🕉️ 24 November 2026, Tuesday · 08:17:43 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← निर्णयसिन्धु — परिच्छेद-सूची

📖 निर्णयसिन्धु · तृतीय परिच्छेद (उत्तरार्ध) — श्राद्ध, आशौच व अन्त्यकर्म · पृष्ठ 56/87
इस पृष्ठ में: हविः

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

हविः

अथ हविः। हेमाद्रौ प्रचेताः- 'कृष्णमापास्तिलाश्चैव श्रेष्ठाः स्युर्यवशालयः। महायवा व्रीहियवास्तथैव च मधूलिकाः॥ कृष्णाः श्वेताश्च लोहाश्च ग्राह्याः स्युः श्राद्धकर्मणि॥' महायवाः=वेणुवीजम्। मधूलिकाः=यावनाला इति हेमाद्रिः कल्पतरुश्च। भारते - 'वर्धमानतिलं श्राद्धमक्षय्यं मनुरब्रवीत्। सर्वकामैः स यजते यस्तिलैर्यजते पितॄन्॥' चन्द्रिकायां देवलः- 'इष्टापूर्ते मृताहे च दर्शवृद्ध्यष्टकासु च। पात्रेभ्यस्तेषु कालेषु देयं नैव कुभोजनम्॥' सायणीये- 'अगोधूमं च यच्छ्राद्धं मामुद्गविवर्जितम्। तैलपक्वेन रहितं कृतमप्यकृतं भवेत्॥' हेमाद्रावत्रिः- 'अगोधूमं च यच्छ्राद्धं कृतमप्यकृतं भवेत्।' तत्रैव ब्राह्मे- 'यवैर्वीहितिलैर्मापैर्गोधूमैश्चणकैस्तथा। सन्तर्पयेत् पितॄन् मुद्गैः श्यामाकैः सर्पपद्रवैः॥ नीवार्रैहरिश्यामाकैः प्रियङ्गुभिरथाचयेत्॥' हेमाद्रौ कार्णाजिनिः- 'यदिष्ट जीवतश्चासीत्तद्दद्यात्तस्य यत्नतः। स तृप्तो दुस्तरं मार्गं ततो याति न संशयः॥' कलिकायामाश्वलायनः- 'कदल्यादिफलैः शस्तैर्मूलैरार्द्रादिकैरपि। गोरसैर्मधुना दध्ना श्राद्धे सन्तर्पयेत् पितॄन्॥ कदल्याग्रफलादीनि श्राद्धे सम्पादयेत्सुधीः॥'

हेमाद्रौ पृथ्वीचन्द्रोदये च मार्कण्डेयः- 'गोधूमैरिक्षुभिर्मुङ्गैः सतीनैश्चणकैरपि। श्राद्धेषु दत्तैः प्रीयन्ते मासमेकं पितामहाः॥ विदार्या च भरुण्डैश्च तिलैः शृङ्गाटकैस्तथा। कञ्चुकैश्च तथा कन्दैः कर्कन्धूबदरैरपि॥ पालेवतैरारुकैश्चाप्यक्षोटैः पनसैस्तथा। काकोल्या क्षीरकाकोल्या तथा पिण्डालकैः शुभैः॥ लाजाभिश्च सधानाभिस्त्रपुसैर्वारुचिर्भटैः। सर्षपाराजशाकाभ्यामिङ्गुदै राजजम्बुभिः॥ प्रियालामलकैर्मुख्यैः फल्गुभिश्च तिलण्टकैः। वेत्राङ्कुरैस्तालकन्दैश्चुक्रिकाक्षीरिकावचैः॥ लोचैः समोचैर्लकुचैस्तथा वै बीजपूरकैः। मुञ्जातकैः पद्मफलैर्भक्ष्यभोज्यैश्च संस्कृतैः॥ रागखाण्डवचोष्यैश्च त्रिजातकसमन्वितैः। दत्तैस्तु मासं प्रीयन्ते श्राद्धेषु पितरो नृणाम्॥' एषां कोशहेमाद्यादिव्याख्या वैद्यकाद्यनुसारेण मध्यदेशभाषया नामान्युच्यन्ते। सतीनैः=कलायैः, 'कलायस्तु सतीनकः' इत्यमरः। बटूरीति प्रसिद्धैः। विदार्या तत्कन्देन। भरुण्डं=जलजं 'मखाणा' इति श्राद्धमञ्जर्याम्। कूष्माण्डमित्यन्ये। शृङ्गाटकं =सिङ्घाडा। कञ्चुकः=कञ्चनारः, कन्दः=सूरणः, 'अर्शोघ्नः सूरणः कन्दः' इत्यमरः। कर्कन्धूः=वन्यं सूक्ष्मं बदरम्, पालेवतं=कोशातकी, आरुकं=अरुई, अक्षोटम्=अखरोटः। काकोलीक्षीरकाकोल्यौ गौडेषु प्रसिद्धे। पिण्डालकं=सुथनी, महाराष्ट्राणां ‘मोहलकन्द’ इति प्रसिद्धम्; त्रपुसादयस्त्रयः कर्कटीभेदाः, चिर्भटं=खर्बुजम्, सर्षपा इति दीर्घश्छन्दसः, प्रियालं=चिरौञ्जी, फल्गु=उदुम्बरम्, तिलण्टकं=पटोलम्, तालकन्दः=कन्दविशेषः, चुक्रिका=तिन्तिणी बिम्बा, क्षीरिका=खीरणी, मोचं=कदलीफलम्, लकुचं=वडहरम्, मुञ्जातकं गौडदेशे प्रसिद्धम्, पद्मफलं=गट्टा, रागखाण्डवः 'पिप्पलीशुण्ठियुक्तस्तु मुद्गयूषस्तु खाण्डवः। रागखाण्डवतां याति शर्करासंयुतं तु तत्॥' इत्युक्तः पानविशेषः। त्रिजातं=लवङ्गैलापत्रकाणि। मदनरत्ने कौर्मे- 'कालशाकं च वास्तूकं मूलकं कृष्णनालिका।' प्रशस्तानीति शेषः।

हेमाद्रौ पृथ्वीचन्द्रोदये च वायुपुराणे- 'कालशाकं महाशाकं द्रोणशाकं तथाद्रकम्। बिल्वामलकमृद्वीकापनसाम्रातदाडिमम्॥ चव्यं पालिवताक्षोटं खर्जूरं च कसेरुकम्। कोविदारश्च कन्दश्च पटोलं बृहतीफलम्॥ पिप्पली मरिचं चैव एला शुण्ठी च सैन्धवम्। शर्करागुडकर्पूरबदरीद्रोणपत्रकम्॥' तथा 'मधुकं रामठं चैव कर्पूरं गुडमेव च। श्राद्धकर्मणि शस्तानि सैन्धवं त्रपुसं तथा॥' रामठं=हिङ्गु। 'कसेरुः कोविदारश्च तालकन्दस्तथा बिसम्। तमालं शतकन्दश्च मध्वालुः शीतकन्दकम्॥ कालेयं कालशाकं च सुनिषण्णं सुवर्चलम्। मांसं शाकं दधि क्षीरं चाम्बुवेत्राङ्कुरस्तथा॥ कट्फलं कौङ्कणी द्राक्षा तिन्दुकं मोचमेव च। अलाबुं ग्रीवकं चारं कर्कन्धुर्मधुसाह्वयम्॥ वैकङ्कतं नारिकेलं शृङ्गाटकपरूषकम्। पिप्पलीमरिचे चैव पटोलं बृहतीफलम्॥ एवमादीनि चान्यानि स्वादूनि मधुराणि च। नागरं चार्द्रकं देयं दीर्घमूलकमेव च॥' इति। तथा- 'शर्कराक्षीरसंयुक्ताः पृथुका नित्यमक्षयाः।' द्रोणशाकं 'गूम्म' इति प्रसिद्धम्, मृद्धीका=द्राक्षा, आम्रातं 'आम्बाडा' इति प्रसिद्धो वृक्षः, तत्फलं च, पालिवतं= जम्बीरम्, 'पालिआलम्' इति गौडप्रसिद्धं वा; खर्जूरं 'खजूर' इति प्रसिद्धम्, कसेरुः=जलजः कन्दः, कोविदारः=कञ्चनारसदृशः, तालकन्दः=तालमूली, बिसं=भसीडम्, शतकन्दः=शतावरी, शीतकन्दः=शालूकं, सेरुकीति प्रसिद्धम्; कालेयं=करालसञ्ज्ञः शाकः, दारुहरिद्रा वेति पृथ्वीचन्द्रोदयः। सुनिषण्णं कर्कटीसदृशं 'सुलटीया' इति गौडप्रसिद्धम्, सुवर्चलं=शाकविशेषः, कट्फलं=श्रीपर्णीवृक्षफलम्, कौङ्कणी=अम्लरसा द्राक्षा, तिन्दुकं=डिण्डिसमिति कैदेवः, तिन्दुफलं वा, ग्रीवकं=फलविशेषः, चारं=क्षुद्रतालम्, मधुसाह्वयं=मधूकपुष्पं फलं वा, वैकङ्कतं='चैञ्ची' इति गौडख्यातम्, परूषकं=परूसमिति प्रसिद्धम्, नागरं=शुण्ठी, पृथ्वीचन्द्रोदये ब्राह्मे- 'आम्रमाम्रतकं बिल्वं दाडिमं बीजपूरकम्। प्राचीनामलकं क्षीरं नारिकेरं परूषकम्॥ नारङ्गकं च खर्जूरं द्राक्षा नीलकपित्थकम्। एतानि फलजातानि श्राद्धे देयानि यत्नतः॥' मात्स्ये-'अन्नं तु सदधिक्षीरं गोघृतं शर्करान्वितम्। मासं प्रीणाति सर्वान्वै पितृनित्याह केशवः॥'

याज्ञवल्क्यः- 'हविष्यान्नेन वै मासं पायसेन तु वत्सरम्। मात्स्यहारिणकौरभ्रशाकुनच्छागपार्षतैः॥ ऐणरौरववाराहशाशैर्मंसैर्यथाक्रमम्। मासवृद्ध्याऽभितृप्यन्ति दत्तैरिह पितामहाः॥ खङ्गामिषं महाशल्कं मधु मुन्यन्नमेव च। लोहामिषं कालशाकं मांसं वार्ध्रीणसस्य च॥’ (निगमः– 'त्रिःपिबं त्विन्द्रियक्षीणं श्वेतं वृद्धमजापतिम्। वार्ध्रीणसं तु तं प्राहुर्याज्ञिकाः श्राद्धकर्मणि॥' वार्ध्रीणसः=जरच्छाग इति मेधातिथिः। कात्यायनः-'छागोस्रमेषानालभ्य शेषाणि क्रीत्वा लब्ध्वा वा स्वयं मृतान् वाहृत्य पचेत्।' कौर्मे-'क्रीत्वा लब्ध्वा स्वयं वाथ मृतानाहृत्य वा द्विजः। दद्याच्छ्राद्धे प्रयत्नेन तदस्याक्षय्यमुच्यते॥') श्राद्धे दत्तस्य मांसस्याभक्षणे दोषमाह मनुः- 'नियुक्तस्तु यथान्यायं यो मांसं नात्ति मानवः। स प्रेत्य पशुतां याति सम्भवानेकविंशतिम्॥' अत्र बहुषु वचनेषु श्राद्धे मांसमधुनोः प्राशस्त्योक्तेः, 'विना मांसेन यच्छ्राद्धं कृतमप्यकृतं भवेत्।' इति हेमाद्रौ देवलोक्तेः, 'यच्छ्राद्धं मधुना हीनं तद्रसैः सकलैरपि। मिष्टान्नैरपि संयुक्तं पितॄणां नैव तृप्तये॥ अणुमात्रमपि श्राद्धे यदि न स्याच्च माक्षिकम्। नामापि कीर्तनीयं स्यात् पितॄणां प्रीतये ततः॥' इति हेमाद्रौ ब्राह्मोक्तेश्च मांसमधुनोः श्राद्धे नियतत्वं गम्यते। गौडनिबन्धे मात्स्यसूक्ते- 'मध्वभावे गुडो देयः क्षीरस्य च तथा दधि। न लभ्यते घृतं यत्र कुर्यात् घृतवतीजपम्॥' श्राद्धकलिकायां नागरखण्डे- 'कथञ्चिद्यदि विप्रेभ्यो न दत्तं भोजने मधु। पिण्डास्तु नैव दातव्याः कदाचिन्मधुना विना॥' बृहत्पराशरस्तु मांसं निषेधति- 'यस्तु प्राणिवधं कृत्वा मांसैस्तर्पयते पितॄन्। स विद्वांश्चन्दनं दग्ध्वा कुर्यादङ्गारविक्रयम्॥ क्षिप्त्वा कूपे यथा किञ्चिद्वाल आदातुमिच्छति। पतत्यज्ञानतः सोऽपि मांसेन श्राद्धकृत्तथा॥' स एव- 'सर्वथान्नं यदा न स्यात्तदैवामिपमाश्रयेत्। ब्राह्मणश्च स्वयं नाद्यात्तच्च वादिहतं यदि॥' भागवतेऽपि- 'न दद्यादामिषं श्राद्धे न चाद्याद्धर्मतत्त्ववित्। मुन्यन्नैः स्यात्परा प्रीतिर्यथा न पशुहिंसया॥' तथेति शेषः। अत्र केचित्- 'मुन्यन्नं ब्राह्मणस्योक्तं मांसं क्षत्रियवैश्ययोः। मधु प्रधानं शूद्रस्य सर्वेषां वाऽविरोधि यत्॥' इति हेमाद्रौ पुलस्त्योक्त्या व्यवस्थामाहुः॥

पृथ्वीचन्द्रोदयस्तु- 'अक्षता गोपशुश्चैव श्राद्धे मांस तथा मधु। देवराच्च सुतोत्पत्तिः कलौ पञ्च विवर्जयेत्॥' इति निगमोक्तेः, 'वरातिथिपितृभ्यश्च पशूपाकरणक्रिया।' इति कलिवर्ज्येषु हेमाद्रावादित्यपुराणात्; 'मांसदानं तथा श्राद्धे वानप्रस्थाश्रमस्तथा।' इत्युक्त्वा 'इमान्धर्मान्कलियुगे वर्ज्यानाहुर्मनीषिणः।' इति बृहन्नारदीयेऽभिधानाच्च मांसविधिः कलिव्यतिरिक्तविषयः। कलौ मांसनिषेधानां च देशाचाराद्व्यवस्था। तथा च बृहन्नारदीये श्राद्धं प्रकृत्य- 'यथाचारं प्रदेयं तु मधु मांसादिकं तथा। देशाचाराः परिग्राह्यास्तत्तद्देशीयजैर्नरैः॥ अन्यथा पतितो ज्ञेयः सर्वधर्मबहिष्कृतः॥' इति। 'यस्मिन्देशे पुरे ग्रामे त्रैविद्यैर्नगरेऽपि वा। यो यत्र विहितो धर्मस्तं धर्म न विचारयेत्॥' इति भृगुक्तेश्चेत्याह, तन्न; होलाकाधिकरणन्यायेन देशविशेषव्यवस्थापकपदकल्पनायोगात्। निरूपितं चैतत् पितामहचरणैर्मांसमीमांसायामिति दिक्। मनुः- 'संवत्सरं तु गव्येन पयसा पायसेन च। वार्ध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी॥ त्रिःपिबं त्विन्द्रियक्षीणं श्वेतं वृद्धमजापतिम्। वार्ध्रीणसं तु तं प्राहुर्याज्ञिकाः श्राद्धकर्मणि॥' क्षीरादौ विशेषमाह हेमाद्रौ सुमन्तुः - पयो दधि घृतं चैव गवां श्राद्धेषु पावनम्। महिषीणां घृतं प्राहुः श्रेष्ठं न तु पयः क्वचित्॥' याज्ञवल्क्यः- 'सन्धिन्यनिर्दशाऽवत्सागोपयः परिवर्जयेत्। औष्ट्रमैकशफं स्त्रैणमारण्यकमथाविकम्॥' हेमाद्रौ हारीतः- 'नवसूतायाः सप्तरात्रादित्येके, दशरात्रादित्यपरे, मासेनोपेयुषं भवतीति धर्मविदः'। एतद्रजोभावपरम्। देवलः- 'अजाविमहिषीणां तु पयः श्राद्धेषु वर्जयेत्। विकारान् पयसश्चैव माहिषं तु घृतं हितम्॥' तत्रैव ब्राह्मे- 'माहिषं चामरं मार्गमाविकैकशफोद्भवम्। स्त्रैणमौष्ट्रं याचितं च दधि क्षीरं त्यजेद्धृतम्॥ सगुडं मरिचाक्तं तु तथा पर्युषितं दधि। दीर्णं तक्रमपेतं च नष्टास्वादं च फेनवत्॥” इति। माहिषापवादोऽपरार्के ब्राह्मे- 'देयं तक्रं तु सद्यस्कं नवनीतादनुद्धृतम्। आरण्यमहिषीक्षीरं शर्करास्रुतिसंयुतम्॥ मध्वक्तं तु हितं चैव दद्यात्तदमृतं यतः॥' स्रुतिः=क्षीरशरः। श्राद्धकौमुद्यां चैवम्। यद्यपि याज्ञ वल्क्येन- 'अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसंस्थितम्। अस्नेहा अपि गोधूमयवगोरसविक्राया॥ इति पर्युषितं दध्यादि भोज्यमुक्तम्, तथापि गुडमरीचाक्तस्य पर्युषितदोषोऽत्रोच्यत इति हेमाद्रिः। तत्रैव ब्राह्मे- 'कालशाकं तन्दुलीयं वास्तुकं मूलकं तथा। शाकमारण्यकं चैव दद्याच्छ्राद्धेषु नित्यशः॥ तन्दुलीयकं=सूक्ष्मपत्रमिति हेमाद्रिः। महाराष्ट्राणां 'माठ' इति प्रसिद्धम्। आरण्यक= फाञ्जीचूकादि। तत्रैव- 'दाडिमं मागधी चैव नागरार्द्रकतिन्तिणी। आम्रातकं जीरकं च कुम्बरं चैव योजयेत्॥' मागधी=पिप्पली, नागरं शुण्ठी, कुम्बरं=कुस्तुम्बरं, 'धनिया' इति प्रसिद्धम्; वायवीये- 'अगस्त्यस्य शिखास्ताम्राः काषायाः सर्व एव च।' शिखाः=नवपल्लवाः, प्रभासखण्डे- 'आरामस्य तु सीमन्ताः कलायाः सर्व एव च।' सीमन्ताः= नवपल्लवाः। कौर्मे– 'तमालं शतकन्दं च मध्वालुः शीतकन्दली।' मध्वालुः मोहलकन्दः, शीतकन्दली 'राताळू' इति प्रसिद्धम्॥

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬