🕉️ 24 November 2026, Tuesday · 08:21:46 PM · CDSHARMA.IN

⚖️ धर्म-निर्णय

निर्णयसिन्धु व धर्मसिन्धु — 1071 प्रकरणों की विषय-वार सूची, सार, पर्व-निर्णय व आशौच-गणना

स्पेस, अनुस्वार (ं / ङ्, ञ्, ण्, न्, म्) का अन्तर खोज में अपने-आप सँभल जाता है।

← निर्णयसिन्धु — परिच्छेद-सूची

📖 निर्णयसिन्धु · तृतीय परिच्छेद (उत्तरार्ध) — श्राद्ध, आशौच व अन्त्यकर्म · पृष्ठ 59/87
इस पृष्ठ में: सव्यापसव्यविधिः

इस पृष्ठ का हिन्दी अनुवाद अभी तैयार हो रहा है — अभी केवल संस्कृत मूल पाठ है।

सव्यापसव्यविधिः

हेमाद्रौ प्रभासखण्डे–'यज्ञोपवीतिना कार्यं दैवं कर्म प्रदक्षिणम्। प्राचीनावीतिना कार्यं पितृकर्माऽप्रदक्षिणम्॥' अनुपनीतस्त्रीशद्रादेस्तूत्तरीयेणैव सव्यापसव्ये ज्ञेये; तस्योपवीतस्थानीयत्वात्, 'अपसव्यं क्रमाद्वस्त्रं कृत्वा कश्चित्सगोत्रजः।' इति ब्राह्माच्चेति वाचस्पतिः। यत्तु– केचित् 'सदोपवीतिना भाव्यम् इत्यस्य पुरुषार्थत्वात् प्राचीनावीतकालेऽप्युपवीतान्तरेण तत्कार्यमेवेति,- तन्न; विशेषेण बाधात्। जमदग्निः- 'सूक्तस्तोत्रजपं त्यक्त्वा पिण्डाघ्राणं च दक्षिणाम्। आह्वानं स्वागतं चार्ध्यं विना च परिवेषणम्॥ विसर्जनं सौमनस्यमाशिषां प्रार्थनं तथा। विप्रप्रदक्षिणां चैव स्वस्तिवाचनकं विना॥ पितॄनुद्दिश्य कर्तव्यं प्राचीनावीतिना सदा॥' हेमाद्रौ सङ्ग्रहे–'आदौ विप्राड्घ्रिशौचान्तेऽभ्यर्चने विकिरे कृते। पिण्डान्नुप्यार्चयित्वा च विसर्ज्य ब्राह्मणांस्तथा॥ आचामेच्छ्राद्धकर्ता च स्थानेष्वेषु सप्तसु। आद्यन्तयोर्द्वराचामेच्छेषेषु तु सकृत्सकृत्॥' तत्रैव-'श्राद्धारम्भेऽवसाने च पादशौचार्चनान्तयोः। विकिरे पिण्डदाने च षट्स्वाचमनमिष्यते॥' आश्वलायनः- 'दानाध्ययनदेवार्चाजपहोमव्रतादिकान्। न कुर्याच्छ्राद्धदिवसे प्राग्विप्राणां विसर्जनात्॥' एतन्नित्यवर्ज्यमिति बोपदेवः। इदं विष्णुभिन्नदेवपरम्, 'विष्णोर्निवेदितान्नेन यष्टव्यं देवतान्तरम्।पितृभ्यश्चापि तद्देयं तदानन्त्याय कल्पते॥ पितृशेषं तु यो दद्याद्धरये परमात्मने। रेतोधाः पितरस्तस्य भवन्ति क्लेशभागिनः॥' इति स्कान्दात्। 'पितरः सर्वमनुष्या विष्णुनाशितमश्नन्ति' इति श्रुतेः, 'यः श्राद्धकाले हरिभुक्तशेषं ददाति भक्त्या पितृदेवतानाम्। तेनैव पिण्डांस्तुलसीविमिश्रानाकल्पकोटिं पितरस्तु तृप्ताः।' इति ब्राह्मोक्तेश्चेति श्रीधरस्वामि-नृसिंहपरिचर्यादयः। - एतत्सर्वं निबन्धविरोधान्निर्मूलम्।

अत्र विशेषो हेमाद्रौ विष्णुधर्मे- 'श्राद्धाह्नि तु समभ्यर्च्य नृवराहं जनार्दनम्।' शिवपुराणे - 'पूजयित्वा शिवं भक्त्या पितृश्राद्धं प्रकल्पयेत्।' पूर्वनिषेधस्तु विहितभिन्नपरः। तथा हेमाद्रौ- 'देवार्चा दक्षिणाङ्गादिः पादजान्वंसमूर्धसु।शिरोंसजानुपादेषु वामाङ्गादि च पैतृके॥' कलिकायां स्मृत्यन्तरे- 'श्राद्धारम्भे तु ये दर्भाः पादशौचे षिसर्जयेत्। अर्चनादौ तु ये दर्भा उच्छिष्टान्ते विसर्जयेत्॥ मार्जनादौ तु ये दर्भाः पिण्डोत्थाने विसर्जयेत्। उत्तानादौ तु ये दर्भा दक्षिणान्ते विसर्जयेत्॥ प्रार्थनादौ तु ये दर्भा नमस्कारे विसर्जयेत्॥' ऊहमाह विष्णुः- 'मातामहानामप्येवं श्राद्धं कुर्याद्विचक्षणः। मन्त्रोहेन यथान्यायं शेषाणां मन्त्रवर्जितम्॥' यथान्यायमिति। यत्र बहुवचनान्तः 'पितृ' शब्दस्तत्र सर्वपितृवाचित्वान्नोहः। तत्रापि 'शुन्धन्तां पितरः' इत्यत्रोह एव; सर्वपितृवाचित्वे उत्तरमन्त्रद्वयवैयर्थ्यात्। बहुवचनं तु नोह्यते। प्रकृतावसमर्थत्वात्पाशानितिवत्। ऋगन्ते च नोहः, 'तस्मादृचं नोहेत्' इति निषेधात्। ऐकोद्दिष्टेऽप्येवम्। प्रेतैकोद्दिष्टे तु 'एकवन्मन्त्रानूहेतैकोद्दिष्टे' इति विष्णूक्तेरूहः। अत्र बहुवचनस्याप्यूहो वचनात्। वृद्ध्यादौ तु विशेषं वक्ष्यामः। शेषाणामिति पितृव्याद्येकोद्दिष्टे आवाहनादिमन्त्रवर्ज्यं कार्यमिति कल्पतरुः। ऊहयोग्यपितृपदवान् मन्त्र एव तत्र न प्रयोज्यः, न तूहः। नापि पितृपदरहितः प्रयोज्य इति शूलपाणिः। अर्थान्तरं चोक्तं प्राक्। बह्वृचकारिकापि- 'अर्ध्यप्रदानमन्त्रे तु मात्रादिपदमावपेत्। शुन्धन्तामिति पित्रादौ मात्रादिपदमावपेत्॥' मातृश्राद्धे पिण्डदाने 'ये च त्वामत्रानु' इत्यत्र नोह इति वृत्तिकृत्। तथा - 'मातुः श्राद्धेऽप्यनूहेन कुर्यात्पिण्डानुमन्त्रणम्। दशदानमुपस्थानं तद्वत्कार्यमिति स्थितिः॥ प्रवाहणमनूहेन तद्वत्प्राशनमिष्यते॥’ तथा–‘आयन्तु नस्तिलोऽसीति उशन्तस्त्वेति यानि तु। अनूह्यः पितृशब्दोऽत्र पितृसामान्यवाचकः॥' आपस्तम्बानां तु वक्ष्यते।

हेमाद्रौ मार्कण्डेयः- 'स्नातः स्नातान् समाहूतान् स्वागतेनार्चयेत् पृथक्।' कलिकायां नारदीये - 'प्रायश्चित्तविशुद्धात्मा तेभ्योऽनुज्ञां प्रगृह्य च। दद्याद्वै ब्रह्मदण्डार्थं हिरण्यं कुशमेव च॥' तत्रैव सङ्ग्रहे - 'तिथिवारादिकं ज्ञात्वा सङ्कल्प्य च यथाविधि। प्राचीनावीतिना कार्यं सर्वं सङ्कल्पनादिकम्॥ सम्बन्धं प्रथमं ब्रूयान्नामगोत्रे तथैव च। वस्वादिरूपतां चापि स्वपितृणामनुक्रमात्॥' चन्द्रोदये नारदीये- 'श्राद्धार्थ समनुप्राप्तान् विप्रान् भूयो निमन्त्रयेत्।' आपस्तम्बस्तु- 'पूर्वेद्युर्निमन्त्रणं, परेधुर्द्वितीय, तृतीयमामन्त्रणम्' इत्याह। 'यूयं मया निमन्त्रणीयाः' इति निवेदनरूपम् आद्यम्। तद्विधिमाह शौनकः- 'गृहीत्वामुकसञ्ज्ञस्यामुकगोत्रस्य चामुके। श्राद्धे तु वैश्वदेवार्थ करणीयः क्षणस्त्वया॥ इत्येवं श्राद्धकृद्ब्रुयादों तथेति वदेत्तु सः। श्राद्धस्य कर्ता स ब्रूयात्तं प्राप्नोतु भवानिति॥ स वदेत् प्राप्नवानीति इतरस्तं प्रति द्विजः॥' देवौ पार्वणे पुरूरवार्द्रवौ वाच्यौ। 'पित्रादेरप्यनेनैव वृणीत विधिना द्विजान्।' ततः कर्ता बह्वृचोऽनाहिताग्निः पिण्डपितृयज्ञं परिस्तरणादीध्माधानान्तं कुर्यात्। 'अर्धाधानिनोऽप्येवम्' इति प्रयोगपारिजाते परिशिष्टे च। भाष्यकारमते आब्दिकेऽप्येवम्। वृत्तिकारमते नेदम्।

श्राद्धेमण्डलम्।—

हेमाद्रौ शम्भुः- 'सम्मार्जितोपलिप्ते तु द्वारि कुर्वीत मण्डले। उदक्प्लवमुदीच्यं स्याद्दक्षिणं दक्षिणाप्लवम्॥’ व्याघ्रः-'उत्तरेऽक्षतसंयुक्तान् पूर्वाग्रान् विन्यसेत् कुशान्। दक्षिणे दक्षिणाग्रांस्तु सतिलान् विन्यसेत् कुशान्॥' तत्रैव बौधायनः- 'चतुरस्रं त्रिकोणं च वर्तुलं चार्धचन्द्रकम्। कर्तव्यमानुपूर्व्येण ब्राह्मणादिषु मण्डलम्॥' तत्रैव लौगाक्षिः- 'हस्तद्वयमितं कार्यं वैश्वदेविकमण्डलम्। दक्षिणे च चतुर्हस्तं पितॄणामड्घ्रिशोधने॥' कलिकायां सङ्ग्रहे तु- 'प्रादेशमात्रं देवानां चतुरस्रं तु मण्डलम्। त्यक्त्वा षडङ्गुलं तस्मादक्षिणे वर्तुलं तथा॥' इत्युक्तम्। यत्तु-स्मृत्यन्तरे 'गर्तः पञ्चाङ्गुलो विप्रे जानुमात्रो महीभुजि। प्रादेशमात्रो वैश्ये च साधिकः स तु शूद्रके॥ तिर्यगूर्ध्वप्रमाणेन व्याख्यातो दैवपित्र्ययोः। चतुरस्रं वर्तुलं च कथितं गर्तलक्षणम्॥ पादप्रक्षालनं प्रोक्तमुपवेश्यासने द्विजान्। तिष्ठंश्चेत् क्षालनं कुर्यान्निराशाः पितरो गताः॥' इति,– तत्समूलत्वे मण्डलाग्रे पृथक् ज्ञेयम्। तत्र गोमये हेमाद्रौ भृगुः-'अत्यन्तजीर्णदेहाया वन्ध्यायाश्च विशेषतः। आर्ताया नवसूताया न गोर्गोमयमाहरेत्॥' मात्स्ये- 'अक्षताभिः सपुष्पाभिस्तदभ्यर्चापसव्यवत्। विप्राणां क्षालयेत्पादावभिवन्द्य पुनः पुनः॥ प्रत्यङ्युखस्थितः कुर्याद्विप्रपादाभिषेचनम्॥' तत्रैव भविष्ये- 'प्रक्षालयेद्विप्रपादान् शन्नोदेवीरिति तृचा।' पृथ्वीचन्द्रोदये वृद्धवसिष्ठः- 'न कुशग्रन्थिहस्तस्तु पाद्यं दद्याद्विचक्षणः।' कलिकायां सङ्ग्रहे- 'ततः प्रक्षालयेत्पादौ भार्यास्रावितवारिणा।' तथा– 'श्राद्धकाले यदा पत्नी वामे नीरप्रदा भवेत्। आसुरं तद्भवेच्छ्राद्धं पितॄणां नोपतिष्ठते॥' तत्रैव- 'नाधः प्रक्षालयेत्पादौ कर्ता पित्रादिकर्मसु॥' पाद्यानन्तरमर्ध्यमपि दद्यादिति हेमाद्रिः। तत्रैव लौगाक्षिः- 'मण्डलादुत्तरे देशे दद्यादाचमनीयकम्।' तत्रैव- 'विधाय क्षालनं तेषां द्विराचमनमिष्यते। स्वयं चापि द्विराचामेद्विधिज्ञः श्रद्धयान्वितः॥' हेमाद्रौ नारदीये-'यत्राचमनवारीणि पादप्रक्षालनोदकैः। सङ्गच्छन्ते बुधाः श्राद्धमासुरं तत्प्रचक्षते॥ '

हेमाद्रौ व्यासः- 'सव्येनैवासनं धृत्वा दक्षिणे दक्षिणं करम्। व्याहृतीभिः समस्तामिरासनेषूपवेशयेत्। समाध्वमिति चैवोक्त्वा दक्षिणं जानु संस्पृशन्। आस्यतामिति तान्ब्रूयादासनं संस्पृशन्नपि॥' हेमाद्रौ शातातप- 'द्वौ दैवेऽथर्वणौ विप्रो प्राङ्मुखाबुपवेशयेत्। पित्र्ये तूदङ्मुखांस्त्रींश्च बहूचाध्वर्युसामगान्॥' याज्ञवल्क्यः-' द्वौ दैवे प्राक् त्रयः पित्र्ये उदगेकैकमेव वा।' यत्तु - हेमाद्रौ हारीतः 'दक्षिणाग्रदर्भेषु प्राङ्मुखान् ब्राह्मणान् भोजयेत्, उदङ्मुखानित्येके' इति, तन्मैत्रायणीयविषयम्। 'प्राङ्मुखान् भोजयेदुदङ्मुखानित्येके' इति तत्परिशिष्टात् विकल्प इति हेमाद्रिः। माधवीये यमः-'भिक्षुको ब्रह्मचारी वा भोजनार्थमुपस्थितः। उपविष्टेष्वनुप्राप्तः कामं तमपि भोजयेत्॥'

कौर्मे- 'अतिथिर्यस्य नाश्नाति न तच्छ्राद्धं प्रचक्षते।' विप्रनियमो माधवीये- 'पवित्रपाणयः सर्वे ते च मौनव्रतान्विताः। उच्छिष्टोच्छिष्टसंस्पर्शं वर्जयन्तः परस्परम्॥'

तत्रासनानि। पृथ्वीचन्द्रोदये यमः- 'आसनं कुतपं दद्यादितरद्वा पवित्रकम्।' हेमाद्रौ चमत्कारखण्डे- 'पितॄणां घटितं हैमं राजतं वापि चासनम्। येन ताम्रमयं दत्तमासनं पितृकर्मणि॥ स वै दिव्यासनारूढो न हि प्रच्यवते दिवः॥' हेमाद्रौ नागरखण्डे- 'अयःशङ्कुमयं पीठं प्रदेयं नोपवेशने॥' कलिकायां सङ्ग्रहे- 'क्षौमं दुकूलं नैपालमाविकं दारुजं तथा। तार्णं पार्णं बृसीं चैव विष्टरादि च विन्यसेत्॥ अग्निदग्धान्यायसानि भग्नानि च विवर्जयेत्॥' हेमाद्रौ छागलेयः– 'पश्चाद्भागादुपक्रम्य प्राचां पङ्किर्यथा भवेत्। दक्षिणासंस्थिता ह्येषा पितॄणां श्राद्धकर्मणि॥' पुलस्त्यः- 'श्रीपर्णी वारुणी क्षीरी जम्बुकाम्रकदम्बकम्। सप्तमं बाकुलं पीठं पितृृणां दत्तमक्षयम्॥' सङ्ग्रहे-'शमी च काश्मरी शेलुः कदम्बो वारुणस्तथा। पञ्चासनानि शस्तानि श्राद्धे देवार्चने तथा॥' कारिका- 'द्वौ दैवे प्राङ्मुखौ पित्र्ये त्रीन्विप्रानुदगाननान्।' पैठीनसिः-'कुतपः श्राद्धवेलायां श्रोत्रियो यदि दृश्यते।' आश्वलायनः- 'नीवीवासोदशान्तेन स्वरक्षार्थ प्रबन्धयेत्।' वृद्धयाज्ञवल्क्यस्तु- 'दक्षिणे कटिदेशे तु तिलैः सह कुशत्रयम्।' यत्तु- कातीयम् 'नीवी कार्या दशागुप्तिर्वामकुक्षौ कुशैः सह।' इति,– तबृद्धिश्राद्धे।' पितॄणां दक्षिणे पार्श्वे विपरीता तु दैविके।' इति स्मृत्यन्तरात्। वामे दक्षिणे वेत्याचाराद्वयवस्थेति मदनपारिजाते।

आचार्यः- 'प्राणायामत्रयं कृत्वा गायत्रीस्मरणं तथा। श्राद्धं कर्तास्मीति वदेद्विप्रैर्वाच्यं कुरुष्व च॥' ब्राह्मे- 'ततस्तिलान् गृहे तस्मिन् विकिरेच्चाप्रदक्षिणम्। श्रद्धया परया युक्तो जपेदपहता इति॥' स्मृत्यर्थसारे- 'अपहता इति तिलान्विकीर्य उदीरतामित्यृचा प्रोक्षेत्।' पराशरः- 'तद्विष्णोरिति मन्त्रेण गायत्र्या च प्रयत्नतः। प्रोक्षयेदन्नजातं तु शूद्रदृष्ट्यादिशुद्धये॥' हेमाद्रौ ब्रह्माण्डे- 'श्राद्धभूमौ गयां ध्यात्वा ध्यात्वा देवं गदाधरम्। वस्वादींश्च पितॄन् ध्यात्वा ततः श्राद्धं प्रवर्तते॥ देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च। नमः स्वाहायै स्वधायै नित्यमेव नमो नमः॥ आदिमध्यावसानेषु त्रिरावृत्तं जपेद्बुधः। पितरः क्षिप्रमायान्ति राक्षसाः प्रद्रवन्ति च॥' तत्रैव स्कान्दे- 'तिला रक्षन्त्वसुरान् दर्भा रक्षन्तु राक्षसान्। पङ्क्ति वै श्रोत्रियो रक्षेदतिथिः सर्वरक्षकः॥' वसिष्ठः- 'शुद्धवतीभिः कूष्माण्डीभिः पावमानीभिश्च पाकादि प्रोक्षयेत्॥' इति।

पाठ-स्रोत: निर्णयसिन्धु — निर्णयसागर प्रेस, मुम्बई का संस्करण (मूल पाठ; सम्पादकीय पाद-टिप्पणियाँ व पाठान्तर यहाँ नहीं दिए गए); धर्मसिन्धु — निर्णयसागर प्रेस, 1888 (सं. कृष्णशास्त्री नवरे)। डिजिटल पाठ: ई-भारती-सम्पत् (कर्नाटक संस्कृत विश्वविद्यालय)। धर्मसिन्धु का मुद्रित पाठ प्रायः बिना शब्द-विराम के है, वैसा ही रखा है। टंकण/ओसीआर की कुछ त्रुटियाँ सम्भव — संदेह होने पर मुद्रित ग्रन्थ से मिलाएँ।

⚖️ स्रोत: निर्णयसिन्धु (कमलाकर भट्ट) व धर्मसिन्धु (काशीनाथ उपाध्याय) · गणना: साइट का पंचांग-इंजन · सार हिन्दी में साइट द्वारा

💬