🕉️ 24 November 2026, Tuesday · 08:22:08 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← निर्णयसिन्धु — परिच्छेद-सूची

📖 निर्णयसिन्धु · तृतीय परिच्छेद (उत्तरार्ध) — श्राद्ध, आशौच व अन्त्यकर्म · पृष्ठ 57/87

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

वर्ज्यम्

अथ वर्ज्यम्। मार्कण्डेयपुराणे- 'यञ्चोत्कोचादिना प्राप्तं पतिताद्यपार्जितम्। अन्यायकन्याशुल्कार्थं द्रव्यं चात्र विगर्हितम्॥ पित्रर्थं मे प्रयच्छस्वेत्युक्त्वा यच्चाप्युपाहृतम्॥' चन्द्रोदये शङ्खः- 'भूस्तृणं सुरसा शिग्रु पालङ्की मृचुकं तथा। कूष्माण्डालाबुवार्ताककोविदारांश्च वर्जयेत्॥ पिप्पलीं मरिचं चैव तथा वै पिण्डमूलकम्। कृतं च लवणं सर्वं वंशाग्रं च विवर्जयेत्॥ राजमाषान् मसूरांश्च कोद्रवान् कोरदूषकान्। लोहितान् वृक्षनिर्यासान् श्राद्धकर्मणि वर्जयेत्॥' भूस्तृणं काश्मीरदेशे प्रसिद्धम्। सुरसा=निर्गुण्डीति माधवः। तुलसीति पृथ्वीचन्द्रोदयः। सा च भक्ष्यत्वेन निषिद्धा, न पुष्पत्वेनेति गौडाः। पालङ्की 'पालक' इति प्रसिद्धा। मृचुकं=जलजः शाकः। 'ससुकम्' इति पाठे खदिरशाक इति हेमाद्रिः। मरीचान्यार्द्राणीति हेमाद्रिः। कृतलवणं=साम्भरभिन्नम्, 'सैन्धवं लवणं चैव तथा मानससम्भवम्।' 'यच्च सामुद्रिकं भवेत्' इति शुलपाणौ पाठः; 'पवित्रे परमे ह्येते प्रत्यक्ष अपि नित्यशः।" इति वायवीयोक्तेः। मानसं = साम्भरम्। यत्तु– भविष्यम् 'तर्जन्या दन्तकाष्ठं च प्रत्यक्षं लवणं तथा' इति, तत्र क्षारलवणं खारीति प्रसिद्धं निषिद्धम्, 'भुक्त्वा तु क्षारलवणं त्रिरात्रं तु वने वसेत्' इति ब्राह्मोत्तेरिति शूलपाणिः। 'क्षीरलवण'मिति पाठात् क्षीरमिश्रं लवणं निषिद्धमिति वाचस्पतिः। राजमापाः ‘चवळी' इति प्रसिद्धाः। कोरदूपकाः=वनकोद्रवाः। चन्द्रिकायां शङ्खः- 'पिण्डालकं च तुण्डीरं करमर्द च नालिकाम्। कूष्माण्डं बहुबीजानि श्राद्धे दत्वा व्रजत्यधः॥' पिण्डालकं महाराष्ट्रेषु पेण्डरमिति प्रसिद्धम्। तुण्डीरं बिम्बीफलमिति कैदेवः। करमर्दं=करवन्दमिति प्रसिद्धम्। तत्रैव 'बिडालोच्छिष्टमाघ्रातं श्राद्धे यत्नेन वर्जयेत्। कूष्माण्डं महिपीक्षीरमाढक्यो राजसर्षपापाः। चणका राजमाषाश्च घ्नन्ति श्राद्धं न संशयः॥'

वृद्धपराशरः- 'करीरफलपुष्पाणि विडङ्गमरिचानि च। जम्मारिका सजम्बीरा सुपक्वं बीजपूरकम्॥ जम्ब्वलावूनि पिप्पल्यः पटोलं पिण्डमूलकम्। मसूराञ्जनपुष्पं च श्राद्धे दत्वा पतत्यधः॥' जम्बूः=सूक्ष्मम्। माधवीये चतुर्विंशतिमते- 'यावनालान् कुलित्यांश्च वर्जयन्ति विपश्चितः।' यावनालः='जोन्धळा'। अत्र यानि चणकादीनि विहितनिषिद्धानि तेषां विकल्पः। अन्यथा 'श्यामाकैश्चणकैः शाकैर्नीवारैश्च प्रियङ्गुभिः। गोधूमैश्च तिलैर्मुद्गैर्मासं प्रीणयते पितॄन्॥' इति, 'गोधूमैरिक्षुभिर्मुद्गैः सतीनैश्चणकैरपि।' इति हेमाद्रौ कौर्म-विष्णुधर्मादिविरोधः स्यात्। पिप्पलीमरीचादेस्तु प्रत्यक्षस्य निषेधो नत्वन्यद्रव्यमिश्रस्य; 'सौवीरतिक्तैर्लवणादिभिस्तु पाकस्य सिद्धिर्महतीह यैस्तु। तद्वीजपूरान् मरिचादियोगात्सिद्धं प्रदेयं न तु दुष्यतीह॥' इति पृथ्वीचन्द्रोदये वृद्धपरा शरोक्तेः। तत्रैव- 'दातुश्च यस्मिन्मनसोऽभिलाषः श्रद्धा भवेद्यत्र च दीयमाने। श्राद्धेषु देयं विधिवत्तदेव तद्दत्तमक्षय्यमिति ब्रुवन्ति॥' - एतन्निषिद्धेतरविषयम्। चन्द्रिकायाम्-'कृष्णधान्यानि सर्वाणि वर्जयेच्छ्राद्धकर्मणि। न वर्जयेत् तिलांश्चैव मुद्गमाषांस्तथैव च॥' मात्स्ये- 'मसूरशणनिष्पावराजमाषकुसुम्भिकाः। पद्मबिल्वार्कधत्तूरपारिभद्राटरूषकाः॥ न देयाः पितृकार्येषु पयश्चाजाविकं तथा। कोद्रवोद्दारवरककपित्थमधुकातसी॥एतान्यपि न देयानि पितृभ्यः श्राद्धमिच्छता॥' निष्पावाः=वल्लाः। यत्तु मार्कण्डेयः- 'प्रियङ्गवः कोविदारा निष्पावाश्चात्र शोभनाः।' इति। तत्र निष्पावः=श्वेतशिम्बीति दानसागरे श्राद्धप्रकाशे चोक्तम्। बिल्वं च रक्तं निषिद्धम्; 'जम्बीरं रक्तबिल्वं च शालस्यापि फलं त्यजेत्।' इति ब्राह्मोक्तेः। 'पारिभद्रे निम्बतरुः' इत्यमरः। रक्तमन्दार इति हेमाद्रिः। आटरूषः=वासा, तत्पुष्पम् ; उद्दारः=काञ्चनार, मधुकं ज्येष्ठीमध्विति चन्द्रिका। वरकाः=वनमुद्राः।

हेमाद्रौ ब्रह्माण्डे- 'आसनारूढमन्नाद्यं पादोपहतमेव च। अमेध्यैर्जङ्गमैः स्पृष्टं शुष्कं पर्युषितं च यत्॥ द्विःस्विन्नं परदग्धं च तथैवाग्रावलेहितम्। शर्कराकीटपाषाणैः केशैर्यच्चाप्युपद्रुतम्॥ पिण्याकं मथितं चैव तथातिलवणं च यत्। सिद्धाः कृताश्च ये भक्ष्याः प्रत्यक्षलवणीकृताः॥ वाससा चावधूतानि वर्ज्यानि श्राद्धकर्मणि॥' द्विःस्विन्नं यत्सकृत्पाकेन भक्ष्यमपि हिङ्गुजीरकादि संस्कारार्थं पुनः पच्यते तद्वर्ज्यम्। यत्तुतिक्तशाकान्नविकारादि द्विः पाकेनैव भक्षणार्हं, तन्न निषिद्धम्। अग्रावलेहितमास्वादितपूर्वम्। पर्युषितस्य सदा निषेधेऽपि पुनर्वचनस्- 'अपूपाश्च करम्भाश्च धाना वटकसक्तवः। शाकं मांसमपूपं च सूपं कृसरमेव च॥ यवागूः पायसं चैव यच्चान्यत्स्नेहसंयुतम्। सर्वं पर्युषितं भोज्यं भुक्तं चेत्परिवर्जयेत्॥' इति। माधवीये यमोक्तवटकादेरपि पर्युषितस्य निषेधार्थमिति चन्द्रिकादयः। वर्ज्येषु विश्वामित्रः- 'कपित्थं कुरुकं चैव नारिकेलं च पैनिकम्। जम्बूफलादि पक्वं च पिण्याकं तन्दुलीयकम्॥' हेमाद्रौ षट्त्रिंशन्मते- 'वर्ज्यामर्कटकाः श्राद्धे राजमाषास्तथैव च।' मर्कटकाः 'लाका' इति प्रसिद्धाः। पैठीनसिः- 'वृन्ताकं नालिकापोतकुसुम्भाश्मन्तकानि च। शाकानामभक्ष्याः' इति। पोतं 'पोई' इति प्रसिद्धम्। (कुसुम्भं 'कुरडु' इति महाराष्ट्रे प्रसिद्धम्)। मार्कण्डेयः-'वर्ज्याश्चाभिषवा नित्यं शतपुष्पा गवेधुकाः। जम्बीरकफलं वर्ज्यं कोविदाराश्च नित्यशः॥' अभिषवः सूक्तम् इति चन्द्रिका। सन्धानकमिति पृथ्वीचन्द्रः। शतपुष्पा 'ओंवा' इति प्रसिद्धम्। शाट्यायनः- 'मारिषं नालिका चैव रक्ता या च कलम्बिका। असुरान्नमिदं सर्व पितॄणां नोपतिष्ठते॥' मारिषं मध्यदेशे 'मरसा' इति, महाराष्ट्रेषु 'राजगिरा' इति च प्रसिद्धम्। कलम्बिका=वेण्वाकृतिपत्रा, तत्रैव- 'गान्धारिका पटोलानि श्राद्धकर्मणि वर्जयेत्। गान्धारिका तन्दुलीयम्' इति चन्द्रिका। 'जवासाख्या दुरालभा' इति कैदेवः। भारते-'हिङ्गु द्रव्येषु शाकेषु अलाबुं लशुनं तथा। कुकुण्डकान्यलावूनि कृष्णं लवणमेव च॥ ' पुनरलाबुग्रहणमुभयालाबुनिषेधार्थमिति पृथ्वीचन्द्रः। कुकुण्डकं=वर्तुलं छत्राकम्, तत्रैव- 'कुस्तुम्बुरुं कलिङ्गोत्थं वर्जयेदाम्लवेतसम्।'

हेमाद्रौ ब्राह्मे— 'वृन्ताकं पञ्चशिम्बं च लोमशानि फलानि च। कलिङ्गं रक्तचारं च वीणाकं धृतचारकम्॥ कपालं काचमारी च करञ्जं पिण्डमूलकम्। गृञ्जनं चुक्रिकां चैव गाजरं जीवकं तथा॥' वृन्ताकं वेतम्; 'कण्डूरां श्वेतवृन्ताकं कुम्भाण्डं च विवर्जयेत्।' इति देवलोक्तेः। तेन कृष्णस्यानिषेध इति चन्द्रिका माधवौ। वस्तुतस्तु- सदा श्वेतनिषेधात् पुनः श्राद्धे निषेधो व्यर्थः। तेन भक्ष्यस्य कृष्णवृन्ताकस्यापि निषेधार्थमिदमिति वयम्। कण्डूरा=कपिकच्छू, कुम्भाण्डं- =वृत्तालाबूः पञ्चशिम्बं=वल्लमसूरराजमाषमठकुलित्थाः, लोमशानि=कपित्थानि, रक्तचार=लोहितचारफलम्, वीणाकं- =कृष्णदीर्घकर्कटी,धृतचारकं=चिरस्थितचारफलं 'चारोळी' इति प्रसिद्धम्, कपालं=नारिकेलम्, काचं =कञ्चुवृक्ष फलम्, मरीचं=आर्द्रमरीचानि, गृञ्जनं पलाण्डुभेदः पश्चिमदिशि प्रसिद्धः, न तु गाजरम्; तस्य पृथगुक्तेः। हेमाद्रिणा तु गृञ्जनं गाजरमेवोक्तम्। गौड-श्राद्धकौमुद्यामप्येवं,– तच्चिन्त्यम्। चुक्रिका=चिरकालशुक्तं पानकम्। चन्द्रिकायां हारीतः-'न वटप्लक्षोदुम्बरशेलुदधित्थनीपमातुलिङ्गानि भक्षयेत्।' शेलुः=श्लेष्मातकः 'भोकर 'सञ्ज्ञः, दधित्थं = कपित्थम्। स्मृतिसारे- 'क्षीरे तु लवणं दत्त्वा उच्छिष्टेऽपि च यद् घृतम्। स्नानं रजकर्तीर्थेषु ताम्रे गव्यं सुरासमम्॥' गौडनिबन्धसागरे स्मृतिः- 'नारिकेरोदकं कांस्ये ताम्रपात्रे स्थितं मधु। गव्यं च ताम्रपात्रस्थं मद्यतुल्यं घृतं विना॥' 'ताम्रपात्रे धृतं मांसं यच्च गव्यं घृतेतरत्। आमिषं तु गवां मांसं दधि मद्यं पयो रजः॥ द्रव्यान्तरयुतं मांसं पयसा संयुतं दधि। पयोऽनुद्धृतसारं च ताम्रपात्रे न दुष्यति॥'

जलम्

अथ जलम्। याज्ञवल्क्यः- 'शुचि गोतृप्तिकृत्तोयं प्रकृतिस्थं महीगतम्।' वर्ज्यं जलमुक्तं हेमाद्रौ ब्रह्माण्डे- 'दुर्गन्धि फेनिलं क्षारं पङ्किलं पल्वलोदकम्। न भवेद्यत्र गोतृप्तिर्नक्तं यच्चाप्युपाहृतम्॥ यन्न सर्वार्थमुत्सृष्टं यच्चाभोज्यनिपानजम्। तद्वर्ज्यं सलिलं तात सदैव श्राद्धकर्मणि॥' निपानः= जलाशयः। शुद्धितत्त्वे शङ्खः- 'स्नानमाचमनं दानं देवतापितृतर्पणम्। शूद्रोदकैर्न कुर्वीत तथा मेघाद्विनिःसृतैः॥' हेमाद्रावादित्यपुराणे-'चिरपर्युषितं वापि शूद्रस्पृष्टमथापि वा। जाह्नव्याः स्नानदानादौ पुनात्येव सदा पयः॥' कात्यायनः- 'अपो निशि न गृह्णीयान्न पिबेच्च कदाचन। उद्धृत्याग्निमुपर्यग्नेर्धाम्नो धान इतीरयेत्॥' रजोदोषे तु प्रागुक्तं नारदीये- 'त्यजेत्पर्युषितं पुष्पं त्यजेत्पर्युषितं जलम्। न त्यजेज्जाह्नवीतोयं तुलसीबिल्वपद्मकम्॥'

अन्यान्यपि पृथ्वीचन्द्रोदये मात्स्ये- 'मध्याह्नः खड्गपात्रं च तथा नेपालकम्बलः। रौप्यं दर्भास्तिला गावो दौहित्रश्चाष्टमः स्मृतः॥ पापं कुत्सितमित्याहुस्तस्य सन्तापकारिणः। अष्टावेते यतस्तस्मात् कुतपा इति विश्रुताः॥' ब्राह्मे - 'यतिस्त्रिदण्डः करुणा राजतं पात्रमेव च। दौहित्र कुतपः कालश्छागः कृष्णाजिनं तथा॥' शस्तानीति शेषः। दौहित्रं खड्गपात्रमिति कल्पतरुः। अपरार्के स्मृत्यन्तरे- 'अपत्यं दुहितुश्चैव खङ्गपात्रं तथैव च। घृतं च कपिलाया गोर्दौहित्रमिति कीर्तितम्॥' ब्रह्माण्डे- 'अमावास्यागते सोमे या तु खादति गौस्तृणम्। तस्या गोर्यद्भवेत् क्षीरं तद्दौहित्रमुदाहृतम्॥' स्मृतिसङ्ग्रहे- 'उच्छिष्टं शिवनिर्माल्यं वान्तं च मृतकर्पटम्। श्राद्धे सप्त पवित्राणि दौहित्रः कुतपस्तिलाः॥' उच्छिष्टं वत्सस्य दुग्धमित्यर्थः। शिवनिर्माल्यं=गङ्गोदकम्, वान्तं=मधु, मृतकर्पटं=तसरीपट्टम्॥

तिलेष्वापस्तम्बः- 'अटव्यां ये समुत्पन्ना अकृष्टफलितास्तथा। ते वै श्राद्धे पवित्राः स्युस्तिलास्ते न तिलास्तिलाः॥' अभावे ग्राम्याः; 'गौराः कृष्णास्तथारण्यास्तथैव त्रिविधास्तिलाः॥' इति ब्राह्मोक्तेः॥

वर्ज्यानि

अथ वर्ज्यानि। चन्द्रिकायां यमः- 'कुक्कुटो विड्वराहश्च काकश्चाथ बिडालकः। वृषलीपतिश्च वृषलः षण्ढोऽवीरा रजस्वला॥ एते तु श्राद्धकाले वै वर्जनीयाः प्रयत्नतः। खञ्जः काणः कुणिः श्वित्री दातुः प्रेष्यकरस्तथा॥न्यूनाङ्गोऽप्यतिरिक्ताङ्गस्तमप्यपनयेत्ततः॥’ वायवीये-'अन्नं पश्येयुरेते तु यदि वै हव्यकव्ययोः। उत्सृष्टव्यं प्रधानार्थ संस्कारस्त्वापदि स्मृतः॥' सुमन्तुः– 'चाण्डालादिवीक्षितमन्नमभोज्यमन्यत्र मृद्भस्महिरण्योदकस्पर्शात्।' तत्रैव जमदग्निः- 'शुद्धवत्योऽथ कूष्माण्ड्यः पावमान्यस्तरत्समाः। पूतेन वारिणा दर्भैरन्न-दोषमपानुदेत्॥' चन्द्रोदये- 'पादुकोपानहौ छत्रं चित्ररक्ताम्बरं तथा। रक्तपुष्पं च मार्जारं श्राद्धभूमौ विवर्जयेत्॥' निर्णयदीपे-'घण्टानिनादो हयसन्निधानं शम्बूकशङ्खौ कदलीदलं च। उन्मत्तजात्यर्कहयारिजानि श्राद्धस्य वैगुण्यकराण्यमूनि॥' हयारिजं= महिषीक्षीरादि॥

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬