निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना
स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।
← निर्णयसिन्धु — परिच्छेद-सूची
इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।
अथ श्राद्धदिनकृत्यम्। चन्द्रोदये उशनाः- ‘गोमयोदकैर्भूमिभाजनशौचं कुर्यात्।' पराशरः- 'काञ्जिकं दधि तक्रं च शृतं चाशृतमेव च। पूर्वमेव न दातव्यमेकोद्दिष्टेऽथ पार्वणे॥' हेमाद्रौ पराशरः- 'गृहाग्निशिशुदेवानां ब्रह्मचारितपस्विनाम्। तावन्न दीयते किञ्चिद्यावत्पिण्डान्न निर्वपेत्॥' कौर्मे- 'तिलानवकिरेत्तत्र सर्वतो बन्धयेदजान्।' तत्रैव देवलः– 'तथैव यत्रितो दाता प्रातः स्नात्वा सहाम्बरः। आरभेत नवैः पात्रैरन्नारम्भं च बान्धवैः॥' अत्रात्मनेपदात्स्वयमेव पाकः कार्यः। अशक्तौ पत्न्या, तदभावे बान्धवैः, ‘ततस्तानि पपाचाशु सीता जनकनन्दिनी।' इति पाद्मलिङ्गादिति हेमाद्रिः। श्राद्धदीपकलिकायामाश्वलायनः- 'समानप्रवरैर्मित्रैः सपिण्डैश्च गुणान्वितैः। कृतोपकारिभिश्चैव पाककार्य प्रशस्यते॥' व्यासः- 'गृहिणी चैव सुस्नाता पाकं कुर्यात्प्रयत्नतः। निष्पन्नेषु च पाकेषु पुनः स्नानं समाचरेत्॥' पृथ्वीचन्द्रोदये ब्राह्मे -'रजस्वलां च पाखण्डां पुंश्चली पतितां तथा। त्यजेच्छूद्रां तथा वन्ध्यां विधवां चान्यगोत्रजाम्॥ व्यङ्गकर्णी चतुर्थाहःस्नातामपि रजस्वलाम्। वर्जयेच्छ्राद्धपाकार्थममातृपितृवंशजाम्॥ मातृपितृवंशजभिन्नां त्यजेदित्यर्थः। स्मृतिसारे- 'न पाकं कारयेत् पुत्रीमन्यां वाऽप्यन्यगोत्रजाम्। मृतवन्ध्यां च गर्भघ्नीं गर्भिणीं चैव दुर्मुखीम्॥'
पाकभाण्डानि तु हेमाद्रौ नागरखण्डे- 'सौवर्णान्यथ रौप्याणि कांस्यताम्रोद्भवानि च। मार्तिक्यान्यपि भव्यानि नूतनानि दृढानि च॥' तत्रैव आदित्यपुराणे-'पचेदन्नानि सुस्नातः पात्रेषु शुचिषु स्वयम्। स्वर्णादिधातुजातेषु मृन्मयेष्वपि वा द्विजः॥ अच्छिद्रेष्वविलिप्तेषु तथाऽनुपहतेषु च। नायसेषु न भिन्नेषु दूषितेष्वपि कर्हिचित्॥ पूर्वं कृतोपयोगेषु मृन्मयेषु न तु क्वचित्॥' वायुपुराणे- 'न कदाचित्पचेदन्नमयःस्थालीपु पैतृकम्। अयसो दर्शनादेव पितरोऽपि द्रवन्ति हि॥ कालायसं विशेषेण निन्दन्ति पितृकर्मणि। फलानां चैव शाकानां छेदनार्थानि यानि तु॥ महानसेऽपि शस्त्राणि तेषामेव हि सन्निधिः। इष्यते नेतरस्यात्र शस्त्रमात्रस्य दर्शनम्॥ श्राद्धदेशे तु विदुषा पितॄणां प्रीतिमिच्छता। महानसेऽपि युक्तानामपि कार्य न दर्शनम्॥' तत्रैव- 'पचमानस्तु भाण्डेषु भक्त्या ताम्रमयेषु च। समुद्धरति वै घोरात् पितॄन् दुःखमहार्णवात्॥ तैजसानामभावे तु पिठरे मृन्मयेऽपि च। नवे शुचौ प्रकुर्वीत पाकं पित्रर्थमादरात्॥' तत्रैवादित्यपुराणे- 'पक्वान्नस्थापनार्थे तु शस्यन्ते दारुजान्यपि। दर्व्यादीन्यपि कार्याणि यज्ञियैरपिदारुभिः॥' यमः- 'विवाहे प्रेतकार्ये च मातापित्रोः क्षयेऽहनि। नवभाण्डानि कुर्वीत यज्ञकाले विशेषतः॥'
अथ पाकाग्निः। हेमाद्रौ प्रजापतिः- 'औपासनेनान्नसिद्धिरग्नौकरणमेव च।' पृथ्वीचन्द्रोदयेऽङ्गिराः- 'शालाग्नौ तु पचेदन्नं लौकिके वापि नित्यशः। यस्मिन्नग्नौ पचेदन्नं तस्मिन् होमो विधीयते॥' मनुः- 'वैवाहिकेऽग्नौ कुर्वीत गृह्यं कर्म यथाविधि। पञ्चयज्ञविधानं च पक्ति चान्वाहिकीं द्विजः॥' श्राद्धस्य गृह्यत्वं चोक्तमपरार्केण। अत्र विशेषः कर्मप्रदीपे- 'प्रातर्होमं तु निर्वर्त्य समुद्धृत्य हुताशनात्। शेषं महानसे कृत्वा तत्र पाकं समाचरेत्॥ पाकान्तेऽग्नि तमाहृत्य गृह्याग्नौ तु पुनः क्षिपेत्। ततोऽस्मिन्वैश्वदेवादि कर्म कुर्यादतन्द्रितः॥' तदभावे लौकिके; 'ततः पचेयुरन्नानि निर्वापानन्तरं शनैः। वैवाहिकेऽग्नावन्यत्र लौकिके वापि संयतः॥” इति कलिकायां सङ्ग्रहोक्तेः। पित्रर्थं निर्वापं कृत्वेत्यर्थः। अत एव हेमाद्रौ वायुपुराणे- 'पित्रर्थ निर्वपेद्भूमौ कूर्चे वा दर्भसंस्कृते॥' इति। तत्रैव पाद्म-मात्स्ययोः- 'अग्निमान्निर्वपेत्पैत्रं चरुं वा सममुष्टिभिः। पितृभ्यो निर्वपामीति सर्वं दक्षिणतो न्यसेत्॥' चरुग्रहणान्न शाकादाविति हेमाद्रिः। पिण्डपितृयज्ञार्थपाकविषयोऽयं निर्वाप इति तु युक्तम्। अयं चेतरेषामग्निः। आश्वलायनानां तु - 'गुरुणाभिमृता अन्यतो वाऽपेक्षीयमाणा अमावास्यायां शान्तिकर्म कुर्वीरन्' इत्यादिसूत्रेण पचनाग्नेस्त्यागमुक्त्वा 'इहैवायमितरो जातवेदाः' इत्यर्धर्चेन 'शमीमयीभ्यामरणिभ्यामग्नि मन्थेत्स पचनाग्निर्भवति' इति सूत्रे वृत्तौ चोक्तेः पचनाग्नावेव पाकः। बौधायनेनाप्युक्तम्- 'आहृत्य पचनाग्निमौपासनं वाऽभिप्रव्रजन्ति' इति। स्मार्ताग्नौ पाकस्त्वन्यशाखाविपय इति केचित्। वस्तुतस्तु- पूर्वोक्तस्य सर्वाधानविपयत्वं युक्तम्। शिष्टाचारेऽपि न पचनो दृश्यते, अण्डविलायामपि सर्वाधानपक्षे वैश्वदेवश्राद्धं च पचनेऽग्नौ कुर्यात्, अन्यथौपासने इत्युक्तम्। अग्नौकरणं तु प्रयोग पारिजातादिभिराब्दिकादिसर्वश्राद्धेषु पिण्डपितृयज्ञव्यतिषङ्गोक्तेर्लौकिके पचने वा पाके कृतेऽपि गृह्याग्नौ पक्वचरुणैव कार्यमिति प्रतिभाति। मदनरत्नेऽप्येवम्। विधुरोत्सन्नाग्न्यादेस्तु पृष्टोदिविविधानेनाग्निसम्पादनमित्युक्तं हरिहरभाष्ये इति पाकाग्निः।
चन्द्रिकायां मार्कण्डेयः- 'अह्नः षट्सु मुहूर्तेषु गतेषु प्रयतान्द्विजान्। प्रत्येकं प्रेषयेत्तेषां प्रदायामलकोदकम्॥' देवलः- 'ततो निवृत्ते मध्याह्ने कृत्तरोमनखान् द्विजान्। अभिगम्य यथान्यायं प्रयच्छेद्दन्तधावनम्॥ तैलमभ्यञ्जनं स्नानं स्नानीयं च पृथग्विधम्। पात्रैरौदुम्बरैर्दद्याद्वैश्वदेविकपूर्वकम्॥' औदुम्बरैः=तास्रमयैः। 'अत्र क्षौरामलकस्नानादि निषिद्धतिथ्यादिव्यतिरिक्तविषयम्' इति हेमाद्रि र्माधवश्च। यत्तु– चन्द्रिकायां प्रचेताः 'तैलमुद्वर्तनं स्नानं दद्यात्पूर्वाह्ण एव तु। श्राद्धभुग्भ्यो नखश्मश्रुच्छेदनं तु न कारयेत्॥' इति, तन्निषिद्धतिथ्यादिविषयम्। निषिद्धतिथ्यादि तु प्रागुक्तम्। अभ्यङ्गे तु कलिकायां कात्यायनः- 'तैलमुद्वर्तने देयं ब्राह्मणेभ्यः प्रयत्नतः। तैरभ्यङ्गश्च कर्तव्यो वर्ज्यं कालं न चिन्तयेत्॥' अपरार्के प्रचेताः- 'स्नातोऽधिकारी भवति दैवे पित्र्ये च कर्मणि। श्राद्धकृच्छुक्लवासाः स्यान्मौनी च विजितेन्द्रियः॥' हेमाद्रौ जाबालः-'ताम्बूलं दन्तकाष्ठं च स्नेहस्नानमभोजनम्। रत्यौषधपरान्नानि श्राद्धकर्ता विवर्जयेत्॥' वस्त्रे विशेषमाह तत्रैव भृगुः - 'नग्नः स्यान्मलवद्वासा नग्नः कौपीनकेवलः। द्विकच्छोऽनुत्तरीयश्च अकच्छोऽवस्त्र एव च॥ नग्नः काषायवासाः स्यान्नग्नश्वार्द्रपटस्तथा। नग्नो द्विगुणवस्त्रः स्यान्नन्नो रक्तपटः स्मृतः॥ नग्नस्तु स्निग्धवस्त्रः स्यान्नग्नः स्यूतपटस्तथा॥'
ततः कर्ता ऊर्ध्वपुण्ड्रं कुर्यात् ; 'जपे होमे तथा दाने स्वाध्याये पितृकर्मणि। तत्सर्वं नश्यति क्षिप्रमूर्ध्वपुण्ड्रं विना कृतम्॥' इति हेमाद्रावुक्ते', 'यज्ञो दानं जपो होमः स्वाध्यायः पितृकर्म च। वृथा भवति विप्रेन्द्रा ऊर्ध्वपुण्ड्रं विना कृतम्॥' इति बृहन्नारदीयात्, 'ऊर्ध्वं च तिलकं कुर्यात् दैवे पित्र्ये च कर्मणि।' इति वृद्धपराशरोक्तेश्च। अन्ये तु- 'ऊर्ध्वपुण्ड्रं द्विजातीनामग्निहोत्रसमो विधिः। श्राद्धकाले तु सम्प्राप्ते कर्ता भोक्ता च तत्त्यजेत्॥ वामहस्ते च दर्भांस्तु गृहे रङ्गावलिं तथा। ललाटे तिलकं दृष्ट्वा निराशाः पितरो गताः॥' इति सङ्ग्रहोक्तेः, 'ऊर्ध्वपुण्ड्रं त्रिपुण्ड्रं वा चन्द्राकारमथापि वा। श्राद्धकर्ता न कुर्वीत यावत्पिण्डान्न निर्वपेत्॥' इति विश्वप्रकाशे वचनाच्च न कार्यमित्याहुः। –अत्राचाराद्व्यवस्था। अत एव बृहन्नारदीये- 'ऊर्ध्वपुण्ड्रं च तुलसी श्राद्धे नेच्छन्ति केचन।' इति। 'ऊर्ध्वपुण्ड्रविधिर्विप्रविषयः। निषेधः कर्तृपर' इति पृथ्वीचन्द्रः। यत्तु- हेमाद्रौ देवलः 'ललाटे पुण्डकं दृष्ट्वा स्कन्धे माल्यं तथैव च। निराशाः पितरो यान्ति दृष्ट्वा च वृषलीपतिम्॥' इति, तद्गन्धेन त्रिपुण्ड्रविषयम्; 'प्रापिण्डदानाद्गन्धाद्यैर्नालङ्कुर्यात्स्वविग्रहम्।' इत्याश्वलायनोक्तेः। पुण्ड्रं=वर्तुलमित्यपरार्के मदनरत्ने च। पृथ्वीचन्द्रस्तु पुण्ड्रं=त्रिपुण्ड्रम्, 'ऊर्ध्वं च तिलकं कुर्यान्न कुर्याद्वै त्रिपुण्ड्रकम्। निराशाः पितरो यान्ति दृष्ट्वा चैव त्रिपुण्ड्रकम्॥' इति बृहत्पराशरोक्तेः। भोक्तुस्तिर्यग्लेपो भवत्येव; ‘वर्जयेत्तिलकं भाले श्राद्धकाले च सर्वदा। तिर्यगप्यूर्ध्वपुण्ड्रं वा धारयेत्तु प्रयत्नतः॥' इति व्यासोक्तेरित्याह। पृथ्वीचन्द्रोदये ब्राह्मे-'सदर्भेण तु हस्तेन यः कुर्यात्तिलकं बुधः। आचम्य स विशुद्ध्येत दर्भत्यागेन चैव हि॥ '
श्राद्वारम्भे कालमाहापरार्के गौतमः- 'आरभ्य कुतपे श्राद्धं कुर्यादारौहिणं बुधः। विधिज्ञो विधिमास्थाय रौहिणं तु न लङ्घयेत्॥' एतदेकोद्दिष्टे। -पार्वणे तूक्तं मात्स्ये- 'ऊर्ध्वं मुहूर्तात्कुतपाद्य मुहूर्तचतुष्टयम्। मुहूर्तपञ्चकं ह्येतत्स्वधाभवनमिष्यते॥' तथा-'मध्याह्ने सर्वदा यस्मान्मन्दीभवति भास्करः। तस्मादनन्तबलदस्तत्रारम्भो विशिष्यते॥'
अथ श्राद्धपरिभाषा। चन्द्रिकायां कात्यायनः- 'दक्षिणं पातयेज्जानुं देवान् परिचरन् सदा। पातयेदितरं जानुं पितॄन् परिचरन् सदा॥' बौधायनः- 'प्रदक्षिणं तु देवानां पितृृणामप्रदक्षिणम्। देवानामृजवो दर्भाः पितॄणां द्विगुणास्तथा॥' पृथ्वीचन्द्रोदये शङ्खः-'आवाहनार्ध्यसङ्कल्पे पिण्डदानान्नदानयोः। पिण्डाभ्यञ्जनकाले तु तथैवाञ्जनकर्मणि। अक्षय्यासनयोः पाद्ये गोत्रं नाम प्रकाशयेत्॥' तत्रैव परिशिष्टे-'क्षणे च पिण्डदाने च गन्धधूपाक्षये तथा। सङ्कल्पे चासने दीपे अञ्जनाभ्यञ्जने तथा॥ अन्नार्घ्यदानाद्यन्तेषु गोत्रं नाम च कीर्तयेत्॥' कलिकायां सङ्ग्रहे- 'आसनावाहने पाद्ये अन्नदाने तथैव च। अक्षय्ये पिण्डदाने च षट्सु नामानि कीर्तयेत्॥' मात्स्ये -'सम्बन्धं प्रथमं ब्रूयाद्गोत्रं नाम तथैव च।पश्चाद्रूपं विजानीयात् क्रम एष सनातनः॥' तत्रैव- 'सकारेण तु वक्तव्यं गोत्रं सर्वत्र धीमता। सकारः कुतपो ज्ञेयस्तस्माद्यत्नेन तं वदेत्॥’ यथा काश्यपसगोत्रेति; 'पराशरसगोत्रस्य वृद्धस्य तु महात्मनः। भिक्षोः पञ्चशिखस्याहं शिष्यः परमधार्मिकः॥' इति मोक्षधर्मेषु प्रयोगाच्च। तेन गोत्रसगोत्रयोः पर्यायत्वाच्छाखाभेदाद्व्यवस्थेति शूलपाणिः।एतद्येषामाम्नातं तेषामेव। हेमाद्रौ बृहत्प्रचेताः- 'गोत्रं स्वरान्तं सर्वत्र गोत्रस्याक्षयकर्मणि। गोत्रस्तु तर्पणे प्रोक्त एवं दाता न मुह्यति॥ सर्वत्रैव पितः प्रोक्तः पिता तर्पणकर्मणि। पितुरक्षय्यकाले तु पित्र्ये सङ्कल्पने तथा॥ शर्मन्नर्ध्यादिके कार्यं शर्मा तर्पणकर्मणि। शर्मणोऽक्षय्यकाले तु पितॄणां दत्तमक्षयम्॥' स्वरान्तं=सम्बुद्ध्यन्तमिति हेमाद्रिः। तत्रैव चन्द्रिकायां च स्मृत्यन्तरे- 'गोत्रस्य त्वपरिज्ञाने काश्यपं गोत्रमुच्यते। यस्मादाह श्रुतिः सर्वाः प्रजाः कश्यपसम्भवाः॥' यत्तु -सत्याषाढः 'अथाज्ञातबन्धोः पुरोहितगोत्रेणाचार्यगोत्रेण वा ' इति,– तद्विवाहपरम्। नामोच्चारणे विशेषमाह हेमाद्रौ बौधायनः- 'शर्मान्तं ब्राह्मणस्योक्तं वर्मान्तं क्षत्रियस्य तु। गुप्तान्तं चैव वैश्यस्य दासान्तं शूद्रजन्मनः॥' पित्रादिनामाज्ञाने तत्रैव- 'पृथिवीषत् पिता वाच्यस्तत्पिता चान्तरिक्षसत्। अभिधानापरिज्ञाने दिविषत् प्रपितामहः॥ पित्रादीनां नाम यदा पुत्रैर्न ज्ञायते तदा॥' आपस्तम्बसूत्रेऽप्येवम्।–एतदन्यशाखापरम्। आश्वलायनानां तूक्तं तत्सूत्रे– 'यदि नामान्यविद्वांस्ततपितामहप्रपितामहेति ब्रूयात्।' तत्कारिकापि- 'नामानि चेन्न जानीयात्ततेत्यादि वदेत् क्रमात्।' ततेति सम्बन्धमात्रपरम्। तेन पितृव्यादावपि तथेति गौडाः। स्त्रीणां तु दान्तं नाम ज्ञेयम्; 'दान्तं नाम स्त्रीणाम्' इति पृथ्वीचन्द्रोदये गोभिलोक्तेः। केचिद्देवीशब्दान्तमाहुः। अन्ये तु देवीदा इति द्वयोः समुच्चयमाहुः।
हेमाद्रौ नारायणः- 'विभक्तिभिस्तु यत्किञ्चिद्दीयते पितृदैवते। तत्सर्वं सफलं ज्ञेयं विपरीतं निरर्थकम्॥' चन्द्रिका स्मृत्यर्थसारयोः नारदीये च - 'अक्षय्यासनयोः षष्ठी द्वितीयावाहने तथा। अन्नदाने चतुर्थी स्याच्छेषाः सम्बुद्धयः स्मृताः॥' यत्तु-व्यासः 'चतुर्थी चासने नित्यं सङ्कल्पे च विधीयते। प्रथमा तर्पणे प्रोक्ता सम्बुद्धिमपरे जगुः॥' इति,—अत्र शाखाभेदाद्वयवस्थेति हेमाद्रिः। हेमाद्रौ भृगुः- 'अर्ध्यावनेजनं पिण्डमन्नं प्रत्यवनेजनम्। सम्बुद्धिं तत्र कुर्वीत शेषे पष्ठी विधीयते॥' तत्रैव मातुर्विशेषो नागरखण्डे-'मातर्मात्रे तथा मातुरासने कल्पनेऽक्षये। गोत्रे गोत्रायै गोत्रायाः प्रथमाद्या विभक्तयः॥'
पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।
⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा