🕉️ 24 November 2026, Tuesday · 08:21:37 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← निर्णयसिन्धु — परिच्छेद-सूची

📖 निर्णयसिन्धु · तृतीय परिच्छेद (उत्तरार्ध) — श्राद्ध, आशौच व अन्त्यकर्म · पृष्ठ 55/87

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

विप्रनिमन्त्रणम्

अथ विप्रनिमन्त्रणम्। चन्द्रिकायां वाराहे- 'वस्त्रशौचादि कर्तव्यं श्वः कर्तास्मीति जानता। स्थानोपलेपनं कृत्वा ततो विप्रान्निमन्त्रयेत्॥ दन्तकाष्ठं च विसृजेद्ब्रह्मचारी शुचिर्भवेत्॥' तत्रैव प्रचेताः - 'दक्षिणं चरणं विप्रः सव्यं वै क्षत्रियस्तथा। पादावादाय वैश्यो द्वौ शूद्रः प्रणतिपूर्वकम्॥' बृहस्पतिः- 'उपवीती ततो भूत्वा देवार्थं तु द्विजोत्तमान्। अपसव्येन पित्र्येऽथ स्वयं शिष्योऽथवा सुतः॥' प्रचेताः- 'सवर्णं प्रेषयेदाप्तं द्विजानां तु निमन्त्रणे।' पृथ्वीचन्द्रोदये स्कान्दे- 'राजकार्ये नियुक्तस्य बन्धनिग्रहवर्तिनः। व्यसनेषु च सर्वेषु श्राद्धं विप्रेण कारयेत्॥' चन्द्रिकायां यमः- 'अभोज्यं ब्राह्मणस्यान्नं वृषलेन निमन्त्रितम्। तथैव वृषलस्यान्नं ब्राह्मणेन निमन्त्रितम्॥' तत्रैव पैठीनसिः- 'सप्त पञ्च द्वौ वा श्रोत्रियान्निमन्त्रयेत्।' आश्वलायनसूत्रेऽपि- 'एकैकमेकैकस्य द्वौ द्वौ त्रीस्त्रीन्वा वृद्धौ फलभूयस्त्वम्'। द्वाविति वृद्धिश्राद्धे। गौतमः- 'नवावरान् भोजयेदयुजो वा यथोत्साहम्'। याज्ञवल्क्यः- 'दौ दैवे प्राक् त्रयः पित्र्ये उदगेकैकमेव वा। मातामहानामप्येवं तन्त्रं वा वैश्वदेविकम्॥' दीपकलिकायां पराशरः- 'सम्पत्तावथ पात्राणामेकैकस्य त्रयस्त्रयः। पितादेर्ब्राह्मणाः प्रोक्ताश्चत्वारो वैश्वदेविके॥' वृद्धयाज्ञवल्क्यः- 'दशैकं पञ्च वा विप्रान् पार्वणे विनियोजयेत्॥' अत्र वैश्वदेवे द्वौ चतुरो वोपवेश्य पित्रादीनामेकैकस्य स्थाने एकं त्रीन् पञ्च सप्त नव वोपवेशयेदिति निक्षुण्णोऽर्थः। मनुः- 'द्वौ दैवे पितृकृत्ये त्रीनेकैकमुभयत्र वा। भोजयेत्सुसमृद्धोऽपि न प्रसज्जेत विस्तरे॥ सत्क्रियां देशकालौ च शौचं ब्राह्मणसम्पदः। पञ्चैतान्विस्तरो हन्ति तस्मान्नेहेत विस्तरम्॥ पृथ्वीचन्द्रोदये शातातपः- 'द्वौ दैवेऽथर्वणौ विप्रौ प्राङ्मुखावुपवेशयेत्। पित्र्ये तूदङ्मुखांस्त्रींश्च वह्वृचाध्वर्युसामगान्॥' अत्यशक्तौ हेमाद्रौ देवलः- 'एकेनापि हि विप्रेण षटुपिण्डं श्राद्धमाचरेत्। पडर्ध्यान् दापयेत्तत्र षड्भ्यो दद्यात्तथा हविः॥' गोभिलः-'यद्येक भोजयेाच्छ्राद्धे छन्दोगं तत्र भोजयेत्। ऋचो यजूंषि सामानि त्रितयं तत्र विद्यते॥

अत्र वैश्वदेवे विशेषमाह तत्रैव वसिष्ठः- 'यद्येकं भोजयेच्छ्राद्धे दैवं तत्र कथं भवेत्। अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य च॥ देवतायतने कृत्वा ततः श्राद्धं समाचरेत्। प्रास्येदग्नौ तदन्नं तु दद्याद्वा ब्रह्मचारिणे॥ एतच्च सपिण्डीकरणवर्ज्य ज्ञेयम्; 'नत्वेवैकं सर्वेषां काममनाद्ये' इत्याश्वलायनोक्तेः। अस्यार्थ उक्तो नारायणवृत्तौ- 'आद्यं सपिण्डीकरणं तद्वर्ज्येषु श्राद्धेषु कामं त्रयाणामेकं भोजयेत्, सपिण्डीकरणे तु नियतं त्रिभिर्भवितव्यम्' इति। अनाद्ये पार्वणवर्जिते वा अभोजने आमहेमश्राद्धादौ वा। अन्नाभावे चेति व्याख्यान्तरं तत्रैव ज्ञेयम्। कारिकापि- 'दैवे पित्र्येऽथ वैकैकं सपिण्डीकरणं विना।' इति। अत्रैकविप्रे साग्नेर्विशेषमाह पृथ्वीचन्द्रोदये प्रचेताः- 'एकस्मिन् ब्राह्मणे दैवे साग्नेरग्निर्भवेत्सदा। अनग्नेः कुशमुष्टिः स्याच्छ्राद्धकर्मणि सर्वतः॥' सर्वथा विप्रालाभे तत्रैव हेमाद्रौ च सत्यव्रतः- निधाय दर्भनिचयमासनेषु समाहितः। प्रौषानुप्रेषसंयुक्तं सर्वं श्राद्धं प्रकल्पयेत्॥' ‘अत्रानन्यभावात्सत्रे इव ऋत्विक्कार्ये यजमानविधौ न दक्षिणा' इति केचित् तन्न; अदृष्टार्थाया दक्षिणायाः प्राप्तेः, 'सर्व तन्त्रिजटे तुभ्यं यच्च श्राद्धमदक्षिणम्।' इति पाद्मात्; 'विदध्याद्धौत्रमन्यश्चेद्दक्षिणार्धहरो भवेत्। स्वयं चेदुभयं कुर्यादन्यस्मै प्रतिपादयेत्॥' इति छन्दोगपरिशिष्टाच्च। एवं यतिश्राद्धेऽपि कात्यायनः- 'यज्ञवस्तुनि मुष्टौ च स्तम्भे दर्भबटौ तथा। दर्भसङ्ख्या न विहिता विष्टरास्तरणेषु च॥' मातृश्राद्धे तु विप्रालाभे सुवासिन्योऽपि भोजनीया इत्याहापरार्के वृद्धवसिष्ठः- 'मातृश्राद्धे तु विप्राणामलाभे पूजयेदपि। पतिपुत्रान्विता भव्या योषितोऽष्टौ कुलोद्भवाः॥' इति। 'अष्टौ' इति वृद्धिश्राद्धविषयम्।

पाद्मे उत्तरखण्डे- 'सकृदभ्यर्चितं लिङ्ग शालग्रामशिलां च यः। पीठे संस्थापयित्वा तु श्राद्धं च कुरुते नरः॥ पितरस्तस्य तिष्ठन्ति कल्पकोटिशतं दिवि॥' चन्द्रिकायां मात्स्ये- 'पठन्निमध्य नियमान् श्रावयेत्पैतृकान् बुधः। अक्रोधनैः शौचपरैः सततं ब्रह्मचारिभिः। भवितव्यं भवद्भिश्च मया च श्राद्धकारिणा॥' यत्तु मनुः- 'सर्वायासविनिर्मुक्तैः कामक्रोधविवर्जितैः। भवितव्यं भवद्भिर्नः श्वोभूते श्राद्धकर्मणि॥ इति तत्पूर्वेद्युर्निमन्त्रणपरं, न तदहः। तत्रैव देवलः- 'असम्भवे परेद्युर्वा ब्राह्मणांस्तान्निमन्त्रयेत्। अज्ञातीनसमानार्षानयुग्मानात्मशक्तितः॥' कात्यायनः- 'अनिन्द्येनामन्त्रितो नापकामेत्', 'केतनं गृह्य शक्तः।'

श्राद्धकर्तृभोक्तृनियमाः

अथ श्राद्धकर्तृभोक्तृनियमाः। तत्र निमन्त्रितविप्रत्यागेऽपरार्के यमः- 'केतनं कारयित्वा तु योऽतिपातयति द्विजम्। ब्रह्महत्यामवाप्नोति शूद्रयोनौ च जायते॥ आमन्त्र्य ब्राह्मणं यस्तु यथान्यायं न पूजयेत्। अतिकृच्छ्रासु घोरासु तिर्यग्योनिषु जायते॥' प्रमादात्त्यागे तु हारीतः–‘प्रमादाद्विस्मृतं ज्ञात्वा प्रसाद्यैनं प्रयत्नतः। तर्पयित्वा यथान्यायं सर्व तत् फलमश्नुते॥' प्रमादाभावे तु नारायणः- 'एतस्मिन्ननसि प्राप्ते ब्राह्मणो नियतः शुचिः। यतिचान्द्रायणं कृत्वा तस्मात्पापात्प्रमुच्यते॥' यमः- 'आमन्त्रितस्तु यो विप्रो भोक्तुमन्यत्र गच्छति। नरकाणां शतं गत्वा चाण्डालेष्वभिजायते॥' तत्रैव देवलः- पूर्वं निमन्त्रितोऽन्येन कुर्यादन्यप्रतिग्रहम्। भुक्ताहारोऽथवा भुते सुकृतं तस्य नश्यति॥' यदि विप्रो विलम्बेत तदोक्तमादित्यपुराणे- 'आमन्त्रितश्चिरं नैव कुर्याद्विप्रः कदाचन। देवतानां पितॄणां च दातुरन्नस्य चैव हि॥ चिरकारी भवेद्द्रोही पच्यते नरकाग्निना॥' पृथ्वीचन्द्रोदये यमः- 'निमन्त्रितस्तु यो विप्रो ह्यध्वान याति दुर्मतिः। भवन्ति पितरस्तस्य तं मासं पांसुभोजनाः॥ आमन्त्रितस्तु यः श्राद्धे हिसां वै कुरुते द्विजः। पितरस्तस्य तं मासं भवन्ति रुधिराशनाः॥ आमन्त्रितस्तु यः श्राद्धे भारमुद्वहते द्विजः। पितरस्तस्य तं मासं भवन्ति स्वेदभोजनाः॥ निमन्त्रितस्तु यो विप्रः प्रकुर्यात्कलहं यदि। पितरस्तस्यं तं मासं भवन्ति मलभोजनाः॥'

शङ्खः- 'निमन्त्रितस्तु यः श्राद्धे मैथुनं सेवते द्विजः। श्राद्धं दत्त्वा च भुक्त्वा च युक्तः स्यान्महतैनसा॥' मैथुनम् ऋतावपि निषिद्धम्; 'ऋतुकाले नियुक्तो वा नैव गच्छेत्स्त्रियं क्वचित्। तत्र गच्छन्नवाप्नोति ह्यनिष्टानि फलानि तु॥' इति तत्र माधवीये च वृद्धमनूक्तेः; 'श्राद्धं करिष्यन् कृत्वा वा भुक्त्वा वाऽपि निमन्त्रितः। उपोष्य च तथा भुक्त्वा नोपेयाच्च ऋतावपि॥ भोक्ष्यन् करिष्यन् वः श्राद्धं पूर्वरात्रौ प्रयत्नतः। व्यवायं भोजनं चापि ऋतावपि विवर्जयेत्॥' इति तत्रैवाश्वलायनोक्तेश्च। विज्ञानेश्वरेण तु श्राद्धे ऋतौ गच्छतोऽपि न दोष इत्युक्तं, तत्त्वगतिकगतित्वे ज्ञेयम्॥ बृहस्पतिः- 'द्विनिशं ब्रह्मचारी स्याच्छ्राद्धकृद्ब्राह्मणैः सह। अन्यथा वर्तमानौ तु स्यातां निरयगामिनौ॥ पुनर्भोजनमध्वानं भारमायासमैथुनम्। श्राद्धकृच्छ्राद्धमुक् चैव सर्वमेतद्विवर्जयेत्। स्वाध्यायं कलहं चैव दिवास्वापं तथैव च॥' यत्तु श्राद्धकारिकायां पुराणसमुच्चये- 'कृत्वा तु रुधिरस्रावं न विद्वान् श्राद्धमाचरेत्। एकं द्वे त्रीणि वा विद्वान् दिनानि परिवर्जयेत्॥' इति, -तन्निर्मूलम्। पृथ्वीचन्द्रोदये यमः- 'पुनर्भोजनमध्वानं भाराध्ययनमैथुनम्। सन्ध्यां प्रतिग्रहं होमं श्राद्धभोक्ताऽष्ट वर्जयेत्॥' इति। सन्ध्यानिषेधः प्रायश्चित्तात् पूर्वं ज्ञेयः। यथाहोशनाः- 'दशकृत्वः पिबेदापो गायत्र्या श्राद्धभुक् द्विजः। ततः सन्ध्यामुपासीत जपेच्चजुहुयादपि॥' गौडास्तु-'सायंसन्ध्यां परान्नं च छेदनं च वनस्पतेः। अमावास्यां न कुर्वीत रात्रिभोजनमेव च॥ द्यूतं च कलहं चैव सायंसन्ध्यां दिवाशयम्। श्राद्धकर्ता च भोक्ता च पुनर्भुक्तिं च वर्जयेत्' इति कामधेनौ वाराहाद्युक्तेः श्राद्धकर्तुरपि सायंसन्ध्यानिषेधमाहुः। शिष्टास्त्वस्य निर्मूलत्वमाहुः। होमनिषेधस्तु स्वविषयः; 'सूतके च प्रवासे च अशक्तौ श्राद्धभोजने। एवमादिनिमित्तेषु हावयेन्न तु हापयेत्॥' इति छन्दोगपरिशिष्टात्। तत्रैवादित्यपुराणे- 'निमन्त्रितस्तु न श्राद्धे कुर्याद्भार्यादिताडनम्।' चन्द्रिकायां प्रचेताः-'श्राद्धभुक् प्रातरुत्थाय प्रकुर्याद्दन्तधावनम्। श्राद्धकर्ता न कुर्वीत दन्तानां धावनं बुधः॥' हेमाद्रौ जाबालिः- 'दन्तधावनताम्बूले तैलाभ्यङ्गमभोजनम्। रत्यौषधं परान्नं च श्राद्धकृत्सप्त वर्जयेत्॥' इति। विष्णुरहस्ये– 'श्राद्धोपवासदिवसे खादित्वा दन्तधावनम्। गायत्र्या शतसम्पूतमम्बु प्राश्य विशुध्यति॥ पुनर्भोजनमध्वानं यानमायासमैथुनम्। दानप्रतिग्रहौ होमं श्राद्धभुक् त्वष्ट वर्जयेत्॥ सोमोत्पत्तौ- 'वनस्पतिगते सोमे यस्तु हिंस्याद्वनस्पतिम्। घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः॥' एतद्विहितेध्मादिव्यतिरेकेण। ‘वनस्पतिगते सोमेऽनडुहो यस्तु वाहयेत्। नाश्नन्ति पितरस्तस्य दश वर्षाणि पञ्च च॥ 'वनस्पतिगते सोमे पन्थानं यस्तु कारयेत्। गावस्तस्य प्रणश्यन्ति चिरकालमुपस्थिताः॥' वनस्पतिगत स्वरूपमाह पृथ्वीचन्द्रोदये व्यासः- 'त्रिमुहूर्त वसेदर्के त्रिमुहूर्तं वसेज्जले। त्रिमुहूर्त वसेद्गोषु त्रिमुहूर्तं वनस्पतौ॥' कलिकायां वृद्धमनुः- 'निमन्त्र्य विप्रांस्तदहर्वर्जयेन्मैथुनं क्षुरम्। प्रमत्ततां च स्वाध्यायं क्रोधाशौचे तथानृतम्॥' केचित्- निमन्त्रणात्पूर्वं शुद्ध्यर्थं पूर्वेऽह्नि क्षौरं कुर्वन्ति, तत्र मूलं मृग्यम्। मरीचिः- 'षष्ठ्यां पर्वसु पक्षादौ रिक्ताभद्रातिथिष्वपि। पाते श्राद्धे व्रताहे च क्षौरं वर्ज्य निशासु च॥ यदा कर्तुरशक्त्या तत्पुत्रशिष्यादिः श्राद्धं करोति, तदा कर्त्रा प्रतिनिधिना च प्रागुक्तनियमाः कार्याः; 'न शक्नोति स्वयं कर्तुं यदा ह्यनवकाशतः। श्राद्धं शिष्येण पुत्रेण तदाऽन्येनापि कारयेत्॥ नियमानाचरेत्सोऽपि नियतांश्च वसुन्धरे। यजमानोऽपि तान्सर्वानाचरेत् सुसमाहितः॥' इति हेमाद्रौ वाराहोक्तेः। स्त्रियास्तु पाद्मे- 'मुक्तकच्छा तु या नारी मुक्तकेशी तथैव च। हसते वदते चैव निराशाः पितरो गताः॥' आश्वलायनः- 'श्राद्धेऽह्नि भोजयेद्वास्तौ न वालानपि यत्नतः। प्रापिण्डदानाद्गन्धाद्यैर्नालङ्कुर्यात्स्वविग्रहम्॥' वास्तौ = गृहे॥

श्राद्धवस्तूनि

अथ श्राद्धवस्तूनि। तत्रादौ कुशाः पृथ्वीचन्द्रोदये दक्षः- 'समित्पुष्पकुशादीनां द्वितीयः परिकीर्तितः।' अष्टधा भक्ते दिने द्वितीयो भाग इत्यर्थः। तत्रैव यमः-'समूलस्तु भवेद्दर्भः पितॄणां श्राद्धकर्मणि। मूलेन लोकान् जयति शक्रस्य सुमहात्मनः॥' व्यासः- 'तर्पणादीनि कर्माणि पितृृणां यानि कानिचित्। तानि स्युर्द्विगुणैर्दर्भैः सप्तपत्रैर्विशेषतः॥' शालङ्कायन:- 'सपिण्डीकरणं यावदृजुदर्भैः पितृक्रिया। सपिण्डीकरणादूर्ध्वं द्विगुणैर्विधिवद्भवेत्॥' शङ्खः-'अनन्तर्गर्भिणं साग्रं कौशं द्विदलमेव च। प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्रचित्॥' हारीतः- 'पवित्रं ब्राह्मणस्यैव चतुर्भिर्दर्भपिञ्जुलैः। एकैकं न्यूनमुद्दिष्टं वर्णे वर्णे यथाक्रमम्॥' स्मृत्यर्थसारे- 'सर्वेषां वा भवेद्वाभ्यां पवित्रं ग्रन्थितं नवम्॥' रत्नावल्याम्- 'द्वयोस्तु पर्वणोर्मध्ये पवित्रं धारयेद्बुधः॥' हेमाद्रौ स्कान्दे- 'अनामिकाधृता दर्भा ह्येकानामिकयापि वा। द्वाभ्यामनामिकाभ्यां तु धार्ये दर्भपवित्रके॥’ पवित्राभावे तु तत्रैव सुमन्तुः- 'समूलाग्रौ विगर्भै तु कुशौ द्वौ दक्षिणे करे। सव्ये चैव तथा त्रीन्वै बिभृयात्सर्वकर्मसु॥' बौधायनः- 'हस्तयोरुभयोर्द्वै द्वावासनेऽपि तथैव च।' दर्भग्रहणे मन्त्रमाह शङ्ख:- 'विरिञ्चिना सहोत्पन्न परमेष्ठिनिसर्गज। नुद सर्वाणि पापानि दर्भ स्वस्तिकरो भव॥" स्मृत्यर्थसारे- 'हुम्फट्कारेण मन्त्रेण सकृच्छित्त्वा समुद्धरेत्।' भारद्वाजः- ‘प्रेतक्रियार्थ पित्रर्थमभिचारार्थमेव च। दक्षिणाभिमुखश्छिन्द्यात्प्राचीनावीतिको द्विजः॥' कुशाभाषेऽपरार्के सुमन्तुः- 'कुशाः काशाः शरो गुन्द्रो यवा दूर्वाऽथ बल्वजाः। र्गेकशमुञ्जकुन्दाश्च पूर्वाभावे परः परः॥' काशादौ विशेषमाह शङ्खः- 'काशहस्तस्तु नाचामेत्कदाचिद्विधिशङ्कया। प्रायश्चित्तेन युज्येत दूर्वाहस्तस्तथैव च॥' पृथ्वीचन्द्रोदये यमः- 'मासि मास्युद्धृता दर्भा मासि मास्येव चोदिताः।' षट्त्रिंशन्मते- 'मासेन स्यादमावास्या दर्भो ग्राह्यो नवः स्मृतः।' गृह्यपरिशिष्टे- 'ये च पिण्डाश्रिता दर्भा यैः कृतं पितृतर्पणम्। अमेध्याशुचिलिप्ता ये तेषां त्यागो विधीयते॥' लघुहारीतः- 'पथि दर्भाश्चितौ दर्भा ये दर्भा यज्ञभूमिषु।स्तरणासनपिण्डेषु षट् कुशान् परिवर्जयेत्॥ ब्रह्मयज्ञे च ये दर्भा ये दर्भाः पितृतर्पण। हता मूत्रपुरीपाभ्यां तेषां त्यागो विधीयते॥' हेमाद्रौ-'अन्यानि च पवित्राणि कुशदूर्वात्मकानि च। हेमात्मकपवित्रस्य ह्येकां नार्हन्ति वै कलाम्॥

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬