नास्ति वर्गिणाम्। मृताहे त्वेकमुद्दिश्य कुर्युः श्राद्धं यथाविधि॥” इति। अस्यार्थमाह हेमाद्रिः- दत्तकादयः जनकपालकयोः कुले प्रेतानां स्वस्ववर्गीयैः सपिण्डनं कुर्युः। दत्तकानां पुत्रास्तु पितुर्दत्तकस्य पितृभ्यां जनकपालकाभ्यां स्वपितामहाभ्यां सपिण्डनं कुर्युः। तेषां पौत्राः स्वपितरं दत्तकेन पितामहेन तज्जनकेन च सपिण्डयेयुः। चतुर्थोऽपि तत्कुलस्थ एव। तेषां प्रपौत्रस्तु दत्तकस्य प्रपितामहस्य पालककुलस्थं चतुर्थं योजयेन्न वा। छन्दः = इच्छा। दर्शमहालयादौ तु द्वयोः पित्रोः पितामहयोः प्रपितामहयोर्वा श्राद्धं देयम्। तत्र द्वयोः पित्राद्योः पृथकपिण्डदानं द्वयोरुद्देशेनैको वेति। अत्र केचित्– आवयोरयमिति परिभाष्य यो दत्तस्तस्येदं द्वयोः पित्रोः श्राद्धम्। यस्त्वपरिभाष्य दत्तः स ग्रहीतुरेव, स पालकायैव दद्यादित्याहुः। अत्र मूलं त एव प्रष्टव्याः।

वस्तुतस्तु- जनकस्य पुत्रपव्याद्यभावे दत्तको द्वयोर्दद्यादन्यथा पालकायैव; प्रागुक्तकात्यायनवचनात्। मानवीयमप्येतद्विषयमेव। गोत्रं तु श्राद्धे पालकस्यैव। विवाहादौ तूभयोरित्यादि मत्कृतप्रवरदर्पणे ज्ञेयम्। यस्तु मूल्यकीतायां परभार्यायां दास्यां चोत्पन्नः स बीजिन एव दद्यात्। मूल्यं विना स्वयमुपनतायां तु क्षेत्रिण एव। तदुक्तं पृथ्वीचन्द्रोदये कौर्मे- 'अनियोगात्सुतो यस्तु शुल्कतो जायते त्विह। प्रदद्याद्वीजिने पिण्डं क्षेत्रिणे तु तन्तोऽन्यथा॥' इति। क्षेत्रजादेर्विशेषस्तु कलौ तदभावान्नोच्यत इति दिक्॥ जारजानां विशेषमाहापरार्के नारदः- 'जायन्ते त्वनियुक्तायामेकेन बहुभिस्तथा। अरिक्थभाजस्ते सर्वे बीजिनामेव ते सुताः॥ दद्युस्ते बीजिने पिण्डं माता चेच्छुल्कतो हृता। अशुल्कोपहृतायां तु पिण्डदा वोढुरेव ते॥ '

धर्मार्थं श्राद्धकरणे फलमाह चन्द्रिकायां शातातपः- 'प्रीत्या श्राद्धं तु कर्तव्यं सर्वेषां वर्णलिङ्गिनाम्। एवं कुर्वन्नरः सम्यङ् महतीं श्रियमाप्नुयात्॥' गयायामपि तत्रैव ब्रह्मवैवर्ते- 'आत्मजो वाथवाऽन्योऽपि गयाशीर्षे यदा तदा। यन्नाम्ना पातयेत्पिण्डं तन्नयेद्ब्रह्म शाश्वतम्॥' एतच्च यदा फलभूमार्थिना द्विस्त्रिर्वा क्रियते तदा प्रेतशिलाश्राद्धवर्ज्यं कुर्यात्, तस्य प्रेतत्वविमोक्षार्थत्वात् तस्य च जातत्वादिति केचित्। वस्तुतस्तु- सन्न्यासिश्राद्धवदत्रापि सर्वं कार्यं, साङ्गेऽधिकारादिति युक्तं प्रतीमः। सन्न्यस्तपित्रादिस्तु पितुः पित्रादिभ्यः सर्वश्राद्धेषु दद्यादित्युक्तं प्राक, वक्ष्यते च जीवत्पितृकश्राद्धे।

द्विजस्त्रिणा विशेष।—

अत्र स्त्रीशूद्राणां श्राद्धं मन्त्रवर्ज्यं तूष्णीं भवति; 'स्त्रीणाममन्त्रकं श्राद्धं तथा शुद्रासुतस्यं च। प्राग्विजाश्च व्रतादेशात्ते च कुर्युस्तथैव तत्॥” इति हेमाद्रौ मरीचिवचनात्, 'अयमेव विधिः प्रोक्तः शूद्राणां मन्त्रवर्जितः। अमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रेण गृह्यते॥' इति ब्राह्मोक्तेश्च। गृह्यते=सम्बद्ध्यते। अस्य श्राद्धप्रकरणे पाठेऽपि परिभाषात्वान्न प्रकरणे सङ्कोचो युक्तः। तेन शूद्रस्य स्नानदानादावपि विप्रेण मन्त्रपाठः कार्यः। 'अमन्त्रस्य' इति विशेषणात्स्त्रिया अपीति शूलपाणिः। यत्तु तेनोक्तं 'मन्त्रजन्यनियमादृष्टसिद्धिस्तु नमस्कारेण, अनुमतोऽस्य नमस्कारो मन्त्रः' इति गौतमोक्तेरिति, - तन्न; दृष्टद्वारैव हि तत्प्राप्तिर्न स्वातन्त्रेण। अन्यथा नखविपूतेऽप्यवघातजन्यादृष्टार्थ सोऽपि क्रियेतेति यत्किचिदेतत्। तेन 'पितॄणां नामगोत्रतः' इत्यादौ यत्र द्विजानामपि नाममन्त्र उक्तस्तत्र प्रतिप्रसवमात्रार्थ युक्तं न तिलावपनादावपि। अत्र केचित् - वैदिकमन्त्रो विप्रस्य, पौराणस्तु शूद्रैः पठनीयः; ‘न हि वेदेष्वधिकारः कचिच्छूद्रस्य विद्यते। पुराणेष्वधिकारो मे दर्शितो ब्राह्मणैरिह॥' इति तत्रैव पाद्मोक्तेरित्याहुः, गौडा अप्येवम्,– तन्न; 'नाध्येतव्यमिदं शास्त्रं वृषलस्य तु सन्निधौ।' इति कौर्मे पुराणनिषेधेन वेदस्य दूरापास्तत्वात्। 'अध्येतव्यं ब्राह्मणेन वैश्येन क्षत्रियेण च। श्रोतव्यमेव शूद्रेण नाध्येतव्यं कदाचन॥ श्रौतं स्मार्तं च वै धर्मं प्रोक्तमस्मिन्नृपोत्तम। तस्माच्छूद्रैर्विना विप्रं न श्रोतव्यं कदाचन॥' इति तत्रैव पुराणाधिकारे भविष्योक्तेश्च। एतेन 'नाध्येतव्यम्' इति निषेधो मन्त्रेतरपुराणपर इति श्रीदत्तादिमतमपास्तम्। तेन पौराणमन्त्राणामेव विप्रेण पाठो न वैदिकानामिति सिद्धम्। द्विजस्त्रियस्तु सङ्कल्पमात्रं स्वयं कृत्वा वैदिकमन्त्रयुक्तं सर्व ब्राह्मणद्वारा कारयेयुरिति प्रयोगपारिजातः। अत एव 'स्त्रीणाम्' इत्यकृतविवाहस्त्रीपरमिति हेमाद्रिराह। 'अनुपनीतस्तु वैदिकमन्त्रयुक्तं सर्वं स्वयमेव कुर्यात्' इत्युक्त प्राक्। यत्तु 'प्राग्द्विजाश्च व्रतादेशात्' इति, तदशक्तविषयमचूडविषयं च इति दिक्।

शूद्रस्य तु सदामश्राद्धमेव; 'सदा चैव तु शूद्राणामामश्राद्धं विधीयते।' इति सुमन्तूक्तेः। पृथ्वीचन्द्रोदये मात्स्येऽपि- 'एवं शूद्रोऽपि सामान्यं वृद्धिश्राद्धं च सर्वदा। नमस्कारेण मन्त्रेण कुर्यादामान्नवत्सदा॥' तत्रैव वृद्धपराशरः- 'आमान्नेन तु शूद्रस्य तूष्णीं तु द्विजपूजनम्। कृत्वा श्राद्धं तु निर्वाप्य सजातीनाशयेदथ॥' स एव - 'आमं शूद्रस्य पक्वान्नं पक्वमुच्छिष्टमुच्यते।' हेमाद्रौ भविष्ये– 'धर्मेप्सवस्तु धर्मज्ञा यदि शूद्राः प्रकुर्वते। अग्नौकरणमन्त्रश्च नमस्कारो विधीयते॥ आवाहनादि कर्तव्यं यथा शूद्रेण तच्छृणु। देवानां देवनाम्ना तु पितॄणां नामगोत्रतः॥' पिण्डादीन्निर्वपेद्वीर नामतो गोत्रतस्तथा॥' शूद्राणां गोत्राभावेऽपि काश्यपं गोत्रं ज्ञेयम्, 'तस्मादाहुः सर्वाः प्रजाः काश्यप्यः' इति श्रुतेः; 'गोत्रनाशे तु काश्यपः' इति व्याघ्रपादोक्तेश्चेति हेमाद्रिः। एवमन्यत्र गोत्राज्ञाने। एवं तर्पणादिषु च ज्ञेयम्। तत्रैव भविष्ये- 'शूद्रस्तु गृहपाकेन न पिण्डान्निर्वपेत्तथा। सक्तु मूलं फलं तस्य पायसं वा भवेत्स्मृतम्॥' गौतमः- 'अनुमतोऽस्य नमस्कारो मन्त्रः' इति। 'देवताभ्यः पितृभ्यश्च' इत्ययं नमस्कारमन्त्र इति केचित्। विज्ञानेश्वरोऽप्येवमाह। हेमाद्रिस्तु-'शूद्रोऽप्यमन्त्रवत्कुर्यादनेन विधिना बुधः।' इति मात्स्ये मन्त्रनिषेधान्नाममन्त्रेणेत्याह। पृथ्वीचन्द्रोदये स्कान्दे- 'राजकार्ये नियुक्तस्य बन्धनिग्रहवर्तिनः। व्यसनेषु च सर्वेषु श्राद्धं विप्रेण कारयेत्॥' यत्तु भारते राजधर्मेषु- 'यवनाः किराता गान्धाराश्चीनाः शबरबर्बराः। शकास्तुषाराः कङ्काश्च पह्लवाश्चान्ध्रमद्रकाः।' इत्युक्त्वा 'ब्रह्मक्षत्रप्रसूताश्च वैश्याः शूद्राश्च मानवाः। कथं धर्मंश्वरिष्यन्ति सर्वे विषयवासिनः॥' इति चोक्त्वा 'वेदधर्मक्रियाश्चैव तेषां धर्मो विधीयते। पितृयज्ञास्तथा कूपाः प्रपाश्च शयनानि च॥ दानानि च यथाकालं द्विजेभ्यो विसृजेत्सदा॥' तथा 'दक्षिणा सर्वयज्ञानां दातव्या भूतिमिच्छता। पाकयज्ञा महार्ह्यश्च कर्तव्याः सर्वदस्युभिः॥' इति म्लेच्छादीनां श्राद्धविधानं, तदपि सजातीयभोजनद्रव्यदानादिपरं न तु श्राद्धपरमिति। '

इति श्रीमन्नारायणभट्टसूरिसूनुरामकृष्णभट्टात्मजकमलाकर- भट्टकृते निर्णयसिन्धौ श्राद्धाधिकारिनिर्णयः॥

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬