निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
← निर्णयसिन्धु — परिच्छेद-सूची
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथ पितरः। हेमाद्रौ मात्स्यदेवलौ - 'नामगोत्रं पितॄणां तु प्रापकं हृव्यकव्ययोः। अग्निष्वात्तादयस्तेषामाधिपत्ये व्यवस्थिताः॥ नाममन्त्रास्तदादेशा भवान्तरगतानपि। प्राणिनः प्रीणयन्त्येव तदाहारत्वमागतान्॥ देवो यदि पिता जातः शुभकर्मानुयोगतः। तस्यान्नममृतं भूत्वा देवत्वेऽप्यनुगच्छति॥ गान्धर्वे भोगरूपेण पशुत्वे च तृणं भवेत्। श्राद्धान्नं वायुरूपेण नागत्वेऽप्युपतिष्ठति॥ पानं भवति यक्षत्वे राक्षसत्वे तथामिपम्। दनुजत्वे तथा मद्यं प्रेतत्वे रुधिरोदकम्॥मनुष्यत्वेऽन्नपानादि नामाभोगकरं भवेत्॥' अत्र पित्रादिशब्दैर्जनकादीनामेव देवतात्वमुच्यते, न वस्वादीनाम्। 'असावेतत्ते इति यजमानस्य पित्रे' इति शतपथश्रुतेः, 'यस्य पिता प्रेतः स्यात्स पित्रे पिण्डं निधाय' इति विष्ण्वादिस्मृतेश्च। यत्तु मनु-देवलौ - 'वसवः पितरो ज्ञेया रुद्रा ज्ञेयाः पितामहाः।
प्रपितामहास्तथादित्याः श्रुतिरेषा सनातनी॥' यच्च याज्ञवल्क्यः- 'वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः।' इति, तदभेदध्यानार्थम्। यानि तु हेमाद्रौ नन्दिपुराणे- 'विष्णुः पिताऽस्य जगतो दिव्यो यज्ञः स एव च। ब्रह्मा पितामहो ज्ञेयो ह्यहं च प्रपितामहः॥' इति, यच्च भविष्ये- 'अनिरुद्धः स्वयं ज्ञेयः प्रद्युम्नश्च पिता स्मृतः। सङ्कर्षणस्तज्जनको वासुदेवस्तु तत्पिता॥ " स्वयं=कर्ता, यत्तु तत्रैव- 'प्रथमो वरुणो ज्ञेयः प्राजापत्यस्तथापरः। तृतीयोऽग्निः स्मृतः पिण्डो ह्येष पिण्डविधिः स्मृतः॥', यच्च मनुः - 'सोमपा नाम विप्राणां क्षत्रियाणां हविर्भुजः। वैश्यानामाज्यपा नाम शूद्राणां तु सुकालिनः॥', यच्चादित्यपुराणे–‘मासाश्च पितरो ज्ञेया ऋतवश्च पितामहाः। संवत्सरः प्रजानां च सुष्ठ्वेकः प्रपितामहः॥', यच्च नन्दिपुराणे- 'अग्निष्वात्ता ब्राह्मणानां पितरः परिकीर्तिताः। राज्ञां बर्हिषदो नाम विशां काव्याः प्रकीर्तिताः॥सुकालिनस्तु शूद्राणां व्यामा म्लेच्छान्त्यजातिषु॥' अत्रावाहनादिषु पित्रादयः समुच्चयेन विकल्पेन वा यथाचारं तत्तद्देवतारूपेण वाच्या इति हेमाद्य्रादयः।
हेमाद्रौ ब्राह्मे - 'पार्वणं कुरुते यस्तु केवलं पितृहेतुकम्। मातामह्यं न कुरुते पितृहा स प्रजायते॥' धौम्यः- 'पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवम्। अविशेषेण कर्तव्यं विशेपान्नरकं व्रजेत्॥' अस्यापवादमाह कात्यायनः- 'कर्षुसमन्वितं मुक्त्वा तथाद्यं श्राद्धषोडशम्। प्रत्याब्दिकं तु शेषेषु पिण्डाः स्युः पडिति स्थितिः॥' कर्षुसमन्वितं=सपिण्डीकरणम्। दर्शादौ सपत्नीकानामेव देवतात्वम् ; 'स्वेन भत्र समं श्राद्धं माता भुङ्क्ते सुधासमम्। पितामही च स्वेनैव तथैव प्रपितामही॥' इति तत्रैवोक्तेः, चन्द्रिकायां चतुर्विशतिमते- 'क्षयाह वर्जयित्वैक स्त्रीणां नास्ति पृथक् क्रिया। केचिदिच्छन्ति नारीणां पृथक् श्राद्धं महर्षयः॥ अन्वष्टकासु वृद्धौ च गयायां च क्षयेऽहनि। अत्र मातुः पृथक् श्राद्धमन्यत्र पतिना सह'॥ इति कात्यायनोक्तेश्च। अस्य निमूर्लतां वदन्तो गौडास्त्वज्ञा एव। अत्र ‘भागः' इत्यध्याहारः; अन्यथा 'सपतिकायै मात्रे' इति प्रयोगापत्तेः। 'अत्र मातृशब्दो जनन्यामेव मुख्यः। तेन सपत्नमातृभ्यो न दद्यात्। एवं पितामह्यादिशब्दैः पितृजनन्यादय एवोच्यन्ते इति तत्सपत्नीभ्यो न देयम्' इति हेमाद्रिः। 'कारुण्येन तु महालयादौ देयम्' इति स एव॥
अथ विश्वेदेवाः। हेमाद्रौ शङ्खबृहस्पती- 'इष्टिश्राद्धे कतूदक्ष सत्यौ नान्दीमुखे वसू। नैमित्तिके कामकालौ काम्ये च धुरिलोचनौ॥ पुरूरवार्द्रवौ चैव पार्वणे समुदाहृतौ॥' तत्रैव 'उत्पत्ति नाम चैतेषां न विदुर्ये द्विजातयः। अयमुच्चारणीयस्तैः श्लोकः श्रद्धासमन्वितैः॥ आगच्छन्तु महाभागा विश्वेदेवा महाबलाः। ये अत्र विहिताः श्राद्धे सावधाना भवन्तु ते॥' इति। 'इष्टिश्राद्धं श्राद्धं प्रति रुचिरित्युक्तम्' इति कल्पतरुः। आधानादिकर्माङ्गमित्यन्ये। नैमित्तिकमेकोद्दिष्टम्; 'एकोद्दिष्टं तु यच्छ्राद्धं तन्नैमित्तिकमुच्यते।' इति भविष्योक्तेः। एतद्यद्यपि 'एकोद्दिष्टं देवहीनम्' इति तत्र विश्वेदेवनिषेधस्तथापि नवश्राद्धे द्वादशमासिके च कामकालौ ज्ञेयौ; 'नवश्राद्धं दशाहानि नवमिश्रं तु षडृतून्। अतः परं पुराणं वै त्रिविधं श्राद्धमुच्यते॥ यस्मिन्नेव पुराणे वा विश्वेदेवा न लेभिरे। आसुरं तद्भवेच्छ्राद्धं वृषलं मन्त्रवर्जितम्॥' इति बह्वृचपरिशिष्टात्। एतच्च बह्वृचानामेव; तेषामेवोक्तेः। अन्येषां तु 'नात्र विश्वेदेवाः' इति कात्यायनोक्तेस्तन्निषेध एवेति पृथ्वीचन्द्रोदयः। अन्ये तु नैमित्तिकं सपिण्डीकरणमाहुः। भविष्ये यद्यप्येकोद्दिष्टं तच्छब्देनोक्तं, तथापि 'तदप्यदैवं कर्तव्यमयुग्मान्भोजयेद्द्विजान्।' इति तत्रैव विश्वेदेवनिषेधात्। यद्यपि सपिण्डीकरणेऽंशत एकोद्दिष्टत्वं तथापि 'सपिण्डीकरणश्राद्धं देवपूर्वं नियोजयेत्'। इति वचनात्तत्परत्वम्। हेमाद्रावादित्यपुराणे-'विश्वेदेवौ क्रतुर्दक्षः सर्वास्विष्टिषु कीर्तितौ। नित्ये नान्दीमुखे श्राद्धे वसू सत्यौ च, पैतृके॥ नवान्नलम्भने देवौ कामकालौ सदैव हि। अपि कन्यागते सूर्य काम्ये च धुरिलोचनौ। पुरूरवार्द्रवौ चैव विश्वेदेवौ तु पार्वणे॥' क्वचिद्विश्वेदेवापवादमाह हेमाद्रौ शातातपः– 'नित्यं श्राद्धमदैवं स्यादेकोद्दिष्टं तथैव च। मातुः श्राद्ध च युग्मैः स्याददैवं प्राङ्मुखैः पृथक्॥ योजयेद्देवपूर्वाणि श्राद्धान्यन्यानि यत्नतः॥' नान्दीश्राद्धे भिन्नप्रयोगपक्षे मातुः श्राद्धमदैवमिति हेमाद्रिः।
अथ विप्राः। ते चोत्तममध्यमाधमभेदेन त्रिविधाः। तत्राद्याः। अत्र मदीयाः श्लोकाः– 'त्रिनाचिकेतस्त्रिमधुश्च बह्वृचोऽप्याथर्वणो याजुषसामगौ च। पडङ्गविच्च त्रिसुपर्णवेत्ताऽप्यथर्वशीर्णोऽध्ययन रतश्च॥ शतायुर्वेदार्थविदौ प्रवक्ता स्याद्ब्रह्मचारी च तथाग्निचिच्च। सीदद्वृत्तिः सत्यवाक्पूरुषैः स्वैर्मातापित्रोः पञ्चभिः ख्यातवंशः। पत्नीयुक्तो ज्येष्ठसामा पुराणवेत्ता पुत्री चेतिहासेष्वभिज्ञः। योगी भिक्षुः सामगो ब्रह्मवेत्ता पञ्चाग्निश्च श्रोत्रियस्तत्सुतो वा॥ शम्भुध्यायी श्रीशपादाब्जसेवी पान्थश्चैते तूत्तमाः सम्प्रदिष्टाः। भिक्षुर्याेगी पान्थ एते त्वलभ्या भाग्याल्लब्धाश्चेत्तदा भोजनीयाः॥ श्राद्धे विप्रेषूपविष्टेषु पश्चात्सप्राप्ताश्चेद्विप्रपङ्क्तौ तु भोज्याः॥' अत्र मूलं हेमाद्रौ ज्ञेयम्। तत्रैव नारदः — 'यो वै यतीननादृत्य भोजयेदितरान् द्विजान्। विजानन् वसतो ग्रामे कव्य तद्याति राक्षसान्॥' दीपकलिकायां दक्षः - 'विना मांसेन मधुना विना दक्षिणयाशिपा। परिपूर्णं भवेच्छ्राद्धं यतिषु श्राद्धभोजिषु॥' – एतच्च ज्ञानिविषयम्। 'त्रिणाचिकेतत्रिसुपर्णो यजुर्वैदैकदेशौ तद्वतेन तदध्यायिनौ, 'यस्य सप्त पूर्वे सोमपाः स त्रिसुपर्णः' इति बोपदेवः। सत्रिमधुर्ऋग्वेदैकदेशस्तदध्यायी। केचिन्नाचिकेतं चयनं त्रिः कृतवानित्यर्थमाहुः, -तद्वेमाद्रिविरुद्धम्। हेमाद्रौ गौतमः- 'युवभ्यो दानं प्रथमं पितृवयसः' इत्येके। मात्स्ये मनुः - 'यश्चव्याकुरुते वाचं यश्च मीमांसतेऽध्वरम्\। सामस्वरविविज्ञश्च पङ्किपावनपावनाः॥' कौर्मे-'असमानप्रवरको ह्यसगोत्रस्तथैव च। असम्बन्धी च विज्ञेयो ब्राह्मणः श्राद्धसिद्धये॥' गारुडे - 'श्राद्धेषु विनियोज्यास्ते ब्राह्मणा ब्रह्मवित्तमाः। ये योनिगोत्रमन्त्रान्तेवासिसम्बन्धवर्जिताः॥' मनुः– 'न मित्रं भोजयेच्छ्राद्धे धनैः कार्योऽस्य सङ्ग्रहः। नारिं न मित्रं यो विद्यात्तं तु श्राद्धे निमन्त्रयेत्॥' द्वयोर्भ्रात्रोः श्राद्धे भोजनं निषिद्धम्; 'पितृपुत्रौ भ्रातरौ द्वौ निरनिं गुर्विणीपतिम्। सगोत्रप्रवरं चैव श्राद्धेषु परिवर्जयेत्॥' इति श्राद्धदीपकलिकायां जातकर्ण्योक्तेः।
अथ मध्यमाः। हेमाद्रौ कौर्म-गार्ग्यै- 'नैकगोत्रे हविर्दद्याद्यथा कन्या तथा हविः। अभावे ह्यन्यगोत्राणामेकगोत्रांस्तु भोजयेत्॥ अत्र केचित्- स्वशाखीयान्मुख्यानाहुः पठन्ति च- 'निमन्त्रयीत पूर्वेद्युः स्वशाखीयान्द्विजोत्तमान्॥स्वशाखीयद्विजाभावे द्विजानन्यानिमन्त्रयेत्॥' इति।–इदं तु निर्मूलत्वाद्धेमाद्रिणा दूषितत्वाच्चोपेक्ष्यम्। मनुरपि-‘यत्नेन भोजयेच्छ्राद्धे ब्राह्मणं वेदपारगम्। शाखान्तगमथाध्वर्युं छन्दोगं वा समाप्तिगम्॥ एपामन्यतमो यस्य भुञ्जीत श्राद्धमर्चितः। पितॄणां तस्य तृप्तिः स्याच्छाश्वती साप्तपौरुषी॥' अत्र मामकः श्लोकः- 'मातामहो मातुलभागिनेयदौहित्रजामातृगुरुस्वशिष्याः। ऋत्विक् च याज्यश्वशुरौ स्वबन्धुश्याला गुणाढ्यास्त्वनुकल्पभूताः॥' 'बन्धवः= मातृष्वसृपितृष्वसृमातुलपुत्राः' इति बोपदेवः। अत्र मूलं हेमाद्रौ ज्ञेयम्। सगुणस्वत्रीयाद्यतिक्रमे दोष एव; 'सप्त पूर्वान्सप्त परान् पुरुषानात्मना सह। अतिक्रम्य द्विजानेतान्नरके पातयेत्खग॥ सम्बन्धिनस्तथा सर्वान्दौहित्रं विट्पतिं तथा। भागिनेयं विशेषेण तथा वन्धुं खगाधिप॥ इति मदनरत्ने भविष्योक्तेः। अत एव याज्ञवल्क्यः- 'ब्राह्मणप्रतिवेश्यानामेतदेवानिमन्त्रणे' इति गुण्यतिक्रमे दशपणं दण्डमाह। आसन्नमात्रपरमिदम्। मूर्खे तु न दोषः; 'ब्राह्मणातिक्रमो नास्ति मूर्खे चैव विवर्जिते। ज्वलन्तमग्निमुत्सृज्य नहि भस्मनि हूयते॥ इति कात्यायनोक्तेः। विप्रस्यापि दोषः; 'अविद्वान्प्रतिगृह्णानो भस्मीभवति दारुवत्।' इति मनूक्तेः। अपरार्के अत्रिः- 'षड्भ्यस्तु पुरुषेभ्योऽर्वागश्राद्धेयास्तु गोत्रिणः। पड्भ्यस्तु परतो भोज्याः श्राद्धे स्युर्गोत्रजा अपि॥’-एतच्च ब्राह्मणालाभे, 'अपि'शब्दात्। असभवे हेमाद्रौ गौतमः-'शिष्यांश्चैके सगोत्रांश्च भोजयेदूर्ध्व त्रिभ्यो गुणवतः'। आपस्तम्बः– 'ब्राह्मणान्भोजयेद्योनिगोत्रमन्त्रान्तेवास्यसम्बन्धिनः। गुणहान्यां तु परेषां समुदितः सोदर्योऽपि भोजयितव्यः॥एतेनान्तेवासिनो व्याख्याताः' इति। अत्र विशेषमाहात्रिः- 'पिता पितामहो भ्राता पुत्रो वाऽथ सपिण्डकः। न परस्परमर्ध्याः स्युर्न श्राद्धे ऋत्विजस्तथा॥ ऋत्विक्पुत्रादयोऽप्येतेसकुल्या ब्राह्मणाः स्मृताः। वैश्वदेवे नियोक्तव्या यद्येते गुणवत्तराः॥ सगोत्रा न नियोक्तव्याः स्त्रियश्चैव विशेषतः॥' इति॥
अथ वर्ज्याः। अत्र मामकाः श्लोकाः-'वर्ज्यान् प्रवक्ष्ये त्वथ रोगिवैरिहीनाधिकाङ्गान् कितवान्कृतघ्नान्। नक्षत्रशास्त्रेण च जीवमानान्भैषज्यवृत्त्यापि च राजभृत्यान्॥ सङ्गीतकायस्थकुसीदवृत्त्या वेदक्रयेणापि कवित्ववृत्त्या। देवार्चनेनापि च जीवमानान् स्वाध्यायदाराग्निसुतोज्झकाणान्॥ दुर्वालखल्वाटकुनख्यधर्मिनटांश्च पौनर्भवकृष्णदन्तान्। अगारदाही गरदः समुद्रयायी च कुण्डाश्यथ कूटकारी॥ बालांश्च योऽध्यापयते स्वपुत्रादवाप्तविद्यस्त्वथ कुण्डगोलौ। अग्रेदिधिष्वाः पतिरस्त्रकर्ता सोमक्रयी तैलिककेकराक्षौ॥ युद्धाचार्यः पक्षिणां पोपकश्च स्रोतोभेत्ता वृक्षसंरोपकश्च। मेषाणां वा माहिषाणां च पुष्ट्या स्वीयस्त्रीषु प्रहितैर्यश्च जारैः। जीवत्यध्येतुश्च दत्तानुयोगाद्द्रव्यप्राध्यै वेदमुद्धाटयन्तः॥ ग्रामयाजिपशुकेशविक्रयीस्तेनशिल्पिपितृवादकारकान्। अर्थकामरतशूद्रयाजकश्मश्रुहीनजटिमुण्डिनिर्धृणान्॥ यस्य चैव गृहिणी रजस्वला स्वार्थपाकरतशापदायकान्। क्लीबकुष्ठ्यतिविलोहितेक्षणान् कुब्जवामनमृपाभिशापिनः॥ पुत्रहीनमथ कूटसाक्षिणं प्रातिहाविकमयाज्ययाजकम्। स्वात्मदातृपरिवेत्तृयाजकस्तेनहिंस्रकमुखान् विवर्जयेत्॥' अत्र मूलं हेमाद्रौ पृथ्वीचन्द्रोदये च ज्ञेयम्। भारते दानवर्भेषु श्राद्धवर्ज्यविप्राधिकारे- 'कितवो भ्रूणहा यक्ष्मी पशुपालो निराकृतिः। ग्राम्यप्रेष्यो वार्धुपिको गायकः सर्वविक्रयी॥ सामुद्रिको राजभृत्यस्तैलिकः कूटकारकः। पित्रा विवदमानश्च यस्य चोपपतिर्गृहे॥ अभिशस्तस्तथा स्तेनः शिल्पं यश्चोपजीवति। पर्वकारश्च सूची च मित्रध्रुक् पारदारिकः॥अव्रतानामुपाध्यायः काण्डपृष्ठस्तथैव च। श्वभिश्च यः परिक्रामेद्यः शुना दष्ट एव च॥ परिवित्तिस्तथा स्तेनो दुश्चमी गुरुतल्पगः। कुशीलवो देवलको नक्षत्रैर्यश्च जीवति॥ ईदृशा ब्राह्मणा ज्ञेया अपाङ्केया युधिष्ठिर॥' तथा 'ऋणकर्ता च यो राजन् यश्च वार्धुषिको नरः।' काण्डपृष्ठः स्वशाखां त्यक्त्वा परशाखयोपनीतस्तदध्यायी च। क्षत्रियवैश्यवृत्तौ नारदस्तु-'तस्यामेव तु यो वृत्तौ ब्राह्मणो वसते रसात्। काण्डपृष्ठश्युतो मार्गात्सोऽपाङ्क्तेयः प्रकीर्तितः॥' इत्याह। हारीतः– 'शूद्रापुत्राः स्वयन्दत्ता ये चैते क्रीतकाः सुताः। ते सर्वे मनुना प्रोक्ताः काण्डपृष्ठा न संशयः॥'
अन्येऽपि हेमाद्रौ मात्स्ये– 'त्रिशङ्कुन्वर्वरानन्ध्राश्चीनद्रविडकौङ्कणान्। कर्णाटकांस्तथाऽऽभीरान्कालिङ्गांश्च विवर्जयेत्॥' तत्रैव मौरपुराणे-'अङ्गवङ्गकलिङ्गाञ्च सौराष्ट्रान् गुर्जरांस्तथा। आभीरान्कौङ्कणांश्चैव द्राविडान्दाक्षिणायनान्॥ आवन्त्यान्मागधांश्चैव ब्राह्मणांस्तु विवर्जयेत्॥' चन्द्रिकायां यम: - 'काणाः कुब्जाश्च पण्ढाश्च कृतघ्ना गुरुतल्पगाः। मानकूटास्तुलाकूटाः शिल्पिनो ग्रामयाजकाः॥ राजभृत्यान्धवधिरमूकखल्वाटपङ्गवः। वणिजो मधुहर्तारो गरदा वनदाहकाः॥ समयानां च भेत्तारः प्रदाने ये निवारकाः। प्रव्रज्योपनिवृत्ताश्च वृथा प्रव्रजिताश्च ये। यश्च प्रव्रजिताज्जातः प्रव्रज्यावसितश्च यः। अवकीर्णी च वीरघ्नो गुरुघ्नः पितृदूषकः॥ श्राद्धकाशिकायां कात्यायनः- 'द्विर्नग्नः कीलदुश्चर्मा शुक्लोऽतिकपिलस्तथा। छिन्नौष्ठश्छिन्नलिङ्गश्च नैव केतनमर्हति॥' द्विर्नग्नः= पित्रोर्वंशे त्रिपुरुषं विच्छिन्नवेदाग्निः। हेमाद्रौ मरीचिः- 'अविद्धकर्णः कृष्णश्च लम्वकर्णस्तथैव च। वर्जनीयाः प्रयत्नेन ब्राह्मणाः श्राद्धकर्मणि॥' ब्राह्मे - 'मूकश्च पूतिनासश्च छिन्नाङ्गश्चाधिकाङ्गुलिः। गलरोगी च गडुमान् स्फुटिताङ्गश्च सज्वरः॥ पण्ढतूवरमन्दांश्च श्राद्धेष्वेतान्विवर्जयेत्॥' लम्बकर्णं चाह तत्रैव गोभिलः- 'हनुमूलादधः कर्णै लम्बौ तु परिकीर्तितौ। द्व्यङगुलौ त्र्यङ्गुलौ शस्ताविति शातातपोऽब्रवीत्॥' चन्द्रिकायां यमः- 'द्व्यङ्गुलातीतकर्णस्य भुञ्जते पितरो न तु।' पण्ढश्चात्र चन्द्रिकोक्तः सप्तविधो ग्राह्यः। यथा- 'पण्ढको वातजः पण्ढः पण्डः क्लीवो नपुंसकः। कीलकश्चेति सप्सैव क्लीवभेदाः प्रकीर्तिताः॥' पराशरमाधवीये तु चतुर्दशविधा उक्ताः। तेषां स्वरूपाणि तत्रैव ज्ञेयानि।
चन्द्रिकायां शातातपः- 'अग्निष्टोमादिभिर्यज्ञैर्ये यजन्त्यल्पदक्षिणैः। तेषामन्नं न भोक्तव्यमपाङ्कास्ते प्रकीर्तिताः॥' - एतच्च शक्तौ सत्याम्। अपरार्के भारते- 'अव्रती कितवः स्तेनः प्राणिविक्रयकोऽपि वा। पश्चाच्चेत्पीतवान्सोमं सोऽपि केतनमर्हति॥ श्राद्धदीपकलिकायां यमः- 'अपत्नीकश्च वर्ज्यः स्यात्सपत्नीकोऽप्यनग्निकः।' तत्रैवाश्वलायनः - 'प्रतिमाविक्रयं यो वै करोति पतितस्तु सः। जीवनार्थं पररास्थीनि धृत्वा तीर्थं ग्रयाति यः॥ मातापित्रोर्विना सोऽपि पतितः परिकीर्तितः॥' तत्रैव जातूकर्ण्यः- 'यत्र मातुलजोद्वाही यत्र वा वृपलीपतिः। श्राद्धं न गच्छेत्तद्विप्राः कृतं यच्च निरामिषम्॥ पितृपुत्रौ भ्रातरौ निरग्नि गुर्विणीपतिम्। सगोत्रप्रवरं चैव श्राद्धेषु परिवर्जयेत्॥' बृहन्नारदीये 'शङ्खं चक्रं मृदा यस्तु कुर्यात्तप्तायसेन वा। स शुद्रवहिः कार्यः सर्वस्माद्द्विजकर्मणः॥ शङ्खचक्राद्यङ्कनं च गीतनृत्यादिकं तथा। एकजातेरयं धर्मो न जातु स्याद्द्विजन्मनः॥' तेन ये तप्तमुद्रादिविधयस्ते शूद्रविषया इति। पृथ्वीचन्द्रोदये– 'शिवकेशवयोरङ्कान् शूलचक्रादिकान्द्विजः। न धारयेत मतिमान्वैदिके वर्त्मनि स्थितः॥' इत्याश्वलायनोक्तेश्च। नृत्यं चोदराद्यर्थ निषिद्धमिति श्रीधरस्वामी। अन्येऽपि निषेधा निबन्धेषु ज्ञेया इति दिक्।
अत्र विप्राणां ग्राह्यत्वोत्त्यैव तद्वर्ज्यानां निषेधे सिद्धे पुनर्वर्ज्यपरिगणनं निषिद्धवर्ज्यनिर्गुणप्राप्त्यर्थमिति विज्ञानेश्वरः। कुष्ठिकाणादेरपवादो हेमाद्रौ वसिष्ठः- 'अपि चेन्मन्त्रविद्युक्तः शारीरैः पङ्किदूषणैः। अदूष्यं तं यमः प्राह पङ्किपावन एव सः॥' क्वचिद्विप्राणां जातिमात्रेण ग्राह्यत्वमुक्तम्। चन्द्रिकायामाग्नेये-'यदि पुत्रो गयां गच्छेत्कदाचित्कालपर्ययात्। तानेव भोजयेद्विप्रान्ब्रह्मणा ये प्रकल्पिताः॥ ब्रह्मणा कृतसंस्थाना विप्रा ब्रह्मसमाः स्मृताः॥ अमानुषा गयाविप्रा ब्रह्मणा ये प्रकल्पिताः। तेषु तुष्टेषु सन्तुष्टाः पितृभिः सह देवताः॥' तत्रैव- 'न विचार्यं कुलं शीलं विद्या च तप एव च। पूजितैस्तैस्तु सन्तुष्टा देवाः सपितृगुह्यकाः॥’ गयायां निर्गुणा अपि ते एव भोज्या इति हेमाद्रौ। अक्षय्यवटश्राद्ध एव तन्नियमो नान्यत्रेति त्रिस्थलीसेतौ पितामहचरणाः। पृथ्वीचन्द्रोदयेऽपि पाद्मे 'तीर्थेषु ब्राह्मणं नैव परीक्षेत कदाचन। अन्नार्थिनमनुप्राप्तं भोज्यं तं मनुब्रतवीत्॥' स्कान्देऽपि- 'ब्राह्मणान्न परीक्षेत तीर्थे क्षेत्रनिवासिनः।' मधुः- 'न ब्राह्मणं परीक्षेत दैवे कर्मणि धर्मवित्। पित्र्ये कर्मणि तु प्राप्ते परीक्षेत प्रयत्नतः॥' -असम्भवपरमेतदिति मेधातिथिः। हेमाद्रौ व्यासः- 'गायत्रीसारमात्रोऽपि वरं विप्रः सुयन्त्रितः। नायन्त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी॥ काणाः कूटाश्च कुब्जाश्च दरिद्रा व्याधितास्तथा। सर्वे श्राद्धे नियोक्तव्या मिश्रिता वेदपारगैः॥'
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा